विष्णुस्मृतिः/द्वितीयोऽध्यायः

विकिस्रोतः तः

ॐ। ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चेति वर्णाश्चत्वारः । । २.१ । ।

तेषां आद्या द्विजातयस्त्रयः । । २.२ । ।

तेषां निषेकाद्यः श्मशानान्तो मन्त्रवत्क्रियासमूहः । । २.३ । ।

तेषां च धर्माः । । २.४ । ।

ब्राह्मणस्याध्यापनं । । २.५ । ।

क्षत्रियस्य शस्त्रनित्यता । । २.६ । ।

वैश्यस्य पशुपालनं । । २.७ । ।

शूद्रस्य द्विजातिशुश्रूषा । । २.८ । ।

द्विजानां यजनाध्ययने । । २.९ । ।

अथैतेषां वृत्तयः । । २.१० । ।

ब्राह्मणस्य याजनप्रतिग्रहौ । । २.११ । ।

क्षत्रियस्य क्षितित्राणं । । २.१२ । ।

कृषिगोरक्षवाणिज्यकुसीदयोनिपोषणानि वैश्यस्य । । २.१३ । ।

शूद्रस्य सर्वशिल्पानि । । २.१४ । ।

आपद्यनन्तरा वृत्तिः । । २.१५ । ।

क्षमा सत्यं दमः शौचं दानं इन्द्रियसंयमः ।
अहिंसा गुरुशुश्रूषा तीर्थानुसरणं दया । । २.१६ । ।

आर्जवं लोभशून्यत्वं देवब्राह्मणपूजनम् ।
अनभ्यसूया च तथा धर्मः सामान्य उच्यते । । २.१७ । ।