विष्णुधर्मोत्तरपुराणम्/ खण्डः २/अध्यायाः ०८१-०८५

विकिस्रोतः तः
Jump to navigation Jump to search

2.81
।। पुष्कर उवाच ।।
आनुलोम्येन वर्णानां जातिर्मातृसमा स्मृता ।।
चण्डालो ब्राह्मणीपुत्रः शूद्रः स्यात्प्रतिलोमजः ।। १ ।।
मागधश्च तथा वैश्याच्छूद्रादायोगवो भवेत् ।।
वैश्यायाः प्रातिलोम्येन प्रतिलोमात्सहस्रशः ।। २ ।।
विवाहसदृशैस्तेषां नोत्तमैर्नाधमैस्तथा ।।
चण्डालकर्म निर्दिष्टं वध्यानां घातनं तथा ।। ३ ।।
स्त्रीजीवनं च तद्रक्षा प्रोक्तं वैदेहकस्य च ।।
सूतानामश्वसारथ्यं पुक्कसानां च व्याधता ।। ४ ।।
स्तुतिक्रिया मागधानां तथा चायोगवस्य च ।।
रङ्गावतरणं प्रोक्तं तथा शिल्पैश्च जीवनम् ।। ५ ।।
सूतानामस्ति संस्कारस्तथा वै याजनक्रिया ।।
बहिर्ग्रामनिवासश्च मृतचैलस्य धारणम् ।। ६ ।।
असंस्पर्शस्तथैवान्यैश्चण्डालस्य विधीयते ।।
ब्राह्मणार्थे गवार्थे वा देह त्यागानुपस्कृतः ।। ७ ।।
स्त्रीबालाद्युपपत्तौ च बाह्यानां शुद्धिकारणम् ।।
संकरे जातयस्त्वेताः पितृमातृप्रदर्शिताः ।। ८ ।।
प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ।।
अनार्यता निष्ठुरता पुरतो निष्क्रियात्मता ।। ९ ।।
पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् ।।
पितुर्वा भजते शीलं मातुर्वोभयमेव वा ।। 2.81.१० ।।
न कथंचन दुर्योनिः प्रकृतिं स्वां न गच्छति ।।
कुले मुख्येऽपि जातस्य यस्य स्याद्योनिसङ्करः ।। ११ ।।
स श्रयत्येव तच्छीलं नरोऽल्पमपि वा बहु ।।
यत्र त्वेते परिध्वंसा जायन्ते वर्णसङ्कराः ।। १२ ।।
राष्ट्रियैः सह तद्राष्ट्रं क्षिप्रमेव विनश्यति ।।
शूद्रायां ब्राह्मणाज्जातः श्रेयसा चेत्प्रजायते ।।
अश्रेयाञ्श्रेयसीं जातिं गच्छत्यासप्तमाद्युगात्।।१३।।
राज्ञा स्वकालं परिरक्षणीयं घोरं नृणां सङ्करमेतदेव ।।
आसाद्य घोराणि हि सङ्कराणि नश्यन्ति राष्ट्राणि सराजकानि।। १४ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने सङ्करधर्मोनामैकाशीतितमोऽध्यायः ।। ८१ ।।
2.82
पुष्कर उवाच ।।
आजीवं तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा ।।
जीवेत्क्षत्रियधर्मेण सा ह्यस्य वृत्त्यनन्तरा ।। १ ।।
उभाभ्यामप्यजीवन्वै वैश्यवृत्तिं समाचरेत् ।।
ब्राह्मणः क्षत्त्रियो वैश्यः शूद्रवृत्तिं विवर्जयेत् ।। ।। २ ।।
शूद्रो ब्राह्मणवृत्तिं च विशेषेण विवर्जयेत् ।।
आजीवत्सु स वृत्या च मध्यवृत्तिं समाचरेत् ।। ३ ।।
ब्राह्मणः क्षत्रियो वापि वैश्यवृत्त्या तु वर्तयन् ।।
अयः शस्त्रं विषं मांसं सोमं गन्धांश्च सर्वशः ।। ४ ।।
क्षीरं क्षौद्रं दधि घृतं तैलं मज्जां गुडं कुशम् ।।
मद्यं नीलं च लाक्षां च लवणं प्राणिनोऽपि च ।। ५ ।।
विक्रीणीत तिलान्नैव पक्वान्नं गोरसांस्तथा ।।
रसा रसैर्निहन्तव्या गन्धेन लवणं रसैः ।। ६ ।।
कृतान्नं च कृतान्नेन तिलधान्येन तत्समम् ।।
वैश्यो वा क्षत्त्रियो वापि वर्जयेद्द्विजजीविकाम् ।।७ ।।
सद्यः पतति मांसेन लाक्षया लवणेन च।।
त्र्यहाच्च शूद्रो भवति ब्राह्मणः क्षीरविक्रयी ।। ८ ।।
इतरेषां हि पण्यानां विक्रयां मनुजोत्तम ।।
ब्राह्मणः सप्तरात्रेण वैश्यभावं हि गच्छति ।।९।।
क्षिप्राणि यानि रूक्षाणि चराणि च मृदूनि च ।।
वाणिज्ये तानि शस्यन्ते तिथिं रिक्तां विवर्जयेत् ।।2.82.१ ० ।। ।।
द्विकं शतं तु गृह्णीयात्कुसीदेनापि वर्धयन् ।।
ततोऽधिकं तु गृह्णानश्चौरस्याप्नोति किल्बिषम् ।। ११ ।।
प्रतिपद्द्वादशी षष्ठी नक्षत्राणि ध्रुवाणि च ।।
कुसीदे वर्जनीयानि नित्यं सूर्यसुतस्य च।।१२।।
कृषिभूमिपतेर्भागं दत्त्वा कुर्याद्यथोदितम् ।।
ध्रुवाणि सौम्यं मैत्रं च वायव्यं पौष्ण्माश्विनम्।। ।।।१३।।
वासवं श्रवणं चित्रा विशाखा मूलमेव च ।।
कृष्यारम्भे प्रशस्यन्ते तथा पुष्यपुनर्वसू।।१४।।
कृष्यारम्भे प्रयत्नेन तिथिं रिक्तां विवर्जयेत।।
अङ्गारकदिनं वर्ज्यं दिवसं सूर्यजस्य च ।। १५ ।।
नक्षत्राणां यथोक्तानां मुहूर्तेषु च कारयेत् ।।
मुहुर्ते यदि वा ब्राह्मे सर्वकर्मसु पूजिते।।१६।।
वराहं पूजेयद्देवं शेषं पृथ्वीं तथैव च ।।
पर्जन्यं भास्करं वायुं देवेशं शशिनं तथा ।। १७ ।।
फालं च गोयुगं चैव गन्धमाल्यान्नसम्पदा ।।
ततोऽग्निहवनं कुर्यात्सुसमिद्धे हुताशने ।। १८ ।।
देवतानां यथोक्तानां जुहुयाच्च घृताहुतीः ।।
गावो भग इति द्वाभ्यां सीरां युञ्जन्त्यतस्त्रिभिः ।। १९ ।।
फालं शुनां सुफालेति लाङ्गलं च तथेति वै ।।
हुत्वा विप्रान्समभ्यर्च्य दक्षिणाभिर्यथाविधि ।। 2.82.२० ।।
पूर्वोदक्प्रवणां भूमिं वाहयेत्प्राग्घलेन तु ।।
सीरायुञ्जन्त इत्येतदृक्त्रयं कीर्तयेद्बुधः ।। २१ ।।
या ओषधय इत्येवं बीजं तदनु मन्त्रयेत् ।।
कृत्वा सुवर्णतोयाक्तं लक्षण्यो वापयेत्पुमान्।। २२ ।।
प्राङ्मुखैर्वाहयेद्गोभिः प्राङ्मुखैश्चैव वापयेत् ।।
शंखपुण्याहघोषेण बीजवापः प्रशस्यते ।। २३ ।।
बीजवापे तथा मन्त्रं निबोध गदतो मम ।।
प्रजापते कश्यपाय देवलाय नमः सदा ।। २४ ।।
सदा मे ऋद्धतां देवी बीजेषु च धनेषु च ।।
भोजयेद्ब्राह्मणांश्चात्र तथैव च कृषीवलान् ।। २५ ।।
कालश्च सर्वः पूर्वोक्तः संग्रहेऽपि प्रशस्यते ।।
देवतानां पितॄणां च कृत्वा तत्रापि पूजनम् ।। २६ ।।
नववस्त्रपरीधानः श्वेतमाल्यानुलेपनः।।
प्राङ्मुखः प्राशनं कुर्यात्पात्रे सौवर्णराजते।।२७।।
तत्रापि भोजयेद्विप्रांस्तथैव च कृषीवलान्।।
कृष्ये विशेषतः कार्यं फलयज्ञं भृगूद्वह।।२८।।
यूपोयं निहितो मध्ये पेषीवासैषकार्षकैः।।
तस्मादतन्द्रितो दद्यादन्नं धान्यार्थदक्षिणा।।२९।।
भूमिं भित्त्वौषधीश्छित्त्वा हत्वा कीटपिपीलिकम्।।
पुनन्ति खलु यज्ञेन कर्षिका नात्र संशयः।। 2.82.३०
अष्टागवं धर्महलं षड्गवं जीवितार्थिनाम्।।
चतुर्गवं नृशंसानां द्विगवं ब्रह्मघातिनाम्।।३१।।
आपदं च समुत्तीर्य त्यक्त्वा वित्तं च कर्मणा।।
यदर्जितं ततः कुर्यात्प्रायश्चित्तं विचक्षणः।।३२।।
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः।।३३।।
ऋतेन जीवेदनृतेन जीवेन्मितेन जीवेत्प्रमितेन जीवेत्।।
सत्यानृताभ्यामथवापि जीवेच्छ्ववृत्तिमेकां परिवर्जयेत्तु।।३४।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने आपद्धर्मो नाम द्व्यशीतितमोऽध्याय ।। ८२ ।।
2.83
।। राम उवाच ।।
काम्यं कर्म समाचक्ष्व वाणिज्यं येन शुध्यति।।
कृषिं च बहुलां चैव कर्मणा केन चाश्नुते।।१।।
।।पुष्कर उवाच।।
मूलेनोपोषितः कुर्यादिदं कर्म पुरोहितः।।
उपोषितस्य धर्मज्ञ जयमानस्य नित्यशः।।२।।
प्राप्तामुत्तरषाढासु प्राङ्मुखं स्नापयेन्नरम्।।
युक्तैर्वेतसमूलेन शङ्खमुक्ताफलैस्तथा।।३।।
मणिभिश्च यथालाभं कनकेन तथैव च।।
अकालमूलैः कलशैश्चतुर्भिर्भृगुनन्दन।।४।।
नवैस्तु पूजयेद्देवं शङ्खचक्रगदाधरम्।।
पूर्वाषाढां तथैवाऽपो वरुणं च निशाकरम्।।५।।
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा।।
एतेषामेव जुहुयात्तथा नाम्ना घृतं द्विज।।६।।
नीलवासावृतो भूत्वा क्षिपेदप्सु समाहितः।।
नीलानि राम वासांसि पयांसि विविधानि च।।७।।
तदा मंथं सुरां चैव मैरेयं विविधं तथा।।
शुक्लानि चैव माल्यानि धूपं दद्यात्तु कम्बुना।।८।।
तिम्यस्थि मकरादस्थि शङ्खमुक्ताफले तथा।।
सुवर्णान्तरितं कृत्वा धारयेच्च तथा मणिम्।।९।।
कृत्वैतत्सिद्धिमाप्नोति वाणिज्ये नात्र संशयः।।
समुद्रयाने च तथा कान्तारे न विषीदति।।2.83.१०।।
नीलानि राम वासांसि दक्षिणा चात्र शस्यते।।
शङ्खं सुवर्णं रूप्यं च तथा मुक्ताफलानि च।।११।।
होत्रे कर्त्रे द्विजेभ्यश्च सर्वमेतद्विधीयते।।
ब्राह्मणान्भोजयेच्चात्र परमान्नं तु संस्कृतम्।।१२।।
अलंघयन्नित्यमथाप्यमृक्षं करोति कर्मैतदतन्द्रितात्मा।।
न जातु लाभाद्विनिवर्ततेऽसौ समुद्रमार्गादिव निम्नगा वै।। १३।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने पूर्वाषाढास्नानवर्णनो नाम त्र्यशीतितमोऽध्याय ।। ८३ ।।
2.84
पुष्कर उवाच।।
स्वयं सूपोषितो विद्वान्यजमानमुपोषितम्।।
मूलेन स्नापयेन्नित्यं तथाप्याशामुखास्थितम्।।१।।
दूर्वाकुश शमीपत्रपूर्णेन सुदृढेन च ।।
कुम्भद्वयेन स्नातस्तु पूजयेन्मधुमूदनम् ।। २ ।।
विरूपाक्षं सवरुणं चन्द्रं मूलं तथैव च ।।
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ।। ३ ।।
एतेषामेव जुहुयात्तथा नाम्ना घृतं द्विज ।।
पीतवासास्ततो भूत्वा मत्स्यकुल्माषसूकरैः ।। ४ ।।
सुराकृसरसंयुक्तैः स्नानोक्ताशामुखस्थितः ।।
बलिं निर्ऋतये दद्याज्जानु कृत्वा ततः क्षितौ ।। ५ ।।
ततोष्टादशभिः पुष्पैर्मूलैः पञ्चभिरेव च ।।
सुवर्णगर्भं च मणिं विद्वाञ्शिरसि धारयेत् ।। ६ ।।
कृत्वैतत्सकलं कर्म कृषिं बहुफलां लभेत् ।।
दक्षिणा चात्र दातव्या मूलानि च फलानि च ।।७।।
पीतानि चैव वस्त्राणि कनकं रजतं तथा ।।
भोजनं चात्र दातव्यं ब्राह्मणानामभीप्सितम् ।। ८ ।।
अलंघयन्मूलमिदं हि कुर्वन्स्नानं सदा भार्गव वंशमुख्य ।।
कृषिं समाप्नोति सदैव विद्वान्यथेप्सितं नात्र विचारमस्ति।।९।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने मूलस्नानवर्णनो नाम चतुरशीतितमोऽध्यायः ।। ८४ ।।
2.85
राम उवाच ।।
धर्ममार्गमहं त्वत्तः श्रोतुमिच्छामि मे वद ।।
त्वं हि वेत्थ महाभाग सर्वधर्मान्यथाविधि ।। १ ।।
पुष्कर उवाच ।।
षोडशर्तु निशाः स्त्रीणामाद्यास्तिस्रस्तु गर्हिताः ।।
व्रजेद्युग्मासु पुत्रार्थी ततः परमिति श्रुतिः ।। २ ।।
अयुग्मासु तथा राम दुहितार्थी स्त्रियं व्रजेत् ।।
विकृष्टयुग्मामुत ये प्रशस्ताः प्रियदर्शनाः ।। ३ ।।
दीर्घायुषो धर्मपरा भवन्तीह धनान्विताः ।।
गर्भस्य सृष्टताधाने गर्भाधानिकमिष्यते ।। ४ ।।
पुरा तु स्पर्शनं कार्यं सेवनं तु विचक्षणैः ।।
षष्ठेऽष्टमे वा सीमन्तकर्मस्वेतेषु च त्रिषु ।। ५ ।।
पुन्नामधेयं नक्षत्रं पुत्रकामस्य शस्यते ।।
आदित्यपुष्यसावित्रसौम्यमूलाः सवैष्णवाः ।। ६ ।।
पुन्नामधेया निर्दिष्टाः स्वातिश्चैवात्र सप्तमम् ।।
अङ्गारकदिनं वर्ज्यं तिथिं रिक्तां च वर्जयेत् ।। ७ ।।
अच्छिन्ननाभ्यां कर्तव्यं जातकर्म विचक्षणैः ।।
आशौचे तु व्यतिक्रान्ते नामकर्म विधीयते ।। ८ ।।
अथवा भार्गवश्रेष्ठ दिने पूजितलक्षणे ।।
मृदुध्रुवेषु ऋक्षेषु नामकर्म विधीयते ।।९।।
तत्राप्यङ्गारकदिनं तिथिं रिक्तां च वर्जयेत् ।।
नामधेयं तु वर्णानां कर्तव्यं तु समाक्षरम् ।।2.85.१ ०।।
माङ्गल्यं ब्राह्मणस्योक्तं क्षत्रियस्य बलान्वितम् ।।
वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम्।।११।।
शर्म वर्म धनार्थं तु दासान्तं चानुपूर्वशः ।।
नामधेयं तु कर्तव्यं स्वकुलानुगमेन वा ।। १२ ।।
स्त्रीणां सुखोद्यमक्रूरं विस्पष्टार्थं मनोहरम् ।।
नाम कार्यं महाभाग न कार्यं विषमाक्षरम् ।। १३ ।।
बालं तु कृतनामानं पूजितस्य गदाभृतः ।।
निवेदयेन्महाभाग तव पुत्रोऽयमित्युत ।। १४ ।।
शिष्यः प्रेष्यश्च दासश्च संविभाज्यश्च केशवः ।।
नित्यं सन्ति विभागेन शुभेन मधुसूदनः ।। १५ ।।
ततस्तु पूजनं कार्यं ब्राह्मणानां यथाविधि ।।
भोजयेद्ब्राह्मणांश्चात्र परमान्नं सदक्षिणम् ।। १६ ।।
चूडाकर्म ततः कार्यं भृगुपुत्र यथाकुलम् ।।
नक्षत्राण्यत्र शस्यन्ते मृदु क्षिप्रचराणि च ।। १७ ।।
तिथिं विवर्जयेद्रिक्तां सूर्यारार्किदिनान्यपि ।।
तत्रापि वासुदेवस्य पूजां कृत्वा विशेषतः ।। १८ ।।
गर्भाष्टमेऽब्दे कर्तव्यं ब्राह्मणस्योपनायनम् ।।
गर्भादेकादशे राज्ञः गर्भाच्च द्वादशे विशः ।। १९ ।।
चूडाकर्मणि यः प्रोक्तः कालः सोऽत्रापि शस्यते ।।
नक्षत्राणां यथोक्तानां मुहूर्ताश्च शुभप्रदाः ।। 2.85.२० ।।
षोडशाऽब्दे हि विप्रस्य राजन्यस्य दविविंशतिः।।
विंशतेश्च चतुष्कं तु वैश्यस्य परिकीर्तितम्।।२१।।
सावित्री नातिवर्तेत अत ऊर्ध्वं निवर्तते ।।
विज्ञातव्यास्त्रयोऽप्येते यथाकालमसंस्कृताः ।। २ ।।
सावित्रीपतिता व्रात्या व्रात्यस्तोमक्रमादृते ।।
मुञ्जस्य बिल्वजानां च क्रमान्मौञ्जः प्रकीर्तितः।। २३ ।।
मार्गवैयाघ्रचर्माणि वस्त्राणि व्रतचारिणाम् ।।
पर्णपिप्पलबिल्वानां क्रमाद्दण्डाः प्रकीर्तिताः।।२४।।
कचदेशललाटांसतुल्याः प्रोक्ताः क्रमेण तु ।।
अवक्रा सत्वचः सर्वे नाग्निशुष्कास्तथैव च ।। २५ ।।
वासोपवीतकार्पासक्षौमोर्णानां यथाक्रमम् ।।
आदिमध्यावसानेषु भवच्छब्दोपलक्षितम् ।। २६।।
प्रथमं तत्र भिक्षेत यत्र भिक्षा ध्रुवं भवेत् ।।
पूजयेद्वासुदेवं च तत्र देवं विशेषतः ।। २७ ।।
हृषीकेशं व्रतेशं च सर्वविघ्नेश्वरं प्रभुम् ।।
यथोक्तेषु च ऋक्षेषु त्रैविद्यां कारयेद्गुरुः ।। २८ ।।
नैवाधिकरी वेदे स्याद्विना त्रैविद्यकेन तु ।।
स्त्रीणां संस्कारमत्रोक्तं सकृत्कार्यं विजानता ।। २९ ।।
क्षेत्रसंस्कारमेतद्धि सकृदेव विजायते ।।
संस्काराणि पिता कुर्यान्मेखलाबन्धनात्मनः ।।
मेखला बन्धनाद्यानि कार्याणि गुरुणा तथा ।।2.85.३०।।
सर्वाणि कार्याणि हि लौकिकेऽग्नौ स्वकल्पमालोक्य भृगुप्रधान ।।
सर्वेषु पूजा च तथा विधेया तस्याप्रमेयस्य जनार्दनस्य।।३१।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने संस्कारवर्णनोनाम पञ्चाशीतितमोध्यायः।।८५।।