विष्णुधर्मोत्तरपुराणम्/ खण्डः २/अध्यायाः ०९१-०९५

विकिस्रोतः तः
Jump to navigation Jump to search

2.91
पुष्कर उवाच।।
नक्तं गृहीतमुदकं देवकर्मणि वर्जयेत् ।।
चन्दनागरुकर्पूर मृगदर्पं तथैव च ।। १ ।।
जातीफलं तथा दद्यादनुलेपस्य कारणात् ।।
अतोन्यं नैव दातव्यं किञ्चिदेवानुलेपनम् ।। २ ।।
दारिद्र्यं पद्मकः कुर्यादस्वास्थ्यं रक्तचन्दनम् ।।
उशीरश्च तु विभ्रंशं मन्ये कुर्युरुपद्रवम् ।। ३ ।।
न वस्त्रं मलिनं देयं नीलं रक्तं तु यद्भवेत् ।।
तौ दत्त्वा देवदेवाय शोकमाप्नोत्यसंशयम् ।। ४ ।।
कृत्रिमं तु न दातव्यं तथैवाभरणं द्विज ।।
प्रतिरूपकृतं दत्त्वा क्षिप्रं पुष्ट्या वियुज्यते ।। ५ ।।
पुष्पं कण्टकिसंजातं तथा गन्धविवर्जितम् ।।
उग्रगन्धं न दातव्यं त्वन्यदेवगृहोद्भवम् ।। ६ ।।
श्मशानचैत्यद्रुमजं भूमावशनिपातितम् ।।
कलिका न तु दातव्या देवदेवस्य चक्रिणः ।। ७ ।।
शुक्लान्यवर्णं कुसुमं न देयं च तथा भवेत् ।।
सुगन्धि शुक्लं देयं स्याज्जातं कण्टकिते द्रुमे।८।।
दत्त्वा कण्टकिसंभूतं कुसुमं परिभूयते ।।
शुक्लान्यवर्णं दातव्यं कुसुमं कुंकुमस्य यत् ।। ९ ।।
पद्मोत्पले च धर्मज्ञ तथा वै पीतयूथिकाम् ।।
तथा च वन्यकं दद्याच्चूतकेतकिजं च यत् ।। 2.91.१० ।।
रक्ताशोकस्य कुसुममतसीकुसुमं तथा ।।
वृक्षायुर्वेदविद्भिश्च शुक्लं रक्तीकृतं च यत् ।।११।।
तद्रक्तमपि दातव्यं बिल्वपत्रं तथैव च ।।
दूर्वाग्रं च तथा देयं पत्रं भृङ्गिरजस्य तु ।। १२ ।।
पत्राणि च सुगन्धीनि तथा देयानि चक्रिणः ।।
मध्योऽन्यवर्णो यस्य स्याच्छुक्लस्य कुसुमस्य च ।। १३ ।।
पुष्पं शुक्लं तु तद्विद्यान्मनोज्ञं केशवप्रियम् ।।
बन्धुजीवकपुष्पाणि रक्तान्यपि च दापयेत् ।। १४ ।।
अनुक्तरक्तकुसुम दानाद्दौर्भाग्यमाप्नुयात् ।।
सुगन्धि दत्त्वा नाप्नोति शुभं वा यदि वाशुभम् ।। १५ ।।
मृगदर्पं विना किञ्चिदथ चेज्जीवसंभवम् ।।
देवदेवस्य दातव्यं दीपे मज्जानमेव वा ।। १६ ।।
नीलां रक्तां दशां दीपे प्रयत्नेन विवर्जयेत् ।।
अन्या च दीपमात्रं तु तथा वर्जं प्रयत्नतः ।।१७ ।।
कृष्णागरुस्तथा देवधूपं देवस्य यत्नतः ।।
अभक्षं चाप्यहृद्यं च नैवेद्यं न निवेदयेत् ।। १८ ।।
केशकीटावपन्नं च नखांशविहितं च यत् ।।
मूषिकालांगलोपेतमवधूतमवक्षतम्।।१९।।
न भक्ष्यमन्नमक्षीरं माहिषं क्षीरमेव च ।।
वराहमत्स्यमांसं च मांसं पञ्चनखस्य च ।।
दुरामोदौ तथा वर्ज्यौ देवकर्मणि पंडितैः।।2.91.२०।।
निवेश्य चित्तं पुरुषोत्तमस्य भक्तिं समास्थाय तथा विशुद्धाम् ।।
करोति श्रद्धां सततं यथोक्तां स याति लोकं मधुसूदनस्य ।।२१।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने पुष्पादिदेयादेयकथनन्नामैकनवतितमोऽध्यायः ।। ९१ ।।
2.92
पुष्कर उवाच ।।
ततोऽग्निशरणं गत्वा स्मार्तेऽग्नौ विधिपूर्वकम् ।।
वैश्वदेवं तु कर्तव्यं हुतोत्सृष्टं तु लौकिके ।। १ ।।
यत्र क्वचन वा राम दीप्यमानेऽथ चोदके ।।
परिसमूह्य पर्युक्ष्य परिस्तीर्य परिस्तरेत् ।। २ ।।
सर्वान्नमग्नावुद्धृत्य जुहुयात्प्रयतस्ततः ।।
वासुदेवाय देवाय प्रभवे नाप्ययेन च ।। ३ ।।
अग्नये चैव सोमाय मित्राय वरुणाय च ।।
इन्द्राय च महाभाग इन्द्राग्निभ्यां तथैव च ।। ४ ।।
विश्वेभ्यश्चैव देवेभ्यः प्रजानां पतये तथा ।।
अनुमत्यै तथा राम धन्वंतरिण एव च ।। ५ ।।
वास्तोष्पत्यै तथा देव्यै ततः स्विष्टिकृतेऽग्नये ।।
चतुर्थ्यन्तेन नत्वा च हुत्वैतेभ्यो बलिं हरेत् ।। ६ ।।
तक्षोपतक्षावभितः पूर्वेणाग्निमतः परम् ।।
अम्बानामासि धर्मज्ञ दुर्गा नामानि चाप्यथ ।। ७ ।।
निवन्ती च पनीका च प्रभवन्ती तथैव च ।।
मेधवन्ती च नामासि सर्वेषामेव भार्गव।।८।
आग्नेयाद्याक्रमेणाथ ततः सूक्तिषु निक्षिपेत् ।।
निर्दित्यै वसुभाग्यै च सुमङ्गल्यै च भार्गव ।। ९।।
भद्रंकर्यै ततो दत्त्वा स्थूणायै च तथा श्रियै ।।
हिरण्यकेश्यै च तथा वनस्पतय एव च ।।2.92.१०।।
धर्माधर्माभ्यां च द्वारे गृहमध्ये ध्रुवाय च ।।
मृत्यवे च बहिर्दद्याद्वरुणायोदकाशये।।११।।
भूतेभ्यश्च बहिर्दद्याच्छरणे धनदाय च ।।
इन्द्रायेन्द्रपुरुषेभ्यो दद्यात्पूर्वेण मानवः ।। १२ ।।
यमाय तत्पुरुषेभ्यो दद्याद्दक्षिणतस्ततः ।।
वरुणाय तत्पुरुषेभ्यो दद्यात्पश्चिमतस्ततः ।। १३ ।।
सोमाय सोमपुरुषेभ्य उदग्दद्यादनन्तरम् ।।
ब्रह्मणे ब्रह्मपुरुषेभ्यो मध्ये दद्यात्तथैव च ।। १४ ।।
आकाशे च तथैवोर्ध्वं स्थण्डिले च तथा क्षितौ ।।
दिवाचरेभ्यश्च दिवा रात्रौ रात्रिचराय च ।। १५ ।।
बलिं बहिस्तथा दद्यात्सायं प्रातस्तु प्रत्यहम् ।।
पिण्डनिर्वापणं कार्यं सायं प्रातर्न कारयेत् ।। १६ ।।
पित्रे तु प्रथमं पिण्डं तत्पित्रे तदनन्तरम् ।।
ततो दद्याच्च तत्पित्रे मात्रे च तदनन्तरम् ।। १७ ।।
पितृमात्रे ततो दद्याच्छ्वश्र्वै तदनन्तरम् ।।
दक्षिणाग्रेषु दर्भेषु सलिलेषु विशेषतः ।। १८ ।।
यत्किञ्चित्पश्यते गेहे भक्ष्यं वा भोज्यमेव वा ।।
निवेदयेच्च तत्सर्वं शुभं पानं विशेषतः ।। १९ ।।
पुष्पैर्धूपेन दीपेन पूजयेत्सततं पितॄन् ।।
नामगोत्रे सदा वाच्ये पिण्डनिर्वापणे तथा ।। 2.92.२० ।।
पिण्डं दद्याच्च काकानां तत्र मन्त्रमिमं पठेत् ।।
ऐन्द्रा वरुणवायव्या याम्या वै नैर्ऋतास्तथा ।। २१ ।।
ते काकाः प्रतिगृह्णन्तु इमं पिण्डं मयोद्धृतम् ।।
ततः पिण्डं शुनां दद्यान्मन्त्रं तत्र निबोध मे ।।२२ ।।
वैवस्वतकुले जातौ द्वौ श्यामशबलौ शुनौ ।।
ताभ्यां पिण्डं प्रदास्यामि पथि रक्षन्तु मां सदा ।। २३ ।।
ततो ग्रासं गवां दद्यादत्र मन्त्रं निबोध मे ।।
सौरभेय्यः सर्वहिताः पवित्राः पापनाशिनीः ।।२४।।
प्रतिगृह्णन्तु मे ग्रासं गावस्त्रैलोक्यमातरः ।।
ततः स्वस्तययनं कार्यं भिक्षा देया च भिक्षवे।।२५।।
दत्त्वा तु संस्कृतां भिक्षां गोदानफलमाप्नुयात् ।।
बालः सुवासिनी वृद्धा गर्भिण्यातुरकन्यकाः।।२६।।
भृत्याँश्च भोजयेद्राम पूजयित्वा तथातिथीन् ।।
नैकग्रामीणमतिथिं विद्यान्नाब्राह्मणं तथा ।।२७।।
अतिथिं भोजयेत्पूर्वं ततो भृत्यांश्च पूजयेत् ।।
राजन्यमथवा वैश्यं शूद्रं वा द्विजसत्तम ।।२८।।
वैश्वदेवे च संप्राप्तं भृत्यैः सह च भोजयेत्।।
वयोभ्यश्च तथा दद्याच्चण्डालेभ्यस्तथा भुवि।।२९।।
साधारणं तत्सर्वेषां शेषकं गृहिणां गृहे ।।
वैश्वदेवे च संप्राप्ते न कथंचिदवमानयेत्।।2.92.३०।।
आदाय सुकृतं याति भग्नाशश्चातिथिर्गतः ।।
अध्वना यस्तु भग्नाय ब्राह्मणाय तथा दिवि।।३१।।
सत्कृत्य भोजनं दद्यात्तेन स्वर्गे महीयते ।।
देवा ब्राह्मणरूपेण चरन्ति पृथिवीमिमाम्।। ३२।।
तस्मात्संप्राप्तमतिथिं प्रयत्नेन तु पूजयेत् ।।
अतिथिं पूजयेच्चाग्रे दशगोदफलं लभेत्।।३३।।
पादशौचं ततो दत्त्वा प्राप्तायांतिथये गृहे ।।
गोदानफलमाप्नोति दत्त्वा चैव तथासनम् ।।३४।।
प्रतिश्रयप्रदानेन नाकपृष्ठे महीयते ।।
तालवृन्तानिलं कृत्वा तथा प्राप्ताय मानवः ।।३५।।
गोदानफलमाप्नोति वायुलोकं स गच्छति ।।
तालव्यजनहस्तस्तु कृत्वा तदभिचारणम्।।३६।।
अतिथिर्भोजने प्राप्ते गोदानफलमाप्नुयात् ।।
शीताहतातिथिं प्राप्य काष्ठान्प्रज्वालयेन्नरः ।। ३७ ।।
प्रतापयेन्महाभाग दशधेनुफलं लभेत् ।।
कायाग्निदीप्तिमाप्नोति प्राकाश्यं परमं तथा ।। ३८ ।।
तृष्णार्तायोदकं दत्त्वा पाने गोदानमाप्नुयात् ।।
श्रान्तसंवाहनं कृत्वा धेनुदानफलं लभेत् ।। ३९ ।।
रोगिणः परिचर्यां च कृत्वा दशगुणं लभेत् ।।
पादाभ्यंगं नरः कृत्वा प्राप्तायातिथये गृहे ।।2.92.४०।।
गोदानफलमाप्नोति नागलोकं च गच्छति।।
प्रतिश्रयं तथा दीनं दत्त्वा चातिथये नरः।।४१।।
धेनुदानफलं प्राप्य सूर्यलोके महीयते ।।
चक्षुष्मांश्च प्रकाशांश्च विरोधश्चैव जायते ।।४२।।
शयनीयप्रदानेन वसुदानफलं लभेत् ।।
दन्तकाष्ठप्रदानेन सौभाग्यं महदाप्नुयात्।।४३।।
शौचोदकप्रदानेन गोदानफलमाप्नुयात् ।।
मृत्प्रदानेन धर्मज्ञ विरोधो नाभिजा यते।।४४।।
दत्त्वानुलेपनं मालां परां लक्ष्मीमुपासते ।।
तथौषधिप्रदानेन विरोगस्त्वभिजायते।। ४५ ।।
स्नानाभ्यङ्गप्रदानेन रूपवानभिजायते ।।
तथा स्नानीयदानेन गन्धर्वैः सह मोदते ।। ४६ ।।
स्नानोदकप्रदानेन वारुणं लोकमाप्नुयात् ।।
उपानहः प्रदानेन विमानमधिरोहति ।। ४७ ।।
तथा छत्रप्रदानेन गाणपत्यमवाप्नुयात् ।।
वस्त्रप्रदानाद्भवति रूपवान्सुभगस्तथा ।। ४८ ।।
अश्वमेधमवाप्नोति तथा भूमिप्रदो नरः ।।
यानदः स्वर्गमाप्नोति पौण्डरीकपदं तथा ।।४९।।
वारिधानीस्तथा दत्त्वा पूर्णाः शीतेन वारिणा ।।
सर्वा सभक्षाः प्राप्नोति गोलोकं मानुषोत्तम ।। 2.92.५० ।।
त्रपुषैर्वारुकायुक्तैः शर्कराघृतसंयुतैः ।।
सक्तुभिर्लवणोपेतैघृर्तैर्हरितसंयुतैः ।। ५१।।
तर्पयित्वातिथिं सम्यग्वारिधान्यैश्च गोरसैः ।।
गोलोकं चिरमाप्नोति नात्र कार्या विचारणा ।। ५२ ।।
तृप्तिमाप्नोति च तथा यत्रयत्राभिजायते ।।
किमिच्छकेन संयोज्य चाश्वमेधफलं लभेत् ।। ५३ ।।
तांबूलस्य प्रदानेन गन्धर्वैः सह मोदते ।।
उप्तिमासावृतं कृत्वा स्वर्गलोके महीयते ।। ५४ ।।
इतिहासानथाश्राव्य गोदानफलमाप्नुयात ।।
गोप्रदानेन वित्तेन तोषयित्वा तथातिथिम् ।। ५५ ।।
महत्फलमवाप्नोति गन्धर्वैः सह मोदते ।।
अनुव्रज्यातिथिं राम गोदानफलमाप्नुयात् ।। ५६ ।।
तस्मात्सर्वप्रयत्नेन पूजयेदतिथिं सदा ।।
राजन्या विप्रदैवत्या नार्यश्च पतिदेवताः ।।
गृहस्थोऽतिथिदैवत्यस्तस्मात्तं पूजयेत्सदा ।।५७।।
सततमिह नरो यः पूजनं चातिथीनां तृणजलमृदुवाक्यैः सारशक्त्या विदध्यात् ।।
सुरसदसि स पूज्यो देवतानां तथा स्याद्भवति च नरलोके जायमानः समृद्धः ।। ।। ५८ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करवाक्ये वैश्वदेवकथनन्नाम द्विनवतितमोऽध्यायः ।। ९२ ।।
2.93
।। पुष्कर उवाच ।।
चन्द्रस्य यदि वा भानोर्यस्मिन्नहनि भार्गव ।।
ग्रहणं तु भवेत्तत्र न पूर्वं भोजनक्रिया ।। १ ।।
नाचरेत्सग्रहे तस्मिंस्तथैवास्तमुपागते ।।
यावत्स्यादुदयं तस्य नाश्नीयात्तावदेव तु ।।२।।
गोब्राह्मणश्चोपरागे न चाश्नीयात्प्रयत्नतः ।।
न राज्ञो विप्लवेऽश्नीयात्सुरार्चाविप्लवे तथा ।। ।। ३ ।।
न हुत्वा न च दत्त्वा च नाशौचे न च गर्हितम् ।।
नापथ्यं न च बालानां तथा भार्गव पश्यताम् ।। ४ ।।
प्रार्थितं बालकानां च दातव्यं स्यात्प्रयत्नतः ।।
बालानां प्रार्थितं दत्त्वा नाकलोके महीयते ।। ५ ।।
बालका लालनीयाश्च धर्मकामैः सदा नरैः ।।
तेषां भोज्यप्रदानेन गोदानफलमाप्नुयात् ।। ६ ।।
तेषां क्रीडनकं दत्त्वा मोदते नन्दने चिरम् ।।
आह्लादं यान्ति सततं यस्मिन्दृष्ट्वा तु बालकाः ।। ७ ।।
सौभाग्यं महदाप्नोति यत्रयत्राभिजायते ।।
तस्मात्सर्वप्रयत्नेन बालानग्रे तु भोजयेत् ।।८।।
अभुक्तवत्सु बालेषु न चाश्नीयात्कथञ्चन ।।
यो न दद्यान्न चाश्नी यात्कदाचिदपि तन्मयम् ।। ९ ।।
य एको मिष्टमश्नाति न ततोऽन्योऽस्ति पातकी ।।
नैकवासास्तथाश्नीयाद्भिन्नभाण्डे न मानवः ।। 2.93.१० ।।
भिन्नासनोपविष्टश्च शयनीयगतस्तथा ।।
अनार्द्रपाणिपादान्तस्तथा चैवार्द्रमस्तकः ।। ११ ।।
नोत्सङ्गे भक्षयेद्भक्ष्यान्न पाणौ लवणं तथा ।।
सकृद्दानं पृथक्पानं मांसेन पयसा निशि ।। १२ ।।
दन्तच्छेदनमुष्णं च सप्तकन्तु सुवर्जयेत् ।।
दधि रात्रौ न चाश्नीयाज्जलन्नाञ्जलिना पिबेत् ।। ।। १३ ।।
सर्वं तैलसमृद्धं च नाद्यादस्तमिते रवौ ।।
वर्जनीया दिवा धानाः कोविदारः सदैव तु ।। १४ ।।
दिवा धानाः स्वरं हन्ति रात्रौ च दधि सक्तुषु ।।
अलक्ष्मीः कोविदारेषु नित्यमेव कृतालया ।। १५ ।।
निःशेषकृत्तथा राम न स्यादन्यत्र माक्षिकात् ।।
क्षीरस्य राम सक्तूनां पाथसस्योदकस्य च ।। १६ ।।
शेषं तु कार्यमन्यस्य न तु निःशेषकृद्भवेत् ।।
शूद्राय दद्यान्नोच्छिष्टं नोच्छिष्टश्च घृतं स्पृशेत् ।। १७ ।।
मूर्धानं न स्पृशेद्राम न स्पृशेच्च हुताशनम् ।।
नानुकुत्सा च कर्तव्या सुमनास्तन्मनास्तथा ।। १८ ।।
भुञ्जीत प्रयतो भूत्वा दिशश्चानवलोकयन् ।।
वामहस्तेन पानीयं पीतोच्छिष्टं तथैव च ।। १९ ।।
न पिबेन्न तथाश्नीयात्कृत्वा पर्यस्तिकं नरः ।।
पादप्रसारणं कृत्वा न च वेष्टितमस्तकः ।। 2.93.२० ।।
आचम्य तु ततः कार्यं दन्तकाष्ठस्य भक्षणम् ।।
भूयोऽप्याचम्य कर्तव्यं ततस्ताम्बूलधारणम् ।।२१ ।।
श्रवणं चेतिहासस्य ततः कुर्यात्समाहितः ।।
शास्त्रान्वेषा च कर्तव्या ततः सम्यग्भृगूत्तम ।। २२ ।।
शास्त्रान्ववेक्षणं कृत्वा कृत्वा चंक्रमणं ततः ।।
उपास्य पश्चिमां सन्ध्यां तिष्ठेत्प्रयतमानसः ।। २३ ।।।
पूर्वां सन्ध्यां जपंस्तिष्ठेदुपविष्टश्च पश्चिमाम् ।।
अर्क्कस्योदयनात्तावद्यावद्भास्करदर्शनम् ।। २४ ।।
पूर्वां सन्ध्यां जपेत्स्नातः पश्चिमां सति भास्करे ।।
उपविष्टो जपेत्तावद्यावत्तारकदर्शनम् ।। २५ ।।
सम्पूजनं देववरस्य कृत्वा ततश्च कुर्यात्खलु वैश्वदेवम् ।।
भुक्त्वा ततोऽन्नं लघु यच्च हृद्यं ततः स्वपेद्भार्गववंशमुख्य ।।२६।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने भोजनविधिर्नाम त्रिनवतितमोध्यायः ।।९३।।
2.94
पुष्कर उवाच।।
शून्यालये श्मशाने वानेकवृक्षे चतुष्पथे ।।
महादेवगृहे वापि मातृवेश्मनि वा स्वपेत्।।१।।
न यक्षनागायतने स्कन्दस्यायतने तथा।।
कूलच्छायासु च तथा शर्करालोष्टपांसुषु ।।२।।
प्रस्वपेच्च तथा दर्भे विना दीक्षां व्रतं न च ।।
धान्यगोदेवविप्राणां गुरूणां च तथोपरि ।। ३ ।।।
न चापि भिन्नविषये नाशुचौ नाशुचिस्तथा ।।
नार्द्रपादश्च नग्नश्च नोत्तरापरमस्तकः ।।४।।
नाकाशे सर्वतः शून्ये न च चैत्यद्रुमे तथा।।
न गच्छेद्गुर्विणीं नारीं न गच्छेत्सितमूर्धजाम् ।।५।।
रजस्वलां रोगवतीं नायोनौ न बुभुक्षितः ।।
नाभ्यक्तो न तथाभ्यक्तां न च पर्वणि भार्गव ।।
शुक्रमोक्षमथाकाशे तिर्यग्योनौ च वर्जयेत् ।।६।।
एवं सदा यः कुरुते नृवीर सम्यग्यथोक्तं सुमनास्तरस्वी ।।
तस्याशु पापं विलयं प्रयाति श्रियं च मुख्यां लभते सुखं च ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने आचारकथनन्नाम चतुर्नवतितमोऽध्यायः ।।९४।।
2.95
पुष्कर उवाच।।
वैवाहिकेऽग्नौ कुर्वीत कर्म स्मार्तं सदा गृही ।।
दायकालाहृते वापि पितुर्मरणकालिके ।। १ ।।
मातुर्वा भृगुजश्रेष्ठ श्रौतं वैतानिकाग्निषु ।।
देवतानां पितॄणां च ऋषीणां च तथा नरः ।। २ ।।
ऋणवाञ्जायते यस्मात्तन्मोक्षे प्रयतेत्सदा ।।
देवानामनृणो जन्तुर्यज्ञैर्भवति मानद ।। ३ ।।
स्वल्पवित्तश्च पूजाभिरुपवासैर्व्रतैस्तथा ।।
श्राद्धेन पूजया चैव पितॄणामनृणो भवेत् ।। ४ ।।
ऋषीणां ब्रह्मचर्येण श्रुतेन तपसा तथा ।।
हुतं चैवाहुतं चैव निर्वाप्यं प्रहुतं तथा ।। ५ ।।
प्राशितं च महाभाग पञ्चयज्ञान्न हापयेत् ।।
हुतमग्नौ विजानीयादहुतं बलिकर्म यत् ।।६ ।।
पिण्डनिर्वापणं राम निर्वाप्यं परिकीर्तितम् ।।
प्रहुतं च यथायज्ञं पितृयज्ञं तथैव च ।। ७ ।।
प्राशनं च तथा प्रोक्तं यद्भुक्तं तदनन्तरम् ।।
पञ्चयज्ञान्सदा कुर्याद् गृही पापापनुत्तये ।। ८ ।।
देवयज्ञं भूतयज्ञं पितृयज्ञं तथैव च ।।
मानुष्यमृषियज्ञं च कुर्यान्नित्यमतन्द्रितः ।। ९ ।।
देवयज्ञं हुतं विद्याद्भूतयज्ञं बलिक्रिया ।।
पितृयज्ञं तथा पिण्डैर्ऋषियज्ञं च भार्गव ।। 2.95.१० ।।
स्वाध्यायसेवा विज्ञेया तथै वातिथिपूजनम् ।।
मनुष्ययज्ञो विज्ञेयः पञ्चयज्ञान्न हापयेत् ।। ११ ।।
विष्णुं यजेत्तथा देवं हविर्यज्ञैश्च सप्तभिः ।।
अग्न्याधानं महाभाग तथाग्निहवनक्रिया ।। १२ ।।
दर्शं च पौर्णमासं च चातुर्मास्यं तथैव च ।।
द्विराग्रहायणेष्टिश्च पाके च यवधान्ययोः ।।१३।।
विरूढा पशुबन्धश्च तथा सौत्रामणिर्द्विजः ।।
सप्तभिः सोमसंस्थाभिर्यजेद्देवं सनातनम् ।। १४ ।।
अग्निष्टोमं महाभाग चात्यग्निष्टोममेव च ।।
उक्थं च पावनीं चैव प्रतिरात्रं तथैव च ।। १५ ।।
वाजपेयञ्च धर्मज्ञ आप्तोर्यामं तथैव च ।।
अन्यैश्च विविधैर्यज्ञैः पौण्डरीकादिभिस्तथा ।। १६ ।।
गोसवेनाश्वमेधेन राजसूयेन वा पुनः ।।
तथा पुरुषमेधेन सर्वमेधेन भार्गव ।। १७ ।।
अन्यैश्च विविधैर्यज्ञैर्नामकल्पोचितैस्तथा ।।
यजनं देवदेवस्य वासुदेवस्य कारयेत् ।। १८ ।।
यज्ञो विष्णुर्महातेजा यजमानः स एव हि ।।
त एव यज्ञपात्राणि यज्ञद्रव्याणि यानि च ।। १९ ।।
तं यजेत्सततं राम सर्वदेवमयं हरिम् ।।
सत्येन वै यजेद्देवं प्रत्यब्दं मुनिपुङ्गव ।। 2.95.२० ।।
पशुप्रत्ययनं कुर्याच्चातुर्मासिकमेव च ।।
इष्टिं वैश्वानरीं कुर्यात्तथा स्वल्पधनो नरः ।। २१ ।।
अत्येवाल्पे धने सोमं पिबेद्भार्गवसत्तम ।।
आयुः पुत्रान्यशो मेधां धनमन्त्रगणं तथा ।। ।२२ ।।
हन्त्यल्पदक्षिणो यज्ञस्तस्मान्नाल्पधनो यजेत् ।।
यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यतृप्तये ।। २३ ।।
अधिकं वापि विद्येत स सोमं पातुमर्हति ।।
प्राजापत्यमदत्त्वा च अग्न्याधेयस्य दक्षिणा ।। २४ ।।
अनाहिताग्निर्भवति ब्राह्मणो विभवे सति।।
सर्वदेवमयो विष्णुः प्रत्यहं तस्य पूजनम् ।। २५ ।।
प्रतिमायामपि तथा कर्तव्यं भृगुसत्तम ।।
विष्णुमेवाभिजानन्ति सर्वयज्ञेषु वै द्विजाः ।। २६ ।।
पायसैः सुमनोभिश्च तस्यापि यजनं स्मृतम् ।।
तत्तद्देवनिकायेषु तथैव स्वयमेव वा ।। २७ ।।
पूजा कार्या बहिर्वेदौ श्रद्धया भृगुनन्दन ।।
नत्वल्पदक्षिणैर्यज्ञैर्यजेतेह कदाचन ।। २८ ।।
विष्णुं देवनिकायस्थं यथाश्रद्धमरिन्दम ।।
तपसा पूजयेन्नित्यं तस्मादल्पधनो नरः ।। २९ ।।
संपूज्य देवं परमान्नगन्धैर्धूपैः सुगन्धैश्च फलैश्च मुख्यैः ।।
तस्मादवाप्नोति स सर्वयज्ञांस्तस्मात्प्रपूज्यः सततं महात्मा।।2.95.३०।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने गृहस्थधर्म वर्णनन्नाम पञ्चनवतितमोऽध्यायः ।। ९५ ।।