सामग्री पर जाएँ

विष्णुधर्मोत्तरपुराणम्/ खण्डः २/अध्यायाः ०७६-०८०

विकिस्रोतः तः

2.76
पुष्कर उवाच ।
द्विजं न निर्हरेत्प्रेतं शूद्रेण तु कथंचन ।
न च शूद्रं द्विजेनापि तयोर्दोषोऽभिजायते ॥ १ ॥
अनाथं ब्राह्मणप्रेतं ये वहन्ति द्विजातयः ।
पदेपदे क्रतुफलं चानुपूर्वाल्लभन्ति ते॥२॥
संस्कारार्थमनाथस्य यस्तु काष्ठं प्रयच्छति ॥
काष्ठाग्निदाता प्राकाश्यं संग्रामे लभते जयम् ॥३॥
संज्वाल्य बान्धवं प्रेतमपसव्येन तां चितिम् ॥
परिक्रम्य ततः स्नानं कुर्युः सर्वे स्वबान्धवाः ॥४॥
प्रेताय च तथा दद्युस्तिस्रो वै चोदकाञ्जलीः ॥
द्वार्यश्मनि पदं दत्त्वा प्रविशेयुस्तथा गृहम् ।। ।।५।।
अक्षता निक्षिपेयुश्च तथा वह्नौ समाहिताः ।।
विदश्य निम्बपत्राणि शयीरंश्च पृथक् क्षितौ।।६।।
क्रीतलब्धाशनाश्चैव भवेयुः सुसमाहिताः ।।
न चैव मांसमश्नीयुर्व्रजेयुर्न च योषितम् ।। ७ ।।
निवर्तयेयुस्तथैवैकं पिण्डं प्रेतस्य नित्यदा ।।
अशौचं यावदेव स्यात्तस्मिन्व्यपगते पुनः ।।८।।
श्मश्रुकर्म तदा कृत्वा स्नाताः सिद्धार्थकैस्तिलैः ।।
पूजयेयुर्द्विजान्राम परिवर्तितवाससः ।।९।।
अदन्तजातेस्तनये शिशौ गर्भच्युते तथा ।।
कार्यो नैवाऽग्निसंस्कारो नैव चास्योदकक्रिया ।।2.76.१०।।
चतुर्थे च दिने कार्यश्चैवास्थ्नां राम संचयः ।।
अस्थिसंचयनादूर्ध्वं कुलस्पर्शो विधीयते ।। ११ ।।
मृतस्य बान्धवैः सार्धं कृत्वाश्रुपतनं नरः ।।
अस्थिसंचयनादर्वाक् सचैलं स्नानमाचरेत् ।।१२।।
स्नातश्च शुद्धिमाप्नोति ततः परमिति श्रुतिः ।।
अस्थ्नां गङ्गाम्भसि क्षेपात्प्रेतस्याभ्युदयो भवेत् ।। १३ ।।
अस्थ्नां हि प्लावनार्थाय सागराणां महात्मनाम् ।।
गगनाद्भुवमानीता गङ्गा गगनमेखला ।। १४ ।।
भगीरथेन धर्मज्ञ तपसा महता पुरा ।।
सगरस्य सुताः सर्वे नरकस्था भृगूत्तम ।। १५ ।।
गङ्गातोयाप्लुता राम दिवमक्षय्यमागताः ।।
गङ्गातोयेन यस्यास्थि यावत्संख्यं निमज्जति ।। १६ ।।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।।
आत्मनस्त्यागिनां नास्ति पतितानां तथा क्रिया ।। १७ ।।
तेषामपि तथा गङ्गातोये स्यात्पतनं हितम् ।।
पतितानां तु यद्दत्तं श्राद्धं चाथ जलाञ्जलिः ।। १८ ।।
न तत्प्रेतः समाप्नोति गगने प्रविलीयते ।।
अनुग्रहेण सहिता प्रेतस्य पतितस्य तु ।। १९ ।।
नारायणबलिः कार्यस्तेनानुग्रहमश्नुते ।।
अनादिनिधनो देवः शंखचक्रगदाधरः ।। 2.76.२० ।।
अक्षयः पुण्डरीकाक्षस्तत्र दत्तं न नश्यति ।।
यथाकथंचिद्यद्दत्तं देवदेवे जनार्दने ।। २१ ।।
अविनाशि तु तद्विद्धि पात्रमेको जनार्दनः ।।
परस्मात्त्रायते यस्मात्तस्मात्पात्रं प्रकीर्तितम् ।।
पततां त्राणदस्त्वेको देवो मधुनिषूदनः ।।२२।।
अमितबलपराक्रमो महौजा दुरितभयापहरो हरिर्महात्मा ।।
अघशतमलिनैश्च सेव्यमानो भवति नृणां त्रिदिवाय वासुदेव।।२३।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने प्रेतनिर्हणोनाम षट्सप्ततितमोऽध्यायः ।। ७६ ।।
2.77
।। पुष्कर उवाच ।।
अशौचे तु व्यतिक्रान्ते स्नातः प्रयतमानसः ।।
स्नातानलङ्कृतान्भक्त्या गन्धवस्त्रोज्ज्वलान्द्विजान् ।।।३।।
उदङ्मुखान्भोजयीत स्वासीनान्सुसमाहितान् ।।
मन्त्रोहाश्चात्र कर्तव्यास्तथैकवचनेन च ।। २ ।।
उच्छिष्टसन्निधावेकं तथा पिण्डं निवेशयेत् ।।
कीर्तयेच्च तथा तस्य नामगोत्रे समाहितः ।।।३ ।।
भुक्तवत्सु च विप्रेषु पूजितेषु तथा धनैः ।।
विसृष्टाक्षयतोयेषु गोत्रनामानुकीर्तनैः ।। ४ ।।
चतुरङ्गुलविस्तारमुत्खातं तावदन्तरम् ।।
वितस्तिदीर्घं कर्तव्यं कर्षूणां च तथा त्रयम् ।। ५ ।।
कर्षूणां तु समीपे च ज्वालयेज्ज्वलनत्रयम् ।।
सोमाय वह्नये राम यमाय च समाहितः ।। ६ ।।
जुहुयादाहुतीः सम्यक् तथैव च त्रयस्त्रयः ।।
पिण्डनिर्वपणं कुर्यात्प्राग्वदेव पृथक्पृथक् ।। ७ ।।
अन्नेन दध्ना मधुना तथा मांसेन पूरयेत् ।।
मध्ये चेदधिवासः स्यात्कुर्यादभ्यधिकं ततः ।। ८ ।।
अथवा द्वादशाहेन सर्वमेतत्समापयेत् ।।
संवत्सरस्य मध्ये चेद्यदि स्यादधिमासकः ।। ९ ।।
ततो द्वादशके श्राद्धे कार्यं तदधिमासिकम् ।।
ततो द्वादशके श्राद्धे कार्यं तदधिकं भवेत्।।2.77.१०।।
संवत्सरे समाप्ते तु श्राद्धं श्राद्धवदाचरेत् ।।
प्रेताय तस्मादूर्ध्वं च तस्यैव पुरुषत्रये ।। ११ ।।
पिण्डान्विनिर्वपेच्चात्र चतुरः सुसमाहितः ।।
संसृजं पृथिवीं दत्त्वा समानावेति चाप्यथ ।। १२ ।।
योजयेत्प्रेतपिण्डं तु पिण्डेष्वन्येषु भार्गव ।।
प्रेतपात्रं च पात्रेषु तथैव विनियोजयेत् ।।१३।।
पृथक्पृथक् च कर्तव्यं कर्मैतत्कर्मणां त्रये ।।
मन्त्रवर्जमिदं कर्म शूद्रस्यापि विधीयते ।। १४ ।।
अमन्त्रोच्चारणं स्त्रीणां कार्यमेतत्तथा भवेत् ।।
यावज्जीवं तथा कुर्याच्छ्राद्धं तु प्रतिवत्सरम् ।।
अनेनैव विधानेन भक्त्त्या प्रयतमानसः।।१५।
प्रेतायान्नं सोदकुम्भं प्रदेयं नित्यं भक्त्या यावदब्दावसानम् ।।
एतत्कार्यं बान्धवैर्नैव कार्यः शोकः शोचन्नैव किञ्चित्प्रकुर्यात्।।१६।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करवाक्ये प्रेतक्रिया नाम सप्तसप्ततितमोऽध्यायः ।। ७७ ।।
२.७८
पुष्कर उवाच ।।
बुधैराश्वसनीयाश्च बान्धवैर्मृतबान्धवाः ।।
वचनैर्धर्मसंयुक्तैस्तानि चान्यानि मे शृणु ।। १ ।।
नित्यमस्मिन्निरालम्बे काले सततयायिनि ।।
न तद्भूतं प्रपस्यामि स्थितिर्यस्य भवेद्ध्रुवा ।। २ ।।
गङ्गायाः सिकताधारास्तथा वर्षति वासवे ।।
शक्या गणयितुं लोके न व्यतीताः पितामहाः ।। ३ ।।
चतुर्दश विनश्यन्ति कल्पेकल्पे सुरेश्वराः ।।
सर्वलोकप्रधानाश्च मनवश्च चतुर्दश ।। ४ ।।
बहूनीन्द्रसहस्राणि दैत्येन्द्रनियुतानि च ।।
विनष्टानीह कालेन मनुजेष्वथ का कथा ।। ५ ।।
राजर्षयश्च बहवः सर्वे समुदिता गुणैः ।।
देवा ब्रह्मर्षयश्चैव कालेन निधनं गताः ।। ६ ।।
ये समर्था जगत्यस्मिन्सृष्टिसंहारकारणे।।
तेऽपि कालेन नीयन्ते कालो हि दुरतिक्रमः।।७।।
आक्रम्य सर्वं कालेन परलोकाय नीयते ।।
कर्म पश्यति नो जन्तुस्तत्र का परिदेवना ।।८।।
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।।
अस्मिन्दुष्परिहार्येऽर्थे नास्ति लोके सहायता ।। ९ ।।
शोचन्तो नोपकुर्वन्ति मृतस्य हि जना यदा ।।
अतो न शोचितव्यं स्यात्क्रिया कार्या सुयत्नतः ।। 2.78.१० ।।
सुकृतं दुष्कृतं चोभौ सहायौ यस्य गच्छतः ।।
बान्धवैस्तस्य किं कार्यं शोचद्भिरथ वा न वा ।। ११ ।।
बान्धवानामशौचे तु स्थितिं प्रेतो न विन्दति ।।
अतस्त्वभ्येति तानेव पिण्डतोयप्रदायिनः ।। १२ ।।
अर्वाक् सपिण्डीकरणात्प्रेतो भवति यो मृतः ।।
प्रेतलोकगतस्यान्नं सोदकुम्भं प्रयच्छत ।। १३ ।।
पितृलोकगतश्चान्नं श्राद्धं भुङ्क्ते सुधासमम् ।।
पितृलोकगतस्यास्य तस्माच्छ्राद्धं प्रयत्नतः ।। १४ ।।
देवत्वे यातनास्थाने तिर्यग्योनौ तथैव च ॥
मानुष्ये च तथाऽप्नोति श्राद्धे दत्ते स्वबान्धवैः ॥ १५॥
प्रेतस्य श्राद्धकर्तुश्च पुष्टिः श्राद्धे कृते ध्रुवम् ॥
तस्माच्छ्राद्धं सदा कार्यं शोकं त्यक्त्वा निरर्थकम् ॥१६॥
एतावदेव कर्तव्यं सदा प्रेतस्य बन्धुभिः॥
नोपकुर्यान्नरः शोचन्प्रेतस्यात्मन एव च॥१७॥
दृष्ट्वा लोकमनाक्रन्दं म्रियमाणांश्च बान्धवान् ॥
धर्ममेकं सहायार्थे कारयध्वं सदा नराः ॥ १८॥
मृतोऽपि बान्धवः शक्तो नानुगन्तुं नरैर्यतः ॥
जायावर्ज्यं हि सर्वस्य यस्या भर्ता विभिद्यते ।। १९ ।।
धर्म एकोऽनुयात्येनं यत्र कुत्र च गामिनम् ।।
नन्वसारे त्रिलोके ऽस्मिन्धर्म कुरु मा चिरम् ।। 2.78.२० ।।
श्वः कार्यमद्य कुर्वीत पूर्वाह्णे त्वपराह्णिकम् ।।
न हि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम ।। २१ ।।
क्षेत्रापणगृहासक्तमन्यत्र गतमानसम् ।।
वृकीवाऽरण्यमासाद्य मृत्युरादाय गच्छति।।२२।।
न कालस्य प्रियः कश्चिद्वेष्यश्चास्य न विद्यते ।।
आयुष्ये कर्मणि क्षीणे प्रसह्य हरते जनम्।।२३।।
नाप्राप्तकालो म्रियते विद्धः शरशतैरपि ।।
कुशाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति ।।२४।।
नौषधानि न मन्त्राश्च न होमा न पुनर्जपाः ।।
त्रायन्ते मृत्युनोपेतं जरया वापि मानवम्।।२५।।
आगामिनमनर्थं तु प्रतिघातशतैरपि ।।
न निवारयितुं शक्तास्तत्र का परिदेवना ।।२६।।
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ।।
तथा पूर्वकृतं कर्म कर्तारं विन्दते ध्रुवम् ।।।२७।।
अव्यक्तादीनि सर्वाणि व्यक्तमध्यानि चाप्यथ ।।
अव्यक्तनिधनान्येव तत्र का परिदेवना ।।२८।।
देहिनोस्मिन्यथा देहं कौमारं यौवनं जरा ।।
तथा जन्मान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ।। २९ ।।
गृह्णातीव यथा वस्त्रं त्यक्त्वा पूर्वधृतं नरः।।
गृह्णात्येवं नवं देहं देहीकर्मनिबन्धनः।।2.78.३०।।
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ।। ३१ ।।
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।।
नित्यः सर्वगतःस्थाणुरचलोऽयं सनातनः।।३२।।
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमेव च ।।
तस्मादेवं विदित्त्वैनं नानुशोचितुमर्हथ ।। ३३ ।।
आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः ।।
आश्चर्यवश्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ।।३४।।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने बान्धवसमाश्वासनं नामाष्टसप्ततितमोऽध्यायः ।। ७८ ।।
2.79
।। पुष्कर उवाच । ।
मृन्मयं भाजनं सर्वं पुनः पाकेन शुध्यति ।।
मद्यैर्मूत्रपुरीषैर्वा ष्ठीवनैः पूयशोणितैः।।१।।
संस्पृष्टं नैव शुध्येत पुनःपाकेन मृन्मयम् ।।
एतैरेव तथा स्पृष्टं ताम्रसौवर्णराजतम्।।२।।
शुध्यत्यातापितं पश्चादन्यथा केवलाम्भसा।।
अम्लोदकेन ताम्रस्य सीसस्य त्रपुसस्तथा।।३।।
क्षारेण शुद्धिं कांस्यस्य लोहस्य च विनिर्दिशेत्।।
मुक्तामणिप्रवालानां शुद्धिः प्रक्षालनेन तु।।४।।
अन्येषां चैव भाण्डानां सर्वस्याश्ममयस्य च ।।
शाकरज्जुमूलफलवैदलानां तथैव च।।५।।
मार्जनाद्यज्ञभाण्डानां पाणिना चाग्निकर्मणि ।।
उष्णाम्भसा तथा शुद्धिः सस्नेहानां विनिर्दिशेत् ।। ६ ।।
शयनासनयानानां स्फ्यशूर्पशकटस्य च ।।
शुद्धिः संक्षेपणाज्ज्ञेया पलालेन्धनयोस्तथा ।। ७ ।।
मार्जनाद्वेश्मनां शुद्धिः क्षितौ शोधनतः क्षणात् ।।
संमार्जितेन तोयेन वाससां शुद्धिरिष्यते ।। ।। ८ ।।
बहूनां प्रोक्षणाच्छुद्धिः धान्यानां च विनिर्दिशेत् ।।
शुद्धिर्द्रुमाणा विज्ञेया नित्यसत्पवनेन तु ।। ९ ।।
प्रोक्षणात्संहतानां तु दारवाणां च तक्षणात् ।।
सिद्धार्थकाणां कल्केन शृङ्गदन्तमयस्य च ।। 2.79.१० ।।
गोवालैः फलपत्राणामस्थ्नां स्याच्छृङ्गवस्तथा ।।
निर्यासानां गुडानां च लवणानां तथैव च ।। ११ ।।
कुसुम्भकुंकुमानां च ऊर्णाकार्पासयोस्तथा ।।
प्रोक्षणात्कथिता शुद्धिरित्याह भगवान् हि सः ।। १२ ।।
भूमिष्ठमुदकं शुद्धं तथैव च शिलागतम् ।।
वर्णगन्धरसैर्दुष्टैर्वर्जितं यदि तद्भवेत् ।। १३ ।।
शुद्धं नदीगतं तोयं सर्व एव तथाकराः ।।
शुद्धं प्रसारितं पण्यं शुद्धे चाश्वाजयोर्मुखे ।। १४ ।।
मुखवर्जं च गौः शुद्धा मार्जारः श्वा च नो शुचिः ।।
शय्या भार्या शिशुर्वस्त्रमुपवीतं कमण्डलुः ।। ।। १५ ।।
आत्मनः कथितं शुद्धं न परस्य कथञ्चन ।।
नारीणां चैव वत्सानां शकुनीनां शुनां मुखम् ।। १६ ।।
रतौ प्रस्रवणे वृक्षे मृगयायां सदा शुचिः ।।
शुद्धा भर्तुश्चतुर्थेऽह्नि स्नाता नारी रजस्वला ।। १७ ।।
दैवकर्मणि पित्र्ये च पञ्चमेऽहनि शुध्यति ।।
कृत्वा मूत्रपुरीषं वा स्नात्वा भोक्तुमनास्तथा ।। १८ ।!
भुक्त्वा क्षुत्त्वा तथा सुप्त्वा पीत्वा चाम्भोऽवगाह्य च ।।
रथ्यामाक्रम्य वाचामेद्वासो विपरिधाय च ।। १९ ।।
कृत्वा मूत्रपुरीषं च लेपगन्धापहं बुधः ।।
उद्धृतेनाम्भसा शौचं मृदा शौचं समाचरेत् ।। 2.79.२० ।।
मेहने मृत्तिकाः पञ्च लिङ्गे द्वे परिकीर्तिते ।।
एकस्मिन्विंशतिर्हस्ते द्वयो ज्ञेयाश्चतुर्दश ।। २१ ।।
तिस्रस्तु मृत्तिका ज्ञेयाः कृत्वा तु नखशोधनम् ।।
तिस्रस्तिस्रः पादयोश्च शौचकामैस्तु नित्यदा ।। २२ ।।
शौचमेतद्गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ।।
त्रिगुणं तु वनस्थानां यतीनां च चतुर्गुणम् ।। २३ ।।
मृत्तिका च विनिर्दिष्टा त्रिपूर्वं पूर्यते यया ।।
शुद्धिश्च काचभाण्डानां केवलेन तथाम्भसा ।। २४ ।।
श्रीफलैरंशुपट्टानां क्षौमाणां गौरसर्षपैः ।।
शुद्धिः पद्माक्षतोयेन मृगलोम्नां प्रकीर्तिता ।।
पुष्पाणां चन्दनानां च प्रोक्षणाच्छुद्धिरिष्यते ।। २५ ।।
सिद्धार्थकैः शुद्धिमुदाहरन्ति लोम्नां तथा भार्गववंशमुख्य ।।
सर्वस्य जीवस्य विशुद्धिरुक्ता मृदा च तोयेन विगन्धलेपात् ।।२६।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने द्रव्यशुद्धिर्नामैकोनशीतितमोऽध्यायः ।। ७९ ।।
2.80
राम उवाच ।।
वर्णानामाश्रमाणां च वेत्ति सर्वमिदं भवान् ।।
पुष्कर उवाच ।।
अहिंसासत्यवचनं ते स्याद्भूतेष्वनुग्रहः ।। १ ।।
तीर्थानुसरणं दानं ब्रह्मचर्यममत्सरम् ।।
देवद्विजातिशुश्रूषा गुरूणां च भृगूत्तम ।। २ ।।
श्रवणं सर्वधर्माणां पितॄणां पूजनं तथा ।।
भक्तिश्च भूपतौ नित्यं तथा सच्छास्त्रनेत्रता ।। ३ ।।
आनृशंस्यन्तितिक्षा च तथा चास्तिक्यमेव हि ।।
धर्मसामान्यमेतत्ते कथितं भृगुसत्तम ।। ४ ।।
यजनं याजनं दानं तथैवाध्यापनक्रिया ।।
प्रतिग्रहं चाध्ययनं विप्रकर्माणि निर्दिशेत् ।।५।।
दानमध्ययनं चैव यजनं च यथाविधि।।
क्षत्त्रियस्य च वैश्यस्य कर्मेदं परिकीर्तितम् ।। ६ ।।
क्षत्रियस्य विशेषस्तु प्रजानां परिपालनम् ।।
कृषिगोरक्षवाणिज्यं वैश्यस्य परिकीर्तितम् ।। ७ ।।
शूद्रस्य द्विजशुश्रूषा सर्वशिल्पानि चाप्यथ ।।
ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः ।। ८ ।।
तेषां जन्माद्वितीयं तु विज्ञेयं मौञ्जिबन्धनम् ।।
आचार्यस्तु पिता तत्र सावित्री जननी तथा ।।
ब्राह्मणक्षत्रियविशां मौञ्जीबन्धनजन्मनि ।। ९ ।।
वृत्त्या द्विजाः शूद्रसमा भवन्ति यावन्न वेदे प्रभवन्ति राम ।।
ततः परं ते द्विजतां लभन्ते समस्तकार्येष्वधिदैवतं च ।।2.80.१०।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने वर्णधर्माध्यायो नामाशीतितमोऽध्यायः ।। ८०