विष्णुस्मृतिः/त्रयोविंशतितमोऽध्यायः

विकिस्रोतः तः

शारीरैर्मलैः सुराभिर्मद्यैर्वा यदुपहतं तदत्यन्तोपहतं । । २३.१ । ।

अत्यन्तोपहतं सर्वं लोहभाण्डं अग्नौ प्रक्षिप्तं शुध्येत् । । २३.२ । ।

मणिमयं अश्ममयं अब्जं च सप्तरात्रं महीनिखननेन । । २३.३ । ।

शृङ्गदन्तास्थिमयं तक्षणेन । । २३.४ । ।

दारवं मृन्मयं च जह्यात् । । २३.५ । ।

अत्यन्तोपहतस्य वस्त्रस्य यत्प्रक्षालितं सद्विरज्यते तच्छिन्द्यात् । । २३.६ । ।

सौवर्णराजताब्जमणिमयानां निर्लेपानां अद्भिः शुद्धिः । । २३.७ । ।

अश्ममयानां चमसानां ग्रहाणां च । । २३.८ । ।

चरुस्रुक्स्रुवाणां उष्णेनाम्भसा । । २३.९ । ।

यज्ञकर्मणि यज्ञपात्राणां पाणिना संमार्जनेन । । २३.१० । ।

स्फ्यशूर्पशकटमुसलोलूखलानां प्रोक्षणेन । । २३.११ । ।

शयनयानासनानां च । । २३.१२ । ।

बहूनां च । । २३.१३ । ।

धान्याजिनरज्जुतान्तववैदलसूत्रकार्पासवाससां च । । २३.१४ । ।

शाकमूलफलपुष्पाणां च । । २३.१५ । ।

तृणकाष्ठशुष्कपलाशानां च । । २३.१६ । ।

एतेषां प्रक्षालनेन । । २३.१७ । ।

अल्पानां च । । २३.१८ । ।

ऊषैः कौशेयाविकयोः । । २३.१९ । ।

अरिष्टकैः कुतपानां । । २३.२० । ।

श्रीफलैरंशुपट्टानां । । २३.२१ । ।

गौरसर्षपैः क्षौमाणां । । २३.२२ । ।

शृङ्गास्थिदन्तमयानां च । । २३.२३ । ।

पद्माक्षैर्मृगलोमिकानां । । २३.२४ । ।

ताम्ररीतित्रपुसीसमयानां अम्लोदकेन । । २३.२५ । ।

भस्मना कांस्यलोहयोः । । २३.२६ । ।

तक्षणेन दारवाणां । । २३.२७ । ।

गोवालैः फलसंभवानां । । २३.२८ । ।

प्रोक्षणेन संहतानां । । २३.२९ । ।

उत्पवनेन द्रवाणां । । २३.३० । ।

गुडादीनां इक्षुविकाराणां प्रभूतानां गृहनिहितानां वार्यग्निदानेन । । २३.३१ । ।

सर्वलवणानां च । । २३.३२ । ।

पुनः पाकेन मृन्मयानां । । २३.३३ । ।

द्रव्यवत्कृतशौचानां देवतार्चानां भूयः प्रतिष्ठापनेन । । २३.३४ । ।

असिद्धस्यान्नस्य यन्मात्रं उपहतं तन्मात्रं परित्यज्य शेषस्य कण्डनप्रक्षालने कुर्यात् । । २३.३५ । ।

द्रोणाभ्यधिकं सिद्धं अन्नं उपहतं न दुष्यति । । २३.३६ । ।

तस्योपहतमात्रं अपास्य गायत्र्याभिमन्त्रितं सुवर्णाम्भः प्रक्षिपेत्बस्तस्य च प्रदर्शयेदग्नेश्च । । २३.३७ । ।

पक्षिजग्धं गवा घ्रातं अवधूतं अवक्षुतम् ।
दूषितं केशकीटैश्च मृत्प्रक्षेपेण शुध्यति । । २३.३८ । ।

यावन्नापैत्यमेध्याक्ताद्गन्धो लेपश्च तत्कृतः ।
तावन्मृद्वारि देयं स्यात्सर्वासु द्रव्यशुद्धिषु । । २३.३९ । ।

अजाश्वं मुखतो मेध्यं न गौर्न नरजा मलाः ।
पन्थानश्च विशुध्यन्ति सोमसूर्यांशुमारुतैः । । २३.४० । ।

रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्ववायसैः ।
मारुतेनैव शुध्यन्ति पक्वेष्टकचितानि च । । २३.४१ । ।

प्राणिनां अथ सर्वेषां मृद्भिरद्भिश्च कारयेत् ।
अत्यन्तोपहतानां च शौचं नित्यं अतन्द्रितम् । । २३.४२ । ।

भूमिष्ठं उदकं पुण्यं वैतृष्ण्यं यत्र गोर्भवेत् ।
अव्याप्तं चेदमेध्येन तद्वदेव शिलागतम् । । २३.४३ । ।

मृतपञ्चनखात्कूपादत्यन्तोपहतात्तथा ।
अपः समुद्धरेत्सर्वाः शेषं वस्त्रेण शोधयेत् । । २३.४४ । ।

वह्निप्रज्वालनं कुर्यात्कूपे पक्वेष्टकाचिते ।
पञ्चगव्यं न्यसेत्पश्चान्नवतोयसमुद्भवे । । २३.४५ । ।

जलाशयेष्वथाल्पेषु स्थावरेषु वसुंधरे ।
कूपवत्कथिता शुद्धिर्महत्सु च न दूषणम् । । २३.४६ । ।

त्रीणि देवाः पवित्राणि ब्राह्मणानां अकल्पयन् ।
अदृष्टं अद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते । । २३.४७ । ।

नित्यं शुद्धः कारुहस्तः पण्यं यच्च प्रसारितम् ।
ब्राहमणान्तरितं भैक्ष्यं आकराः सर्व एव च । । २३.४८ । ।

नित्यं आस्यं शुचि स्त्रीणां शकुनिः फलपातने ।
प्रस्रवे च शुचिर्वत्सः श्वा मृगग्रहणे शुचिः । । २३.४९ । ।

श्वभिर्हतस्य यन्मांसं शुचि तत्परिकीर्तितम् ।
क्रव्याद्भिश्च हतस्यान्यैश्चण्डालाद्यैश्च दस्युभिः । । २३.५० । ।

ऊर्ध्वं नाभेर्यानि खानि तानि मेध्यानि निर्दिशेत् ।
यान्यधस्तान्यमेध्यानि देहाच्चैव मलाश्च्युताः । । २३.५१ । ।

मक्षिका विप्रुषश्छाया गौर्गजाश्वमरीचयः ।
रजो भूर्वायुरग्निश्च मार्जारश्च सदा शुचिः । । २३.५२ । ।

नोच्छिष्टं कुर्वते मुख्या विप्रुषोऽङ्गे न यान्ति याः ।
न श्मश्रूणि गतान्यास्यं न दन्तान्तरवेष्टितम् । । २३.५३ । ।

स्पृशन्ति बिन्दवः पादौ य आचामयतः परान् ।
भौमिकैस्ते समा ज्ञेया न तैरप्रयतो भवेत् । । २३.५४ । ।

उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथंचन ।
अनिधायैव तद्द्रव्यं आचान्तः शुचितां इयात् । । २३.५५ । ।

मार्जनोपाञ्जनैर्वेश्म प्रोक्षणेनैव पुस्तकम् ।
संमार्जनेनाञ्जनेन सेकेनोल्लेखनेन च । । २३.५६ । ।

दाहेन च भुवः शुद्धिर्वासेनाप्यथ वा गवाम् ।
गावः पवित्रमङ्गल्यं गोषु लोकाः प्रतिष्ठिताः । । २३.५७ । ।

गावो वितन्वते य्ज्ञं गावः सर्वाघसूदनाः ।
गोमूत्रं गोमयं सर्पिः क्षीरं दधि च रोचना । । २३.५८ । ।

षडङ्गं एतत्परमं मङ्गल्यं परमं गवाम् ।
शृङ्गोदकं गवां पुण्यं सर्वाघविनिषूदनम् । । २३.५९ । ।

गवां कण्डूयनं चैव सर्वकल्मषनाशनम् ।
गवां ग्रासप्रदानेन स्वर्गलोके महीयते । । २३.६० । ।

गवां हि तीर्थे वसतीह गङ्गा पुष्टिस्तथासां रजसि प्रवृद्धा ।
लक्ष्मीः करीषे प्रणतौ च धर्मस्तासां प्रणामं सततं च कुर्यात् । । २३.६१ । ।