विष्णुधर्मोत्तरपुराणम्/ खण्डः २/अध्यायाः ०५६-०६०

विकिस्रोतः तः
Jump to navigation Jump to search

2.56
।। श्रीपरशुराम उवाच ।।
भगवञ्च्छ्रोतुमिच्छामि पुरुषाणां चिकित्सितम् ।।
तन्ममाचक्ष्व देवेश तत्र मे संशयो महान् ।। ३ ।।
पुष्कर उवाच ।।
रक्षन्बलं महाभाग लङ्घयेज्ज्वरितं नरम् ।।
सविश्वं लाजमण्डं तु लंघितं तत्तु भोजयेत् ।। ।।२।।
मुस्तपर्पटकोशीरचन्दनोद्दीप्यनागरैः ।।
घृतं शीतं पयश्चात्र दातव्यं तृट्प्रशान्तये ।। ३ ।।
षडहे च व्यतिक्रान्ते तिक्तकं पाययेद्रसम् ।।
स्नेहयेत्पाकदोषं च ततस्तं च विरेचयेत् ।। ४ ।।
जीर्णषष्टिकनीवाररक्तशालिप्रमोदकाः ।।
तद्विधाश्चतुरः श्रेष्ठाः यवानां विकृतिस्तथा ।। ५ ।।
मुद्गा मसूराश्चणकाः कुलत्थाः समकुण्ठकाः ।।
आढकी च फलं मूले यूषार्थं ज्वरिणां हितम् ।। ६ ।।
कृष्णशुक्लकवन्तीर्कतित्तिरैणकपिञ्जलाः ।।
लावाद्या जाङ्गलश्रेष्ठाः ज्वरिणां तद्विधाश्च ये ।। ७ ।।
पटोलं सफलं निम्बं कर्कोटककटिल्लकम् ।।
शाकं पर्पटकं चाद्यादम्लार्थे दाडिमं हितम् ।। ।। ८ ।।
अयोगे वमनं शस्तमूर्द्धगे च विरेचनम् ।।
रक्तपित्ते तथा पाने षडङ्गं शुण्ठिवर्जितम् ।। ९ ।।
लाजा सिञ्चति कामं तु यवगोधूमशालयः ।।
मसूरमुद्गचणकाः खण्डिताः समकुष्ठिकाः ।। 2.56.१० ।।
हृद्या गोधूमिका भक्ष्या घृतक्षीरोपसाधिताः ।।
सक्षौद्रशर्करोपेतास्तथा वृषरसो हितः।। ११ ।।
अतीसारे पुराणानां शालीनां भक्षणं हितम् ।।
अनभिष्यदि वा चान्यद्रौद्रवत्सकसंयुतम् ।। १२ ।।
मारुतानां जये यत्नः कार्यो गुल्मेषु सर्वथा ।।
वाट्यक्षीरेण चाश्नीयाद्वस्तुकं घृतसाधितम् ।। १३ ।।
कुक्कुटा बर्हिणः श्रेष्ठास्तिक्ता गोधूमशालयः ।।
हिता जठरिणां भोज्ये यवगोधूमशालयः ।।१४ ।।
मुद्गाः कुलत्थाः कौलानि जाङ्गला मृगपक्षिणः ।।
पटोलनिम्बधान्यास्तु शुष्कमूलकसैन्धवैः ।। १५ ।।
मातुलुङ्गरसा जातिहिङ्गुवृक्षाम्लवेतसैः ।।
आहारं जठरे युक्त्या यथादोषं प्रकल्पयेत्।। १६ ।।
कुष्ठिनां च तथा शस्तं पानार्थे खदिरोदकम्।।
मसूरमुद्गौ यूषार्थे भोज्ये जीर्णाश्च शालयः ।। १७ ।।
निम्बपर्पटकौ शाकौ छागलानां तथा रसः ।।
विडङ्गं मरिचं शुण्ठी कुष्ठं रोध्रं ससर्जिकम्।। १८ ।।
मनःशिलैः कृतो लेपः कुष्ठहा मूत्रपेषितः ।।
अपूपसक्तुकुल्माषवाज्याद्या मेहिनां हिताः ।। १९ ।।
यवान्नविकृतिर्मुद्गाः कुलत्थाजीर्णशालयः ।।
तिक्तरूक्षाणि शाकानि तिक्तानि हरितानि च ।। 2.56.२० ।।
तिलानि तिलशिग्रुर्वा बिभीतेङ्गुदजानि तु ।।
अनभिष्यन्दि यच्चान्यद्भोजने तत्प्रशस्यते ।। २१ ।।।
मुद्गाः सयवगोधूमा धान्यं वर्षस्थितं च यत् ।।
जाङ्गालस्वरसः प्रोक्तो भोजने राजयक्ष्मिणाम्।। २२।।
कुलत्थमुद्गकालाबुशुष्कमूलकजाङ्गलैः. ।।
यूषैर्वा वाष्किरैः स्निग्धैर्दधिदाडिमसाधितैः ।। २३ ।।
मातुलुङ्गरसक्षौद्रद्राक्षाव्योषादिसंस्कृतैः ।।
यवगोधूमशाल्यन्नैर्भोजयेच्छावसं परम् ।। २४ ।।।
दशमूलफलारास्नाकुलत्थैरुपसाधितैः ।।
पयोव्यूषरसक्वाथः श्वासहिक्कानिवारणः ।। २५ ।।
शुष्कमूलककौलत्थमौद्गजांगलजै रसैः ।।
यवगोधूमशाल्यन्नं जीर्णाशोंऽशं समाचरेत् ।। २६ ।।
जीर्ण पक्वरसं शीधुमार्द्वीकाँस्त्वथ वा पिबेत् ।।
शोथवान्सगुडां पथ्यां खादेद्वा गुडलावनम् ।। ।। २७ ।।
चित्रं विचित्रकं चोभौ ग्रहणीरोगनाशनौ ।।
पुराणयवगोधूमशालयो जाङ्गलं रसम् ।। २८ ।।
मुद्गामलकखर्जूरमृद्वीकाबदराणि च ।।
मधुसर्पिःपयस्तक्रं निम्बपर्पटकौ वृषम् ।। २९ ।।
तक्रवृद्ध्यानुशस्यन्ते सततं वातरोगिणाम् ।।
हृद्रोगिणे प्रदातव्यं प्रयत्नेन विरेचनम् ।।2.56.३०।।
पिप्पलीनां प्रयोगश्च प्रमृते धर्मिणस्तथा ।।
चकार नाडी शीधूनि युक्ता च शिशिराम्भसा ।। ३१ ।।
युक्तसौवर्चलाजाक्षिमथ शस्तं मदात्यये ।।
सक्षौद्रपयसा लाक्षां पिबेत क्षतवान्नरः ।। ३२ ।।
क्षयं मांसरसाहारो वह्निसंरक्षणाज्जयेत् ।।
शालयो भोजने शक्ता नीवारकलमादयः ।। ३३ ।।
यवान्नविकृतिर्मांसं शाकं सौवर्चलं सुधीः ।।
पथ्यं तथैव तासां च मण्डं तक्रं च वारुणी ।। ३४ ।।
मुस्ताभ्यासस्तथा लेपः चित्रकेण हरिद्रया ।।
यवान्नविकृतिः शालिर्वास्तुकी च सुवर्चलम् ।। ३५ ।।
त्रपुसी चारुगोधूमाः क्षीरेक्षुघृतसंयुताः ।।
मूत्रकृच्छे च शस्ताः स्युः पाने मण्डसुरादयः .।। ३६ ।।
लाजा सक्तु तथा क्षौद्रं शाल्यं मांसपरूषकम् ।।
वृन्ताकालाबुशिखिनश्छर्दिघ्नाः पानकानि च ।। ।। ३७ ।।
शाल्यन्नं तोयपयसी केवलोष्णश्रितेऽपि वा ।।
तृष्णाघ्ना मुस्तगुडयोर्गुलिका वा मुखे धृता ।। ३८ ।।
यवान्नविकृतिर्यूषं शुष्कमूलकजं तथा ।।
शाकं पटोलवेत्राश्रमूरुस्तम्भविनाशनम् ।। ३९ ।।
मुक्ताढकमसूराणामतीरैर्जाङ्गलैस्तथा ।।
ससैन्धवघृतद्राक्षाशुण्ठ्यामलकोलजैः ।। 2.56.४० ।।
यूषैः पुराणगोधूमयवशाल्यन्नमभ्यसेत् ।।
विसर्पं ससिताक्षौद्रमृद्वीकादाडिमोदरः ।। ४१ ।।
रक्तषष्टिकगोधूमयवमुद्गादिवल्लघु ।।
काचमाची च वेत्राग्रं वास्तुकं च सुवर्चला ।। ४२ ।।
वातशोषितनाशाय तोयं शस्तं सिता मधु ।।
नासारोगे च सहितं घृतदूर्वाप्रसाधितम् ।। ४३ ।।
भृङ्गराजरसे सिद्धे तैलं धात्रीरसोऽपि वा ।।
न स्यात्सर्वामयेष्विष्टं मूर्धजत्रूद्भवेष्वथ ।। ४४ ।।
शीततोयान्वपतनं तिलानां राम भक्षणम् ।।
द्विजदार्ढ्यकरं प्रोक्तं तथा पुष्टिकरं शुभम् ।। ४५ ।।
गण्डूषस्तिलतैलेन द्विजदार्ढ्यकरः परः ।।
विडङ्गचूर्णं गोमूत्रं सर्वत्र कृमिनाशनम् ।। ४६ ।।
धात्रीफलान्यथाज्यं च शिरोलेपनमुत्तमम्।।
शिरोरोगविनाशाय स्निग्धशीतं च भोजनम्।।४७।।
तैलं वा वस्ति मूत्रं वा कर्णपूरणमुत्तमम् ।।
कर्णशूलविनाशाय शुद्धं तैलं निषेचयेत् ।। ४८ ।।
गिरिभृच्चन्दनं माल्यं मालतीकालिकास्तथा ।।
संयोज्य याकृतावर्तिः क्षतचक्रहरीतुसा ।।४९ ।।
व्योषं त्रिफलयायुक्तं सुरूकं च रसाञ्जनम् ।।
सर्वाक्षिरोगशमनं तथा चैव रसाञ्जनम् ।। 2.56.५० ।।
आज्यभृष्टं शिलापिष्टरोथकाञ्जिकसैन्धवैः ।।
आश्च्योतनविनाशाय सर्वरोगामयेषु च ।। ५१ ।।
गिरिभृच्चन्दनैर्लेपो बहिर्लेपस्य शस्यते ।।
नेत्रामयविघातार्थं त्रिफलां शीलयेत्सदा ।। ५२।।
रात्रौ तु मधुसर्पिभ्यां दीर्घमायुर्जिजीविषुः ।।
शतावरे रसे सिद्धौ वृष्यौ क्षीरघृतौ स्मृतौ।।५३।।
कलविङ्कानि माषाश्च वृषौ क्षीरं घृतं तथा ।।
आयुष्या त्रिफला चैव पूर्ववन्मधुकान्विता ।। ५४ ।।
मधुकायोरजोपेता वलीपलितनाशिनी ।।
वचसिद्धं घृतं राम तदा भूतविनाशनम् ।। ५५ ।।
कण्ठे बुद्धिप्रदं चैव तथा सर्वार्थसाधकम् ।।
वल्गकल्ककषायेण सिद्धमभ्यञ्जनं हितम्।।५६।।
रास्ना सहचरैर्वापि तैलं वातविकारिणाम् ।।
अनभिष्यन्दि यच्चान्यत्तद्व्रणेषु प्रशस्यते ।। ५७ ।।
पक्वस्य च तथा भेदं निम्बशीलं च रोपणे ।।
तथा तस्योपचारश्च बलिकर्मार्थिशेषतः ।। ५८ ।।
सूतिका च तथा रक्षा व्रणिनां तु सदा हिता ।।
जङ्गमे विषदंशे तु दातव्यं स्थावरं विषम् ।। ।।५९।।
स्थावरे सर्पदष्टस्य हितं मांसस्य भक्षणम् ।।
भक्षणं निम्बपत्राणां सर्पदष्टस्य भेषजम् ।। 2.56.६० ।।
वन्ध्याकार्कोटजं मूलं छागमूत्राभिभावितम् ।।
नस्यं काञ्चिकसंपिष्टं विषवेगविनाशनम् ।।६१।।
बन्धनाद्दूषणं छेददाहस्रावाः प्रकीर्तिताः ।।
पूर्वदष्टस्य पाने च हृदयावरण घृतम् ।। ।।६२।।
तालनिम्बदलं केशा जीर्णचैलं यवा घृतम् ।।
धूपो वृश्चिकविद्धस्य शिखिपत्रं घृतेन वा।।६३।।
अर्कक्षीरेण संपिष्टं लेपबीजं पलाशजम्।।
वृश्चिकार्त्तस्य कृष्णा वा शिरीषफलसंयुता ।। ६४ ।।
तिलकास्फोटयोर्दूनं गिरिकर्ण्यास्तिलस्य च ।।
शर्करामधुसर्पींषि पानमाखुविषापहम् ।। ।।६५।।
आर्कक्षीरं तिलास्तैलं पललं च गुरु समम् ।।
पानाज्जयति दुर्वारमविषं शीघ्रमेव च।।६६।।
पीत्वा मूलं त्रिवृत्तुल्यं तण्डुलीयस्य सर्पिषा।।
सर्पकीटविषाण्याशु जयत्यतिबलान्यपि ।। ६७ ।।
चन्दनं पद्मकं कुष्ठं नताम्बूशीरपाटलाः ।।
निर्गुण्डीशाखिशैलूषलूताविषहरोऽगदः ।। ६८ ।।
शिरोविरेचनं शस्तं गुडनागरकं द्विज ।।
नस्यकर्मणि वस्तौ च तथा भृङ्गे च भार्गव ।। ६९ ।।
तैलमेव परं विद्यात्स्नेहपाने तथा घृतम् ।।
स्वेदनीयः परो वह्निः सिताम्भःस्तम्भनं परम् ।। 2.56.७० ।।
त्रिवृद्धि रेचने श्रेष्ठा वमने मदनं तथा ।।
वस्तिर्विरेको वमनं तैलं सर्पिस्तथा मधु ।।७१।।
रक्तपित्ते बला रास्ना क्रमेण परमौषधम् ।।
शारीरमानसाग्रं तु सहजा व्याधयो मताः ।। ७२ ।।
शारीरज्वरकुष्ठाद्याः क्रोधाद्या मानसा मताः ।।
आगन्तवोऽभिघातोत्थाः सहजाः क्षुत्तृषादयः ।। ७३ ।।
शारीरागन्तुनाशाय सततं सूर्यवासरे ।।
गुडाज्यलवणोपेतं सहिरण्यं द्विजातये ।।७४।।
दद्याच्च धूपं धर्मज्ञ प्रीणयेच्च दिवाकरम् ।।
आरोग्यमेतेनाप्नोति कामाँश्च मनसेप्सितान् ।। ७५ ।।
सततं दिवसे चान्द्रे स्नानमभ्यङ्गपूर्वकन् ।।
यः प्रयच्छति विप्राय सोऽपि रोगैर्विमुच्यते ।। ।।७६ ।।
शनैश्चरदिने दत्त्वा तैलं विप्रेषु शक्तितः।।
नित्यमेव महाभाग रोगनाशनमाप्नुयात् ।। ७७ ।।
आश्विनं सकलं मासं प्रत्यहं गोरसैर्द्विजान् ।।
भोजयित्वा महाभाग रोगनाशनमाप्नुयात् ।।७८।।
स्नापयित्वा तथा लिङ्गं देवदेवस्य शूलिनः ।।
घृतेन पयसा चैव सर्वरोगैर्विमुच्यते ।। ७९ ।।
गायत्र्यावाहयेद्विद्वान्दूर्वां त्रिमधुनाप्लुताम् ।।
पूतश्च ब्राह्मणाशीर्भिः सर्वरोगैर्विमुच्यते ।। 2.56.८० ।।
यस्मिन्भे व्याधिमाप्नोति कृत्वा तस्य बलिक्रियाम् ।।
भपूजाविधिना राम तस्माद्रोगाद्विमुच्यते।।८१।।
कर्तव्यमथवा स्नानं तथारोग्यविवर्धनम् ।।
आरोग्यदां द्वितीयां वा प्रतिपद्वा भृगूत्तम ।। ८२ ।।
कर्तव्यं वैष्णवं वापि व्रतमारोग्यकारकम् ।।
मानसानां निजानां च तथा चैवाविपत्तये ।।८३ ।।
शरणं देवदेवेशं व्रजेत मधुसूदनम् ।।
सर्वगं तं जगन्नाथमजेयं पुरुषोत्तमम् ।। ८४ ।।
स्तुवन्नामसहस्रेण व्याधीन्सर्वान्व्यपोहति ।।
दोषधातुमलाधारं शरीरं प्राणिनां द्विज ।। ८५ ।।
वातपित्तकफा दोषा धातवश्च तथा शृणु ।।
भुक्तं पक्वाशयादन्नं द्विधा याति भृगूत्तम ।। ८६ ।।
अंशेनैकेन किट्टत्वं रसतां चापरेण च ।।
किट्टभागो मलस्तत्र विण्मूत्रस्वेददूषकः ।। ८७ ।।
नासामलं देहमलं तथा कर्णमलं च यत् ।।
रसभागे रसं तत्र सम्यक्शोणिततां व्रजेत् ।। ८८ ।।
मांसं रक्तन्ततो मेदो मेदसोस्थ्नां च सम्भवः ।।
अस्थ्नो मज्जा ततः शुक्रं शुक्राद्राम ततो रसः ।।८९ ।।
सर्वेषामेव धातूनां सारमोजः प्रकीर्तितम् ।।
देशं सात्म्यं च यां शक्तिं कालं प्रकृतिमेव च ।।2.56.९० ।।
ज्ञात्वा चिकित्सितं कुर्याद्भेषजस्य तथा बलम् ।।
तिथिं रिक्तां दिनेशं च तथैव च कुजार्कजौ।। ।। ९१ ।।
दारुणोग्राणि चर्क्षाणि वर्जयेद्भेषजे सदा ।।
हरिगोद्विजचन्द्रार्कसुराग्नीन्प्रतिपूज्य च।। ९२ ।।
श्रुत्वा मन्त्रमिमं विद्वान्भेषजारम्भमाचरेत् ।।
ब्रह्मत्र्यक्षाश्विरुद्रेन्द्रभूचन्द्रार्कनलानिलाः ।। ९३ ।।
ऋषय ओषधिग्रामा भूतसर्गाश्च पान्तु ते।।
रसायनमिवर्षीणां देवानाममृतं यथा ।। ९४ ।।
स्वधेवोत्तमनागानां भैषज्यमिदमश्नुते ।।
वातश्लेष्मात्मको देशो बहुवृक्षो बहूदकः ।। ९५ ।।
अनूप इति विख्यातो जाङ्गलस्तद्विवर्जितः ।।
किंञ्चिद्वृक्षाधिको देशस्तथा साधारणः स्मृतः ।।९६।।
जाङ्गलः पित्तबहुलो मध्यः साधारणो मतः।।
रूक्षशीतश्चलो वातः पित्तमुष्णकटुद्रवम् ।। ९७ ।।
स्थिराम्लस्निग्धमधुरं बलासं च प्रचक्षते ।।
वृद्धिः समानैः सर्वेषां विपरीतैर्विपर्ययः ।। ९८ ।।
समाः स्वाद्वम्ललवणाः श्लेष्मला वायुनाशनाः ।।
कटुतिक्तकषायाश्च वातलाः श्लेष्मनाशनाः ।। ९९ ।।
कट्वम्ललवणा ज्ञेयास्तथा पित्तविवर्धनाः ।।
तिक्ताः स्वादुकषायाश्च तथा पित्तविनाशनाः ।। 2.56.१०० ।।
स्वभावतस्तथा कर्म ते च कुर्वन्ति भार्गव ।।
शिशिरे च वसन्ते च निदाघे च तथा क्रमात् ।। १०१ ।।
चयप्रकोपप्रशमास्तथा पित्तस्य कीर्तिताः ।।
निदाघे वारिदा रात्रे तथा शरदि भार्गव ।। १०२ ।।
चयप्रकोपप्रशमास्तथा वातस्य कीर्तिताः ।।
चयप्रकोपप्रशमाः श्लेष्मणश्च प्रकीर्तिताः ।। १०३ ।।
संवत्सरो द्वादशाङ्गो मासभेदेन कीर्तितः ।।
द्विधा तु मतभेदेन भूय एव प्रकीर्तितः ।। १०४ ।।
आदानश्च विसर्गश्च तत्रापि परिकीर्तितौ ।।
वर्षादयो विसर्गाश्च हेमन्ताद्याः स्मृतास्त्रयः ।। १०५ ।।
मेघकाले च शरदि हेमन्ते च यथाक्रमात् ।।
चयप्रकोपप्रशमस्तथा पित्तस्य कीर्तितः ।। १०६ ।।
शिशिराद्यास्तथादानं ग्रीष्मान्ता ऋतवस्त्रयः ।।
सौम्यो विसर्गस्त्वादानं चाग्नेयं परिकीर्तितम् ।। १०७ ।।
वर्षादीन्स्त्रीनृतून्राम चतुःपर्यायगोरसान् ।।
विवर्धयेत्तथा तिक्तकषायकटुकान्क्रमात् ।। १०८ ।।
यथा रजन्यो वर्धन्ते बलमेवं विवर्धते ।।
क्रमशोऽथ मनुष्याणां हीयमानासु हीयते ।। १०९ ।।
रात्रिभुक्तं दिनान्ते तु दिवसस्य तथैव च ।।
आदिमध्यावसानेषु कफपित्तसमीरणाः ।। 2.56.११० ।।
प्रकोपं यान्ति कोपादौ काले येषां चयः स्मृतः ।।
प्रकोपान्तरजे काले शमस्तेषां प्रकीर्तितः ।। १११ ।।
अतिभोजनतो राम तथा चाभोजनेन च ।।
सर्वेऽपि रोगा जायन्ते वेगोदीरणधारणैः ।। ११२ ।।
अन्नेन कुक्षेर्द्वावंशौ पानेनैकं प्रपूरयेत् ।।
आश्रयं पवनादीनां तथैकमवशेषयेत ।। ११३ ।।
व्याधेर्निदानस्य तथा विपरीतमथौषधम् ।।
कर्तव्यमेतदेवात्र मया सार्धं प्रकीर्तितम् ।। ११४ ।।
नाभेरूर्ध्वमधश्चैव गुदश्रोण्योस्तथैव च ।।
बलासपित्तवातानां देहे स्थानं प्रकीर्तितम् ।। ११५ ।।
तथापि सर्वगा एते देहे वायुर्विशेषतः ।।
देहस्य मध्ये हृदयं स्थानं तु मनसः स्मृतम् ।। ११६ ।।
कृशोल्पकेशश्चपलो बहुवाग्विषमानलः ।।
व्योमगश्च तथा स्वप्ने वातप्रकृतिरुच्यते ।। ११७ ।।
अकालपलितः क्रोधी प्रस्वेदी मधुरप्रियः ।।
स्वप्ने च दीप्तिमत्प्रेक्षी पित्तप्रकृतिरुच्यते ।। ११८ ।।
दृढाङ्गः स्थिरचित्तश्च सुप्रजः स्थिरमूर्धजः ।।
शुक्लाम्बुदर्शौ स्वप्ने च कफप्रकृतिको नरः ।। ११९ ।।
तामसा राजसाश्चैव सात्त्विकाश्च तथा स्मृताः ।।
मानुषा भृगुशार्दूल वातपित्तकफाधिकाः ।। 2.56.१२० ।।
रूक्षशीतव्यवायाध्वगुरु कर्म प्रवर्तते ।।
कदन्नभोजनाद्वायुर्देहे शोकाच्च कुप्यति ।। १२१ ।।
विदाहिनां तथोष्णानामुच्चैरध्वनिषेविणाम् ।।
पित्तं प्रकोपमायाति भयेन च तथा द्विज ।। १२२ ।।
अत्यंबुपानविषमभोजिनां भुवि शायिनाम् ।।
श्लेष्मा प्रकोपमायाति तथा ये चाल्पभोजनाः ।। १२३ ।।
वातपित्तकफोत्थानि सर्वरोगाणि देहिनाम् ।।
लक्षयेल्लक्षणं विद्वाञ्शमयेत्तदनन्तरम् ।। १२४ ।।
अस्थिभङ्गः कषायित्वमास्ये शुष्कास्यता तथा ।।
जृंभणं लोमहर्षश्च वातिकव्याधिलक्षणम् ।। १२५ ।।
नखनेत्रशिराणां च पीतता कटुता मुखे ।।।
तृष्णा दाहोऽम्लता चैव पित्तव्याधिनिदर्शनम् ।।। १२६ ।।
आलस्यं च प्रसेकश्च गुरुता मधुरास्यता ।।
उष्णाभिलाषिता चेति श्लैष्मिकं व्याधि लक्षणम् ।। १२७ ।।
स्निग्धोष्णमन्नं ससुखा च शय्या मनोऽनुकूलाः सुहृदः कथाश्च ।।
अभ्यञ्जनं चाप्यतितैलपानं वातप्रकोपप्रशमाय दृष्टम् ।।। ।। १२८ ।।
सरांसि वाप्यः सरितः सुशीताश्चन्द्रांशवश्चन्दनपङ्कलेपाः ।।
संसेवितेनाशु शमं प्रयाति विलासमग्र्यं मनसः प्रहर्षात् ।। १२९ ।।
सर्वामयार्तिप्रशमार्थमेकां त्वमोषधीं राम निबोध गुह्याम्।।
भक्तिः प्रभोर्देववरस्य विष्णोर्या सर्वकामैः पुरुषं युनक्ति ।। 2.56.१३० ।। ।।
इति श्रीविष्णुधमोत्तरे द्वितीयखण्डे मा० सं० पुरुषचिकित्सानाम षट्पञ्चाशत्तमोऽध्यायः ।। ५६ ।।
2.57
।। राम उवाच ।। ।।
आरोग्यकरणं नाम द्वितीया प्रतिपत्तथा ।।
आरोग्यदं व्रतं चैव वैष्णवं कथयस्व मे ।। १ ।।
।। पुष्कर उवाच ।। ।।
धनिष्ठासु महाभाग यजमानपुरोहितौ ।।।
उपोष्य वारुणं स्नानं यजमानस्य कारयेत् ।। २ ।।
कृत्वा कुम्भशतं साग्रं शंखमुक्ताफलोदकैः ।।
भद्रासनोपविष्टस्तैः स्नातश्चैवाहताम्बरः ।। ३ ।।।
केशवं वारुणं चन्द्रं नक्षत्रं वारुणं तथा ।।
पूजयेत्प्रयतो राम गन्धमाल्यानुलेपनैः ।। ४ ।।
धूपदीपनमस्कारैस्तथा चैवान्नसम्पदा ।।
देवतानां यथोक्तानां कुर्वीत हवनं तथा ।। ५ ।।
सर्वौषधैस्तथाज्येन यथाशक्ति विधानतः ।।
गुरवे वाससी देये रसकुम्भं च काञ्चनम्।। ६ ।।
ब्राह्मणानां प्रदातव्या वित्तशक्त्या च दक्षिणा ।।
शमीशाल्मलिजैः पत्रैवंशाग्रेण तथैव च ।। ७ ।।
त्रिवृतस्तु बलिः कार्यः सर्वरोगविनाशनः ।।
शाकानि हरितं माल्यं सर्वसस्यानि वाससी ।।
वरुणायाशु निक्षिप्य गन्धैर्धूपैर्निवेदयेत् ।।८ ।।
अलङ्घ्यमानस्य हि वारुणं तं स्नानेन दानेन कृतेन सम्यक् ।।
रोगाः समस्ताः प्रशमं प्रयान्ति बद्धस्तथा मोक्षमवाप्नुयाच्च ।। ९ ।। ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने शतभिषास्नानवर्णनं नाम सप्तपञ्चाशत्तमोऽध्यायः ।। ५७ ।।
2.58
।। पुष्कर उवाच ।। ।।
पौषशुक्लद्वितीयायां गवां शृङ्गोदकेन तु ।।
स्नात्वा शुक्लाम्बरो भूत्वा सूर्येस्तं समुपागते ।। १ ।।
बालेन्दोः पूजनं कृत्वा गन्धमाल्यानुलेपनैः ।।
धूपदीपनमस्कारैस्तथा चैवान्नसम्पदा ।। २ ।।
दध्ना च परमान्नेन गुडेन लवणेन च ।।
पूजनैर्ब्राह्मणानां च पूजयित्वा निशाकरम् ।। ३ ।।
यावदस्तं न यातीन्दुस्तावदेव समाचरेत् ।।
आहारं गोरसप्रायमधःशायी निशं नयेत् ।। ४ ।।
ततः संवत्सरे पूर्णे सौम्यमासे द्विजोत्तम ।।
बालेन्दोः पूजनं कृत्वा ब्राह्मणानां च पूजनम् ।। ५ ।।
वाससी रसकुम्भं च काञ्चनं च द्विजातये ।।
दत्त्वा च पूजयित्वा च व्रतपारङ्गतो भवेत् ।। ६ ।।
व्रतेनानेन धर्मज्ञ रोगमेवं व्यपोहति ।।
सर्वसौख्यं तथा द्रव्यं पुष्टिं च मनुजोत्तम ।। ७ ।।
कामं समाप्नोत्यथवैकमिष्टं येन व्रतेनाथ समस्तधर्मम् ।।
अभ्यासतस्तस्य समस्तकामान्नरः समाप्नोति किमत्र चित्रम् ।। ८ ।। ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने आरोयद्वितीयानामाष्टपञ्चाशत्तमोऽध्यायः ।। ५८ ।।
2.59
।। पुष्कर उवाच ।। ।।
संवत्सरावसाने तु पञ्चदश्यामुपोषितः ।।
पूजयेद्भास्करं देवं वर्णकैः कमले कृते ।। १ ।।
शुक्लेन गन्धमाल्येन चन्दनेन सितेन च ।।
तथा कूर्मेण धूपेन घृतदीपेन भार्गव ।। २ ।।
अपूपैः सैकतैर्दध्ना परमान्नेन भूरिणा ।।
ओदनेन च शुक्लेन सितालवणसर्पिषा ।। ३ ।।
क्षीरेण च फलैः शुक्लैर्वह्निब्राह्मणतर्पणैः ।।
पूजयित्वा जगद्धाम दिनभागे चतुर्थके ।। ४ ।।
आहारं प्रथमं कुर्यात्सघृतं मनुजोत्तमः ।।
रसं च मनुजश्रेष्ठ घृतहीनं विवर्जयेत् ।। ५ ।।
भुक्त्वा च सकृदेवान्नं नाहारं समुपाचरेत् ।।
पानीयपानं कुर्वीत ब्राह्मणानुमते पुनः ।। ६ ।।
संवत्सरमिदं कृत्वा ततः कृत्वा त्रयोदशम् ।।
पूजनं देवदेवस्य तस्मिन्नहनि भार्गव ।। ७ ।।
समापयेद्व्रतं पुण्यं राम कुम्भं द्विजातये ।।
सहिरण्यं सवस्त्रं च तथा दद्याद्द्विजोत्तम ।। ८ ।।
व्रतेनानेन धर्मज्ञ रोगमेव व्यपोहति ।।
आरोग्यमाप्नोति गतिं तथाग्र्यां यशस्तथाग्र्यं विपुलांश्च भोगान् ।।
व्रतेन सम्यक्पुरुषो धनार्थी सम्पूजयेद्यश्च जगत्प्रधानम् ।। ९ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने अरोग्यप्रतिपन्नामैकोनषष्टितमोऽध्यायः ।। ५९ ।।
2.60
पुष्कर उवाच ।।
शुक्लपक्षावसाने तु यद्राम दिनपञ्चकम् ।।
तत्र सम्पूजयेद्विष्णुं विधिना येन तं शृणु ।। १ ।।
गोमूत्रं गोमयं क्षीरं दधिसर्पिस्तथैव च ।
एकैकेन चरेत्स्नानमेकादश्यादिषु क्रमात ।। २ ।।
कौपताडागनादेयैः पद्मिनीसारसैर्जलैः ।।
कर्तव्यं क्रमशः स्नानं स्नातः सम्पूजयेद्धरिम् ।। ३ ।।
तैलमिक्षुरसं क्षौद्रं क्षीरं सर्पिश्च भार्गव ।।
स्नपयेद्देवदेवस्य कर्तव्यं स्याद्दिनक्रमात् ।। ४ ।।
कालागुरुमुशीरं च तथा जातीफलं द्विज ।।
कर्पूरं चन्दनं चैव कल्पयेदनुलेपने ।।५।।
कुसुमेष्वम्बुजातेषु गन्धवत्सु सितेषु च ।।
एकैकं कल्पयेज्जातिं श्रद्धया दिवसक्रमात् ।।६।।
कृष्णा गौरी तथा ताम्रा कपिला च सिता तथा।। ।।
या धेनुस्तद्घृतं देयं दीपार्थं दिवसक्रमात् ।। ७
माषमुद्गकलापानां चणकस्य तिलस्य च ।।
भक्ष्याणि विनिवेद्यानि तथैव दिवसक्रमात् ।। ८ ।।
फाणितं च गुडं चैव तथा मत्स्यण्डिका शुभा ।।
खण्डं च शर्करां चैव क्रमशो विनिवेदयेत् ।।९ ।।
क्षीरवृक्षस्य समिधस्तथा दूर्वास्तिलानपि ।।।
सिद्धार्थकान्यथाज्यं च भावयेद्दिवसक्रमात् ।। 2.60.१० ।।
अनिरुद्धाय देवाय प्रद्युम्नाय तथैव च ।।
संकर्षणाय देवाय वासुदेवाय चाप्यथ ।। ११ ।।
नाम्ना तु जुहुयाद्वह्निं प्रणवेनान्तिमेऽहनि ।।
अयः सीसं तथा ताम्रं रजतं कनकं तथा ।। १२ ।।
दक्षिणार्थं प्रदातव्यं द्विजेभ्यो दिवसक्रमात् ।।
नक्तं च गोरसप्रायं भोक्तव्यं तैलवर्जितम् ।। १३ ।।
भूशोधनं च कर्तव्यं देवस्य पुरतस्तथा ।।
गीतवाद्यस्तवैश्चैव पूजयेद्दिनपञ्चकम् ।। १४ ।।
एवं संवत्सरं कृत्वा सर्वान्रोगान्व्यपोहति ।।
ग्रहणे च व्रतस्यास्य न कालनियमः स्मृतः ।। १५ ।।
नित्याभ्यासेन चैवास्य विष्णुलोके महीयते।।
व्रतं श्रेष्ठमिदं प्रोक्तं मया ते भृगुनन्दन ।। १६ ।।
धन्यं यशस्यं रिपुनाशकारि सौभाग्यदं पापहरं पवित्रम् ।।
आयुष्यमग्र्यं सुगतिप्रदं च व्रतोत्तमं विघ्नविनाशनं च ।।१७।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने आरोग्यव्रतन्नाम षष्टितमोध्यायः ।। ६० ।।