विष्णुधर्मोत्तरपुराणम्/ खण्डः २/विषयानुक्रमणिका

विकिस्रोतः तः

अथ द्वितीयखण्डः

१ रामस्य पुष्करगृहगमनम्

२ राष्ट्रे राजप्रशंसा

३ राजलक्षणानि

४ सांवत्सरिकलक्षणानि

५ पुरोहितलक्षणानि

६ राजमन्त्रिलक्षणानि

७ राजाग्र्यमहिषीलक्षणानि

८ श्रेष्ठपुरुषलक्षणानि

९ श्रेष्ठस्त्रीलक्षणानि

१० प्रशस्तहस्तिलक्षणानि

११ अश्वानामशुभशुभलक्षणानि

१२ चामरलक्षणम्

१३ छत्रलक्षणम्

१४ भद्रासनलक्षणम्

१५ सद्रत्नलक्षणानि तेषां विचित्रफलानि च

१६ चापशरलक्षणानि

१७ यज्ञेन यजतो ब्रह्मणः खे विघ्नसम्भावनायां पावकात्खड्गस्योत्पत्तिः, ब्रह्मणा तस्मिन् विष्णौ दत्ते तेन यज्ञोपद्रवकर्तृलोहदैत्ये हते ब्रह्मयज्ञसमाप्तिः

१८ राजाभिषेककालनिर्णयः

१९ पुरन्दरशान्तिवर्णनम्.

२० शुभलक्षणाग्निकथनम्

२१ राज्याभिषेकविधिवर्णनम्

२२ अभिषेकमन्त्रवर्णनम्

२३ तीर्थफलवर्णनम्

२४ शूरकुलीनबलशास्त्रादिसम्पद्युक्तसहायवरणप्रसंगे सेनापतिप्रतीहारदूतरक्षिसान्धिविग्रहकलेखकखड्गधारिकोशधारिसारथिसूदाध्यक्षधर्माध्यक्षादिराजकार्यसहायकनिरूपणम्

२५ राजानुवृत्तिवर्णनम्

२६ दुर्गसम्पत्तिवर्णनम्

२७ रक्षोघ्नविषघ्नौषधादिधारणम्

२८ विषदातृलक्षणं विषसंसृष्टान्नपरीक्षणादि

२९ ग्रहादिनिर्माणाय भूमिपरीक्षणनिःशल्यीकरणवास्तुदेवतादिग्विभागवृक्षशुभाशुभविचारशिलान्यासादिवास्तुविद्यावर्णनम्

३० ग्रहोचित्रदिक्षु वृक्षरोपणमुद्यानकूपवाप्यादिनिर्माणं फलपुष्पसम्पत्तये भेषज्यदोहनं वृक्षायुर्वेदादि च

३१ देवतागृहलेपनमार्जनगन्धानुलेपनपताकादानपूजनादिमाहात्म्यकथनपुरस्सरं देवद्रव्यापहारादिदोषकथनम्

३२ ब्राह्मणमाहात्म्यवर्णनम् -

३३ साध्वीप्रशंसाभिधानम्

३४ पतिव्रताकर्तव्यवर्णने मूलकर्म-( मन्त्रतन्त्रवशीकरणादि ) निन्दा

३५ स्त्रीदेवतापूजननिरूपणम्

३६ सावित्र्युपाख्याने सावित्रीसत्यव्रतयोरिन्धनानयनार्थं वनगमनम् |

३७ काष्ठानि पातयतः सत्यवतः शिरोवेदनया पंचत्वे यमेन तस्य लिंगशरीरस्य नयनं सावित्र्याश्च तदनुगमनदार्ढ्यं विलोक्य यमेन वरदानम्

३८ सावित्रीयमोपाख्याने सावित्र्यै सहोदरभ्रातृशतप्राप्तिवरदानम्

३९ सावित्र्यै यमेनौरस्रशतपुत्रप्राप्तिवरदानम् ...

४० सावित्रीस्तुतितुष्टयमेन सत्यवतः परित्यागस्तस्मा आयुषोन्ते स्वर्गभोगप्राप्तिवरदानम्

४१ प्राप्तजीवनः सत्यवान् सावित्र्या सह गृहं गतः, तत्पिता लब्धचक्षुर्भूत्वा राज्यमपि लेभे .

४२ राज्ञा सदा गोपालनं कर्तव्यं, गोग्रासप्रदान गोसेवन तदनुगमन तदार्तिहरणादिमाहात्म्यवर्णनम्

४३ गोचिकित्सावर्णनम्

४४ गोशान्तिकर्मप्रसंगेनाश्वयुक्शुक्लपंचदश्यामिन्द्रयागवर्णनम्

४५ सैन्ये अश्वप्रशंसा, क्षुधितेषु तेष्वश्वपतेरमंगलम्

४६ अश्वचिकित्सा

४७ अश्वशांतिः

४८ गजप्रशंसा, क्षुधितेषु तेषु राजनाशः –

४९ हस्तिचिकित्सा

४२ राज्ञा सदा गोपालनं कर्तव्यं, गोग्रासप्रदानगोसेवनतदनुगमनतदार्ति

५० गजशान्तिकविधानम्

५१ राजपुरुषप्रशंसा

५२ शोणितप्रदररक्तगुल्मौषधशतोदरीकरणमांसलीकरणपीनस्तनीकरणादिपूर्वकं शुभसन्तत्यर्थं केशवाराधनेच्छाविमानगौषधनिषेवणादिकथनम्, विष्णुप्रादुर्भावादिश्रवणगोदेवब्राह्मणपूजनपुरस्सरं योग्यपरिचारिकाभिः सूतिकागृहं प्रविश्य सुसंतानार्थिनी नारी वातानुलोमनादि कृत्वा प्रसूत्यनुपदं बलिकर्माद्याचरेत् । ततश्च जातनाम कर्मनिष्क्रमणान्नप्राशनदुर्दन्तजनने शांत्यादि

५३ पुत्रीयरोहिणीस्नानवर्णनम्

५४ पुत्रीयसप्तमीव्रतकथनम्

५५ पुत्रीयाष्टमीव्रतम् –

५६ नानौषधै: पुरुषचिकित्साकथने विष्णुभक्ते: सर्वामयैकौषधित्वकथनम्

५७ सर्वरोगनाशकशतभिषास्नानाविधिः

५८ पौषशुक्लद्वितीया-( आरोग्यद्वितीया)-यां बालेन्दोर्ब्राह्मणानां च पूजनादारोग्यपुष्ट्यादिलाभः

५९ आरोग्यप्रतिपद्विधानं फलञ्च

६० आरोग्यव्रतविधानम् ।

६१ ग्रामदशग्रामशतग्रामेशविषयेशावेक्षणादिप्रबन्धेन धनवृद्धिपुरस्सरं प्रजारक्षणम्

६२ धर्माविरोधिकामसेवाविचारपुरस्सरमन्त:पुरचिन्तनम्

६३ भोज्यभक्ष्यलेह्यचोष्यपेयेति भोज्यकल्पनाकथनम् . .

६४ शोधनवमनविरेचनभावनापाकबोधनधूपनवासनादिगन्धयुक्तिकथनम्

६९ राजधर्मवर्णनम्

६६ दैवपौरुषयो रथचक्रयोरिव क्रियासिद्धौ समबलत्वेऽपि पुरुषकारस्य श्रेष्ठत्वम् ....

६७ सामसाध्यपुरुषनिर्देशः

६८ जयसिद्धेरासन्नं भेदविधानम्

६९ दानमाहात्म्यम्

७० दण्डप्रशंसा

७१ दण्डप्रशंसनपुरस्सरं राज्ञः सूर्यचन्द्रवायुयमपावककुबेरवरुणात्मकत्वम्

७२ विविधापराधानुसारं दण्डप्रणयनम्

७३ विविधनिषिद्धकर्मसेवननिकृन्तकप्रायश्चित्तानि

৩४ रहस्यप्रायश्चित्ताख्यानम्

७५ मरणाशौचशुद्धिकालकथनम् '

७६ प्रेतनिर्हरणास्थिसञ्चयनादिप्रेतक्रियागङ्गास्थिनिक्षेपनारायणबल्यादि प्रेतहितकृत्यम् –

७७ सपिण्डीकरणश्राद्धम्

७८ संसारासारताख्यानपुरस्सरं धर्मनित्यताद्याश्वासनम्....

७९ द्रव्यशुद्ध्युपाख्यानम्...

८० वर्णानां सामान्यविशेषधर्मदिग्दर्शनम्

८१ वर्णशङ्करधर्मोपदेशः

८२ आपद्धर्मनिर्देशः

८३ व्यापारलाभकारकं पूर्वाषाढास्नानवर्णनम्

८४ मूलस्नानवर्णनम्

८५ गर्भाधानादिसंस्काराभिधानम्

८६ ब्रह्मचर्यवर्णनम्

८७ वर्णानुपूर्वेण भार्याकरणं, ब्राह्मादिविवाहभेदाः शचीयागविवाहार्थतिथिवारादि

८८ ब्राह्मादितीर्थस्नानवर्णनम्

८९ माल्यवस्त्रचन्दनोपानद्ब्रह्मसूत्रधारणं, हीनाधिकाङ्गादिभिः सहागमनं, मार्गे दक्षिणतः कर्तव्यपदार्थाः देयमार्गाश्च, पशुरिपुगृहयोरनद्वारप्रवेशादिकर्तव्यकर्मसंग्रहः

९० देवार्चामन्त्रप्रतीककथनम्

९१ उदकानुलेपनवस्त्राभरणपुष्पबिल्वपत्रदूर्वादिदेवनिवेदनीयवस्तुयोग्यताकथनम्

९२ वैश्वदेवातिथिपूजनवर्णनम्

९३ चन्द्रसूर्योपरागे भोजनवर्जनं बालकानां पूर्वं दत्त्वैव गृहस्थस्य भोजनमित्यादिभोजननियमकथनम्

९४. शयनानर्हदेशकथनपुरस्सरं रजस्वलादिभिः सङ्गनिषेधवर्णनम्

९५ गृहस्थधर्मवर्णनम्.

९६ सर्वशत्रुनाशककृत्तिकास्नानवर्णनम्

९७ भरणीकृत्तिकयोरुपवासपूर्वकवासुदेवपूजनेन शत्रुनाश:

९८ काम्यस्नानेषु साधारणस्नानवर्णनम्

९९ रोहिण्यादिनक्षत्रस्नानकथनम्

१०० सर्वाधिविनाशनमभिजित्स्नानम्

१०१ पुष्टिप्रदमभिजित्स्नानम्

१०२ जन्मर्क्षस्नानवर्णनम्

१०३ पुष्यस्नानवर्णनम्

१०४ दिक्पालस्नानवर्णनम् |

१०५ विनायकस्नानवर्णनम् ।

१०६ रक्षोघ्नं सर्वशत्रुक्षयकारि माहेश्वरस्नानम्

१०७ घृतगोशकृद्दधिदर्भोदकपलाशबिल्वकमलवचामञ्जिष्ठादिस्नानम्

१०८ पुरुषोत्तमपादोदकस्नानम्

१०९ मणिबन्धवर्णनम्

११० नानारोगमोचकविविधवाञ्छितार्थप्रदभगवदनुलेपनवर्णनम्

१११ प्रायश्चित्तानुसारेण नरकगमनादिदण्डविधानम्

११२ जीवस्य गर्भसंक्रान्तिवर्णनम्

११३ प्रेतलोके जीवस्य कर्मानुसारमादरताडनाद्यनन्तरं भोगदेहे फलभोगः ।

११४ गर्भे कललघनीभूतांगनिर्माणत्वक्चर्माद्युत्पत्तिपुरस्सरं गर्भव्यथादिकथनम्

११५ शरीरविषयवर्णनम्

११६ विविधदानकर्तॄणां धर्ममाचरतां च जीवोत्क्रमणानन्तरं ससुखं यमपुरे गमनं तद्विरुद्धानां तत्र विविधयातनासहनम्

११७ स्ववर्णाश्रमधर्ममनुरुन्धतां स्वर्गवासः

११८ शास्त्रोक्तविरुद्धवर्णाश्रमधर्मकारिणां निरयगमनम्

११९ विविधनरकनामप्रदर्शनपूर्वकं पापिनां तेषुतेषु नरकेषु यातनावर्णनम्

१२० पापकर्मानुसारं नारकयातना अनुभूय नारकाणां संसारे ब्रह्मराक्षसतिर्यगादियोनिषु जन्म

१२१ नरकवेदनाभोगानन्तरं मणिमुक्तादिहर्तुः स्वर्णकारजातौ, स्वर्णचोरस्य कुनखित्वं, सुरापस्य कृष्णदन्तता, गुरुप्रतिकूलस्यापस्मारित्वादिपूर्वजन्म कर्मप्रकाशकचिह्नयुक्तवपुस्त्वम्

१२२ वर्णाश्रमधर्मकारिणां भीत्यभावः ( दुर्गातितरणम्)

१२३ सर्वपापविनाशक चान्द्रायणकृच्छ्रादिवर्णनम्

१२४ विविधपापनाशकनानाद्रव्यदायकवैदिकसूक्तजपादि

१२५ वैदिकविविधमन्त्रैस्तत्तत्कार्यसाधकतन्त्रविधानम्

१२६ अनेककामनासिद्धिकरसामप्रयोगकथनम्

१२७ अथर्वविधिनानेकप्रयोगसाधकविधिकथनम्

१२८ श्रीसूक्तमाहात्म्यकथनम्

१२९ पुरुषसूक्तमाहात्म्यवर्णनम्

१३० वानप्रस्थाश्रमधर्मकथनम्

१३१ यतिधर्मनिरूपणम्

१३२ सर्वशान्तिष्वाथर्वणशान्तिविधिः

१३३ भौमान्तरिक्षादिशान्तिषु, अमृताभयादिशान्तिकथनम्।

१३४ विविधोत्पातकथनम्

१३५ अर्थाविकारोपशमनवर्णनम्

१३६ औत्पाताग्निशान्तिवर्णनम्

१३७ औत्पातिके वृक्षवैकृत्यवर्णनम्

१३८ औत्पातिके वृष्टिवैकृत्यवर्णनम्

१३९ औत्पातिके जलवैकृत्यवर्णनम्

१४० स्त्रीप्रसववर्णनम्

१४१ वडवाहस्तिन्यादियुग्मप्रसववैकृतादिशान्तिः

१४२ उपस्करवैकृतवर्णनम्

१४३ आरण्यग्राम्यपश्वादीनां ग्रामारण्यगमनादिवैकृतशान्तिः

१४४ प्रसादतोरणादीनामनिमित्तपतने ग्रहादीनां विच्छायत्वे गुरुमित्रद्रोहादीनामुदये च शान्तिः

१४५ राज्यमण्डलवर्णने कुल्यादिभेदेन शत्रुवर्णनम्

१४६ शत्रुषु दण्डप्रणयनम् ।

१४७ युद्धकरणे हानिं विचार्योपेक्षाकरणम्

१४८ शत्रुव्याकुलीकरणाय तद्राज्ये गुप्तोत्पादादिप्रकटनम्

१४९ इन्द्रजालेन शत्रुराज्ये चतुरङ्गबलरक्तवृष्टिच्छिन्नशिरांसि दर्शनीयानि

१५० षाड्गुण्यवर्णनम्

१५१ राजाह्निकवर्णनम्

१५२ जन्मनक्षत्रक्षालनपुष्पस्नानसूर्यसंक्रमणनिमित्तकसूर्यपूजनबालेन्दुपूजनादीनि राजकर्माणि

१५३ राज्ञश्चातुर्मास्यविधिवर्णनम्

१५४ शक्रध्वजोत्पत्तिकथनपुरस्सरं तन्महोत्सवकर्तुः संग्रामे जयः

१५५ शक्रध्वजमहोत्सवकालविधिफलादिकथनम्

१५६ इन्द्रध्वजपतनभङ्गादिशान्तिवर्णनम्

१५७ शक्रध्वजारोपणप्रसङ्गेन स्तावकमन्त्राः

१५८ आश्विनशुक्लनवम्यां शिविरोत्तरे भद्रकालीगृहं निर्माय पटे भद्रकालीं सम्पूज्याष्टम्यां छत्रवर्माद्यायुधानि पूजयेत्

१५९ हस्त्यश्वादिनीराजनशान्तिविधिः

१६० छत्राश्वध्वजगजपताकाखड्गवर्मदुन्दुभ्यादिमन्त्राः

१६१ राज्यविवृद्धिकरणं घृतकम्बलशान्तिकर्म

१६२ संवत्सराभिषेकः

१६३ यात्रायां शकुनविधानम्

१६४ यात्रायां शकुनविधानम्

१६५ शुभाशुभप्रश्नफलम्

१६६ ज्योतिःशास्त्रवर्णने शास्त्रशाखावर्णनम्

१६७ कालमानराशिग्रहं स्वरूपसप्तवर्गग्रहमैत्र्यादिप्रतिमासगर्भगतजीवावयवकथनम्, मासाधिपबलादिवशाद्गर्भपुष्ट्य़ादेर्ग्रहायुविचारमरणकार णाष्टवर्गराजयोगादेश्च कथनम्

१६८ सौरादिदिवससत्ययुगादिमानकल्पग्रहभगणग्रहकक्षामानज्यादिसाधनक्रान्तिशरसाधनलग्नमानानयननक्षत्रध्रुवकभौमादिवक्रादिकेन्द्रादिवर्णनम्

१६९ इष्टकालाब्दसौरदिनचन्द्राहस्साधनाहर्गणगतैष्याधिमासदिनाधेष्यो नरात्रकालपातकालसंवत्सराब्दानयनतदधिपदिवसाधिपार्कोदयग्रहंभुक्त्यादिवर्णनम्

१७० नक्षत्रतिथिकरणाद्यानयनप्रकारः

१७१ छेदशङ्कुच्छायादिवशाद्दिवसस्य गतशेषज्ञानम्

१७२ लग्नोदयकालज्ञानवर्णनम्

१७३ ग्रहोदयास्तलग्नागस्त्योदयप्रतिदैवसिकोदयादिज्ञानम्

१७४ ग्रहणकालिकार्कचन्द्रयोःशङ्कुशङ्कुतलभुजलम्बनावनतिं स्फुटशरसम्मीलोन्मीलनादिसाधनं ग्रहगतिज्ञानामुत्कृष्टत्ववर्णनञ्च

१७५ पौरयायिग्रहौ, यायिग्रहबले राजयात्रायाः श्रेष्ठता, शुक्रास्तादौ तन्निषेधः, यात्रोपयोगिमासदिवसनक्षत्रदिग्द्वारनक्षत्रलग्नतिथिसिद्धियोगकथनपुरस्सरं जन्मराश्युपचयर्क्षादौ यात्रायाः सिद्धिप्रदत्वम्

१७६ राज्ञां विजययात्रायै शुभनक्षत्रं विचार्य तद्दिनात्सप्तरात्रपूर्वविधेयविधिवर्णनपुरस्सरं यात्रादिवसे त्रिविक्रमं सम्पूज्य होमानन्तरं यात्रिक सूक्तादिपठनपूर्वकं दिङ्नक्षत्रयोर्नैवेद्यं दत्त्वा किञ्चित्प्राश्य यायात्

१७७ वस्त्रशस्त्रादिधारणपत्त्यश्वरथगजादिविन्यासपुरस्सरं युद्धवर्णनम्

१७८ रथनागाश्वपत्तीनां पादानाश्रित्य धनुर्वेदस्य चतुष्पादता, यन्त्रमुक्तप्राणिमुक्तमुक्तसन्धारितामुक्तेतिशस्त्रास्त्रसम्पत्त्या युद्धम्

१७९ समपदवैशाखमण्डलालीढप्रत्याख्यातसम्पुटादिधनुर्वेदवर्णनम्

१८० बाणव्यापारे कृतहस्तादिशिक्षणाद्यभ्यासवर्णनम्

१८१ धनुर्वेदे त्र्यैषुकविधिवर्णनम्

१८२ खड्गप्रासधारणशूलतोमरगदापरशुमुद्गरलगुडवज्रपट्टिशकृपाणीक्षेपणीगदानियुद्धकर्माणि

१८३ स्खलीनपर्याणास्तरणादियुक्ताश्वानाञ्च रश्मिप्रग्रहकोविदकृपान्तवरणादियुक्तसारथे रथहस्त्यादीनां वर्णनम्

इति विष्णुधर्मोत्तरद्वितीयखण्डः ।