विष्णुधर्मोत्तरपुराणम्/ खण्डः २/अध्यायाः ११६-१२०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः १११-११५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः ११६-१२०
वेदव्यासः
अध्यायाः १२१-१२५ →

2.116
पुष्कर उवाच ।।
आयुषि कर्मणि क्षीणे संप्राप्ते मरणे नृणाम् ।।
ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः ।। १ ।।
शरीरमुपरुध्याथ कृत्स्नान्दोषान्रुणद्धि वै ।।
भिनत्ति प्राणस्थानानि पुनर्मर्माणि चैव हि ।। २ ।।
शैत्यात्प्रकुपितो वायुश्छिद्रमन्विष्यते ततः ।।
द्वे नेत्रे च तथा कर्णौ द्वौ तु नासापुटौ तथा ।।३।।
ऊर्ध्व तु सप्त च्छिद्राणि सप्तकं वदनं तथा ।।
एतैः प्राणो विनिर्याति प्रायशः शुभकर्मणाम् ।। ४ ।।
अधः पायुरुपस्थं च छिद्रद्वयमुदाहृतम् ।।
छिद्रद्वयेन तेनाथ म्रियन्तेऽशुभकारिणः ।। ५ ।।
मूर्धानं योगिनां भित्त्वा जीवो व्रजति भार्गव ।।
अथवा स्वेच्छया राम येन चेच्छन्ति योगिनः ।। ६ ।।
अन्तकाले तु संप्राप्ते प्राणापानेष्ववस्थितः ।।
तमसा संवृते ज्ञाने संवृतेषु च मर्मसु ।। ७ ।।
स जीवो नाभ्यधिष्ठानश्चाल्यते मातरिश्वना ।।
स जीवश्चाल्यमानस्तु कर्मभिस्तैः पुरातनैः ।। ८ ।।
अष्टाङ्गां प्राणवृत्तिं तां शनैश्च्यावयते द्विज ।।
शरीरं प्रजहात्यस्मान्निश्वासस्तु भवेत्ततः ।। ९ ।।
च्यवन्तं जायमानं वा प्रविशन्तं च योनिषु ।।
पश्यन्त्येवंविधं सिद्धा जीवं दिव्येन चक्षुषा ।। १० ।।
स तु देहपरित्यागकाले प्राप्ते तदानघ ।।
तत्क्षणादेव गृह्णाति शरीरमतिवाहिकम् ।। ११ ।।
 ऊर्ध्वं भजन्ति भूतानि त्रीण्यस्मात्तस्य विग्रहात् ।।
आकाशवायुतेजांसि द्वे चाधो भृगुनन्दन ।। १२ ।।
सलिलं च महाभाग तथैव च वसुन्धरा ।।।
एवं पञ्चत्वमापन्नः पुरुषस्त्वभिधीयते ।। १३ ।।
एवं पञ्चत्वमापन्ने तद्देहमतिवाहिकम् ।।
भयानकैर्महाघोरैर्नानावेषधरैस्तथा ।। १४ ।।
उच्चैस्तस्य तदा बद्धं कालपाशेन सत्वरम् ।।
नीयते कालपुरुषैर्याम्यं मार्गं सुदुस्तरम् ।। १५ ।।
तप्ताम्बरीषसंकाशं त्वयोगुणनिभं महत् ।।
संतप्तसिकतं घोरं ताम्रपर्णनिभं तथा ।। १६ ।।
षडशीतिसहस्राणि योजनानां महीतलम् ।।
यमस्य तु पुरी राम घोरा संयमनी स्मृता ।। १७ ।।
नीयते तेन मार्गेण तादृशेन तु तां पुरीम् ।।
आकृष्यमाणं पुरुषैर्याम्यैर्घोरैर्महीतले ।। १८ ।।
पीडामनुभवँस्तत्र म्रियते न च मानद ।।
अत्यर्थविषमः प्रोक्तः स मार्गो घोरदर्शनः।।।।
विश्वरूपधरो राम भुवि शीतावृतो महान् ।।
हिमप्रपातबहुलश्चातिशीतः सुदुस्तरः ।।२०।।
अन्धकारवृते दुर्गे गर्भवासोपमस्तथा।।
अग्निसंस्पर्शवदनैः काककाकोलजम्बुकैः ।। २१ ।।
मक्षिकादंशमशकैरावृतः सर्पवृश्चिकैः ।।
भक्ष्यमाणोऽपि तैर्जन्तुर्भक्ष्यते चापि राक्षसैः ।। २२ ।।
उत्कृत्योत्कृत्य सहसा न च प्राणैर्वियुज्यते ।।
मुद्गरैश्चूर्ण्यते घोरैस्तुद्यते लोहकण्टकैः ।। २३ ।।
क्षुधया तृषया चैव घोरया चापि पीड्यते ।।
दह्यमानोऽतिघोरेण सैकतेन च नीयते ।। २४ ।।
एवं संयाप्यमानस्तु प्राप्यते यममन्दिरम् ।।
दशभिः स मुहूर्तैस्तु पन्थानमतिदुस्तरम् ।। २५ ।।
प्राप्नोति भीमनिर्घोषं दुर्गन्धिभयदर्शनम् ।।
तत्कालं सुमहद्वेत्ति पुरुषो देवमायया ।। २६ ।।
पापानुरूपं तत्कालं तस्य तत्राभिजायते ।।
कस्यचिद्विशतं कालं कस्यचिच्छतसम्भवम् ।। २७ ।।
क्षुत्तृष्णासम्भवाश्चैव भवन्त्यथ महाभयाः ।।
दण्डपिण्डस्य धर्मज्ञ प्रेतत्वमुपजायते ।। २८ ।।
प्रेत लोके स वसति ततः संवत्सरं नरः ।।
सोदकुम्भमतोन्नाद्यं बान्धवैस्तस्य दीयते ।। २९ ।।
दिनेदिने यद्धर्मज्ञ तद्भुङ्क्ते नात्र संशयः ।।
न दीयते तु यस्यैतत्स तु तत्र यथा स्वयम् ।। ३० ।।
पूर्वदत्तमथान्नाद्यं प्राप्नोति स्वयमेव तु ।।
स्वयमेव न दत्तं तु तथा दाता न विद्यते ।। ३१ ।।
न चास्त्युदकदाता च स तु तत्परितप्यते ।।
बान्धवैस्तूदकं दत्त तत्र तत्रास्य जायते।। ३२ ।।
नदी शीतजला नाम बहुपानीयसंयुता ।।
मासिमासि च यच्छ्राद्धं तस्य तत्र प्रदीयते ।। ३३ ।।
तेन तृप्तिमवाप्नोति परमां नात्र संशयः ।।
मानुष्येण तु मासेन पितृलोके दिनं स्मृतम् ।। ३४ ।।।
प्रेतलोके तु दिवसो मानुष्येण विधीयते ।।
तस्माद्दिनेदिने देयं प्रेतायान्नं तु वत्सरम् ।। ३५ ।।
एवं स याप्यमानस्तु प्राप्नोति यममन्दिरम् ।।
ततः पश्यत्यसौ देवं पापात्मा घोरदर्शनम् ।। ३६ ।।
चित्रगुप्तस्ततस्तस्य ज्ञात्वा कर्म यथाविधम् ।।
आज्ञापयति धर्मज्ञ शुभं वा यदि वाशुभम् ।।३७।।
ततः श्मशानिका नाम देवा याम्या भयावहाः ।।
शीतवातातपोपेतं तदा रक्षन्ति मानवम् ।। ३८ ।।
यथेह बन्धने कश्चिद्रक्ष्यते विषमैर्नरैः ।।
प्रेत पिण्डैस्ततो दत्तैर्देहमाप्नोति भार्गव ।। ३९ ।।
भोगदेहमिति प्रोक्तं क्रमादेव न संशयः ।।
प्रेतपिण्डा न दीयन्ते यस्य तस्य विमोक्षणम् ।। ४० ।।
श्मशानिकेभ्यो देवेभ्य आकल्पं नैव विद्यते ।।
तत्रास्य यातना घोराः शीतवातातपोद्भवाः ।। ४१ ।।
ततः सपिण्डीकरणे बान्धवैश्च कृते नरः ।।।
पूर्णे संवत्सरे देहमतोऽन्यं प्रतिपद्यते ।। ४२ ।।
ततः स नरकं याति स्वर्गं वा स्वेन कर्मणा ।।
ततः स कालं वसति कर्मणामनुरूपतः ।। ४३ ।।
अर्वाक् सपिण्डीकरणं यस्य संवत्सरात्कृतम् ।।
प्रेतत्वमपि तस्यापि प्रोक्तं संवत्सरं धुवम् ।। ४४ ।।
यैरिष्टं विविधैर्यज्ञैः पूजितो यैश्च केशवः ।।
प्रेतलोकं न ते यान्ति तथा ये समरे हताः ।। ४५।।
श्मशानिकानां देवानां भवन्ति वशगा न ते।।
प्रेतलोकं प्रपद्यन्ते तथा घोरं भयावहम् ।। ४६ ।।।
एवं याम्येन मार्गेण यान्ति पापा नराधमाः ।।
आरामसदनं यान्ति तथैव द्रुमरोपकाः ।।४७।।
शीतलेन तु मार्गेण फलपुष्पवता सुखम् ।।
छत्रदाश्च सुखं यान्ति मार्गेण ससुखेन ते ।। ४८ ।।
यानमश्वतरीयुक्तमास्थायोपानहप्रदाः ।।
विमानैर्यानदा यान्ति तथा शय्यासनप्रदाः ।। ४९ ।।
गृहदाः सविहारन्तु यान्ति तृप्ता जलप्रदाः ।।
भक्ष्यैर्भोज्यैस्तथा तृप्ता यान्ति भोजनदायिनः ।। ५० ।।
दीपप्रदाः प्रकाशेन यान्ति मार्गेण ते सुखम् ।।
पूज्यमाना यमभटैर्यान्ति भक्ता जनार्दनम् ।। ५१ ।।
नास्ति तेषां भयं किञ्चिदिहलोके परत्र च ।।
ते तृप्ताः सर्वकामैश्च तरसा यान्ति मानवाः ।। ।। ५२ ।।
बुद्धिं समास्थाय तु सात्त्विकीं ये भक्ताः सुरेशस्य जनार्दनस्य ।।
तेषां गतिस्तत्र तु यत्र राम श्वेताः पुमांसो गतसर्वपापाः ।। ५३ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० स० रामं प्रति पुष्करोपाख्याने यममार्गवर्णनन्नाम षोडशोत्तरशततमोध्यायः ।।११६।।
2.117
राम उवाच ।।
भगवञ्छ्रोतुमिच्छामि ये नराः स्वर्गगामिनः ।।
केन धर्मभृतां श्रेष्ठ तथा निरयगामिनः ।। १ ।।
पुष्कर उवाच ।।
आश्रमेषु यथोक्तेषु वर्तन्ते ये द्विजोत्तमाः ।।
स्वधर्मसक्ताः सततं ते नराः स्वर्गगामिनः।।२।।
वर्तन्ते ये महीपाल राजधर्मानुसारतः ।।
पुरोहितमते युक्ता राजानः स्वर्गगामिनः ।। ३ ।।
प्रजासुखे सुखं येषां तद्दुःखे ये च दुःखिताः ।।
दुष्टनिग्रहकर्तारो ज्ञेयास्ते स्वर्गगामिनः ।।४।।
स्वाम्यर्थे ब्राह्मणार्थे वा मित्रकार्ये च ये हताः ।।
गोग्रहे निहता ये च ते नराः स्वर्गगामिनः ।। ५ ।।
देहधातून्परित्यज्य सलिलारण्यवह्निषु ।।
अनाशने वा धर्मज्ञ मृताः स्युः स्वर्गगामिनः ।। ६ ।।
तीर्थयात्राप्रसक्ताश्च नित्यमध्वनि कर्षिताः ।।
तपसा कर्षिता ये च ते ज्ञेयाः स्वर्गगामिनः ।। ७ ।।
मधुमांसनिवृत्ताश्च निवृत्ता मधुपानतः ।।
काममैथुनतश्चापि विज्ञेयाः स्वर्गगामिनः ।। ८ ।।
मातापितृपरा दान्ता गुरुभक्ताः प्रियंवदाः ।।
सत्यार्जवरता ये च ते नराः स्वर्गगामिनः ।। ९ ।।
वैवाहिकानां वस्त्राणां प्रपाणां ये प्रदायिनः ।।
उद्यानारामकर्तारस्ते नराः स्वर्गगामिनः ।। १० ।।
तडागकूपकर्तारस्तथा कन्याप्रदायकाः ।।
छत्रोपानहदातारस्ते नराः स्वर्गगामिनः ।। ११ ।।
इन्धनानां प्रदातारस्तथा गोग्रामदायिनः ।।
गवां शुश्रूषका ये च ते नराः स्वर्गगामिनः ।। १२ ।।
परोपकारसक्ताश्च परबन्धविवर्जकाः ।।
पूज्यपूजयितारश्च ते नराः स्वर्गगामिनः ।। १३ ।।
स्वाध्यायसक्ता धीमन्तो गुरुशुश्रूषणे रताः ।।
उपासकाश्च वृद्धानां ते ज्ञेयाः स्वर्गगामिनः ।।१४।।
प्रतिश्रयप्रदातारस्तथा ये सत्रदायकाः ।।
भक्ता गोदेवविप्राणां ते नराः स्वर्गगामिनः ।। १५ ।।
श्रोतारो ये च धर्माणां ये तथा यज्ञयाजिनः ।।
उपवासरता ये च ते ज्ञेयाः स्वर्गगामिनः ।। १६ ।।
क्लेशाननुभवन्तीह शास्त्राध्ययनतत्पराः ।।
शास्त्राणां च हिते युक्तास्ते ज्ञेयाः स्वर्गगामिनः ।।१७।।
आर्तप्राणप्रदा ये च ये च हिंसाविवर्जकाः ।।
अपीडकाश्च भूतानां ते नराः स्वर्गगामिनः।। ।।१८।।
दरिद्राय च दातारः प्रभवश्च क्षमान्विताः ।।
यौवनस्थाश्च ये शान्तास्ते नराः स्वर्गगामिनः ।।१९।।
पौत्रदौहित्रसंयुक्ता ये तथा चिरजीविनः।।
प्रियङ्कराश्च बालानां ते नराः स्वर्गगामिनः।।
पोषकाणामनाथानां ये चैवोद्वाहकारिणः।।
द्विरागमनदा ये च ते नराः स्वर्गगामिनः।।२१।।
ग्रहाणां पूजका ये च ये तथा श्राद्धकारिणः ।।
संविभागकरा ये च ते नराः स्वर्गगामिनः ।। २२ ।।
सर्वासां देवतानां च ये च पूजारताः सदा ।।
सर्वदानरता ये च ते नराः स्वर्गगामिनः ।। २३ ।।
अहताश्च तथा तत्र कृत्वा कर्मातिदुष्करम् ।।
कालेनापि मृता राम ते नराः स्वर्गगामिनः ।।२४।।
ये भक्तिमन्तो मधुसूदनस्य देवेश्वरस्याप्रतिमस्य नित्यम् ।।
सत्त्वेन हीना रजसा वियुक्तास्ते यान्ति नाकं सुरसंघपूज्याः।।२५।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने स्वर्गभाग्वर्णनन्नाम सप्तदशोत्तरशततमोऽध्यायः ।।११७।।
2.118
पुष्कर उवाच ।।
महापातकिनो ये च ये च पातकिनो जनाः ।।
मांसाशिनो नरा ये च तथा येऽगम्यागामिनः ।।
परदाररता ये च ते वै निरयगामिनः ।। १ ।।
अतिक्रामन्ति ये भार्यां पीडयन्ति च ये नरान् ।।
ये सभास्ववन्यन्ते ते वै निरयगामिनः ।। २ ।।
बहुभार्याश्च भार्यासु वर्तन्ते न समं च ये ।।
ऋतुकालहरा ये च ते वै निरयगामिनः।।।।।
सम्यग्भर्तृषु या नार्यो वर्तन्ते नावलेपतः ।।
अप्रिये च तथा सक्ता ज्ञेयास्ता निरयङ्गमाः।।४।।
भर्तारमवमन्यन्ते भाषन्ते विप्रियाणि च ।।
स्वातन्त्र्येण च वर्तन्ते ज्ञातव्या निरयङ्गमाः ।। ५ ।।
राजशास्त्रोपदेशं ये संत्यज्य वसुधाधिपाः ।।
वर्तन्ते सर्वकार्येषु ते वै निरयगामिनः ।। ६ ।।
वर्णाश्रमोक्तं वर्तन्ते धर्मं त्यक्त्वा तु ये नराः ।।
बहिःशास्त्रान्महाभाग ते वै निरयगामिनः ।। ७ ।।
अयाज्ययाजिनो ये च कूटसाक्ष्यप्रदाश्च ये ।।
तथानृतरता ये च ते वै निरयगामिनः ।। ८ ।।
व्यवहारेषु ये सक्ताः पक्षपाताभिधायिनः ।।
असम्यग्दर्शिनो ये च ते वै निरयगामिनः ।। ९ ।।
प्रेक्ष्यमाणे परिजने मिष्टमश्नन्ति ये नराः ।।
असंविभज्य धर्मज्ञ ते वै निरयगामिनः ।। १० ।।
भृतकास्तु महाभाग कुर्वन्ते नैव ये भृतम् ।।
अनिर्दिष्टभुजश्चैव ते वै निरयगामिनः ।।११ ।।
वञ्चका भृतकानां च तथैवाश्रितवञ्चकाः ।।
वञ्चकाश्च तथाऽन्येषां ज्ञेया निरयगामिनः ।। १२ ।।
कृतघ्ना निर्घृणा ये च परस्वादायिनश्च ये ।।
शठाचाराश्च मित्राणां ते वै निरयगामिनः ।। १३ ।।
गवां पानप्रवृत्तानां ये तथा विघ्नकारिणः ।।
तथाऽन्येषां च भूतानां ते वै निरयगामिनः ।। १४ ।।
धर्मकार्यप्रवृत्तस्य ये नरा विघ्नकारिणः ।।
पापप्रोत्साहकाश्चैव ते वै निरयगामिनः ।।१५।।
त्यागिनस्त्वाश्रितानां ये ऋत्विजां त्यागिनश्च ये ।।
याज्यानां च गुरूणां च ते वै निरयगामिनः ।। १६ ।।
त्यागिनो देवतानां च वह्नीनां त्यागिनश्च ये ।।
शास्त्राणां त्यागिनो ये च ते वै निरयगामिनः ।। १७ ।।
बालकातिथिविप्राणां सुराणां चैव मानद ।।
ये च पूर्वभुजो नित्यं ते वै निरयगामिनः ।। १८ ।।
रजस्वलां च ये यान्ति ये च प्रेष्यकरा स्त्रियम् ।।
वियोनिं ये च गच्छन्ति ते वै निरयगामिनः ।। १९ ।।
शुक्रं त्यजन्त्ययोनौ ये तथाकाशे च निर्घृणाः ।।
पर्वस्वपि च धर्मज्ञ ते वै निरयगामिनः ।।२०।।
अनध्यायेषु ये राम स्वाध्यायमिह कुर्वते ।।
निन्दति च गुरून्ये वै ते वै निरयगामिनः ।।२१।।
देवतानां च वेदानां ब्राह्मणानां च निन्दकाः ।।
पुराणचरितानां च ते वै निरयगामिनः ।। २२ ।।
ये नास्तिका नरा राम ये च श्रद्धाविवर्जिताः ।।
अहङ्कारगृहीताश्च ते वै निरयगामिनः ।।२३।।
कुकर्मसक्ता मनुजाः सुकर्मपरिवर्जकाः ।।
स्वामिमित्रद्रुहो ये च ते वै निरयगामिनः ।।२४।।
ये च द्रोहरता राज्ञां ब्राह्मणानां गवामपि ।।
सुहृदामपि धर्मज्ञ ते वै निरयगामिनः ।।२५ ।।
ये तु पैशुन्यसंसक्ताः परमर्मस्पृशोऽपि च ।।
अशुचश्च तथा मर्त्यास्ते वै निरयगामिनः ।। २६ ।।
सोमविक्रयिणो ये च बीजविक्रयिणस्तथा ।।
आत्मविक्रयिणो ये च ज्ञेया निरयगामिनः ।। २७ ।।
रजः पश्यन्ति धर्मज्ञ येषां वेश्मनि कन्यकाः ।।
शुल्के च दत्ता सा यैश्च ते वै निरयगामिनः ।। २८ ।।
ब्रह्मेशकेशवानां च ये नरा भेदवादिनः ।।
तमोऽभिभूताः परितस्ते वै निरयगामिनः।।२९।।
कुलजानां सपिण्डानां ये च पिण्डविलोपकाः ।।
अश्राद्धदाश्च पूर्वेषां ते वै निरयगामिनः ।।३०।।
कामात्मानो नरा ये च ये तथार्थपरायणाः ।।
ये च धर्मद्विषो लोके ते वै निरयगामिनः ।। ३१ ।।
नाभिपश्यन्ति ये शक्त्या दीनमातुरमाश्रितम् ।।
आर्तं च नाभिधावन्ति ते वै निरयगामिनः ।।३२।।
ये चावहासं कुर्वन्ति दीनानां मानगर्विताः ।।
अनागसं परिभवन्त्येते निरयगामिनः ।। ३३ ।।
पीडामथोत्पाद्य नरस्य राम यथाकथंचिन्नरकं प्रयाति ।।
तस्मात्प्रयत्नेन विवर्जनीया परस्य पीडा मनुजेन राम ।।। ।। ३४ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने निरयगामिवर्णनन्नामाष्टादशोत्तरशततमोऽध्यायः ।। ११८ ।।
2.119
।। राम उवाच ।।
नामानि नरकाणां च यातना विविधास्तथा ।।
भगवञ्छ्रोतुमिच्छामि पुंसां नरकगामिनाम् ।। १ ।।
पुष्कर उवाच ।।
तामिस्र मन्धतामिस्रं महारौरवरौरवौ ।।
नरकं कालसूत्रं च महानरकमेव च ।।२।।
संजीवनं महावीचिं तपनं संप्रतापनम् ।।
संघातं च सकाकोलं कश्मलं पूतिमृत्तिकम् ।। ३ ।।
लोहशंकुं नृभीमं च मन्थानं शाल्मलिं नदीम् ।।
असिपत्रवनं चैव लोहकारं तथैव च ।। ४ ।।
पातालेषु महाबाहो त्रींस्त्रीन्वृद्धिक्रमेण तु ।।
एकैकस्य तथैवाष्टौ दिक्षु चापि विदिक्ष्वपि ।। ५।।
स्थितास्तथा ये विज्ञेया नरका घोरदर्शनाः ।।
यान्त्येते पापकर्माणो नरा येषु भृगूत्तम।।६।।
एकस्मिन्नरके केचित्क्रमादन्ये बहुष्वपि ।।
यांत्येते मानवा राम पीड्यमानाः पुनःपुनः।।७।।
नरकाणां नराणां तु यातनाकारिणश्च ये।।
घोररूपास्तु ते प्रोक्ता दृष्टमात्रभयावहाः ।। ८ ।।
मार्जारोलूकगोमायुगृध्रश्येनखराननाः ।।
गजाश्वोष्ट्रवराहाणां सिंहानां च तथा परे ।। ९।।
गोधामहिषकाकानां मद्गुसारसयोस्तथा ।।
उरभ्राजपतङ्गानां सर्पमूषकयोस्तथा ।। १० ।।
अन्येषां चैव सत्त्वानां तथान्ये जठरा नराः ।।
स्कन्दाननास्तथैवान्ये कबन्धाकारदर्शनाः ।। ११ ।।
भीमानना भयकरा नानायुधधरास्तथा ।।
उग्रवाचो दुराधर्षाः सर्पवृश्चिकवेष्टिताः ।। १२ ।।
तैलद्रोण्यां नरान्क्षिप्त्वा ज्वालयित्वा हुताशनम् ।।
सुसमिद्धं नरान्कांश्चित्क्वाथयन्ति पुनःपुनः ।। १३।।
अम्बरीषेषु चैवान्यांस्ताम्रपात्रेषु चापरान् ।।
अयःपात्रेषु चैवान्यान्द्रवद्वह्निकणेष्वपि ।।१४।।
शूलेषु रोपितानन्याञ्शुष्काग्नावपरांस्तथा ।।
उत्कृत्य विपचन्त्येतानन्यांश्छित्वा तथा परान् ।। १५ ।।
कशाभिस्ताडयन्त्यन्यांस्तथान्यानपि मानवान् ।।
भोजयन्ति महाभाग वह्नितप्तानयोगुडान् ।।१६।।
पांसूनपि तथैवान्यान्वान्तमन्यत्र चापरम् ।।
विष्ठामन्यत्र च कफं तथान्यत्र च कण्टकान् ।। १७ ।।
अन्यत्र वह्निसंकाशास्तथा भार्गव वालुकाः ।।
पाययन्ति तथान्यत्र वह्निवर्णां च वारुणीम् ।। १८ ।।
अन्यत्र नारकाणां ते छिन्दन्त्यङ्गानि भागशः ।।
पाटयन्ति तथान्यत्र करपत्रैः पुनःपुनः ।। १९ ।।
पीडयन्ति तथान्यत्र कृत्वा यन्त्रेषु नारकान् ।।
उलूखलकृतानन्यान्मुसलैस्ताडयन्ति च ।। २० ।।
कुम्भीगतांस्तथान्यत्र कुम्भीतः किञ्चिदुद्गतान् ।।
घ्नन्ति मुद्गरकूटेन महतीं वेदनां गतान् ।। २१ ।।
त्वचमुत्कृत्य चान्यत्र शुनां नरकवासिनः ।।
त्यजन्ति ते च भक्ष्यन्ते तीक्ष्णदन्तैर्मुहुर्मुहुः ।। २२ ।।
अन्धकारे तथान्यत्र भीमगन्धे भयावहे ।।
अत्युष्णे तैश्च पात्यन्ते गर्भवाससमे जनाः ।। २३ ।।
काकैर्गोमायुभिः सर्पैर्वृश्चिकैर्मूषकैरपि ।।
मक्षिकाभिश्च भक्ष्यन्ते तेषामन्यत्र शासनात् ।। २४ ।।
अन्यत्र शाल्मलिं घोरं संतप्तं तीक्ष्णकण्टकम् ।।
सर्पकीटादिबहुलमारोप्यन्ते नराधमाः ।। २५ ।।
अन्यत्र च तथा घोरां सन्तप्तामयसः शिलाम् ।।
आलिङ्गन्ते सुदुःस्पर्शा तेषामेव तु शासनात् ।।२६।।
अन्यत्रासेव्यवसतौ वसन्ति भयपीडिताः।।
तत्र तेषां तु नासाक्षिकर्णवक्त्रेषु मानद ।। २७ ।।
प्रविशन्ति महाभोगाः कृमयो मांसभोजिनः ।।
क्षारनद्यां तथैवान्ये पात्यन्ते नारकान्मुहुः ।।२८।।
बहुशीतान्धकारे च पात्यन्ते नरके परे ।।
रक्ततोयवहामन्ये प्रपद्यन्ते महानदीम् ।।२९।।
असिपत्रवने चान्ये कृष्यन्ते भीमदर्शनाः ।।
तृष्णया क्षुधया चान्ये बाध्यन्ते तत्र मानवाः ।। ३० ।।
परान्नपानं लिप्सन्तस्ताड्यन्ते कूटमुद्गरैः ।।
पाययन्ति तथान्यत्र परान्यमभटास्तथा ।। ३१ ।।
तीव्रधूममधोवक्त्रान्बद्ध्वा वृक्षेषु मानद ।।
त्वचोत्कर्तनमन्यत्र तिलशः क्रियते भटैः ।।३२।।
काष्ठान्यन्यत्र बध्यन्ते नारकाणां तथास्थिषु ।।
कूटागारप्रमाणैश्च तथा देहैर्भयार्दिताः ।।३३ ।।
सूचीवक्त्रांस्तथान्यत्र याप्यन्ते क्षुधया भृशम् ।।
सिच्यन्ते च तथान्यत्र तैलेन च गुडेन च ।।३४।।
सन्तप्तेन महाभाग भृशं दुःखप्रदायिनाम् ।।
अन्यत्र जातपिटकाः स्रस्तजिह्वाः सुविह्वलाः।।३५।।
घोरातपविनिक्षिप्ता भक्ष्यन्ते च पिपीलकैः।।
सूत्रेणान्यत्र छिद्यन्ते पादतः प्रभृति क्रमात् ।। ३६ ।।
तिलशो भृगुशार्दूल नारकाः पर्वतोपमाः ।।
यावच्च तेषां मूर्धानं तावदेव पुनःपुनः ।। ३७ ।।
कृत्वा च पिष्टं पचनं पच्यन्तेऽन्ये तथा भृशम् ।।
अयःपात्रेषु चान्यत्र तीक्ष्णशङ्कुभिरायसैः ।। ३८ ।।
क्रियन्ते संयता घोरैः सन्तप्तेषु महाभुज ।।
आपोथ्यन्ते तथान्यत्र विनिगृह्य शिलासु ते ।। ३९ ।।
गर्तेषु ते मृदं दत्त्वा पूर्यन्ते मुसलैर्भृशम् ।।
बद्धास्तम्भे तथान्यत्र क्षिप्यन्ते सायकैर्नराः ।। ।। ४० ।।
शृङ्खलाभिश्च बध्यन्ते लोठ्यन्ते कण्टकेषु च ।।
गन्धेनान्यत्र बोध्यन्ते विषमेण पुनःपुनः ।। ४१ ।।
नारकैश्च तथा सत्त्वैर्नानावेषैर्भयानकैः ।।
यातनाभिश्च बह्वीभिर्याप्यन्ते नरके भृशम् ।। ४२ ।।
अन्योन्यस्य च मांसानि भक्षयन्त्यपरे तथा ।।
हा तात मातेति तथा क्रन्दमानाः पुनःपुनः ।। ४३ ।।
निन्दन्तः स्वानि कर्माणि ताड्यमानाश्च तैर्भटैः ।।
यातनाभिश्च बह्वीभिर्याप्यन्ते भृगु नन्दन ।। ४४ ।।
विमुक्तनारका ह्यन्ये वह्निमन्ये सुशीतलम् ।।
विजानन्ति महाभाग सुखस्पर्शतमं तथा ।। ४५ ।।।
विमुक्तो नारकाच्छीतात्सुखोष्णं हिमसंचयम् ।।
मन्यते सर्वमेवान्यत्सुखस्पर्शतमं तथा ।। ४६ ।।
नरकेभ्यश्च शस्त्रेभ्यो विमुक्तो यो नराधमः ।।
शस्त्राण्यन्यानि जातानि सुखस्पर्शसमानि च ।।४७।।
सुखदुःखे तु मानुष्ये त्रिदिवे केवलं सुखम् ।।
नरके दुःखमेवोग्रं सततं भृगुनन्दन ।। ४८।।।।
तृष्णा तत्र क्षुधा तत्र गन्धस्तीव्रो भयङ्करः ।।
यातना विविधाः प्रोक्ता भयं तत्रातिदारुणम् ।। ४९ ।।
दुर्गन्धिकंटकाकीर्णं तथा कुणपसंकुलम् ।।।।
केशास्थिबहुलं भीमं नरकं दुःखमेव तु ।। ५० ।।
आर्तनादमहानादकाकक्रव्यादसंकुलम् ।।
कृमिकीटपतङ्गाढ्यं पूयासृग्बहुलं तथा ।। ५१ ।।।
अन्योऽन्यक्लेशसंयुक्तमन्योऽन्यकर्षकारकम् ।।
अन्योऽन्यताडकं घोरं तथाऽन्योन्यभयङ्करम् ।। ५२ ।।
एवमेतेषु ते पापा नरकेषु समागताः ।।
बहवः खलु याप्यन्ते मानवाः पापकारिणः ।। ५३ ।।
यावत्तेषां न पापानि क्षयं यान्ति भृगूत्तम ।।
तावत्ते न विमुच्यन्ते नरकाद् घोरदर्शनात् ।। ५४ ।।
अत्यन्तभीमा नरकाः सुघोरा भयावहव्यालगणावकीर्णाः ।।
भक्तिं वहन्तः पुरुषोत्तमस्य न यान्ति ते भार्गववंशमुख्य ।। ५५ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने नरकयातनावर्णनन्नामैकोनविंशत्युत्तरशततमोध्यायः।।११९।।
2.120
राम उवाच ।।
कर्मणा केन धर्मज्ञ नरा नरकवासिनः ।।
कां कां योनिं प्रपद्यन्ते तिरश्चो ब्रूहि तन्मम ।। १ ।।
पुष्कर उवाच ।।
अमेध्यमध्ये कृमयो महापातकिनो जनाः ।।
भवन्ति बहुधा भूम्यां ततश्चैव शिलासु ते ।। २ ।।
तृणगुच्छलतागुल्मद्रुमत्वं प्राप्यते क्रमात् ।।
भवन्ति च मृगाः पश्चान्नित्यं व्याधभयार्दिताः ।। ३ ।।
ब्रह्मस्वहारिणो हिंस्रा रौद्राचाराः सदैव तु ।।
अटव्यां घोररूपायां जायन्ते ब्रह्मराक्षसाः ।। ४ ।।
परदाररता मूढाः सन्तप्तायां तथा भुवि ।।
कृकलासा हि जायन्ते पिशाचाश्चाप्यनन्तरम् ।।
अटव्यां घोररूपायां संशुष्कद्रुमकोटरे ।।
कृष्णाहयो हि जायन्ते ततः पश्चान्न संशयः ।। ६ ।।
कूटसाक्षिप्रदाः पापास्त्वमेध्ये कृमयश्चिरम् ।।
कृत्वा भवन्ति सर्पास्ते पिशाचास्तदनन्तरम् ।। ७ ।।
गुरुमित्रद्रुहः पापा ये च स्वा मिदुहो जनाः ।।
द्विजशिष्यद्रुहश्चैव कृतघ्ना नास्तिकास्तथा ।। ८ ।।
त्यागिनो बान्धवानां च त्यागिनः शरणार्थिनाम् ।।
निक्षेपहारिणो ये च कन्यकाक्रयिणश्च ये ।। ९ ।।
अमेध्ये कृमयः सर्पा मृगा व्यालमृगास्तथा ।।
ततो घोरगणोपेता जायन्ते जम्बुकाः खलाः ।। १० ।।
परस्वहारिणः पापाः कुञ्जरास्तुरगाः खराः ।।
बलीवर्दास्तथैवोष्ट्रा जायन्ते नात्र संशयः ।। ११ ।।
हृतं यस्य तु तैर्द्रव्यं तस्य भाग्यानुरूपतः ।।
आत्मदोषानुसारेण जायन्ते धनिनस्तु ते ।। १२ ।।
चन्द्रार्कग्रहणे भुक्त्वा जायन्ते कुञ्जरा नराः ।।
आमश्राद्धं तथा भुक्त्वा जायन्ते गृध्रयोनिषु ।।१३ ।।
असत्प्रतिग्रहं राम गृहीत्वा वानरास्तथा ।।
आशाभङ्गं तथा कृत्वा शृगालाश्च तथाधमाः ।। १४ ।।
सूचकस्तु दुराचारो वागुरिर्नाम जायते ।।
बहु कालं महाभाग भूयोभूय इति श्रुतिः ।।१५ ।।
मांसभुग्यावतां राम मांसमश्नाति देहिनाम् ।।
तावतां योनिमाप्नोति भूयोभूयो न संशयः ।। १६ ।।
भोक्तव्यानि च तैस्तस्य राम मांसान्यसंशयम् ।।
यावन्तः प्राणिनो येन बहिर्वेद्यां निपातिताः।। १७।।
तावत्यो योनयस्तेन गन्तव्या भृगुसत्तम ।।।
योनौयोनौ च हन्तव्यस्तेनासौ नात्र संशयः ।। १८।।
वान्ताशी गुणपाशी च पूयभुग्रुधिराशिनः ।।
स्वकर्मविच्युता वर्णा जायन्ते प्रेतयोनिषु।।१९।।।
धान्यं हृत्वा भवत्याखुः कांस्यं हंसो जलं प्लवः ।।
मधु दंशः पयः काको रसं श्वा नकुलो घृतम् ।। २० ।।
मांसं गृध्रो वसां मद्गुस्तैलं तैलापगः खगः ।।
चीरीवाकस्तु लवणं बलाका शकुनिर्दधि ।। २१ ।।
कौशेयं तित्तिरिर्हृत्वा क्षौमं हृत्वा च दर्दुरः ।।
कर्पासं तान्तवं क्रौञ्चं गां गोधा वागुदो गुडम् ।। २२ ।।
छुच्छुन्दरिः शुभान्गन्धान्पत्रशाकं शिखी तथा ।।
मक्षिकास्तु तथैवान्नमकृतान्नं तु शल्यकः ।। २३ ।।
भेको भवति हृत्त्वाग्निं गृहहारी च तस्करः ।।
रक्तानि हृत्वा वासांसि जायते जीवजीवकः ।। २४ ।।
वृको मृगेभं व्याघ्राश्वं फलपुष्पं तु मर्कटः ।।।
स्त्रियं हृत्वा भवेद्यक्षो यानमुष्ट्रः पशूनजः ।। २५ ।।
यद्वा तद्वा परद्रव्यमपहृत्य बलान्नरः ।।
अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ।। ।। २६ ।।
तिर्यक्षु दुःखं परमं विदित्वा पापानि वर्ज्यानि नरेण नित्यम् ।।
भक्तिश्च कार्या मधुसूदनस्य तया स दुःखं सकलं जहाति ।। २७ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० स० रामं प्रति पुष्करोपाख्याने तिर्यग्योनिवर्णनन्नाम विंशत्युत्तरशततमोऽध्यायः ।। १२० ।।