विष्णुस्मृतिः/चतुरशीतितमोऽध्यायः

विकिस्रोतः तः

न म्लेच्छविषये श्राद्धं कुर्यात् । । ८४.१ । ।

न गच्छेन्म्लेच्छविषयं । । ८४.२ । ।

परनिपानेष्वपः पीत्वा तत्साम्यं उपगच्छतीति । । ८४.३ । ।

चातुर्वर्ण्यव्यवस्थानं यस्मिन्देशे न विद्यते ।
स म्लेच्छदेशो जिज्ञेय आर्यावर्तस्ततः परः । । ८४.४ । ।