विष्णुधर्मोत्तरपुराणम्/ खण्डः २/अध्यायाः ०६१-०६५

विकिस्रोतः तः
Jump to navigation Jump to search

2.61
पुष्कर उवाच ।।
राजधर्मव्रतं श्रेष्ठं कृत्वा पुरुषविग्रहम् ।।
पूरुषान्विनियुञ्जीत चोत्तमाधमकर्मसु ।। १।।
ग्रामस्याधिपतिं कुर्याद्दशग्रामाधिपं तथा ।।
शतग्रामाधिपं चापि तथैव विषयेश्वरम् ।। २ ।।
तेषां भागविभागश्च भवेत्कर्मानुरूपतः ।।
नित्यमेव तथा कार्यं तेषां चारैः परीक्षयेत् ।। ३ ।।
ग्रामदोषान्समुत्पन्नान्ग्रामेशः प्रशमं नयेन् ।।
अशक्तौ देशपालस्य स तु गत्वा निवेदयेत् ।। ४ ।।
श्रुत्वा तु देशपालोपि तत्र युक्तिमुपाचरेत् ।।
सोप्यशक्तः शतेशाय यथावद्विनिवेदयेत् ।। ५ ।।
शतेशो विषयेशाय सोपि राज्ञे निवेदयेत् ।।
अशक्तौ शक्तिमान् राम स्वयं युक्तिमुपाचरेत् ।। ६ ।।
राजा सर्वात्मना कुर्याद्विषये राम रक्षणम् ।।
वित्तमाप्नोति धर्मज्ञ विषयाच्च सुरक्षितात् ।। ७ ।।
रिपुघातसमर्थः स्याद्वित्तवानेव पार्थिवः ।।
परचक्रोपमर्देषु वित्तवानेव मुच्यते ।। ८ ।।
वित्तवानेव सहति सुदीर्घमपि विग्रहम् ।।
बहुदण्डानपि परांस्तथा भिन्द्याद्धनाधिपः ।। ९ ।।
अन्ने प्राणाः प्रजाः सर्वा धने तच्च प्रतिष्ठितम् ।।
धनवान्धर्ममाप्नोति धनवान्काममश्नुते ।। 2.61.१० ।।
यस्यार्थस्तस्य मित्राणि यस्यार्थस्तस्य बन्धवाः ।।
यस्यार्थः स पुमाँल्लोके यस्यार्थः सोपि पण्डितः ।। ११ ।।
अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः ।।
विच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ।।१२।।
विशेषो नास्ति लोकेषु पतितस्याधनस्य च ।।
पतितानां न गृह्णन्ति दरिद्रो न प्रयच्छति ।।१३ ।।
धनहीनस्य भार्यापि नैव स्याद्वशवर्तिनी ।।
गुणौघमपि चैवास्य नैव कश्चित्प्रकाशयेत् ।। १४ ।।
बान्धवा विनिवर्तन्ते धनहीनात्तथा नरात् ।।
यथा पुष्पफलैर्हीनाच्छकुन्ता द्विज पादपात् ।। ।। १५ ।।
दारिद्र्यमरणे चोभे केषांचित्सदृशे मते ।।
सत्यं हासाद्दरिद्रस्य मृतः श्रेयान्मते मम ।। १६ ।।
कोशं राज्यतरोर्मूलं तस्माद्यत्नं तदर्जने ।।
धर्मेणैव ततः कुर्यान्नाधर्मेण कथंचन ।। १७ ।।
धनैरधर्मसम्प्राप्तैर्यद्दृढं हि पिधीयते ।।
तदेव याति विस्तारं विनाशाय दुरात्मनाम् ।।१८ ।।
सुकृतस्य पुराणस्य बलेन बलिनां वर ।।
यद्यधर्मात्फलं शीघ्रं नाप्नुवन्ति दुरात्मनः ।। १९ ।।
तथापि पूर्वकर्मान्ते तेन पापेन कर्मणा ।।
विनश्यन्ति समूलास्ते सपुत्रधनबान्धवाः ।। 2.61.२० ।।
नरकेषु तथा तेषां यातना विविधाः स्मृताः ।।
बहून्यब्दसहस्राणि ये नृपा राष्ट्रपीडकाः ।। २१ ।।
नित्यं राज्ञा तथा भाव्यं गर्भिणीसहधर्मिणा ।।
यथा स्वं सुखमुत्सृज्य गर्भस्य सुखमावहेत् । २२ ।।
गर्भिणी तद्वदेवेह भाव्यं भूपतिना सदा ।।
प्रजासुखं तु कर्तव्यं सुखमुद्दिश्य चात्मनः ।। २३ ।।
किं यज्ञैस्तपसा तस्य प्रजा यस्य सुरक्षिताः ।।
सुरक्षिताः प्रजास्तस्य स्वर्गस्तस्य गृहोपमः ।। ।। २४ ।।
अरक्षिताः प्रजा यस्य नरकं तस्य मन्दिरम् ।।
राजा षड्भागमादत्ते सुकृताद्दुष्कृतादपि ।। २५ ।।
धर्मो नाम महाभाग सम्पद्रक्षण तत्परः ।।
अरक्षितस्तथा सर्वं पापमाप्नोति भार्गव ।। २६ ।।
नैव किञ्चिदवाप्नोति पुण्यभाक्पृथिवीपतिः ।।
आपन्नमपि धर्मिष्ठं प्रजा रक्षत्यथापदि। । २७ ।।
तस्माद्धर्मार्थकामेन प्रजा रक्ष्या महीक्षिता ।।
सुभगैश्चाथ दुर्वृत्तराजवल्लभतस्करैः ।। २८ ।।
भक्ष्यमाणाः प्रजा रक्ष्या कायस्थैश्च विशेषतः ।।
रक्षितास्तद्भयेभ्यस्तु प्रजा राज्ञां भवन्ति ताः ।। २९ ।।
अरक्षिता सा भवति तेषामेवेह भोजनम् ।।
साधुसंरक्षणार्थाय राजा दुष्ट निबर्हणम् ।। 2.61.३० ।।
तृणानामिव निर्माता सदा कुर्याज्जितेन्द्रियः ।।
शास्त्रोक्तं बलिमादद्याद्धर्मं तत्तस्य जीवितम् ।। ३१ ।।
तस्य सन्त्यजनं राजा न समृद्धोपि कारयेत् ।।
आकाराणि च सर्वाणि शुल्कं शास्त्रोदितो बलिः ।। ३२ ।।
दण्डं विनयनाद्राज्ञो धर्म्यं तत्तस्य जीवितम् ।।
धर्ता कराणां सर्वेषां प्रभुरुक्तो महीपतिः ।। ३३ ।।
निधिं पुराणं संप्राप्य केशवं तु प्रवेशयेत् ।।
अर्थं ब्राह्मणसात्कुर्याद्धर्मकामो महीपतिः ।। ।। ३४ ।।
निधिं द्विजोत्तमः प्राप्य गृह्णीयात्सकलं तथा ।।
जगतोस्य समग्रस्य प्रभुरुक्तो द्विजोत्तमः ।। ३५।।
निधिं ज्ञात्वा पुराणं तु क्षत्रविट्शूद्रयोनयः ।।
निवेदयेयुर्भूपाय राजा लब्ध्वापि तं निधिम् ।। ३६ ।।
चतुर्थमष्टमं चांशं तथा षोडशमं द्विज ।।
वर्णक्रमेण विसृजेदाख्यातं धर्म कारणम् ।। ३७ ।।
तेऽपि लब्ध्वा तदा तेन संविभज्य द्विजोत्तमान् ।।
शेषेण कुर्युः कामार्थौ विदितौ पृथिवीपतेः ।। ३८ ।।
प्रकाशविभवो लोके यस्य राज्ञः स भूपतिः ।।
अप्रकाशधनो यस्तु नरकं तस्य मन्दिरम् ।। ३९ ।।
ममेदमिति यो ब्रूयान्निधिं सत्येन मानवः ।।
तस्याददीत नृपतिर्भागमब्राह्मणस्य तु ।। 2.61.४० ।।
चतुर्विंशतिकं राम द्वादशं षष्ठमेव च ।।
क्षत्रियाश्च तथा वैश्याः शूद्राश्च भृगुनन्दन ।। ४१ ।।
अनृतं च वदन्दण्ड्यः स्ववित्तस्यांशमष्टकम् ।।
प्रणष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत् ।। ४२ ।।
अर्वाक्त्र्यब्दाद्धरेत्स्वामी परेण नृपतिर्हरेत् ।।
ममेदमिति यो ब्रूयादनुयुक्तो यथाविधि ।। ४३ ।।
संपाद्य रूपं द्रव्यादीन्स्वामी तद्द्रव्यमर्हति ।।
अवेदयानो नष्टस्य देशं कालं च तत्त्वतः ।। ।। ४४ ।।
वर्णरूपं प्रमाणं च तत्समं दण्डमर्हति ।।
निधिवद्भागमादद्यात्प्रनष्टाधिगतान्नृपः ।।४५।।
बालदायादिकं रिक्थं तावद्राजा तु पालयेत् ।।
यावत्स स्यात्समावृत्तो यावद्वातीतशैशवः ।। ४६ ।।
बालपुत्रेषु चैवं स्याद्रक्षणं निष्कुलासु च ।।
पतिव्रतासु च स्त्रीषु विधवास्वातुरासु च ।। ।। ४७ ।।
जीवन्तीनां तु तासां ये धारयेयुः स्वबान्धवाः ।।
ताञ्छिष्याच्चौरदण्डेन धार्मिकः पृथिवीपतिः ।। ४८ ।।
सर्वेषामेव वर्णानां चौरैरपहृतं धनम् ।।
तत्प्रमाणं स्वकात्कोशाद्दातव्यमविधारयन् ।। ४९ ।।
ततस्तु पश्चात्कर्तव्यं चौरान्वेषणमञ्जसा ।।
चौररक्षाधिकारिभ्यो राजापि तदवाप्नुयात् ।। 2.61.५० ।।
अहृते च तथा वित्ते हृतमित्येव वादिनम् ।।
निर्धनं पार्थिवः कृत्वा विषयात्स्वाद्विवासयेत् ।। ५१ ।।
न तद्राज्ञा प्रदातव्यं गृहे यत्परिचारकैः ।।
प्रचरद्भिर्हृतं द्रव्यं कार्यं तत्रान्ववेक्षणम् ।। ५२ ।।
स्वराष्ट्रपण्यादादद्याद्राजा विंशतिमं द्विज ।।
शुल्कांशं परदेशाच्च निबोध गदतो मम ।। ५३ ।।
क्षयव्ययप्रवासांश्च यथायामं द्विजोत्तम! ।।
ज्ञात्वा तु कल्पयेत्तत्र शुल्कांशं पृथवीपतिः ।। ५४ ।।
तथा कार्यं यथा लाभं वणिजः समवाप्नुयुः ।।
पुण्यच्छेदश्च नैव स्यात्स्वदेशे पृथवीपतेः ।। ५५ ।।
व्ययं शुल्कप्रवासादि लङ्घयित्वा तथा द्विज ।।
विंशांशभागमादद्युर्दण्डनीया अतोन्यथा ।। ५६ ।।
दिशि दिश्येकमेव स्याच्छुल्कस्थानं नृपस्य तु ।।
तदतिक्रमतो द्रव्यं राजगामि विधीयते ।। ५७ ।।
दूतानां ब्राह्मणानां च राजाज्ञागामिनां तथा ।।
स्त्रीणां प्रव्रजितानां च तारशुल्कं विवर्जयेत् ।। ५८ ।।
भिन्नकर्षापणं शुल्कं न ग्राह्यं पृथिवीक्षिता ।।
तारेषु दाशदोषेण नष्टं दाशात्प्रदापयेत् ।। ५९ ।।
दैवदोषविनष्टं च नष्टं यस्यैव तस्य तत् ।।
शूकधान्येषु षड्भागं शिंबिधान्येष्वथाष्टकम् ।। 2.61.६० ।।
राजा बल्यर्थमादद्याद्देशकालानुरूपकम् ।।
राजांशभागमादद्याद्राजा पशुहिरण्ययोः ।। ६१ ।।
गन्धौषधिरसानां च पुष्पमूलफलस्य च ।।
पत्रशाकतृणानां च वत्सरेण च चर्मणाम् ।। ६५ ।।
वैदलानां च भांडानां सर्वस्याश्ममयस्य च ।।
षड्भागमेव चादद्याद्ब्राह्मणेभ्यस्तथा करम् ।। ६३ ।।
तेभ्यस्तद्धर्मलाभेन राज्ञो लाभः परं भवेत् ।।
न च क्षुधावसीदेत श्रोत्रियो विषये वसन् ।। ६४ ।।
यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा ।।
तस्य सीदति तद्राष्ट्रं दुर्भिक्षव्याधितस्करैः ।। ६५ ।।
श्रुतवृत्ते तु विज्ञाय वृत्तिं तस्य प्रकल्पयेत् ।।
रक्षेच्च सर्वतस्त्वेनं पिता पुत्रमिवौरसम् ।। ६६ ।।
संरक्ष्यमाणो राज्ञा यः कुरुते धर्म संग्रहम् ।।
तेनायुर्वर्द्धते राज्ञो द्रविणं राष्ट्रमेव च ।। ६७ ।।
कर्म कुर्युर्नरेन्द्रस्य मासेनैकं च शिल्पिनः ।।
भक्तमात्रेण ये चान्ये स्वशरीरोपजीविनः ।। ६८ ।।
स्नातानुलिप्ताश्च विभूषिताश्च वेश्याङ्गनावारविवर्तितेन ।।
संवीतगात्रः पृथिवीश्वरस्य सदाभ्युपासां परितस्त्रिकुर्युः ।। ।।६९।।
इति श्रीविष्णुधर्मोत्तरे मा०सं० द्वितीयखण्डे रामं प्रति पुष्करोपाख्याने राजधर्मवर्णनोनामैकषष्टितमोऽध्यायः ।।६१।।।
2.62
पुष्कर उवाच ।।
धर्मश्चार्थश्च कामश्च पुरुषार्थः परः स्मृतः ।।
अन्योन्यरक्षणात्तेषां सेवा कार्या महीक्षिता ।। १ ।।
धर्ममूलोर्थविटपस्तथा कामफलो महान् ।।
त्रिवर्गपादपस्तस्य रक्षणात्फलभाग्भवेत् ।। २ ।।
धर्माविरोधिनी कार्या कामसेवा सदैव तु ।।
मूलच्छेदे भवेन्नाशो विटपस्य फलस्य च ।।३ ।।
कामसेवाविहीनस्य धर्मार्थावपि निष्फलौ ।।
ओषधीनां फलार्थाय कीनाशो यत्नवांस्तथा ।।४।।
कामार्थी यत्नवानेवं लोभो धर्मार्थयोर्द्विज ।।
कामस्यापि परं नार्यो धर्मरागमदोत्कटाः ।। ५ ।।
तदर्थं रत्ननिधयो विभवाश्च तथा परे ।।
गीतं वाद्यं सुमधुरं भोज्यं पानं स्रजिस्तथा ।।६।।
भूषणानि सुगन्धीनि तदर्थं सर्वमेव हि ।।
तपश्चापि तपस्यन्ति दुःखं परमुपाश्रिताः ।। ७ ।।
दुर्गमाणि च तीर्थानि व्रजन्ति पुरुषास्तथा ।।
त्यजन्ति समरे प्राणान्प्राणेभ्योऽप्यधिकं धनम् ।। ८ ।।
त्यजन्ति ब्रह्मणादिभ्यस्तथा स्वर्गेप्सवो जनाः ।।
स्वर्गस्यापि धनं राम कारणं विद्धि भार्गव ।। ९ ।।
ता एव चपलापाङ्गविक्षेपविजिताः प्रजाः ।।
क्षयमेव क्षयं तस्य यस्य नाध्यसितं सदा ।। 2.62.१० ।।
अधः कृत्वेन्दुबिम्बाग्रवदनाभिः पुरन्ध्रिभिः ।।
तस्यैकं सफलं जन्म सम्पदश्च मनोरथाः ।। ११ ।।
यस्यैताश्चञ्चलापाङ्ग्यस्तरुण्यो वशमागताः ।।
सेव्यास्ता नातिसेव्याश्च भूभुजा विजिगीषुणा ।। १२ ।।
असेवनाद्वृथा जन्म दोषग्रामोऽतिसेवनात् ।।
ऊरुस्तम्भत्रयं प्रोक्तं शरीरेषु शरीरिणाम् ।। १३ ।।
आहारं मैथुनं निद्रा यैर्वृतं सकलं जगत् ।।
असेवनादथैतस्य तथैवात्यन्तसेवनात् ।। १४ ।।
रोगग्रामो नृणां देहे सम्भवत्यतिदारुणः ।।
विश्वासमतिसक्तिं च तीक्ष्णतां स्त्रीषु वर्जयेत् ।। १५ ।।
न चाधिकारे कर्तव्या भूषणाच्छादनाशनैः ।।
सुविभक्ताश्च कर्तव्या लालनीयास्तथैव च ।। १६ ।।
ज्ञेयौ रागापरागौ च तथा तासां विशेषतः ।।
नारी रागवते लोके नानृतेन विशिष्यते ।। १७ ।।
विरक्ताभिर्महीपाल छद्मना बहवो हताः ।।
द्विष्टान्याचरते या तु नाभिनन्दति तत्कथाम् ।। १८ ।।
ऐक्यं द्विषद्भिर्व्रजति गर्वं वहति चोद्धता ।।
चुम्बिता मार्ष्टि वदनं दत्तं न बहुमन्यते ।। १९ ।।
स्वपित्यादौ प्रसुप्तापि तथा पश्चाद्विबुध्यति ।।
स्पृष्ट्वा धुनोति गात्राणि कान्तं चैव रुणद्धि या ।। 2.62.२० ।।
ईषत्स्मितेन वाक्यानि प्रियाण्यपि पराङ्मुखी ।।
नयत्यश्रुतवद्या तु जघनं च विगूहति ।।२१ ।।
दृष्टे विवर्णवदना मित्रेष्वपि पराङ्मुखी ।।
तत्कामितासु च स्त्रीषु मध्यस्थैव च लक्ष्यते ।। २२ ।।
ज्ञातमङ्गलकालापि न करोति च मण्डनम् ।।
या सा विरक्ता रक्ता च निबोध गदतो मम ।। २३ ।।
दृष्ट्वैव हृष्टा भवति वीक्षते च पराङ्मुखम् ।।
दृश्यमाना तथान्यत्र दृष्टिं क्षिपति चञ्चलाम् ।। २४ ।।
तथाप्यपावर्तयति नैव शक्नोत्यशेषतः ।।
विवृणोति तथाङ्गानि सुगुह्यान्यपि भार्गव ।। २५ ।।
गर्हितं च तथैवांगं प्रयत्नेन विगूहते ।।
तद्दर्शनेन कुरुते बालालिङ्गनचुम्बनम् ।। २६ ।।
आभाष्यमाणा भवति सन्नवाक्या तथैव च।।
स्पृष्ट्वा पुलकितैरंगैः सखे दैर्वापि भज्यते ।। २७ ।।
करोति च तथा राम सुलभद्रव्ययाचनम् ।।
ततः स्वल्पमपि प्राप्य प्रयाति परमां मुदम् ।। २८ ।।
नाम संकीर्तनादेव मुदिता बहु मन्यते ।।
करजाङ्काकितान्यस्य फलानि प्रेषयत्यपि ।। २९ ।।
तत्प्रेषितानि हृदये विन्यस्यत्यपि चादरात् ।।
आलिङ्गनैश्च गात्राणि लिम्पन्तीवामृतेन च ।। 2.62.३० ।।
सुप्ते स्वपित्यथादौ तु तथा तस्य विबुध्यते ।।
ऊरू स्पृशति चात्यर्थं सुप्तं चैनं विचुम्बते ।। ३१ ।।
एवं रक्तां तु विज्ञाय कामयेतात्मवान्नरः ।।
कामं च भोजनं सख्यं ज्ञेयाः कृत्रिमपुत्रिकाः ।। ३२ ।।
स्वीकर्तुमिच्छन्बालायाः क्रीडनादिस्तथैव च ।।
गन्धमाल्यप्रदानेन यौवनस्थां वशं नयेत् ।। ३३ ।।
वस्त्रभूषणदानेन तया यौवनविच्युताम् ।।
क्रीडासाधुप्रिया बाला तथा यौवनविच्युता ।। ३४ ।।
रतिप्रिया तु विज्ञेया तरुणी चोभयप्रिया ।।
आत्मसंभावना स्त्रीषु न कर्तव्या कथंचन ।। ३५ ।।
असूया जायतेऽत्यर्थमात्मसंभाविते नरे ।।
न चासां दर्शनं देयं न चात्यन्तमदर्शनम् ।। ३६ ।।
उभयेनाप्यथैतासामुत्कण्ठा तु विहन्यते ।।
हृद्यैः सुविहितैर्भोगैर्गन्धयुक्तैश्च कौशलैः ।।
कार्यमाराधनं स्त्रीणां रतिकामैः सदैव तु ।। ३७ ।।
एवं सदा यस्तु करोति राम स्त्रीचेतसां स्वीकरणं मनुष्यः ।।
तस्यान्तराया न भवन्ति किञ्चित्स्त्रीद्वारमासाद्य सदासपत्नः ।।३८ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने अन्तःपुरचिन्ता नाम द्विषष्टितमोऽध्यायः ।। ६२।।
2.63
राम उवाच ।।
कल्पना भोजनीयानां गन्धानां या च कल्पना ।।
तानहं श्रोतुमिच्छामि त्वत्तो धर्मभृतां वर ।।१ ।।
पुष्कर उवाच ।।
भोज्यं भक्ष्यं तथा लेह्यं चोष्यं पानं तथैव च ।।
कल्पना पञ्चधा राम भोज्यस्यैषा प्रकीर्तिता ।। २ ।।
अभ्यासगम्या चाप्येषा वक्तव्यं तत्र मे शृणु ।।
कटुतोयोदकं क्वाथं शोधितानामसंशयम् ।। ३ ।।
पुराणधान्यजातीनां गन्धमाशु विनश्यति ।।
श्रेष्ठं सार्षपकं तैलं शाकानां परिशोधने ।। ४ ।।
मांसं काठिन्यमायाति कौमल्यं चार्द्रकाम्बुना ।।
वरुणक्षारसंयोगान्मत्स्यस्यास्थि विलीयते ।। ।। ५ ।।
गण्डिकाभिः पलाशस्य क्षीरमायाति पक्वताम् ।।
कपित्थचूर्णयोगेन तथा चैव सुजातकैः ।। ६ ।।
घृतैः सुगन्धी भवति दग्धैः क्षिप्तैस्तथा यवैः ।।
पद्मवारिणि योगेन काञ्जिकस्याम्लता भवेत् ।। ७ ।।
गुडाद्यं शुद्धिमाप्नोति क्षीरेण च तथा युतम् ।।
पद्मरागसमं वर्णं चांशुमत्याः प्रजायते ।। ८ ।।
पानकानां महाभाग यस्याप्यन्यस्य चेच्छति ।।
क्षारयोगेन चाम्लस्य तथाम्लत्वं विनश्यति ।। ९ ।।
लवणाधिकविक्षेपं संजातविरसं ध्रुवम् ।।
सिकतापिण्डिकाक्षेपैः सुरसत्वमवाप्नुयात् ।। 2.63.१० ।।
चणकक्षारयोगेन पुष्पाणि च फलानि च ।।
सर्वाणि द्रुतिमायान्ति द्रुतानां कल्पना भवेत् ।। ११ ।।
गन्धवर्णरसाधानं पानकादिषु सर्वतः ।।
यथाकालं यथादेशं यथासात्म्यं च कारयेत् ।। १२ ।।
नात्यर्थदीप्तेन हुताशनेन नात्यन्तमन्देन च साध्यमन्नम्।।
रसं न चाप्यत्र भवेत्प्रभूतं नात्यल्पमेतत्कथितं मया ते।।१३।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० श्रीपरशुरामं प्रति पुष्करोपाख्याने भोज्यकल्पनो नाम त्रिषष्टितमोध्यायः।।६३।।
2.64
पुष्कर उवाच।।
शोधनं वसनं चैव तथैव च विरेचनम् ।।
भावना चैव पाकश्च बोधनं धूपनं तथा ।। १ ।।
वासनं चैव निर्दिष्टं कर्माष्टकमिदं शुभम् ।।
कपित्थबिल्वजम्बाम्रबीजपूरकपल्लवैः ।। २ ।।
कृत्वोदकं तु यद्द्रव्यं शोधितं शौचितं तु तत् ।।
तेषामभावे शौचं तु मृतदर्शाम्भसा भवेत् ।। ३ ।।
तदभावे तु कर्तव्यं तदा मुस्ताम्भसा द्विज।।।
शुष्कं शुष्कं पुनर्द्रव्यं पञ्चपल्लववारिणा ।। ४ ।।
प्रक्षालितं चाप्यसकृद्वमितं तत्प्रकीर्तितम् ।।
पञ्चपल्लवतोयेन क्वाथयित्वा पुनःपुनः ।। ५ ।।
द्रव्यं संशोषितं कृत्वा चूर्णं तस्य तु कारयेत् ।।
हरीतकीं ततः पिष्ट्वा पञ्चपल्लववारिणा ।। ६ ।।
तेन पथ्याकषायेण तच्चूर्णं भावयेत्सकृत् ।।
शोषितं शोधयेदेतद्विरेकं तत्प्रकीर्तितम् ।। ७ ।।
ततस्तु गन्धद्रव्येण यथेष्टं कुङ्कुमादिना ।।
भावयेत्तेन तद्द्रव्यं भावना सा प्रकीर्तिता ।। ८ ।।
तेनैव भावयेद्द्रव्यं पञ्चपल्लववारिणा ।।
आश्वत्थेनैव तेनाथ द्रव्यं राम तथास्तु तत् ।। ९ ।।
मृदा पिहितसत्त्वो तु मृण्मये भाजनद्वये।।
विपचेत्तु विधूमाग्नावर्तधूमः पुनःपुनः ।।2.64.१०।।
तावेव क्वाथयेत्तावत्तत्रैवानुगतो रसः ।।
एतत्पाकविधानं ते पञ्चमं परिकीर्तितम् ।।११।।
ततस्तु भावनाद्रव्यं कल्कपिष्टं नियोजयेत् ।।
कल्कपिष्टे तथा द्रव्ये बोधनं परिकीर्तितम् ।। १२ ।।।
ततस्तु पूजयेद्द्रव्यं पूर्वमेव तु पथ्यया ।।
ततस्तु गुरुशुक्तिभ्यां चन्दनागरुभिस्ततः ।। १३ ।।
कर्पूरमृगदर्पाभ्यां ततश्चैनं प्रधूपयेत् ।।
इत्येतद्वासनं राम कर्म तेऽभिहितं मया ।।१४।।
ततस्तु गुलिकां कृत्वा यथाकाममतन्द्रितः ।।
पुष्पैर्बकुलजातीनां तथान्येषां सुगन्धिभिः ।। १५ ।।
छायासु शोष्यमाणस्य वासना क्रियते तु या ।।
वासना सा विनिर्दिष्टा कर्मैतच्चाष्टमं शुभम् ।। १६ ।।
कर्माष्टकमिदं कृत्वा वचां पिण्डनिभां तथा ।।
मुस्तं शैलेयकं वापि सेव्यं वा द्विजसत्तम ।। १७ ।।
शोधयेद्गान्धिको विद्याद्यथान्यत्कर्मसेत्स्यति ।।
निर्यासानां च पुष्पाणां कर्माष्टकमिदं शुभम् ।। १८ ।।
विदुषा नैव कर्तव्यं कार्यमन्यत्र भार्गव ।।
अशोधितैस्तथा धूपाः कार्या द्रव्यैर्यथाविधि ।। १९ ।।
अतः परं तु ते योगान्कांश्चिद्वक्ष्यामि ताञ्छृणु ।।
नखं कुष्ठं धनं मांसीस्पृक्त्वा शैलेयकं जलम् ।। 2.64.२० ।।
तथैव कुङ्कुमं लाक्षा चन्दनागुरुणी नतम् ।।
सरला देवकाष्ठं च कर्पूरं कार्तया सह।।२१।।
बोलं कन्दुरकश्चैव गुग्गुलः श्रीनिवासकः ।।
सह सर्जरसेनेयं धूपद्रव्यैकविंशतिः ।। २२ ।।
धूपद्रव्यगणादस्मादेकविंशाद्यथेच्छया ।।
द्वेद्वे द्रव्ये समादाय सर्जभागे नियोजयेत् ।। २३ ।।
नवे पिण्याकवलयैः संयोज्य मधुना तथा ।।
धूपयोग्या भवन्तीह यथावत्स्वेच्छया कृताः ।। २४ ।।
त्वचं जातीफलं तैलं कुङ्कुमं ग्रन्थिपर्णकम् ।।
शैलेयं तगरं काष्ठं ताम्बूलं तगरं तथा ।।२५ ।।
मांसीसरावकुष्ठं च नव द्रव्याणि निर्दिशेत्।।
एतेभ्यस्तु समादाय द्रव्यं तत्र यथेच्छया ।। २६ ।।
मृगदर्पयुतं स्नानं कार्यं कन्दर्पवर्धनम् ।।
द्रुक्सुरानलदैस्तुल्यैर्वान्यकारसमायुतैः ।। २७ ।।
स्नानमुत्पलगन्धि स्यात्सतैलं कुङ्कुमैर्युतम् ।।
जातीपुष्पसुगन्धि स्यात्तगरार्धेन योजितम् ५२८ ।।
बालकाञ्चनसंयुक्तं पाटलाकुसुमायते ।।
सव्यापकं स्याद्बकुलैस्तुल्यगन्धि मनोहरम् ।। २९ ।।
नालिकावंशसहितं कुट्टिपादेन चार्यकम् ।।
द्विकेसरं वेणुपादं कुन्दपुष्पायते तथा ।। 2.64.३०।।
शैलपादार्थसंयुक्तं व्यक्तं मदनकं भवेत् ।।
मञ्जिष्ठा तगरं बालं द्वयं व्याघ्रनखं नखम् ।। ३१ ।।
गन्धपत्रं च विन्यस्य गन्धतैलं भवेच्छुभम् ।।
तैलं निष्पीडितं राम तिलैः पुष्पाधिवासितैः ।। ३२ ।।
वासनापुष्पसदृशं गन्धने तु भवेद्द्रुतम् ।।
पूर्ववच्छोधयित्वा तु मुस्तं सेव्यं वचां निशाम् ।। ३३ ।।
अभीष्टमन्यत्कलुषं यथावदनुलेपयेत् ।।
उद्धृत्य चन्दनादिं च शोधनं वमनं तथा ।। ३४ ।।
वर्जयित्वा विरेकं च शेषकर्माणि कारयेत् ।।
तद्वा भवति धर्मज्ञ वर्णकं त्रिदिवप्रियम् ।। ३५ ।।
पटवासांसि कार्याणि वर्णकैः श्लक्ष्णचूर्णितैः ।।
एलालवङ्गकक्कोलजातीफलनिशाकराः ।। ३६ ।।
जातिपत्रिकया सार्द्धं स्वतन्त्रं मुखवासकम् ।।
कर्पूरं कुङ्कुमं कान्तं मृगदर्पं हरेणुकम् ।। ३७ ।।
कक्कोलैलालवङ्गं च जाती कोशकमेव च ।।
द्रुक्पत्रं त्रुटिमुस्तं च लताकस्तूरिकं तथा ।। ३८ ।।
कण्टकानि लवङ्गस्य फलपत्रैश्च जातितः ।।
कटुकं च फलं राम कर्षिकाण्डां प्रकल्पयेत् ।।३९।।
तच्चूर्णे खादिरं सारं दद्यात्तुल्यतुलार्पितम् ।।
सहकण्यारसेनास्य कर्तव्या गुलिकाः शुभाः ।। 2.64.४० ।।
मुखे न्यस्ताः सुगंधास्ता मुखरोगविनाशनाः ।।
पूर्वं प्रक्षालितं सम्यक्पद्यपल्लववारिणा ।। ४१ ।।
शक्त्या तु गुलिकद्रव्यैर्वासिकं मुखवासकम् ।।
कटुकं दन्तकाष्ठं च गोमूत्रे वासितं त्र्यहम् ।। ४२ ।।
कृतं च पूगवद्राम मुखसौगन्ध्यकारकम् ।।
त्वक्पथ्ययोः समावंशौ सितभागार्धसंयुतौ ।। ४३ ।।
नागवल्लीसमो भाति मुखवासो मनोहरः ।।४४।।
कटुकफलनताम्बुत्वक्त्रुटिव्याधिपत्त्रैर्नलदनतसुराभिस्तुल्यभागान्वितानि ।।
द्विगुणितकृतमात्राप्रातिकक्कोलसैम्यैः शशिरसरसमोऽयं गन्धपत्रं विदध्यात् ।। ४५ ।।
निहितमिदमनर्घं कर्णपत्रं युवत्याः शमयति विविधानि श्रोत्रपालीगदानि ।।
अपरमपि च यावत्काममामोदमत्तुं भ्रमदलिपटलेन व्याप्यते वक्त्रभागः ।।४६ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखंडे मा० सं० रामं प्रति पुष्करोपाख्याने गन्धयुक्तिर्नाम चतुष्षष्टितमोऽध्यायः ।।६४।।
2.65
पुष्कर उवाच ।।
एवं कुर्यात्सदा स्त्रीणां रक्षणं पृथिवीपतिः ।।
न चेमां विश्वसेज्जातु पुत्रमात्राविशेषतः ।। १ ।।
न स्वपेत्स्त्रीगृहे रात्रौ विश्वासं कृत्रिमं भजेत् ।।
राजपुत्रस्य रक्षां च कर्तव्या पृथिवीक्षिता ।। २ ।।
आचार्यैश्चास्य कर्तव्यं नित्यं युक्त्यैव रक्षणम् ।।
धर्मार्थकाममोक्षाणां धनुर्वेदं च शिक्षयेत् ।। ३।।
रथेऽश्वे कुञ्जरे चैनं व्यायामं कारयेत्सदा ।।
शिल्पानि शिक्षयेच्चैवमाप्तैर्मिथ्या प्रियंवदैः ।। ४ ।।
शरीररक्षाव्याजेन रक्षिणोऽस्य नियोजयेत् ।।
न चास्य सङ्गो दातव्यः क्रुद्धलुब्धविमानितैः ।। ५ ।।
तथा च विनयेदेनं यथायौवनगं सुखे ।।
विषयैर्यैर्न कृष्येत सतां मार्गात्सुदुर्गमात् ।। ६ ।।
गुणाधानं न शक्यं तु यस्य कर्तुं स्वभावतः ।।
बन्धनं तस्य कर्तव्यं गुप्तदेशे सुखान्वितम् ।। ७ ।।
अविनीतकुमारं हि कुलमाशु विशीर्यते ।।
अधिकारेषु सर्वेषु विनीतं विनियोजयेत् ।। ८ ।।
आदौ स्वल्पे ततः पश्चात्क्रमेणाथ महत्स्वपि ।।
मृगयापानमक्षांश्च वर्जयेच्च महीपतिः ।। ९ ।।
एतान्संसेवमानास्तु विनष्टाः पृथिवीक्षितः ।।
बहवो भृगुशार्दूल येषां संख्या न विद्यते ।। 2.65.१० ।।
दिवास्वापं वृथावादं विशेषेण विवर्जयेत ।।
वाक्पारुष्यं न कर्तव्यं दण्डपारुष्यमेव च ।। ११ ।।
परोक्षनिन्दा च तथा वर्जनीया महीक्षिता ।।
अर्थस्य दूषणं राम द्विप्रकारं विवर्जयेत् ।। १२ ।।
अर्थानां दूषणं चैकं तथा चार्थेन दूषणम् ।।
प्राकाराणां समुच्छेदो दुर्गादीनां समक्रिया ।। १३ ।।
अर्थानां दूषणं प्रोक्तं विप्रकीर्णत्वमेव च ।।
अदेशकाले यद्दानमपात्रे दानमेव च ।। १४।।
अर्थैस्तु दूषणं प्रोक्तमसत्कर्मप्रवर्तनम् ।।
कामः क्रोधो मदो मानं लोभो हर्षस्तथैव च ।। १५ ।।
जेतव्यमरिषड्वर्गमाहुस्तु पृथिवीक्षिताम् ।।
एतेषां विजयं कृत्वा कार्यो भृत्यजयस्ततः ।। १६ ।।
कृत्वा भृत्यजयं राजा पौरजानपादाञ्जयेत् ।।
कृत्वा च विजयं तेषां शत्रून्बाह्यांस्ततो जयेत् ।। १७ ।।
बाह्याश्च त्रिविधा ज्ञेयास्तुल्यानन्तरकृत्रिमाः ।।
गुरवस्ते यथापूर्वं तेषु यत्नः सदा भवेत् ।। १८ ।।
पितृपैतामहं मित्रमाश्रितञ्च तथा रिपोः ।।
कृत्रिमं च महाभाग मित्रं त्रिविधमुच्यते ।। १९ ।।
तथापि च गुरुः पूर्वं भवेत्तत्रापि चाश्रितम् ।।
स्वाम्यमात्यजनपदा बलं दुर्गं तथैव च।।2.65.२०।।
कोशो मित्रं च धर्मज्ञ सप्ताङ्गं राज्यमुच्यते ।।
सप्ताङ्गस्यापि राज्यस्य मूलं स्वामी प्रकीर्तितः ।।२१।।
तन्मूलत्वात्तथाङ्गानां स तु रक्ष्यः प्रयत्नतः ।।
षडङ्गरक्षा कर्तव्या तेन चापि प्रयत्नतः ।। २२ ।। ।।
अङ्गेभ्यो यस्त्वथैकस्य द्रोहमाचरतेऽल्पधीः ।।
वधस्तस्य तु कर्तव्यः शीघ्रमेव महीक्षिता ।। २३ ।।
न राज्ञा मृदुना भाव्यं मृदुर्हि परिभूयते ।।
न भाव्यं दारुणेनापि तीक्ष्णादुद्विजते जनः ।। २४ ।।
काले मृदुर्यो भवति काले भवति दारुणः ।।
राजा लोकद्वयापेक्षी तस्य लोकद्वयं भवेत् ।। २५ ।।
भृत्यैः सह महीपालः परिहासं विवर्जयेत् ।।
भृत्याः परिभवन्तीह नृपं हर्षलसत्कथम् ।। २६ ।।
व्यसनानि च सर्वाणि भूपतिः परिवर्जयेत् ।।
लोकसंग्रहणार्थाय कृतकव्यसनी भवेत् ।। ।। २७ ।।
शौण्डीर्यस्य नरेन्द्रस्य नित्यमुत्क्षिप्तचेतसः ।।
जनो विरागमायाति सदा दुःसेव्यभावतः ।। २८ ।।
स्मितपूर्वाभिभाषी स्यात्सर्वस्यैव महीपतिः ।।
मध्येष्वपि महाभागः भ्रुकुटिं न समाचरेत् ।। २९ ।।
भाव्यं धर्मभृतां श्रेष्ठ स्थूललक्ष्येण भूभुजा ।।
स्थूललक्ष्यस्य वशगा सर्वा भवति मेदिनी ।। 2.65.३० ।।
अदीर्घसूत्रश्च भवेत्सर्वकर्मसु पार्थिवः ।।
दीर्घसूत्रस्य नृपतेः कर्महानिर्ध्रुवं भवेत् ।। ३१ ।।
रागे दर्पे च माने च द्रोहे पापे च कर्मणि ।।
अप्रिये चैव वक्तव्ये दीर्घसूत्रः प्रशस्यते ।। ३२ ।।
राज्ञा संवृतमन्त्रेण संभाव्यं द्विजसत्तम ।।
तस्यासंवृतमन्त्रस्य ज्ञेयाः सर्वापदो ध्रुवाः ।। ३३ ।।
कृतान्येव हि कर्माणि ज्ञायन्ते यस्य भूपतेः. ।।
नारब्धानि महाभाग तस्य स्याद्वसुधा वशे ।। ३४ ।।
मन्त्रमूलं सदा राज्यं तस्मान्मन्त्रः सुरक्षितः ।।
कर्तव्यः पृथिवीपालैर्मन्त्रभेदभयात्सदा ।। ३५ ।।
मन्त्रवित्साधितो मन्त्रः संयतानां सुखावहः ।।
मन्त्रभेदेन बहवो विनष्टाः पृथिवीक्षितः ।। ३६।।
आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च ।।
नेत्रवक्त्रविकारैश्च ज्ञायतेऽन्तर्गतं मनः ।। ३७ ।।
न यस्य कुशलैस्तस्य वशे सर्वा वसुन्धरा ।।
भवतीह महीभर्तुः सदा भार्गवनन्दन ।। ३८ ।।
नैकस्तु मन्त्रयेन्मन्त्रं न राजा बहुभिः सह ।।
बहुभिर्मन्त्रयेत्कामं राजा मन्त्रान्पृथक्पृथक् ।। ३९ ।।
मन्त्रिणामपि नो कुर्यान्मन्त्री मन्त्रप्रकाशनम् ।।
क्वचित्कश्चिच्च विश्वास्यो भवतीह सदा नृणाम् ।। 2.65.४० ।।
निश्चयश्च तथा मन्त्री कार्य एकेन सूरिणा ।।
भवेद्वा निश्चयावाप्तिः परबुद्ध्युपजीवनात् ।। ४१ ।।
एकस्यैव महीभर्तुर्भूयः कार्ये सुनिश्चिते ।।
ब्राह्मणान्पर्युपासीत त्रय्यां राम मुनींश्च तान् ।। ४२ ।।
नासच्छास्त्ररतान्मूढांस्ते हि लोकस्य कण्टकाः ।।
वृद्धांश्च नित्यं सेवेत विप्रान्वेदविदः शुचीन् ।। ४३ ।।
तेभ्यो हि शिक्षेद्विनयं विनीतात्मा हि नित्यशः ।।
समग्रां वशगां कुर्यात्पृथिवीं नात्र संशयः ।। ।। ४४ ।।
बहवोऽविनयान्नष्टा राजानः सपरिच्छदाः ।।
वनस्थाश्चैव राज्यानि विनयात्प्रतिपेदिरे ।। ४५ ।।
त्रैविद्येभ्यस्त्रयीं विद्याद्दण्डनीतिं च शाश्वतीम् ।।
आन्वीक्षिकीं चात्मविद्यां वार्तारम्भं च लोकतः ।। ४६ ।।
इन्द्रियाणां जये योगं समातिष्ठेद्दिवानिशम् ।।
जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः ।। ४७ ।।
यजेत राजा क्रतुभिर्बहुभिश्चाप्तदक्षिणैः ।।
धर्मार्थं चैव विप्रेभ्यो दद्याद्भोगान्धनानि च ।।४८।।
सांवत्सरिकैराप्तैश्च राष्ट्रादाहारयेद्बलिम् ।।
स्याच्चाम्नायपरो लोके वर्तेत पितृवन्नृषु ।। ४९ ।।
आवृतानां गुरुकुलाद्द्विजानां पूजनं भवेत्।।
नृपाणामक्षयो ह्येष निधिर्ब्राह्मो विधीयते ।।2.65.५०।।
न तं स्तेना नाप्यमित्रा हरन्ति न च नश्यति।।
तस्माद्राज्ञा निधातव्यो ब्राह्मणेष्वक्षयो निधिः ।। ५१ ।।
समोत्तमाधमै राजा ह्याहूताः पालयन्प्रजाः ।।
न निवर्तेत संग्रामात्क्षात्रं व्रतमनुस्मरन् ५२।।
संग्रामेष्वनिवर्तित्वं प्रजानां परिपालनम् ।।
शुश्रूषा ब्राह्मणानां च राज्ञां निश्रेयसं परम् ।। ५३।।
कृपणानां च वृद्धानां विधवानां च योषिताम् ।।
योगं क्षेमं च वृत्तिं च तथैव परिकल्पयेत् ।। ।। ५४ ।।
वर्णाश्रमव्यवस्था तु तथा कार्या विशेषतः ।।
स्वधर्मप्रच्युतान्राजा स्वधर्मे विनियोजयेत् ।। ५५ ।।
आश्रमेषु यथाकालं तैलभाजनभोजनम् ।।
स्वयमेव नयेद्राजा सत्कृतान्नवमन्य च ।। ५६ ।।
तापसे सर्वकार्याणि राज्यमात्मानमेव च ।।
निवेदयेत्प्रयत्नेन देववच्चैनमर्चयेत् ।। ५७ ।।
द्वे प्रज्ञे वेदितव्ये च ऋज्वी वक्रा च मानवैः ।।
शठाञ्ज्ञात्वा न सेवेत प्रतिबोधं तदा गतान् ।। ५८ ।।
नास्यच्छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य तु ।।
गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ।। ५९ ।।
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ।।
विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ।। 2.65.६० ।।
विश्वासयेच्चापि परं तत्त्वभूतेन हेतुना ।।
बकवच्चिन्तयेदर्थान्सिंहवच्च पराक्रमेत् ।। ६१ ।।
बकवच्चावलुम्पेत शशवच्च विनिष्पतेत् ।।
दृढप्रहारी च भवेत्तथा सूकरवन्नृपः ।। ६२ ।।
चित्राकारश्च शिखिवद्दृढभक्तस्तथान्धवत् ।।
भवेच्च मधुराभाषी शुककोकिलवन्नृपः ।।६३ ।।
काकशंकी भवेन्नित्यमज्ञातवसतिं वसेत् ।।
नापरीक्षितपूर्वं च भोजनं शयनं स्पृशेत् ।। ६४ ।।
वस्त्रं पुष्पमलङ्कारं यच्चान्यन्मनुजोत्तम ।।
न गाहेज्जनसंबाधं न चाज्ञातं जलाशयम् ।। ६५ ।।
नापरीक्षितपूर्वैस्तु पुरुषैराप्तकारिभिः ।।
नारोहेत्कुञ्जरं व्यालं नादान्तं तुरगं तथा ।। ६६ ।।
नाविज्ञातां स्त्रियं गच्छेन्नैव चाशुभवाससम् ।।
नारोहेद्विषमां नावं नापरीक्षितनाविकाम् ।। ६७ ।।
ये चास्य भूमिं जयतो भवेयुः परिपन्थिनः ।।
तानानयेद्वशं सर्वान्सामादिभिरुपक्रमैः ।। ६८।।
यथा न स्यात्कृशीभावः प्रजानामनवेक्षया ।।
तथा राज्ञा विधातव्यं स्वराष्ट्रं परिरक्षता ।। ६९ ।।
मोहाद्राजा स्वराष्ट्रं यत्कर्षयत्यनवेक्षया ।।
सोऽचिराद्भ्रंशते राज्याज्जीविताच्च सबान्धवः ।। 2.65.७० ।।
भृतो वत्सो जातबलः कर्मयोग्यो यथा भवेत् ।।
तथा राष्ट्रं महाभाग भृतं कर्ममहद्भवेत् ।। ७१ ।।
यो राष्ट्रमनुगृह्णाति राजा सुपरिरक्षति ।।
तं प्रजाश्चोपजीवन्ति विन्दते सुमहत्फलम् ।। ७२ ।।
दुह्याद्धिरण्यं धान्यं च मही राज्ञा सुरक्षिता ।।
नित्यं स्वेभ्यः परेभ्यश्च यथा माता यथा पिता ।। ७३ ।।
गोपिनो हि सदा कार्यः संविभागः प्रियाणि च ।।
अजस्रमुपयोक्तव्यं फलं तेभ्यस्तथैव च ।। ७४ ।।
सर्वं कर्मेदमायत्तं विधानं चैव पौरुषम् ।।
तयोर्दैवमचिन्त्यं हि पौरुषे विद्यते क्रिया ।। ७५ ।।
एवं महीं पालयतोऽस्य भर्तुर्लोकानुरागः परमो भवेत्तु।।
लोकानुरागप्रभवा हि लक्ष्मीर्लक्ष्म्या भवेच्चैव परश्च लोकः ।।७६।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०राम पुष्करसंवादे राजधर्मवर्णनन्नाम पञ्चषष्टितमोऽध्यायः ।।६५।।