विष्णुस्मृतिः/चतुर्थोऽध्यायः

विकिस्रोतः तः

जालस्थार्कमरीचिगतं रजः त्रसरेणुसंज्ञकं । । ४.१ । ।

तदष्टकं लिक्षा । । ४.२ । ।

तत्त्रयं राजसर्षपः । । ४.३ । ।

तत्त्रयं गौरसर्षपः । । ४.४ । ।

तत्षट्कं यवः । । ४.५ । ।

तत्त्रयं कृष्णलं । । ४.६ । ।

तत्पञ्चकं माषः । । ४.७ । ।

तद्द्वादशकं अक्षार्धं । । ४.८ । ।

अक्षार्धं एव सचतुर्माषकं सुवर्णः । । ४.९ । ।

चतुःसुवर्णको निष्कः । । ४.१० । ।

द्वे कृष्णले समधृते रूप्यमाषकः । । ४.११ । ।

तत्षोडशकं धरणं । । ४.१२ । ।

ताम्रकार्षिकः कार्षापणः । । ४.१३ । ।

पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः ।
मध्यमः पञ्च विज्ञेयः सहस्रं त्वेष चोत्तमः । । ४.१४ । ।