विष्णुस्मृतिः/द्विसप्ततितमोऽध्यायः

विकिस्रोतः तः

दमयमेन तिष्ठेत् । । ७२.१ । ।

दमश्चेन्द्रियाणां प्रकीर्तितः । । ७२.२ । ।

दान्तस्यायं लोकः परश्च । । ७२.३ । ।

नादान्तस्य क्रिया काचित्समृध्यति । । ७२.४ । ।

दमः पवित्रं परमं मङ्गल्यं परमं दमः ।
दमेन सर्वं आप्नोति यत्किंचिन्मनसेच्छति । । ७२.५ । ।

दशार्धयुक्तेन रथेन यातो मनोवशेनार्यपथानुवर्तिना ।
तं चेद्रथं नापहरन्ति वाजिनस्तथागतं नावजयन्ति शत्रवः । । ७२.६ । ।

आपूर्यमाणं अचलप्रतिष्ठं समुद्रं आपः प्रविशन्ति यद्वत् ।
तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिं आप्नोति न कामकामी । । ७२.७ । ।