विष्णुस्मृतिः/एकोनविंशतितमोऽध्यायः

विकिस्रोतः तः

मृतं द्विजं न शूद्रेण निर्हारयेत् । । १९.१ । ।

न शूद्रं द्विजेन । । १९.२ । ।

पितरं मातरं च पुत्रा निर्हरेयुः । । १९.३ । ।

न द्विजं पितरं अपि शूद्राः । । १९.४ । ।

ब्राह्मणं अनाथं ये ब्राह्मणा निर्हरन्ति ते स्वर्गलोकभाजः । । १९.५ । ।

निर्हृत्य च बान्धवं प्रेतं संष्कृत्याप्रदक्षिणेन चितां अभिगम्याप्सु सवाससो निमज्जनं कुर्युः । । १९.६ । ।

प्रेतस्योदकनिर्वपणं कृत्वैकं पिण्डं कुशेषु दद्युः । । १९.७ । ।

प्रिवर्तितवाससश्च निम्बपत्राणि विदश्य द्वार्यश्मनि पदन्यासं कृत्वा गृहं प्रविशेयुः । । १९.८ । ।

अक्षतांश्चाग्नौ क्षिपेयुः । । १९.९ । ।

चतुर्थे दिवसेऽस्थिसंचयनं कुर्युः । । १९.१० । ।

तेषां गङ्गाम्भसि प्रक्षेपः । । १९.११ । ।

यावत्संख्यं अस्थि पुरुषस्य गङ्गाम्भसि तिष्ठति, तावद्वर्षसहस्राणि स्वर्गलोकं अधितिष्ठति । । १९.१२ । ।

यावदाशौचं तावत्प्रेतस्योदकं पिण्डं एकं च दद्युः । । १९.१३ । ।

क्रीतलब्धाशनाश्च भवेयुः । । १९.१४ । ।

अमांसाशनाश्च । । १९.१५ । ।

स्थण्डिलशायिनः । । १९.१६ । ।

पृथक्शायिनश्च । । १९.१७ । ।

ग्रामान्निष्क्रम्याशौचान्ते कृतश्मश्रुकर्माणस्तिलकल्कैः सर्षपकल्कैर्वा स्नाताः परिवर्तितवाससो गृहं प्रविशेयुः । । १९.१८ । ।

तत्र शान्तिं कृत्वा ब्राह्मणानां च पूजनं कुर्युः । । १९.१९ । ।

देवाः परोक्षदेवाः, प्रत्यक्षदेवा ब्राह्माणाः । । १९.२० । ।

ब्राह्मणैर्लोका धार्यन्ते । । १९.२१ । ।

ब्राह्मणानां प्रसादेन दिवि तिष्ठन्ति देवताः ।
ब्राह्मणाभिहितं वाक्यं न मिथ्या जायते क्वचित् । । १९.२२ । ।

यद्ब्राह्मणास्तुष्टतमा वदन्ति तद्देवताः प्रत्यभिनन्दयन्ति ।
तुष्टेषु तुष्टाः सततं भवन्ति प्रत्यक्षदेवेषु परोक्षदेवाः । । १९.२३ । ।

दुःखान्वितानां मृतबान्धवानां आश्वासनं कुर्युरदीनसत्त्वाः ।
वाक्यैस्तु यैर्भूमि तवाभिधास्ये वाक्यान्यहं तानि मनोऽभिरामे । । १९.२४ । ।