विष्णुस्मृतिः/त्रयस्त्रिंशत्तमोऽध्यायः

विकिस्रोतः तः

अथ पुरुषस्य कामक्रोधलोभाख्यं रिपुत्रयं सुघोरं भवति । । ३३.१ । ।

परिग्रहप्रसङ्गाद्विशेषेण गृहाश्रमिणः । । ३३.२ । ।

तेनायं आक्रान्तोऽतिपातकमहापातकानुपातकोपपातकेषु प्रवर्तते । । ३३.३ । ।

जातिभ्रंशकरेषु संकरीकरणेष्व् अपात्रीकरणेषु । । ३३.४ । ।

मलावहेषु प्रकीर्णकेषु च । । ३३.५ । ।

त्रिविधं नरकस्येदं द्वारं नाशनं आत्मनः ।
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं ज्ययेत् । । ३३.६ । ।