विष्णुस्मृतिः/चतुष्षष्ठितमोऽध्यायः
परनिपानेषु न स्नानं आचरेत् । । ६४.१ । ।
आचरेत्पञ्च पिण्डानुद्धृत्यापस्तदापदि । । ६४.२ । ।
नाजीर्णे । । ६४.३ । ।
न चातुरः । । ६४.४ । ।
न नग्नः । । ६४.५ । ।
न रात्रौ । । ६४.६ । ।
राहुदर्शनवर्जं । । ६४.७ । ।
न संध्ययोः । । ६४.८ । ।
प्रातःस्नानशीलोऽरुणताम्रां प्राचीं आलोक्य स्नायात् । । ६४.९ । ।
स्नातः शिरो नावधुनेत् । । ६४.१० । ।
नाङ्गेभ्यस्तोयं उद्धरेत् । । ६४.११ । ।
न तैलवत्संस्पृशेत् । । ६४.१२ । ।
नाप्रक्षालितं पूर्वधृतं वसनं बिभृयात् । । ६४.१३ । ।
स्नात एव सोष्णीषे धौते वाससी बिभृयात् । । ६४.१४ । ।
न म्लेच्छान्त्यजपतितैः सह संभाषणं कुर्यात् । । ६४.१५ । ।
स्नायात्प्रस्रवणदेवखातसरोवरेषु । । ६४.१६ । ।
उद्धृतात्भूमिष्ठं उदकं पुण्यं, स्थावरात्प्रस्रवत्, तस्मान्नादेयं, तस्मादपि साधुपरिगृहीतं, सर्वत एव गाङ्गं । । ६४.१७ । ।
मृत्तोयैः कृतमलापकऋषोऽप्सु निमज्ज्योपविश्यापो हि ष्ठेति तिसृभिर्हिरण्यवर्णेति चतसृभिरिदं आपः प्रवहतेति च तीर्थं अभिमन्त्रयेत् । । ६४.१८ । ।
ततोऽप्सु निमग्नस्त्रिरघमर्षणं जपेत् । । ६४.१९ । ।
तद्विष्णोः परमं पदं इति वा । । ६४.२० । ।
द्रुपदां सावित्रीं च । । ६४.२१ । ।
युञ्जते मन इत्यनुवाकं वा । । ६४.२२ । ।
पुरुषसूक्तं वा । । ६४.२३ । ।
स्नातश्चार्द्रवासा देवपितृतर्पणं अम्भःस्थ एव कुर्यात् । । ६४.२४ । ।
परिवर्तितवासाश्चेत्तीर्थं उत्तीर्य । । ६४.२५ । ।
अकृत्वा देवपितृतर्पणं स्नानशाटीं न पीडयेत् । । ६४.२६ । ।
स्नात्वाचम्य विधिवदुपस्पृशेत् । । ६४.२७ । ।
पुरुषसूक्तेन प्रत्यृचं पुरुषाय पुष्पानि दद्यात् । । ६४.२८ । ।
उदकाञ्जलींश्च । । ६४.२९ । ।
आदावेव दैवेन तीर्थेन देवानां तर्पणं कुर्यात् । । ६४.३० । ।
तदनन्तरं पित्र्येण पितॄणां । । ६४.३१ । ।
तत्रादौ स्ववंश्यानां तर्पणं कुर्यात् । । ६४.३२ । ।
ततः संबन्धिबान्धवानां । । ६४.३३ । ।
ततः सुहृदां । । ६४.३४ । ।
एवं नित्यस्नायी स्यात् । । ६४.३५ । ।
स्नातश्च पवित्राणि यथाशक्ति जपेत् । । ६४.३६ । ।
विशेषतः सावित्रीं । । ६४.३७ । ।
पुरुषसूक्तं च । । ६४.३८ । ।
नैताभ्यां अधिकं अस्ति । । ६४.३९ । ।
स्नातोऽधिकारी भवति दैवे पित्र्ये च कर्मणि ।
पवित्राणां तथा जप्ये दाने च विधिबोधिते । । ६४.४० । ।
अलक्स्मीः कालकर्णी च दुःस्वप्नं दुर्विचिन्तितम् ।
अब्मात्रेणाभिषिक्तस्य नश्यन्त इति धारणा । । ६४.४१ । ।
याम्यं हि यातनादुःखं नित्यस्नायी न पश्यति ।
नित्यस्नानेन पूयन्ते येऽपि पापकृतो नराः । । ६४.४२ । ।