विष्णुधर्मोत्तरपुराणम्/ खण्डः २/अध्यायाः ०६६-०७०

विकिस्रोतः तः
Jump to navigation Jump to search

2.66
राम उवाच ।।
दैवे पुरुषकारे च किं ज्यायस्तद्वदस्व मे।।
अत्र मे संशयो देव संशयच्छिद्भवाँस्तथा ।। १ ।।
पुष्कर उवाच ।।
स्वमेव कर्म दैवाख्यं विद्धि देहान्तरार्जितम् ।।
तस्मात्पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः ।।२।।
प्रतिकूलं तथा दैवं पौरुषेण विहन्यते।।
मङ्गलाचारयुक्तानां नित्यमुत्थानशालिनाम् ।।३।।
येषां पूर्वकृतं कर्म सात्त्विकं मनुजोत्तम ।।
पौरुषेण विना तेषां केषाञ्चिद्दृश्यते फलम् ।। ४ ।।
कर्मणा प्राप्यते लोके राजन्सम्यक्तथा फलम् ।।
पौरुषेणाप्यते राम मार्गितव्यं फलं नरैः ।। ५ ।।
दैवमेव न जानाति नरः पौरुषवर्जितः ।।
तस्मात्सत्कार्ययुक्तस्य दैवं तु सफलं भवेत् ।। ६ ।।
पौरुषं चैव सम्पत्त्या काले फलति भार्गव ।।
दैवं पुरुषकारश्च कालश्च मनुजोत्तम ।। ७ ।।
त्रयमेतन्मनुष्यस्य पिण्डितं स्यात्फलावहम् ।।
कृषिवृष्टिसमायोगाद्दृश्यन्ते फलसिद्धयः ।। ८ ।।
तास्तु कालेन दृश्यन्ते नैवाकाले कथञ्चन ।।
तस्मात्सदैव कर्तव्यं सधर्मं पौरुषं नृभिः ।। ९ ।।
विपत्तावपि यस्येह परलोके फलं धुवम् ।।
नालसाः प्राप्नुवन्त्यर्थान्न च दैवपरायणाः ।।
तस्मात्सर्वप्रयत्नेन पौरुषे यत्नमाचरेत् ।।2.66.१ ०।।
त्यक्तालसान्दैवपरान्मनुष्यानुत्थानयुक्तान्पुरुषान्हि लक्ष्मीः।।
अन्विष्य यत्नाद्वृणुते द्विजेन्द्र तस्मात्समुत्थानवता हि भाव्यम्।।११।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामपुष्करसंवादे पुरुषकाराध्यायो नाम षट्षष्टितमोऽध्यायः ।। ६६ ।।
2.67
राम उवाच ।।
उपायांस्त्वं समाचक्ष्व सामपूर्वान्महाद्युते ।।
लक्षणं च तथा तेषां प्रयोगं वरुणात्मज ।। १ ।।
पुष्कर उवाच ।।
सामभेदौ तथा राम दण्डं च मनुजोत्तम ।।
उपेक्षा च तथा माया इन्द्रजालञ्च भार्गव ।। २ ।।
प्रयोगाः कथिताः सप्त तन्मे निगदतः शृणु ।।
द्विविधं कथितं साम तथ्यं चातथ्यमेव च ।। ३ ।।
तत्राप्यतथ्यं साधूनामाक्रोशायैव जायते ।।
तच्च साधुप्रियं ते च सामसाध्या न राम ते ।। ४ ।।
महाकुलीना ऋजवो धर्मनिष्ठा जितेन्द्रियाः ।।
सामसाध्या न चातथ्यं तेषु साम प्रयोजयेत् ।। ५ ।।
तथ्यं च साम कर्तव्यं कुलशीलादिवर्णनम् ।।
तथा तदुभयं राम कृतानां चैव वर्णनम्।।६।।
अनयैव तथा युक्त्या कृतज्ञख्यापनं स्वकम् ।।
एवं सान्त्वेन कर्तव्या वशगा धर्मतत्पराः ।। ७ ।।
साम्ना यद्यपि रक्षांसि गृह्णन्तीति परा श्रुतिः ।।
तथाप्येतदसाधूनां प्रयुक्तं नोपकारकम् ।। ८ ।।
अतिसन्धिकमित्येव पुरुषं सामवादिनम् ।।
असाधवो विजानन्ति तस्मात्तत्तेषु वर्जितम्।।९।।
ये शुद्धवंशा ऋजवः प्रतीता धर्मे स्थिताः सत्यपरा विनीताः ।।
ते सामसाध्याः पुरुषाः प्रदिष्टा मानोन्नता ये सततं च राम ।। 2.67.१०।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामपुष्करसंवादे सामविधिर्नाम सप्तषष्टितमोऽध्यायः ।।६७।।
2.68
पुष्कर उवाच ।।
परस्परं तु ये दुष्टाः क्रुद्धा भीतावमानिताः ।।
तेषां भेदं प्रयुञ्जीत भेदसाध्या हि ते मताः ।। १ ।।
ये तु येनैव दोषेण परस्माद्राम बिभ्यति ।।
ते तु तद्दोषपालेन भेदनीया भृशं ततः ।। २ ।।
आत्मीयाद्दर्शयेदाशां परस्माद्दर्शयेद्भयम् ।।
एवं हि भेदयेद्भिन्नान्यथावद्वशमानयेत् ।। ३ ।।
संहिता हि विना भेदं शक्रेणापि सदःसहा ।।
भेदमेव प्रशंसन्ति तस्मान्नयविशारदाः ।।४।।
स्वमुखेनाथ यद्धेदं भेदं परमुखेन च ।।
परीक्ष्य साधु मन्येऽहं भेदं परमुखाच्छ्रुतम् ।। ५ ।।
भेद्या स्वकार्यमुद्दिश्य कुशलैर्ये हि भेदिताः ।।
भेदितास्ते विनिर्दिष्टा नैव राजार्थवादिभिः ।। ६ ।।
अन्तःकोपबहिःकोपौ यत्र स्यातां महीक्षिताम् ।।
अन्तःकोपो महांस्तत्र नाशनः पृथिवी क्षिताम् ।। ७ ।।
सामन्तकोपो बाह्यस्तु कोपः प्रोक्तो मनीषिभिः ।।
महिषीभ्लवराजाभ्यां तथा सेनापतेर्द्विज ।। ८ ।।
अमात्यान्मन्त्रिपुत्राच्च राजपुत्रात्तथैव च ।।
अन्तःकोपो विनिर्दिष्टो दारुणः पृथिवीक्षिताम् ।। ९ ।।
बहिःकोपे समुत्पन्ने सुमहत्यपि पार्थिवः ।।
शुद्धान्तस्तु महाभाग शीघ्रमेव जयेदरीन् ।। 2.68.१० ।।
अपि शक्रसमो राजा कोपेनान्तर्विनश्यति ।।
स्वान्तःकोपं प्रयत्नेन तस्माद्यत्नात्परीक्षता ।। ११ ।।
परान्तःकोपमुत्पाद्य भेदेन विजिगीषुणा ।।
रक्ष्यश्चैव प्रयत्नेन ज्ञातिभेदस्तथात्मनः ।। १२ ।।
ज्ञातयः परितप्यन्ते सततं यद्यपि श्रिया ।।
तथापि तेषां कर्तव्यं सुगम्भीरेण चेतसा ।। १३ ।।
ग्राहणं दानमानाभ्यां भेदस्तेभ्यो भयङ्करः।।।
नाज्ञातिरनुगृह्णाति नाज्ञातिः स्नेहमिच्छति ।।१४।।।
ज्ञातिभिर्भेदनीयास्तु रिपवस्तेन पार्थिवैः।।१५।।
भिन्ना हि शक्या रिपवः प्रभूताः स्वल्पेन सेन्येन निहन्तुमाजौ ।।
सुसंहितेनाथ ततस्तु भेदः कार्यो रिपूणां नयशास्त्रविद्भिः ।।१६।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० भेदविधानन्नामाष्टषष्टितमोऽध्यायः ।।६८।।
2.69
पुष्कर उवाच ।।
सर्वेषामप्युपायानां दानं श्रेष्ठतमं मतम् ।।
सुदत्तेनैव भवति दानेनोभयलोकजित् ।।१।।
स नास्ति राम दानेन वशगो यो न जायते ।।
दानवान्गोचरं नैति तथा रामापदां क्वचित ।। २ ।।
दानवानेव शक्नोति संहतान्भेदितुं परान् ।।
यद्यप्यलुब्धा गम्भीराः पुरुषाः सागरोपमाः ।।३।।
न गृह्णंति तथाप्येते जायन्ते पक्षपातिनः ।।
अन्यत्रापि कृतं दानं करोत्यन्यांस्तथा परैः ।। ।। ४ ।।
उपायेभ्यः प्रयच्छंति दानं श्रेष्ठतमं नराः ।।
दानं संवर्धनं श्रेष्ठं दानं श्रेयस्करं परम् ।। ५ ।।
दानवानेव लोकेषु पुत्रवत्प्रीयते सदा ।।
न केवलं दानपरा जयन्ति भूलोकमेकं पुरुषप्रवीर ।।
जयन्ति ते राम सुरेन्द्रलोकं सुदुर्जयं यद्विबुधाधिवासम् ।। ६ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०रामपुष्करसंवादे दानविधिर्नामैकोनसप्ततितमोऽध्यायः ।।६९।।
2.70
पुष्कर उवाच।।
न शक्या ये स्वयं कर्तुं चोपायत्रितयेन तु।।
दण्डेन तान्वशीकुर्याद्दण्डो हि वशकृत्परः ।। १ ।।
सम्यक्प्रणयनं तस्य सदा कार्यं महीक्षिता ।।
धर्मशास्त्रानुसारेण सुसहायेन धीमता ।। २ ।।
तस्य सम्यक्प्रणयनं त्रिदशानपि पीडयेत् ।।
वानप्रस्थांश्च धर्मज्ञ निर्देशान्निष्परिग्रहान् ।। ३ ।।
स्वदेशे परदेशे च धर्मशास्त्रविशारदाः ।।
समीक्ष्य प्रणयेद्दण्डं सर्वं दण्डे प्रतिष्ठितम्।।४।।
आश्रमी यदि वा वर्णी पूज्योऽथवा गुरुर्महान्।।
नादण्ड्यो राम राज्ञा तु यः स्वधर्मे न तिष्ठति।।।।।
अदण्ड्यान्दण्डयन्राजा दण्ड्यांश्चैवाप्यदण्डयन् ।।
इह राज्यपरिभ्रष्टो नरकं प्रतिपद्यते ।। ६ ।।
तस्माद्राज्ञा विनीतेन धर्मशास्त्रानुसारतः ।।
दण्डप्रणयनं कार्यं लोकानुग्रहकाम्यया ।। ७ ।।
यत्र श्यामो लोहिताक्षो दण्डश्चरति निर्भयः ।।
प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति ।। ८ ।।
बाल वृद्धातुर यति द्विजाति विकलाबलाः ।।
मत्स्यन्यायेन भक्षेरन्यदि दण्डो न पालयेत् ।। ९ ।।
देवदैत्योरगनराः सिद्धभूतपतत्रिणः ।।
उत्क्रामेयुः स्वमर्यादां यदि दण्डो न पालयेत् ।। 2.70.१० ।।
एष ब्रह्माभिशापेषु सर्वप्रहरणेषु च ।।
सर्वविक्रमकोपेषु व्यवसाये च तिष्ठति ।। ११ ।।
पूज्यन्ते दण्डिनो देवा न पूज्यन्ते त्वदण्डिनः ।।
न ब्राह्मणं न धातारं न पूषार्यमणावपि ।। १२ ।।
यजन्ते मानवाः केचित्प्रशान्ताः सर्वकर्मसु ।।
रुद्रमग्निं च शक्रं च सूर्याचन्द्रमसौ तथा ।। १३ ।।
विष्णुं देवगणाँश्चान्ये दण्डिनः पूजयन्ति हि ।।
दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति ।। १४ ।।
दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः ।।
राजदण्डभयादेव पापाः पापं न कुर्वते ।। १५ ।।
यमदण्डभयादन्ये परस्परभयादपि ।।
एवं सांसिद्धिके लोके सर्वं दण्डे प्रतिष्ठितम् ।। १६ ।।
अन्धे तमसि मज्जेयुर्यदि दण्डो न पालयेत् ।। ।।
तस्माद्दम्यान्दमयति उद्दण्डान्दण्डयत्यपि ।। १७ ।।
दमनाद्दण्डनाच्चैव तस्माद्दण्डं विदुर्बुधाः ।।
दण्डस्य भीतैस्त्रिदशैः समस्तैर्भागो धृतः शूलधरस्य यज्ञे ।।
चक्रुः कुमारं ध्वजिनीपतिं च वरं शिशूनां च भयाद्बलस्थम् ।। १८ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० पुष्करोपाख्यानेषु दण्डप्रशंसा नाम सप्ततितमोऽध्यायः ।। ७० ।।