विष्णुधर्मोत्तरपुराणम्/ खण्डः २/अध्यायाः ०८६-०९०

विकिस्रोतः तः

2.86
पुष्कर उवाच ।।
उपनीय गुरुः शिष्यं शिक्षयेच्छौचमादितः ।।
आचारमग्निकार्यं च सन्ध्योपासनमेव च ।। १ ।।
प्रयतः कल्यमुत्थाय स्नातो हुतहुताशनः ।।
भक्त्या गुरोस्तु कुर्वीत अभिगम्याभिवादनम् ।।२।।
गुरोस्तु वामं चरणं वामहस्तेन संस्पृशेत् ।।
दक्षिणं दक्षिणेनैव स्वनाम परिकीर्तयन् ।। ३ ।।
अनुज्ञातस्तु गुरुणा ततोऽध्ययनमाचरेत् ।।
कृत्वा ब्रह्माञ्जलिं पश्यन्गुरोर्वदनमानतः ।। ४ ।।
ब्रह्मावसाने प्रारम्भे प्रणवं चैव कीर्तयेत् ।।
अनध्यायेष्वध्ययनं वर्जयेत्तु प्रयत्नतः ।। ५ ।।
भैक्ष्यचर्यां ततः कुर्याद्ब्राह्मणेषु यथाविधि ।।
गुरोः कुले न भिक्षेत भुञ्जीत तदनुज्ञया ।। ६ ।।
आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः ।।
श्रियः प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते ह्युदङ्मुखः ।। ७ ।।
हितं प्रियं गुरोः कुर्याद्भक्त्याहंकारवर्जितः ।।
अन्वास्य पश्चिमां सन्ध्यां पूजयित्वा हुताशनम् ।। ८ ।।
अभिवाद्य गुरुं पश्चाद्गुरोर्वचनकृद्भवेत् ।।
मधुमांसाञ्जनं श्राद्धं गीतं नृत्यं च वर्जयेत् ।। ९ ।।
हिंसां परापवादं च अश्लीलं च विशेषतः ।।
मेखलामजिनं दण्डं धारयेत्प्रयतः सदा ।। 2.86.१० ।।
विनष्टानप्सु निक्षिप्य तथान्यान्धारयेत्पुनः ।।
आदिष्टी नोदकं कुर्यादाव्रतस्य समापनात् ।। ११ ।।
समाप्ते तु व्रतं कुर्यात्त्रिरात्रेणैव शुद्ध्यति ।।
अधःशायी भवेन्नित्यं ब्रह्मचारी समाहितः ।। १२ ।।
एवं मतं तु कुर्वीत वेदस्वीकरणं द्विजः ।।
गुरवे दक्षिणां दत्त्वा स्नायाच्च तदनन्तरम्।।१३।।
आशरीरविमोक्षाद्वा वसेद्गुरुकुले सदा ।।
नैष्ठिको ब्रह्मचारी च वायुभूतः खमूर्तिमान् ।।१४।।
तत्पदं समवाप्नोति यत्र गत्वा न शोचति ।।
स्नाने चैव सगोदाने कालः पूर्वो विधीयते ।।
पूजनं वासुदेवस्य सर्वत्र च विधीयते।।१५।।
संपूज्य देवं गुरवे च दत्त्वा धनं यथावत्परिपूर्णविद्यः ।।
गृहाश्रमी स्याद्विधिवन्नृसिंह यत्रास्य लोकद्वितयं प्रदिष्टम् ।। १६ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने ब्रह्मचर्यवर्णनो नाम षडशीतितमोऽध्यायः ।। ८६ ।।
2.87
पुष्कर उवाच ।।
विप्रश्चतस्रो विन्देत भार्यास्तिस्रस्तु भूमिपः ।।
द्वे च वैश्यस्तथा कामं भार्यैकामपि चान्त्यजः ।। १ ।।
ब्राह्मणी क्षत्रिया वैश्या शूद्री विप्रस्य कीर्तिताः ।।
क्रमेण कामसक्तस्य विवाहाः परिकीर्तिताः ।।२।।
विवाहमुत्क्रमात्कृत्वा नरकं प्रतिपद्यते ।।
धर्मकार्याणि सर्वाणि न कार्याण्यसवर्णया ।।३ ।।
असवर्णा तु या नारी रत्यर्थे सा प्रकीर्तिता ।।
आधानं तस्य धर्मार्थं न प्रशंसन्ति साधवः ।। ४ ।।
पाणिर्ग्राह्यः सवर्णासु गृह्णीयात्क्षत्रिया शरम् ।।
वैश्या प्रतोदमादद्याद्दशां चैवान्त्यजा तथा।।५।।
उत्कृष्टवेदनेऽप्येतद्विधानं परिकीर्तितम् ।।
सकृत्कन्या प्रदातव्या हरंस्तां चौरदण्डभाक् ।। ६ ।।
न कन्याविकयं कार्यं कदाचिदपि केनचित् ।।
केशविक्रयिणो यान्ति नरकानेक विंशतीन्।।७।।
अपत्यविक्रयात्तस्य निष्कृतिर्न विधीयते ।।
कन्याप्रजीवनात्किंचिन्नोपजीवति यः पुमान् ।। ८ ।।
न तच्छुल्कं समुद्दिष्टमानृशंस्यं हि तत्कृतम् ।।
कन्यादानं शचीयागो विवाहोऽथ चतुर्थिका ।। ९ ।।
विवाहमेतत्कथितं राम कर्मचतुष्टयम् ।।
दत्तामपि हरेत्कन्यां वरश्चेद्दोषभाग्भवेत् ।। 2.87.१० ।।
नष्टे मृते प्रव्रजिते क्लीबेऽथ पतितेऽपतौ ।।
पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ।। ११ ।। ।
मृते तु देवरे देया तदभावे यदृच्छया ।।
पूर्वात्रितयमाग्नेयं वायव्यं चोत्तरात्रयम् ।। १२ ।।
रोहिणी चेति वरुणं भगणः शस्यते सदा ।।
नैकगोत्रां च वरयेन्नैकार्षीयां च भार्गव ।। १३ ।।
पितृतः सप्तमादूर्ध्वं मातृतः पञ्चमात्तथा ।।
वरयेल्लक्षणोपेतां सदा लोकद्वयेच्छया ।। १४ ।।
ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः ।।
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः ।। १५ ।।
आहुः प्रदानं ब्राह्मेण कुलशीलयुताय तु ।।
तज्जः पुनात्युभयतः पुरुषानेकविंशतीन्।।१६।।
दैवश्च ऋत्विजे दानं स तु यज्ञः प्रकीर्तितः ।।
तज्जः पुनाति धर्मज्ञ स्वकुले पुरुषत्रयान्।।१७।।
शुल्केन चासुरं विद्यात्स तु धर्मादृते मतः ।।
परस्परेच्छया राम कन्यकावरयोस्तथा।। १८ ।।
गान्धर्वो नाम निर्दिष्टः स तु मन्मथलक्षणः ।।
राक्षसो युद्धहरणात्पैशाचः कन्यकाछलात् ।। १९ ।।
प्राजापत्यस्तथा ब्राह्मः समवर्णेषु पूज्यते ।।
दैवस्तु ब्राह्मणस्यैव नैव चान्यस्य कस्यचित् ।। 2.87.२० ।।
गान्धर्वराक्षसौ श्रेष्ठौ क्षत्त्रियस्यैव भार्गव ।।
पूर्वं विवाहात्कर्तव्यः शचीयागो भृगूत्तम ।। २१ ।।
वैवाहिकेन्दौ कुर्वीत कुम्भकारमृदा शचीम् ।।
सर्वलक्षणसंयुक्तां कुशलेन च शिल्पिना ।। २२ ।।
तां नयेत्सरसस्तीरं नदीतीरमथापि वा ।।
सर्वभूषणसंपन्ना सर्वास्त्वविधवाः स्त्रियः ।। २३ ।।
कौसुंभरक्तवसनाः सर्वाः स्युः शस्त्रपाणयः ।।
माल्यानुलेपनैर्भक्ष्यैर्दीपैर्धूपैस्तथैव च ।। २४ ।।
कौसुंभरक्तैर्वस्त्रैश्च भूषणैश्चैव शक्तितः ।।
ततः शूर्पेण ताः साध्व्यो दिक्षु दत्त्वा बलिं शुभम् ।। २५ ।।
संयम्य केशान्प्रयता गृहीत्वा च तथा शचीम् ।।
वाद्यगीतेन महता द्विजवाचनकेन च ।। २६ ।।
गृहे प्रवेशयेत्पुंसां शक्रपत्नीमनिंदिताम् ।।
त्रिसन्ध्यं तत्र सा पूज्या गन्धमाल्यान्नसम्पदा ।। २७ ।।
वन्दनीयोद्वाहसमये तत्र कालं निबोध मे ।।
प्रसुप्ते केशवे राम न तु कार्यं कथञ्चन ।। २८ ।।
न पौषे न तथा चैत्रे न चार्ककुजवासरे ।।
कृष्णत्रिभागे नैवान्त्ये नाद्ये शुक्लस्य भार्गव।।२९।।
तथा रिक्ततिथौ नैव न विष्टौ करणे तथा ।।
न शुक्रेऽस्तमनं प्राप्ते तथा चास्ते बृहस्पतौ ।।2.87.३०।।
शशांकेऽन्यग्रहाश्चैव विवाहो न प्रशस्यते ।।
अर्कार्किभौमयुक्ते भे व्यतीपातहते तथा ।।३१।।
दिव्यान्तरिक्षभौमेन तथोत्पातेन घातिते ।।
तथा शिखिशिखाध्वस्ते सैंहिकेययुते तथा ।।३२।।
वैवाहिकान्यतो वक्ष्ये नक्षत्राणि भृगूत्तम ।।
सौम्यं पित्र्यं च वायव्यं सावित्रं रौहिणं तथा।।३३।।
उत्तरात्रितयं मूलं मैत्रं पौष्णं तथैव च ।।
मूहूर्ताश्च तथैतेषां शुभा अभिजिता सह ।।३४।।
मानुष्याख्यस्तथा लग्नो मानुष्याख्यस्तथांशकः ।।
अमानुष्याख्ये लग्नेऽपि मानुष्याख्येंशको हितः ।।३५।।
तृतीये च तथा षष्ठे दशमैकादशाष्टमे ।।
अर्कार्किभौमतनयाः प्रशस्ता न कुजोष्टमः ।। ३६ ।।
सप्तान्त्याष्टमवर्ज्येषु शेषाः शस्ता ग्रहोत्तमाः ।।
तेषामपि तथा सूर्यश्चन्द्रः षष्ठो न शस्यते ।। ३७
संकल्पविधिना कार्यो विवाहस्तदनन्तरम् ।।
वैवाहिकेऽह्नि कर्तव्यास्तथैव च चतुर्थिके ।। ।। ३८ ।।
न दातव्या ग्रहास्तत्र चतुराद्यास्तथैकगाः ।।
अतः परं गृहे गच्छेदृतुकाले सदा स्त्रियम् ।। ३९ ।।
पर्ववर्ज्यं सदा गच्छेत्स्त्रीणां वा संस्मरन्वरम् ।।
सर्वकालं रतिर्दत्ता तासां सत्यं भृगूत्तम ।।2.87.४० ।।
परस्परातिक्रमणं दंपत्योः परिवर्जयेत् ।।
निष्कारणं तथा राम न कार्यमधिवेदनम् ।।४१।।
अप्रजा रोगिणी मूढा तथा च कलहप्रिया ।।
कन्याप्रजा तथा या च या चैवाप्रियवादिनी ।। ४२ ।।
एताः खल्वधिवेत्तव्या गृहकार्यपराङ्मुखीः ।।
अधिविन्ना विशेषेण पालनीया सुतं भवेत् ।।४३।।
धर्मकार्येषु सर्वेषु तथा ज्येष्ठां नियोजयेत् ।।
धर्माधर्मौ समौ राम दम्पत्योरुभयात्मकौ ।। ४४।।
पोष्या च नित्यं परिपालनीया भार्या भवेद्धर्मपरायणस्य ।।
धर्मार्थकामान्सततं द्विजेन्द्र तान्रक्षयेत्सम्यगथानया स्वान्।। ४५ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने धर्मवर्णनन्नाम सप्ताशीतितमोध्याम् ।। ८७
2.88
।। पुष्कर उवाच ।।
निद्रां जह्याद् गृही राम नित्यमेवारुणोदये ।।
वेगोत्सर्गं ततः कृत्वा दन्तधावनपूर्वकम् ।। १ ।।
स्नानं समाचरेत्प्रातः सर्वकल्मषनाशनम् ।।
वेगोत्सर्गं न कुर्वीत फालकृष्टे तथा शुचौ ।। २ ।।
गोष्ठे न चाग्नौ न तटे द्रुमच्छायासु शाद्वले ।।
पथि भस्मनि तोये च नांगणे न च गोपथे ।। ३ ।।
नाग्न्यर्कानागतोयेषु प्रतिवाते तथैव च ।।
न वेगितो न कार्यस्थो वेगोत्सर्गं समाचरेत् ।। ४ ।।
उदङ्मुखस्तु सन्ध्यासु दिवा वै भृगुनन्दन ।।
दक्षिणाभिमुखो रात्रौ नाकाशे तु कथञ्चन ।। ५ ।।
कर्णस्थब्रह्मसूत्रस्तु वस्त्राच्छादितमस्तकः ।।
अभ्युद्धृताभिरद्भिस्तु मृद्भिः शौचं समाचरेत् ।। ६ ।।
कृतशौचः शुचौ देशे प्राङ्मुखः सुसमाहितः ।।
उदङ्मुखस्तु धर्मज्ञ तथान्तर्जानुरेव च ।। ७ ।।
उपस्पृशेच्च धर्मज्ञ शुद्धपादकरः सदा ।।
एकहस्तार्पितेनाऽथ फेणबुद्बुदिना तथा ।। ८ ।।
अग्निपक्वेन तोयेन ननु नोपस्पृशेद्बुधः ।।
अङ्गुल्यग्रे भवेद्दैवं ब्राह्ममङ्गुलिमूलके ।।९।।
पैत्र्यं तर्जनिमूले स्यात्कनिष्ठायाश्च मानुषम् ।।
ब्राह्मेण त्रिः पिबेदापः प्रमृज्यात्तु ततो मुखम् ।।2.88.१० ।।
खान्यद्भिः संस्पृशेत्पश्चान्मूर्धानं नाभिमेव च ।।
उपस्पृश्य ततः पश्चाद्भक्षयेद्दन्तधावनम् ।। ११ ।।
भुक्त्वा च निक्षिपेद्राम नित्यमेव समाहितः ।।
उदङ्मुखः प्राङ्मुखो वा न याम्याशापराङ्मुखः।।१२।।
मांसन्न भक्षयेच्चैव नोर्धशुष्कं न पिच्छिलम्।।
सुशिरं मधुरं चाम्लं वित्वचं पत्रसंयुतम।।१३।।
समपूर्वमतिस्थूलं कुब्जकीटविनाशितम् ।।
शाल्मल्यश्वत्थभव्यानां धवकिंशुकयोरपि ।। १४।।
कोविदारशमीपीलुश्लेष्मातकबिभीतकान् ।।
वर्जयेद्दन्तकाष्ठेषु गुग्गुलं क्रमुक तथा ।।१५।।
वटासनार्कखदिरकरवीरांश्च भक्षयेत् ।।
जात्यश्वबिल्वबदरं मूलं च ककुभस्य च ।। १६।।
अरिमेदं प्रियङ्गुं च कण्टकिन्याश्च भार्गव ।।
प्रक्षाल्य भक्षयेत्पूर्वं प्रक्षाल्यैव च संत्यजेत् ।।१७।।
पतितेऽभिमुखं शस्तं शान्ताशाभिमुखे दिनम् ।।
सौभाग्यकामो वामेन भक्षयेत्प्राक् सुसंयतः ।।१८।।
मुखभागेन धर्मज्ञ वाग्यतश्चैव भक्षयेत् ।।
मलशौचं ततः कृत्वा सम्यक् स्नानमथाचरेत् ।। १९ ।।
न स्नानमाचरेद्भुक्त्वा नाविज्ञाते जलाशये ।।
नातुरो नारुणकरैरनाक्रान्ते नभस्तले ।। 2.88.२०।।
अप्रशस्तं निशि स्नानं राहोरन्यत्र दर्शनात ।।
परांभसि तथैवाल्पे नासिरस्कः कथञ्चन ।।२१।।
नित्यं नैमित्तिकं काम्यं क्रियाङ्गं मलकर्षणम् ।।
क्रियास्नानं तथा षष्ठं षोढा स्नानं प्रकीर्तितम् ।। २२ ।।
खानि रात्रौ शयानस्य स्रवन्ति पुरुषस्य च।।
तस्मात्सर्वप्रयत्नेन प्रातःस्नानं समाचरेत्।।२३।।
प्रातःस्नायी सदा राम नरकं न च पश्यति ।।
यः करोति सदा राम स्नानं तु सवनद्वयम् ।।२४।।
स तु स्वर्गमनुप्राप्य त्रिदशैरपि पूज्यते ।।
तथा त्रिषवणस्नायी स्वर्गलोके महीयते ।। २५ ।।
मानुष्यं प्राप्य भवति रूपयौवनसंयुतः ।।
धनधान्यवति स्फीते कुले चैव प्रसूयते ।। २६।।
रूपौदार्यगुणोपेताः स्त्रियश्चाप्नोत्यनिन्दिताः ।।
धर्मे मतिश्चास्य भवेद्यशसा च विराजते ।। २७ ।।
तस्मात्सदा धर्मपरेण राम तीर्थेषु मुख्येषु सरस्सु चैव ।।
स्नानं च कार्यं सुमलापहर्तृ नाकप्रदं कामकरं सुखाय ।।२८।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने स्नानवर्णनो नामाष्टाशीतितमोऽध्यायः ।। ८८।।
2.89
पुष्कर उवाच।।
माल्यं लक्ष्मीकरं नाम नित्यं शिरसि धारयेत् ।।
नान्यत्र धारयेत्प्राज्ञो बहिर्गन्धं न धारयेत् ।। १।।
यश्च कण्टकिसम्भूतं कृष्णं रक्तं च भार्गव ।।।
कण्टकिभ्योऽपि यज्जातं शुक्लं धार्यं तु तद्भवेत् ।।२ ।।
कृष्णरक्ते तथा धार्ये यदि स्यातां जलोद्भवे ।।
चन्दनेनानुलिप्तेन कुंकुमागुरुभिस्तथा ।।३ ।।।
कर्पूरेण तथाङ्गानि शुभेन च प्रियङ्गुना ।।
वस्त्रं नान्यधृतं धार्यं न रक्तं मलिनं तथा ।। ४ ।।
जीर्णं नापदशं चैव श्वेतं धार्यं प्रयत्नतः ।।
उपानहं नान्यधृतं ब्रह्मसूत्रं च धारयेत् ।। ५ ।।
हीनाङ्गैरधिकाङ्गैश्च बालैर्वृद्धैर्बुभुक्षितैः ।।
व्यालैरदान्तैर्वाहैश्च न व्रजेच्च कदाचन ।। ६
स्नानभोजनपानादि तेषामाद्यो न वाचरेत् ।।
नैकः प्रपद्येदध्वानं नाधार्मिकसहायवान् ।। ७ ।।
न रात्रौ न च मध्याह्ने न च देवे प्रवर्षति ।।
न चातिविषमे वाते सन्ध्ययोश्च तथा द्विज ।। ८ ।।
नासन्निहितपाने वा न वेगान्न च सन्ततम् ।।
सातपत्र पदत्राणः सोष्णीषश्च तथा चरेत् ।। ९ ।।
चतुष्पथं न सः कुर्याद्विख्यातांश्च वनस्पतीन् ।।
मङ्गल्यानि च सर्वाणि पथि कुर्यात्प्रदक्षिणम् ।। 2.89.१० ।।
अमङ्गल्यानि वामानि कर्तव्यानि विजानता ।।
वरस्य भूमिपालस्य स्नातकस्याथ चक्रिणः ।। ११।।
भाराक्रान्तस्य गुर्विण्याः पन्था देयः प्रयत्नतः ।।
व्यालयुद्धं न चेक्षेत विना विषममास्थितः ।।१२।।
न पश्येच्चार्कमुद्यन्तं नास्तं यान्तं न चाम्भसि ।।
तिरस्कृतं तु वस्त्रेण न कुद्धस्य गुरोर्मुखम् ।।१३।।
न स्त्रीं स्रवन्तीं नोदक्यां न नग्नां नान्यसङ्गताम् ।।
न पत्नीं भोजनस्वप्नस्नानासक्तां विभूषणाम् ।। १४ ।।
नाञ्जयन्तीं स्वके नेत्रे नाश्लीलं किञ्चिदेव तु ।।
नानास्थानं न पश्येच्च न पश्येच्च महानसम् ।। १५ ।।
जलाशयतटस्थांश्च न पश्येत्तु कदाचन ।।
हीनाङ्गैरधिकाङ्गैश्च बालैर्वृद्धैर्बुभुक्षितैः ।। १६ ।।
व्यालैरदान्तैर्वाहैश्च न व्रजेत्तु कदाचन ।।
स्नानभोजनपानादि तेषामादौ न चाचरेत् ।। १७ ।।
चतुष्पथस्तुषाङ्गारशन्यवेश्माटवीस्तथा ।। १८ ।।
कार्पासास्थि तथा भस्म नाक्रमेद्यश्च कुत्सितम् ।।
अन्तःपुरं ऋतुगृहं परदूतगृहं तथा ।। १९ ।।
नारोहेद्विषमां नावं न वृक्षं न च पर्वतम् ।।
न लोष्टेन न काष्ठेन नाश्मना च फलद्रुमान्।। 2.89.२० ।।
न पातयेन्न कुर्वीत सर्वत्र च कुतूहलम् ।।
अर्थायतनशास्त्रेषु सर्वत्र स्यात्कुतूहली ।। २१ ।।
दण्डेन करपातैर्वा न कुर्यादम्बुवादनम् ।।
तृणच्छेदं न कुर्वीत न च लोष्टाभिमर्दनम् ।। २२ ।।
नखानां भक्षणं चैव दन्तानां कुट्टनं तथा ।।
छेदनं च नखैर्लोम्नां वृथा चेष्टां विवर्जयेत् ।। २३ ।।
मुखाङ्गवादनं चैव क्ष्वेडोत्क्रुष्टं तथा वृथा ।।
अवगुंठ्य शिरो रात्रौ न शयीत कदाचन ।।।। ।। २४ ।।
पर्यटेन्न तथा रात्रौ विना राम प्रदीपिकाम् ।।
नाद्वारेण पशुगृहे नाद्वारेण रिपोर्गृहम् ।। २५ ।।
प्रविशेन्न च तिष्ठेच्च निद्रितं न च बोधयेत् ।।
नाक्षिपेत्परवाक्यं तु न च रक्तं विरागयेत् ।। २६ ।।
कथाभङ्गं न कुर्वीत न च वासोविपर्ययम् ।।।
नोर्ध्वजानुश्चिरं तिष्ठेदुत्पतन्तीं न लंघयेत् ।। २७ ।।
परक्षेत्रे चरन्तीं गां पाययन्तीं च वत्सकम्।।
नाचक्षीत तथान्यस्य शक्रचापं न दर्शयेत् ।। २८ ।।
भद्रं भद्रमिति ब्रूयान्नानिष्टं वर्तयेत्क्वचित् ।।
पालाशमासनं वर्ज्यं पादपीठं च पादुके ।। २९ ।।
सुरार्चा गुरुभूपानां ब्राह्मणानां विशेषतः ।।
नाक्रमेच्च तथा छायां श्वपचस्य च भार्गव ।। 2.89.३० ।।
द्विजयोश्चैव दम्पत्योर्भूपयोर्युध्यमानयोः ।।
अग्निब्राह्मणयोश्चैव द्विजभूपालयोस्तथा ।। ३१ ।।
शिष्योपाध्याययोश्चैव न च मध्ये न पूज्ययोः ।।
तैले जले तथा वक्त्रमादर्शे च मलान्विते ।। ३२ ।।
न पश्येन्न तथा पश्येदुपरक्तं दिवाकरम् ।।
नोच्छिष्टस्तारकाराहुः स्तुतिनाशं हुताशनम् ।। ३३ ।।
न तिष्ठेत्प्रतिवातं च तथा च प्रतिभास्करम् ।।
न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः ।। ३४ ।।
रोदनं च तथा नग्नः कुर्यात्तोयावगाहनम् ।।
निष्कारणं नदीपारं बाहुभ्यां न तरेत्तथा ।। ३५ ।।
न प्रशंसेन्नदी तोये नदीमन्यां कथंचन ।।
न गिरौ पर्वतं राम न राज्ञः पुरतो नृपम् ।।३६।।
असंतर्प्य पितुर्देयं नदीपारं न च व्रजेत् ।।
भोजनं वर्जयेन्नावि ष्ठीवनं च तथांभसि ।। ३७ ।।
नैवाप्सु प्रक्षिपेद्विद्वानमेध्यं रुधिरं विषम् ।।
समाल्यो नाचरेत्स्नानं न द्विवासा विकारणम् ।।३८ ।।
आत्मनश्च तथा राम नैव त्वपनयेत्स्रजम् ।।
स्नातः शिरो नावधुनेन्नांगेभ्यस्तोयमुद्धरेत् ।। ३९ ।।
तद्दिने चानुलिप्तांगं तथा स्नानं विवर्जयेत् ।।
शिरःस्नातश्च तैलेन स्पृशेदंगं न किञ्चन ।। 2.89.४० ।।
वाससा वामभागस्य रजसा पूर्ववाससा ।।
संमार्जनं रजोवर्ज्यः खराश्वादेस्तथैव च ।। ४१ ।।
मेध्यानि च तथा राम गोगजाश्वरजांसि च ।।
नाधः कुर्वीत दहनं न च पादौ प्रतापयेत् ।। ४२ ।।
दर्भैर्न मार्जयेत्पादौ न च कांस्ये प्रधापयेत् ।।
गोगजाश्वाजपुच्छेषु खरस्य च विशेषतः ।। ४३ ।।
यल्लग्नमुदकं तस्माद्विप्रुषो दूरतस्त्यजेत् ।।
अकस्मादप्यशस्तास्ताः खञ्जांगस्पर्शनं तथा ।। ४४ ।।
हीनं वा न वहेद्राम श्रुतरूपधनादिभिः।।
हीनैर्न च वसेत्सार्धं न देशे वैद्यवर्जिते ।। ४५ ।।
न भूपालविहीने च न सांवत्सरवर्जिते ।।
दुष्टकूपान्विते राम तथा च बहुनायके ।। ४६ ।।
स्त्रीनायके बालपतौ शूद्रराज्ये तथैव च ।।
म्लेच्छवेषो न कर्तव्यो म्लेच्छभाषा तथैव च ।। ४७ ।।
चण्डालैः पतितैर्म्लेच्छैर्भाषणं न कदाचन ।।
नकारं कायतः कृत्वा कीर्तयेत्केशवं विभुम् ।। ४८ ।।
नासंवृतमुखः कुर्याद्धासं जृम्भां तथा क्षुतम् ।।
गोपयेज्जन्मनक्षत्रमृणसारं गृहे मलम् ।। ४९ ।।
प्रभोरप्यवमानं स्वं तस्य दुश्चरितं च यत् ।।
नानुकूल्यं तथा कार्यमिन्द्रियाणां सुखेप्सुना ।। 2.89.५० ।।
युक्त्या च कामसेवी स्यान्नाकस्मान्निःसुखी भवेत् ।।
वेगरोधं न कर्तव्यमन्यत्र क्रोधवेगतः ।। ५१ ।।।
नोपेक्षितव्यो व्याधिः स्याद्रिपुरल्पोऽपि भार्गव ।।
स्नात्वा भुक्त्वा च धर्मज्ञ भक्तिकामः सुरार्चने ।। ५२ ।।
मलायनानां संस्पर्शे मलानां चैव भार्गव ।।
वाससश्च परीधाने रथ्याचंक्रमणे तथा ।। ५३ ।।
आचमेच्च तथा राम तथा स्वप्नोत्थितो नरः ।।
न हुंकुर्याच्छिवं पूज्यं बिभृयान्नाग्निचारिणीम्।।५४।।
न भुक्तमात्रं प्रायस्येन्नीचसेवां विवर्जयेत् ।।
पादेन नाक्रमेत्पादं न कण्डूयेन्न शौचयेत् ।।५५ ।।
वर्जयेच्छवधूमं च गिरं चाश्लीलसंयुताम् ।।
प्रत्यक्षं वा परोक्षं वा कस्यचिन्नाप्रियं वदेत् ।। ५६ ।।
वेदशास्त्रनरेन्द्रर्षिदेवनिन्दां विवर्जयेत् ।।
नास्तिक्यमनृतं चैव चेतसो दूषणं तथा ।। ५७ ।।
स्त्रीणामीर्ष्या न कर्तव्या विश्वासं तासु वर्जयेत् ।।
लाडितास्ताडिताः कार्या देहे स्वे स्त्रीकुमारिकाः ।। ।। ५८ ।।
सर्वेषामेव धर्माणां कर्तव्यं श्रवणं तथा ।।
नमस्कारं च देवानां सर्वेषामेव कारयेत् ।। ५९ ।।
सर्वेषां चरितं राम धर्मतो न विकुत्सयेत् ।।
न चाचरेच्च धर्मज्ञ ते हि तेजोपहाहताः ।।2.89.६०।।
धर्मस्यार्थस्य कामस्य पीडावर्ज्या परस्परम् ।।
देवस्य वयसश्चैव शिल्पस्य स्वकुलस्य च ।।६१।।
आचरेत्सदृशं वेषं व्यवसायानुरूपतः ।।
स्नात एवाशु बिभृयात्सोष्णीषे धौतवाससी ।। ६२ ।।
अनुलिप्येत्तथांगानि सितं माल्यं च धारयेत् ।।
नासंस्कृतं च बिभृयात्काञ्चनं पुरुषोत्तम ।।६३।।
निराशनस्य सुप्तस्य शयानस्य तथैव च ।।
तथा भुक्तवतो राम स्नातस्य भाषितस्य च ।।६४।।
यात्रायुद्धोत्सुकस्यापि श्मश्रुकर्म विवर्जयेत् ।।
वैष्णवं वारुणं त्वाष्ट्रं सावित्रं वासवं तथा ।। ६५ ।।
वायव्यमिन्द्रिकं पौष्णं शाक्रमाश्विनमेव च ।।
मैत्रादित्ये तथा पुष्यः शंखचक्रगणं भवेत् ।। ६६ ।।
नक्षत्राणामथैतेषां मुहूर्ताश्च हितप्रदाः ।।
अर्कार्किभौमवाराश्च रिक्ताश्च तिथयस्तथा ।। ६७ ।।
प्रतिपच्च तथा षष्ठी वर्जयेत्क्षौरकर्मणि ।।
वर्जयेज्जन्मनक्षत्रं नानुकूलं तथैव च ।। ६८ ।।
जन्मनक्षत्रगे सौम्ये शिरःस्नानेन यत्नतः ।।
पूजा सोमस्य कर्तव्या नक्षत्रस्य तथात्मनः ।। ६९ ।।
श्राद्धं कुर्यात्प्रयत्नेन वह्निब्राह्मणपूजनम् ।।
वाहनायुधच्छत्राद्यं पूजनीयं प्रयत्नतः ।। 2.89.७० ।।
सुराणामर्चनं कार्यं केशवस्य विशेषतः ।।
समं स्वलंकृतस्तिष्ठेच्छिरस्नातश्च मानवः ।। ७१ ।।
निर्मलानि च कार्याणि दन्तकेशनखानि च ।।
अष्टमीं च तथा षष्ठीं नवमीं च चतुर्दशीम् ।। ७२ ।।
शिरोभ्यङ्गं न कुर्वीत पर्वसन्धौ तथैव च ।।
तथैवामलकस्नानं सप्तमीषु विवर्जयेत् ।।७३।।
विना तु सततं स्नानं न स्नायाद्दशमीषु च ।।
अमावस्यां सुरार्चासु नववस्त्रं न धारयेत् ।। ७४ ।।
न च भौमदिने राम तेष्वनक्तेषु चाप्यथ ।।
सावित्र रौहिणं मैत्रमादित्यं तिष्यमाश्विनम् ।। ७५ ।।
उत्तरात्रितयं चित्रा वायव्यं वसुदैवतम् ।।
इन्द्राग्निदैवतं पौष्णं तानि शस्तानि निर्दिशेत् ।। ७६ ।।
नक्षत्राणामथैतेषां मुहूर्ताश्च हितप्रदाः ।।
परद्रोहं तथा हिंसां प्रयत्नेन विवर्जयेत् ।। ७७ ।।
केशग्रहान्प्रहारांश्च शिरस्येतां तथैव च ।।
दूरादावसन्थामूत्रं पूरीषं च समुत्सजेत् ।। ७८ ।।
पादप्रक्षालनं चैव भिन्नभाण्डादिकं च यत् ।।
सर्वमेतत्त्यजेत्प्राज्ञो येन स्यादरिमर्दनम् ।। ७९ ।। ।
तण्डुलोदकनिक्षेपं विपरीतं तु कारयेत् ।।
तथैकमनसा कार्यं देवतानां च पूजनम् ।। 2.89.८० ।।
वह्निसंपूजनं चैव न चास्नातेन भार्गव ।।
माल्यानुलेपनादीनि न प्रपद्यात्तु कस्यचित् ।। ८१ ।।
अन्ये च देवताविप्रगुरूणां भृगुनन्दन ।।
कोविदारगणाशाकं चतुर्थी पिप्पली तथा ।। ८२ ।।
वर्जये --न्मांसं सुखार्थी सर्वमेव तु ।।
राजद्विष्टं न कर्तव्यं विरोधं च महाजनैः ।।८३।।
शुष्कवैरं विवादं च प्रयत्नेन विवर्जयेत् ।।
न वसेच्च तथा वासं वास्तुविद्याविगर्हितम् ।।८४।।
आगाराद्याखुघातां च परोच्छिष्टां तथैव च।।
ऊषराच्चैव वल्मीकान्मृदं शौचे विवर्जयेत् ।।८५।।
येनेच्छेद्विपुलां प्रीतिं तेन सार्धमरिन्दम ।।
न कुर्यादर्थसंबन्धं दारसंदर्शनं तथा।।८६।।
आत्माभिष्टवनं निन्दां परस्य च विवर्जयेत् ।।
दृढभक्तो भवेन्नित्यं कृतज्ञश्च विशेषतः ।।८७।।
इन्द्रियाणां जये योगमातिष्ठेच्च सदा नरः ।।
इन्द्रियाणां जयाच्चैव लोकयोः सुखमाप्नुयात् ।।८८।।
अभिगत्वा तु धर्मज्ञो योगक्षेमार्थमीश्वरम् ।।
गृहं प्रविश्य कुर्वीत स्वाध्यायं सततं बुधः ।।८९।।
अर्थलाभेऽपि महति स्वाध्यायं न समुत्सृजेत् ।।
कुलान्यकुलतां यान्ति स्वाध्यायस्य विवर्जनात् ।। 2.89.९० ।।
यस्तु वर्षशतं पूर्णं त्वरण्ये तपते तपः ।।
ऋचमेकां च योध्येति समौ स्यातां न चाधिकः ।।
स्वाध्यायाऽनन्तरं स्नातः कृतजप्यः समाहितः।।९१।।
संपूजनं देववरस्य कुर्यात्तस्याप्रमेयस्य जनार्दनस्य ।।
संपूजनाद्यस्य समस्तयज्ञैः कृतैः फलं शीघ्रमवाप्नुवन्ति ।। ९२ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने आचाराध्यायो नामैकोननवतितमोध्यायः ।। ८९
2.90
।। पुष्कर उवाच।।
स्वाचान्तः प्रयतः स्नातः प्रविशेद्देवतागृहम् ।।
नमस्कारं तु कुर्वीत तत्र भक्त्या समाहितः।।१।।
आपोहिष्ठेति तिसृभिस्ततोऽर्घ्यं विनिवेदयेत् ।।
हिरण्यवर्णा इति च पाद्यं च तिसृभिर्द्विजः ।। २ ।।
शन्न आप इत्यनेन देयं सौदामनं भवेत् ।।
इदमापः प्रवहत स्नानमन्त्रः प्रकीर्तितः ।।। ।। ३ ।।
रथे अक्षेषु च तथा चतस्रस्त्वनुलेपने ।।
युवा सुवास इति च मन्त्रो वासस ईरितः ।। ४ ।।
पुष्पं पुष्पवतीत्येव धूपं धूरसि चाप्यथ ।।
तेजोसि शुक्रमसि दीपं दद्याद्विचक्षणः ।। ५ ।।
दधिक्राव्णो इति तथा मधुपर्कं निवेदयेत् ।।
हिरण्यगर्भ इत्यष्टौ ऋचः प्रोक्ता निवेदने ।। ६ ।।
अन्नस्य मनुजश्रेष्ठ पानस्य च सुगन्धिनः ।।
चामरव्यजने मात्रां छत्रं यानासने तथा ।।७।।
यत्किञ्चिदेवमादिः स्यात्सावित्रेण निवेदयेत् ।।
पौरुषं च जपेत्सूक्तं तदेव जुहुयात्तथा ।। ८ ।।
अर्चाभावे तथा वेद्यां स्थले पूर्णघटे तथा ।।
नदीतीरेऽथ कमले केशवं पूजयेन्नरः ।। ९ ।।
सर्वाशुभानां परिघातकारि संपूजनं देववरस्य विष्णोः ।।
कृत्वानघान्क्षिप्रमनुप्रयाति यत्रैक्यतां याति पितामहस्य ।।2.90.१०।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने देवकर्माध्यायो नाम नवतितमोऽध्यायः ।।९०।।