विष्णुस्मृतिः/एकादशोऽध्यायः

विकिस्रोतः तः

अथाग्निः । । ११.१ । ।

षोडशाङ्गुलं तावदन्तरं मण्डलसप्तकं कुर्यात् । । ११.२ । ।

ततः प्राङ्मुखस्य प्रसारितभुजद्वयस्य सप्ताश्वत्थपत्राणि करयोर्दद्यात् । । ११.३ । ।

तानि च करद्वयसहितानि सूत्रेण वेष्टयेत् । । ११.४ । ।

ततस्तत्राग्निवर्णं लोहपिण्डं पञ्चाशत्पलिकं समं न्यसेत् । । ११.५ । ।

तं आदाय नातिद्रुतं नातिविलम्बितं मण्डलेषु पादन्यासं कुर्वन्व्रजेत् । । ११.६ । ।

ततः सप्तमं मण्डलं अतीत्य भूमौ लोहपिण्डं जह्यात् । । ११.७ । ।

यो हस्तयोः क्वचिद्दग्धस्तं अशुद्धं विनिर्दिषेत् ।
न दग्धः सर्वथा यस्तु स विशुद्धो भवेन्नरः । । ११.८ । ।

भयाद्वा पातयेद्यस्तु दग्धो वा न विभाव्यते ।
पुनस्तं हारयेल्लोहं समयस्याविशोधनात् । । ११.९ । ।

करौ विमृदितव्रीहेस्तस्यादावेव लक्षयेत् ।
अभिमन्त्र्यास्य करयोर्लोहपिण्डं ततो न्यसेत् । । ११.१० । ।

त्वं अग्ने सर्वभूतानां अन्तश्चरसि साक्षिवत् ।
त्वं एवाग्ने विजानीषे न विदुर्यानि मानवाः । । ११.११ । ।

 व्यवहाराभिशस्तोऽयं मानुषः शुद्धिं इच्छति ।
तदेनं संशयादस्माद्धर्मतस्त्रातुं अर्हसि । । ११.१२ । ।