विष्णुधर्मोत्तरपुराणम्/ खण्डः २/अध्यायाः ०५१-०५५

विकिस्रोतः तः

2.51
पुष्कर उवाच ।।
दुर्गमायुधसंघातं कुञ्जरास्तुरगास्तथा ।।
पुरुषैश्च विना राम सर्वमेतदपार्थकम् ।। १ ।।
तस्मात्प्रयत्नं कुर्वीत पुरुषाणां समर्जने ।।
तेषां चैवान्तरज्ञाने मूलमेतद्यतः श्रियः ।।२।।
सुसहायार्थसम्पन्न बलं यस्य महीपतेः ।।
संग्रामे तुमुले राम नूनं तस्य जयो भवेत् ।। ३ ।।
सकृद्येन कृतं पापं तस्य राजा न विश्वसेत् ।।
पापं तु सुकरं तस्य सुकृतश्चास्य दुष्करम् ।। ४ ।।
यथा हि मलिनैर्वस्त्रैर्यत्र तत्रोपविश्यते ।।
तथा चलितवृत्तस्तु वृत्तशेषं न रक्षति।। ५ ।।
राजा न वेशयेत्कार्ये जनो यो नास्तिको भवेत् ।।
आस्तिका अपि तत्सङ्गात्प्राप्नुयुः संशयं द्विज ।। ६ ।।
अनाहार्यप्रभस्यापि त्रैलोक्योद्भासितात्मनः ।।
कृष्णता राहुसंसर्गात्किन्न सूर्यस्य वा भवेत् ।।७।।
अकार्यमित्यकार्याणि कुर्यात्कार्यवशेन यः ।।
विचिकित्सुर्ध्रुवं राम पश्चादपि निवर्तते ।। ८ ।।
कार्यं बुद्ध्वा त्वकार्याणि यः करोति नराधमः ।।
अकार्यकरणे श्रद्धा तस्य भूयोभिवर्धते ।। ९ ।।
लोकः सर्वो महाभाग परलोकनिबन्धनः ।।
निरपेक्षस्य तत्रान्या का गतिः स्यान्निबन्धने ।। 2.51.१० ।।
महापातकिनो येऽपि तेभ्योऽपि च महत्तरः ।।
पापकृन्नास्तिको लोकस्तस्मात्तं परिवर्जयेत् ।। ११ ।।
आस्तिकानां च साधूनां संग्रहः शस्यते सदा ।।
ते सहाया नरेन्द्राणां तथा ये राम पण्डिताः ।। १२ ।।
न पण्डितो मतो राम बहुपुस्तकधारणात् ।।
परलोकभयं यस्य तमाहुः पण्डितं बुधाः ।। १३ ।।
अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम् ।।
रतिपुत्रफला दाराः शीलवृत्तफलं श्रुतम् ।। १४ ।।
शीलोपपन्नो नृपतिः सहायैः शरैस्तथाल्पैरपि सम्प्रयुक्तः ।।
प्रभूतनागाश्वबलोत्कटानां करोत्यरीणां कदनं रणेषु ।। १५ ।। ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने पुरुषप्रशंसा नामैकपञ्चाशत्तमोऽध्यायः ।। ५१ ।।
2.52
।। पुष्कर उवाच ।। ।।
अतः परं प्रवक्ष्यामि नराणां ते चिकित्सितम् ।।
तत्राप्यादौ तथा स्त्रीणां यन्मूलं प्रजनं यतः ।। १ ।।
महाजम्बूद्वयं रोध्रं मधुकं मधु शर्करा ।।
तण्डुलोदकसंयुक्तं शोणितप्रदरे पिबेत् ।। २ ।।
ऊर्ध्वं संवत्सरान्नारीं रक्तगुल्मे विरेचयेत् ।।
स्निग्धस्विन्नशरीराञ्च राम तीक्ष्णौर्विरेचनैः ।। ३ ।।
ज्वरेण च पलाशस्य संसिद्धं यावकं पिबेत् ।।
अग्निसन्धुक्षणं चान्यास्तथा कार्यं प्रयत्नतः ।। ४ ।।
प्रस्थं वृषकमूलस्य तैलं प्रस्थं विपाचयेत् ।।
योनीनां परिकोपेषु वेदनामपकर्षति ।।५ ।।
सौराष्ट्री रोचना रोध्रं मधूकं त्रिफला मधु ।।
भद्रमुस्तानि चूर्णानि वाजीकरणमुत्तम् ।। ६ ।।
अश्वगन्धाविपक्वेन वराहस्य तु मेदसा ।।
ग्रन्थीकरणमभ्यङ्गं योषितां परिकीर्तितम् ।। ७ ।।
एकमामलकं काले सलिलांजलिना पिबेत् ।।
सृष्टं कृष्णायसे भाण्डे तेन शातोदरी भवेत् ।। ८ ।।
त्रिफलां चित्रकं शुण्ठीं मधुना तु लिहेत्सदा ।।
स्थूलानां वरनारीणां कृषीकरणमुत्तमम् ।। ९ ।।
अश्वगन्धां पयस्यां च संसृज्य पयसा पिबेत् ।।
मासमेतत्प्रयुञ्जाना कृशा भवति मांसला ।। 2.52.१० ।।
वराहवसया कार्यमश्वगन्धाविपक्वया ।।
स्तनानां मर्दनं तेन नारी पीनस्तनी भवेत् ।। ११ ।।
मूलकस्य च्युतं बीजं तथैव तगरस्य च ।।
सप्तरात्रं तु गोमूत्रे सिध्मनाशनमुत्तमम् ।। १२ ।।
क्षारेण हस्तिपिण्डस्य अवल्गुजरसेन च ।।
एतेन प्रोक्षितं श्वित्रं त्रिरात्रेण विनश्यति ।। १३ ।।
गुञ्जायाः सफलं मूलं चित्रकं तगरं तथा ।।
भल्लातकानां च फलं मूलं चैवाश्वमारकम् ।। १४ ।।
अर्कक्षीरसमं तैलं द्रव्यैरेतैर्विपाचयेत् ।।
प्रोक्षणेन विनिर्दिष्टं रोमशातनमुत्तमम् ।। १५ ।।
हस्तिदन्तमयीं पिष्ट्वा पयसा लेपयेच्छिरः ।।
अजातेष्वपि केशेषु रोमसञ्जननं परम् ।। १६ ।।
भृङ्गराजरसैस्तैलं सिद्धमभ्यञ्जनाद्द्रुतम् ।।
दृढमूलानि केशानि कुर्यात्कृष्णासितानि च ।। १७ ।।
कटुकं दन्तकाष्ठं तु गोमूत्रपरिभावितम् ।।
भुक्त्वा तैलेन गण्डूषं वक्त्रगन्धहरं परम् ।। ।।१८।।
इन्दीवराणि शुष्काणि प्राश्यानि तण्डुलैस्सह ।।
सर्वरात्रं मुखे वाति सुगन्धिविशदं शुचि ।।१९।।
सर्षपोन्मथितं कृत्वा शाल्मलीनां तु कण्टकैः ।।
पयःपिष्टैर्मुखे लेपान्मुखं स्यात्कमलोपमम् ।। 2.52.२० ।।
व्यङ्गानां तिलकानां च शमनं तत्प्रकीर्तितम् ।।
यौवने पिटकानां च ये च दोषा मुखे स्मृताः ।। २१ ।।
कषायकल्कसिद्धेन शतावर्या घृतेन च ।।
अभ्यङ्गपानैर्भवति नारी वर्णयुता परम् ।। २२ ।।
षोडशर्तुनिशाः स्त्रीणामाद्यास्तिस्रस्तु निन्दिताः ।।
अस्पृश्या तासु नारी स्यात्स्पृष्ट्वा तां स्नानमाचरेत् ।। २३ ।।
दिनत्रयं तु तन्नारी स्नानाभ्यङ्गौ विवर्जयेत् ।।
आहारं गोरसानां च पुष्पालङ्कारधारणम् ।। २४ ।।
अञ्जनं कङ्कणं गन्धाः पीतं शय्याधिरोहणम् ।।
मृल्लोहभाण्डवर्ज्येषु तथा भाण्डेषु भोजनम् ।। २५ ।।
अग्निसंस्पर्शनं चैव वर्जयेत्तु दिनत्रयम् ।।
चतुर्थेऽहनि कुर्वीत स्नानं सा तु यथाविधि ।। २६ ।।
अभिषेकोदिताभिश्च मृद्धिरद्भिश्च मानसैः ।।
ओषध्यश्च तथा कुम्भे निक्षिप्य स्नापयेत्तु ताम् ।।२७।।
ज्योतिष्मतीं त्रायमाणामभयामपराजिताम् ।।
जीवां विश्वेश्वरीं पाठां समङ्गां विजयां तथा ।। २८ ।।
सहां च सहदेवीं च पूर्णकोशां शतावरीम् ।।
अरिष्टां शिवां भद्रां गोलोमीं विजयप्रदाम् ।। २९ ।।
ब्राह्मीं क्षेत्रामजां चैव सर्वबीजानि चाञ्जनम् ।।
बिल्वं गन्धानि रत्नानि पञ्चगव्यं तथैव च ।। 2.52.३० ।।
कुम्भे निक्षिप्य कुम्भं च गन्धमाल्यानुलेपनैः ।।
पूजयित्वा ततो देवं तस्यात्र शुभवर्धनम् ।। ३१ ।।
मन्त्रं राजाभिषेकोक्तं पठेदत्र च कालवित् ।।
वस्त्रच्छन्नमुखी स्नाता स्नापके च विनिर्गते ।। ।। ३२ ।।
पश्येत्तदेव प्रतिमां वासुदेवस्य रूपिणः ।।
अथवा राम भर्तारं नान्यं कंचन सत्वरम् ।। ३३ ।।
तत्काले वदनं तस्य पश्यत्यथ यथा विधि ।।
सा प्रसूते सुतं राम शुभं वाऽप्यथवा शुचिम् ।। ३४ ।।
पूजनं वासुदेवस्य सा कृत्वात्मन एव च ।।
मण्डनं च यथान्यायं शुक्लवस्त्रोत्तरच्छदा। ।।३५ ।।
षष्टिकान्नं तु पयसा समश्नीयाद् घृतेन सा ।।
घृतस्य पीत्वा प्रसृतिं नागपुष्पावचूर्णितम् ।। ३६ ।।
ऋतुकाले समाप्नोति नारी गर्भं द्विजोत्तम ।।
उपोषितेन शुचिना शुक्लपक्षे समुद्धृतम् ।। ३७ ।।
पुष्येण बृहतीमूलमुत्तरां वा मुखे नयेत ।।
श्वेतपुष्पा तु बृहती द्रुमूलस्यैष निश्चयः ।।३८।।
नस्या देयाश्च चत्वार उन्मूला द्रुमबिन्दवः ।।
तस्मिन्नहनि सा तेन गर्भं धत्ते वरांगना ।। ३९ ।।
एवमप्यभवन्ती तु पुत्रीयां राम सप्तमीम् ।।
पुत्रीयमथवा स्नानं केशवाराधनं व्रतम् ।। 2.52.४० ।।
पुत्रीयमेव वा कुर्यात्केशवाराधनं प्रिया ।।
स्नातानुलिप्ता भर्तारं हृष्टैर्बृंहितमेव च ।। ४१ ।।
यायाद्रात्रौ तथा नारी गन्धधूपादिवासिता ।।
आत्तगर्भां चिकित्सेत ततस्तामपराजित ।। ४२ ।।
मधुरौषधिसिद्धेन पयसा सर्पिषा तथा ।।
इच्छाविमानगाः काश्चिन्नास्याः कार्या कथञ्चन ।। ४३ ।।
कटुतिक्तकषायाणि चात्युष्णलवणानि च ।।
आयासं च व्यवायं च गर्भिणी वर्जयेत्सदा ।। ४४ ।।
विना कर्म न तिष्ठेत तथा सा राहुदर्शने ।।
प्रादुर्भावाणि वेदेस्य विष्णोरमिततेजसः ।। ४५ ।।
शृणुयात्तन्मना भूत्वा चरितं च महात्मनः ।।
पुन्नाम्नि नामनक्षत्रे ह्यासन्नप्रसवा गृहम् ।। ४६ ।।
प्रविशेत्सूतिकासंज्ञं कृतरक्षं समन्ततः ।।
सुभूमौ निर्मितं रम्यं वास्तुविद्याविशारदैः ।। ४७ ।।
प्राग्द्वारमुत्तरद्वारमथवा सुदृढं शुभम् ।।
देवानां ब्राह्मणानां च गवां कृत्वा च पूजनम् ।। ४८ ।।
विप्र पुण्याहघोषेण शंखवाद्यरवेण च ।।
प्रसूता बहुशस्तत्र तथा क्लेशक्षमाश्च याः ।। ४९ ।।
हृद्या विश्वसनीयाश्च परिचरेयुः स्त्रियश्च ताम् ।।
वातानुलोमनैर्हृद्यैस्तत्रैनामुपचारयेत् ।। 2.52.५० ।।
आहारैश्च विहारैश्च प्रसवाय सुखं द्विज ।।
एरण्डमूलमिश्रेण सघृतेन तथैव ताम् ।। ५१ ।।
सुखप्रसवनार्थाय पश्चात्काये तु म्रक्षयेत् ।।
 बलाकल्ककषायेण सिद्धं क्षीरं चतुर्गुणम् ।। ५२ ।।
तैलमभ्यञ्जनार्थाय सूतायामुपकल्पयेत् ।।
अथ जातान्न पानेच्छां पञ्चकोलप्रसादिताम् ।। ५३ ।।
पिबेद्यवागूं सस्नेहां तथा वै नीलकुञ्चिकाम् ।।
दशाहं सूतिकागारं चायुधैश्च विशेषतः ।। ५४ ।।
वह्नि कातिन्दुकालातैः पूर्णकुम्भैः प्रदीपकैः ।।
मुसलेन तथा द्वारि वर्णकैश्चित्रितेन च ।। ५५ ।।
रक्षणीया तथा षष्ठी निशा तत्र विशेषतः ।।
राम जागरणं कार्यं जन्मदानां तथार्चनम् ।। ५६ ।।
पुरुषाः शस्त्रहस्ताश्च नृत्यगीतैश्च योषितः ।।
रात्रौ जागरणं कुर्युर्दशमेऽहनि सूतिका ।। ५७ ।।
स्नाता पूर्वविधानेन रक्षणीया समीरणात् ।।
बालस्य जातमात्रस्य नाभिं छित्त्वा यथाविधि ।। ५८ ।।
तालुमुत्तापयेन्नारी पिचुना शोधयेन्मुखम् ।।
ब्राह्मी सुवर्चला सोमं सैन्धवं पिप्पली वचा ।। ५९ ।।
कनकं सर्पिषा दद्याल्लेह्यमेतद्द्विजोत्तम ।।
लेह्येनानेन मेधावी शूरः पण्डित एव च ।। 2.52.६० ।।
दर्शनीयो यशस्वी च सुभगः स भविष्यति ।।
बिभीतकास्थि क्षौद्रेण घृष्टं श्रेष्ठमथाञ्जनम् ।। ६१ ।।
नेत्ररोगेषु बालानां सहरिद्रं च गोरसम् ।।
शारिवा चन्दनं कुष्ठं समभागानि कारयेत् ।।६२।।
शिरोलेपमिदं दद्यादक्षिरोगविनाशनम् ।।
आम्रास्थि सैन्धवं लाजा मधुना सह लेहयेत् ।।६३।।
एष लेहवरः श्रेष्ठश्छर्दिप्रशमनः शुभः ।।
अपामार्गविडङ्गानि पिप्पली मरिचं तथा ।। ६४ ।।
सैन्धवं तण्डुलं चैव मधुसर्पिःसमन्वितम् ।।
व्याघ्रीरसेन लेहोऽयं हिक्काश्वासविनाशनः ।। ६५ ।।
बिभीतकत्वचा श्रेष्ठं हरितालं मनःशिला ।।
एतत्तैलं पचेद्दद्रुपामाकिटिभनाशनम् ।। ६६ ।।
क्षौद्रेण लेह्या तुवरा पिप्पल्यतिविषापहा ।।
श्लेष्मरोगेषु सर्वेषु बालानां भेषजं परम् ।। ६७ ।।
रोध्रत्वङ्मधुना सार्धमतीसारविनाशिनी ।।
सप्त पर्णत्वक् च दूर्वा तथा कटुकरोहिणी ।। ६८ ।।
एतदुद्वर्तनं श्रेष्ठं सर्वग्रहविनाशनम् ।।
भङ्गां वचां शङ्खपुष्पीमेरण्डसप्तपर्णकम् ।। ६९ ।।
समन्तपुष्पीसंयुक्तमपामार्गं च पुष्करम् ।।
क्वाथयित्वा च दातव्यं स्नानं सद्यः सुखावहम् ।।2.52.७० ।।
सर्पिषा निम्बपत्राणि गोविषाणं घृतं मधु ।।
एतेन धूपितो बालो ग्रहदोषैर्विमुच्यते ।। ७१ ।।
अपामार्गस्य बीजानि बिल्वमूलफलानि च ।।
अगुरुं चन्दनं चैव सप्तपर्णस्य वल्कलम् ।। ७२ ।।
एतदालेपनं कुर्यात्सर्वग्रहविनाशनम् ।।
मातरश्च ग्रहाश्चैव बालं तु बलिकर्मणा ।। ७३ ।।
क्षिप्रमेव प्रमुञ्चन्ति तस्माद्यत्नेन कारयेत् ।।
तरक्ष्वर्क्ष वराहाणां दंष्ट्रा गोरोचना वचा ।। ७४ ।।
रत्नान्ययस्तथा कृष्णं वस्त्रं धार्यं तु बालकैः ।।
जातस्य राम बालस्य हेमन्ते प्रथमेऽथवा ।। ७५ ।।
शिशिरे वापि कर्तव्यं कर्णवेधं तथा शृणु ।।
ग्रहाणां तत्र सर्वेषां दिनवारः प्रशस्यते ।। ७६ ।।
तिथिं चतुर्थीं नवमीं वर्जयित्वा चतुर्दशीम् ।।
सावित्रं वैष्णवं त्वाष्ट्रमादित्यं पौष्णमाश्विनम् ।। ७७ ।।
कर्णवेधे प्रशस्यन्ते सोमदेवं तथैव च ।।
पूर्वाह्णे पूजनं कृत्वा केशवस्य हरस्य च ।। ७८ ।।
ब्रह्मणश्चन्द्रसूर्याभ्यां दिगीशानां तथैव च ।।
नासत्ययोः सरस्वत्या ब्राह्मणानां गवां तथा ।। ७९ ।।
गुरूणां मण्डलं कृत्वा तत्र दत्त्वा सुखासनम् ।।
दत्त्वोपवेशयेत्तत्र धात्रीं शुक्लाम्बरां तथा ।।2.52.८०।।
स्वलंकृतां तदुत्संगे बालं कृत्वा तु सान्त्वितम् ।।
धृतस्य निश्चलं सम्यग्गले कुकरसांकिते।।८१।।
विध्येद्दैवकृते छिद्रे सकृदेव तु लाघवात् ।।
प्राग्दक्षिणं कुमारस्य भिषग्वामं तु योषितः ।।
स्नेहाक्तं सूच्यनुस्यूतं सूत्रं वानुनिधापयेत् ।। ८२ ।।
तैलाभ्यक्ते ततः कर्णे कार्यमाभरणं भवेत् ।।
कर्णवेधदिने विप्रं सांवत्सरचिकित्सकौ ।।
पूज्याश्चाविधवा नार्यः सुहृदश्च तथा द्विजाः ।। ।। ८३ ।।
चतुर्थे मासि कर्तव्यं शिशोर्निष्क्रमणं गृहात् ।।
सौरभौमदिनं चैव तिथिं रिक्तां च वर्जयेत् ।। ८४ ।।
चतुर्थीं नवमीं चैव रिक्तां चैव चतुर्दशीम् ।।
आर्यम्णं वैष्णवं हस्तमादित्यं पौषमश्विनम् ।। ८५ ।।
भाग्यं त्वाष्ट्रं च पुष्यं च तत्र कर्मणि शस्यते ।।
दिगीशानां दिशं तत्र तथा चन्द्रार्कयोर्द्विज ।। ८६ ।।
पूजनं वासुदेवस्य गगनस्य च कारयेत् ।।
तत्र स्वलंकृता धात्री बालमादाय पूजितम् ।। ८७ ।।
बहिर्निष्क्रामयेद्गेहाच्छङ्खपुण्याहनिस्वनैः ।।
ततस्तत्र पठेन्मंत्रं यं तु राम निबोध मे।।८८।।
चन्द्रार्कयोर्दिगीशानां दिशां च गगनस्य च ।।
निक्षेपार्थमिदं दद्मि ते मे रक्षन्तु सर्वदा ।।८९।।
अप्रमत्तं प्रमत्तं वा दिवा रात्रावथापि वा ।।
रक्षन्तु सर्वतः सर्वे देवाः शक्रपुरोगमाः ।। 2.52.९० ।।
स्त्रीणामविधवानां तु द्विजानां सुहृदां तथा ।।
तदा तु पूजा कर्तव्या गीतनृत्यैस्तथोत्सवैः ।। ९१ ।।
पञ्चमे च तथा मासि भूमौ तमुपवेशयेत् ।।
तत्र सर्वे ग्रहाः शस्ता भौमो राम विशेषतः ।। ९२ ।।
तिथिं च वर्जयेद्रिक्तामृक्षाणि शृणु भार्गव ।।
उत्तरात्रितयं सौम्यं चाश्वत्थं शक्रदैवतम् ।। ९३ ।।
प्राजापत्यं च हस्तं च शस्तमाश्विनदैवतम् ।।
वराहं पूजयेद्देवं पृथिवीं च द्विजोत्तम ।। ९४ ।।
पूजनं सर्वतः कृत्वा गुरुदेवद्विजन्मनाम् ।।
भूभागमुपलिप्याथ कृत्वा तत्र तु मण्डलम् ।। ९५ ।।
शङ्खपुण्याहशब्देन भूमौ तमुपवेशयेत् ।।
मन्त्रश्चात्र भवेद्राम तन्मे निगदतः शृणु ।। ९६ ।।
रक्षणं वसुधे देवि सदा सर्वगतं शुभे ।।
आयुःप्रमाणं सकलं निक्षेपस्ते हरिप्रिये ।। ९७ ।।
अन्तरादायुषस्तस्य ये केचित्परिपन्थिनः ।।
जीवितारोग्यवित्तेषु निर्दहस्वाचिरेण तान् ।। ९८ ।।
वरेण्याशेषभूतानां माता त्वमसि कामधुक् ।।
अजरा चाप्रमेया च सर्वभूतनमस्कृता ।। ९९ ।।
चराचराणां भूतानां प्रतिष्ठा त्वं त्वर्हमसि ।।
कुमारं पाहि मातस्त्वं बालं तदनुमन्यताम् ।। 2.52.१०० ।।
तस्योपवेशनं कृत्वा भूमौ ब्राह्मणभोजनम् ।।
शक्त्या कृत्वा ततः कार्यश्चोत्सवः पूर्ववद्द्विज ।। १०१ ।।
षष्ठेऽन्नप्राशनं मासि कर्तव्यं भौमवर्जिते ।।
दिनवारे तिथिं रिक्तां वर्जनीया तथैव च ।। १०२ ।।
नक्षत्राणि तथैवात्र दारुणोग्राणि वर्जयेत् ।।
साधारणे तथा राम ज्येष्ठान्तेष्वपि शस्यते ।। १०३ ।।
ब्रह्माणं शङ्करं विष्णुं चन्द्रार्कौ च दिगीश्वरान् ।।
भुवं दिशश्च सम्पूज्य हुत्वा वह्नौ तथा चरुम् ।। १०४ ।।
एतेषामेव देवानां कृत्वा ब्राह्मणपूजनम् ।।
देवतापुरतस्तस्य धात्र्युत्सङ्गगतस्य च ।। १०५ ।।
अलंकृतस्य दातव्यं वीर कांस्ये तु काञ्चने ।।
मध्वाज्यकनकोपेतं प्राशयेत्पायसं ततः ।। १०६ ।।
ततस्त्वन्नपते राम मन्त्रश्चात्र विधीयते ।।
कृतप्राशं तदोत्सङ्गाद्धात्री बालं तु विन्यसेत् ।। १०७ ।।
देवाग्रतोऽथ विन्यस्य शिल्पभण्डानि सर्वशः ।।
शस्त्राणि चैव शास्त्राणि ततः पश्येत लक्षणम् ।। १०५ ।।
प्रथमं यं स्पृशेद्बालः शिल्पभाण्डं स्वयं तथा ।।
जीविका तस्य बालस्य तेनैव तु भविष्यति ।। १०९ ।।
दन्त जन्मनि बालानां तेनैव तु भविष्यति ।।
दन्तजन्मनि बालानां लक्षणं तु निबोध मे ।। 2.52.११० ।।
उपरि प्रथमं यस्य जायन्ते च शिशोर्द्विजाः ।।
दन्तैर्वा सह यस्य स्याज्जन्म भार्गव जायते ।। १११ ।।
मातरं पितरं वापि खादेदात्मानमेव च.।।
तत्र शान्तिं प्रवक्ष्यामि तन्मे निगदतः शृणु ।।। ।।११२।।
गजपृष्ठगतं बालं नौस्थं वा स्थापयेद्द्विज ।।
तदभावे तु धर्मज्ञ काञ्चने तु वरासने ।।११३।।
सर्वौषधैः सर्वगन्धैर्बीजैः पुष्पैः फलैस्तथा ।।
पञ्चगव्ये तु रत्नैश्च पताकाभिश्च भार्गव ।।११४।।
स्थालीपाकेन धातारं पूजयेत्तदनन्तरम् ।।
सप्ताहं चात्र कर्तव्यं तथा ब्राह्मणभोजनम् ।। ११५ ।।
अष्टमेऽहनि विप्राणां तथा देया च दक्षिणा ।।
काञ्चनं रजतं गाश्च भुवं चात्मानमेव वा ।। ११६ ।।
दन्तजन्मनि मासान्यसम्भवे सप्तमादपि ।।
अष्टमेऽहनि विप्राणां शृणु स्नानमतः परम् ।।११७।।
भद्रासने निवेश्यैनं मृद्भिर्मूलैः फलैस्तथा ।।
सर्वौषधैः सर्वगन्धैः सर्वबीजैस्तथैव च ।।११८।।
स्नापयेत्पूजयेच्चात्र वह्निं सोमं समीरणम् ।।
पूर्वतश्च तथा ख्यातान्देवदेवं च केशवम् ।।११९।।
एतेषामेव जुहुयाद्घृतमग्नौ यथाविधि ।।
ब्राह्मणानां च दातव्या ततः पूजा च दक्षिणा ।। 2.52.१२० ।।
ततस्त्वलंकृतं बालं चासने तूपवेशयेत् ।।
आसनं छत्रमूर्धानं बीजैस्तं स्नापयेत्ततः ।। १२१ ।।
सुस्विन्नैर्बालकानां च तैश्च कार्यं च पूजनम् ।।
पूज्याश्चाविधवा नार्यो ब्राह्मणाः सुहृदस्तथा ।। १२२ ।।
प्राप्तेऽथ पञ्चमे वर्षे त्वप्रसुप्ते जनार्दने ।।
प्रतिपदां तथा षष्ठीं वर्जयित्वा तथाष्टमीम् ।।१२३।।
रिक्तां पञ्चदशीं चैव सौरभौमदिने तथा ।।
धुवाणि याम्यं च तथा नक्षत्राणि विवर्जयेत्।।१२४।।
सौम्यवर्गश्चरे लग्ने हिते तत्र नवांशके ।।
त्रिकोणकेन्द्रगाः सौम्याः पापाश्चोपचये शुभाः ।। १२५ ।।
नक्षत्राणां विवर्ज्यानां मुहूर्ताश्च विवर्जयेत् ।।
एवं सुनिश्चिते काले विद्यारम्भं च कारयेत् ।। १२६ ।।
पूजयित्वा हरिं लक्ष्मीं तथा देवीं सरस्वतीम् ।।
सुविद्यां सूत्रकाराँश्च स्वां विद्यां च विशेषतः ।। १२७ ।।
एतेषामेव देवानां नाम्ना तु जुहुयाद्घृतम् ।।
दक्षिणाभिर्द्विजेन्द्राणां कर्तव्यं चात्र पूजनम् ।। १२८ ।।
धात्र्युत्सङ्गादथादाय बालं तु कृतवापनम् ।।
स्वलंकृतं प्रदातव्यमुत्सङ्गे तु तदा गुरोः ।। १२९ ।।
गुरुश्चात्र भवेद्विद्वान्स्नातः शुक्लाम्बरः शुचिः ।।
प्रगृह्य तं तु निक्षेपं गुरुरप्यथ भार्गव ।। 2.52.१३० ।।
प्राङ्मुखः सुमुखासीनो वारुणाशामुखं शिशुम् ।।
अध्यापयेत्तु प्रथमं कुर्याद्बालोऽपि वन्दनम् ।। १३१ ।।
ब्राह्मणानां गुरूणां च देवतानामनन्तरम् ।।
ततस्तु पूज्या वित्तेन धात्री राम गुरुस्तथा ।। १३२ ।।
दक्षिणाभिर्द्विजेन्द्राणां कर्तव्यं तर्पणं तथा ।।
ततः प्रभृत्यनध्यायान्वर्जनीयान्विवर्जयेत् ।।१३३ ।।
अष्टमीद्वितयं राम पक्षान्ते च दिनद्वयम् ।।
अशौचमिन्द्रयात्रां च भूकम्पं राहुदर्शनम् ।। १३४ ।।
व्यतीतं चाप्यहोरात्रमुल्कापातं च भार्गव ।।
अकालस्तनितं चैव निर्ज्योतिषमथाम्बरम् ।। १३५ ।।
तथा काले प्रचण्डश्च यदा वायुस्तदा भवेत् ।।
प्रदोषे चाप्यसंश्रद्धे चैत्यवृक्षचतुष्पथे ।। १३६ ।।
गोयाने कुञ्जरे चाश्वे न च नावि तथा भवेत् ।।
श्वशृगालरवे घोरे तथा च खरनिस्वने।।१३७।।
तथा वादित्रशब्दे च तथैव नगरोत्सवे ।। १३८ ।।
कालेषु देशेषु मयोदितेषु पठन्ति ये नाम न तेषु विद्या ।।
फलं प्रयच्छेत्यथवाऽरिशत्रोर्लोके परे वा यदि वाऽपि चास्मिन् ।। १३९ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने बालतन्त्रो नाम द्विपञ्चाशत्तमो
ऽध्यायः।।५२।।
2.53
श्रीपरशुराम उवाच ।।
पुत्रीयं भगवन्स्नानं पुत्रीयमथ सप्तमीम् ।।
पुत्रीयं च समाचक्ष्व तथा वै केशवव्रतम्।।१।।
पुष्कर उवाच ।।
उपोषितौ कृत्तिकासु यजमानपुरोहितौ ।।
रोहिण्यां स्नपनं कुर्युर्यजमानस्य भार्गव ।। २ ।।
क्षीरवृक्षप्ररोहाभ्यां सितमाल्यविभूषितम्।।
प्रियङ्गुचन्दनोपेतान्पञ्च कुम्भान्प्रपूजयेत् ।। ३ ।।
प्राङ्मुखं व्रीहिराशिस्थं कुम्भैस्तैरभिषेचयेत् ।।
विष्णुं शशाङ्कं वरुणं रोहिणीं च प्रजापतिम् ।। ४ ।।
पूजयेत्प्रयतः श्रद्धी गन्धमाल्यानुलेपनैः ।।
धूपः प्रजापतेर्देयस्तथैव शटकेशयाः ।।५।।
पञ्चपृष्ठवृषान्दिग्धान्दध्ना च विनिवेदयेत् ।।
प्रजाध्यक्षाय होमञ्च देवतानां तु कारयेत् ।।६।।
घृतेन सर्वबीजैश्च शुक्लवासा जितेन्द्रियः ।।
दक्षिणां गुरवे देयात्काम्यं गौर्वाससी शुभे ।। ७ ।।
सुवर्णं च महाभाग विप्राणामथ शक्तितः ।।
शुक्ला च गौर्वृषः शुक्लस्तयोर्लोम शफं तथा ।।८।।
शृङ्गाणि त्रिवृतं कृत्वा मणिर्धार्यस्ततो भवेत् ।।९।।
अलंकृतं केशमिदं सदैव स्नानं तु कुर्वन्पुरुषोऽथवा स्त्री ।।
पुत्रानवाप्नोति तथेष्टतां च पुष्टिं तथाग्र्यां विपुलां च कीर्तिम्।। 2.53.१० ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने पुत्रीयरोहिणीस्नानवर्णनंनाम त्रिपञ्चाशत्तमोऽध्यायः ।। ५३ ।।
2.54
।। पुष्कर उवाच ।।
मार्गशीर्षे शुभे मासि शुक्लपक्षे द्विजोत्तम ।।
पुत्रीयां सप्तमीं राम गृह्णीयात्प्रयतः शुचिः ।। १ ।।
अथवा पुत्रकामा स्त्री विधिना येन तच्छृणु ।।
हविष्याशी शिरःस्नातः कृत्वा ब्राह्मणपूजनम् ।। २ ।।
अधःशायी द्वितीयेऽह्नि गोविषाणोदकेन च ।।
स्नात्वोपविश्य च तथा शुभे देशे तु मण्डलम् ।। ३ ।।
तत्राष्टपत्रं कमलं विन्यसेद्वर्णकैः शुभैः ।।
तस्यैव कर्णिकामध्ये भास्करं चन्दनेन तु ।। ४ ।।
रक्तेन पूजयेद्देवं गन्धमाल्यानुलेपनैः ।।
भक्ष्यैर्भोज्यैस्तथा पेयैर्धूपैर्दीपैस्तथैव च।।५।।
एवं संपूजनं कृत्वा सर्वकामप्रदस्य तु ।।
नक्तं भुञ्जीत धर्मज्ञ सर्वकर्मविवर्जितः ।।६।।
दन्तोलूखलको भूत्वा कृत्वा संवत्सरव्रतम् ।।
व्रतावसाने दातव्या शक्त्या ब्राह्मणदक्षिणा ।।७।।
तथात्रिमधुरप्रायं कर्तव्यं द्विजभोजनम् ।।
अधःशाय्यनिशं तां च भूय एव तथा भवेत् ।। ८ ।।
पुत्रीयमेतद्व्रतमुत्तमं ते मयोदितं कल्मषनाशकारि ।।
आराधनं देववरस्य राम सर्वामयघ्नं च तथैतदुक्तम् ।। ९ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने पुत्रीयासप्तमीव्रतं नाम चतुष्पञ्चाशत्तमोऽध्यायः ।। ५४ ।।
2.55
पुष्कर उवाच ।।
प्रोष्ठपद्यामतीतायां कृष्णपक्षाष्टमी तु या ।।
सोपवासो नरस्तस्यां योषिद्वा तनयार्थिनी ।।१ ।।
स्नाता सरसि धर्मज्ञ तोये चाप्यथ सारसे ।।
पूजनं वासुदेवस्य यथा कुर्यात्तथा शृणु ।। २ ।।
घृतप्रस्थेन गोविन्दं स्नापयित्वा जगद्गुरुम् ।।
क्षौद्रेण च ततः पश्चाद्दध्ना च स्नपयेत्ततः ।। ३ ।।
क्षीरेण स्नपनं कृत्वा ततः पश्चाद्विवक्षितम् ।।
सर्वौषधैश्च गन्धैश्च सर्वबीजफलैस्तथा ।। ४ ।।
स्नापयित्वानुलिप्येत चन्दनागुरुकुङ्कुमैः ।।
कर्पूरेण तथा राम तथा जातीफलैः शुभैः ।। ५ ।।
ततः कालोद्भवैः पुष्पैः पूजयित्वा जनार्दनम् ।।
धूपं चागुरुणा दत्त्वा कृत्वा नैवेद्यमुत्तमम् ।। ।। ६ ।।
विशेषाद्गोरसप्रायं पुन्नागैरन्वितैः फलैः ।।
पौरुषेण च सूक्तेन हुत्वा चानन्तरं घृतम् ।। ७ ।।
शूद्रो वाप्यथवा नारी नाम्ना हुत्वा जगद्गुरुम् ।।
यवपात्राणि दद्यात्तु फल्गुनि कनकं तथा ।। ८।।
पुत्रार्थं प्राशनं कुर्यात्फलैः पुन्नामभिः शुभैः ।।
स्त्रीनामभिश्च कन्यार्थी ततो भुक्त्वा यथेप्सितम् ।। ९ ।।
पुत्रकामानवाप्नोति तथा सर्वमभीप्सितम् ।।
हविष्यं देवदेवस्य भूमिशोभां तु कारयेत् ।। 2.55.१० ।।
संवत्सरमिदं कृत्वा व्रतमाप्नोत्यभीप्सितम् ।।
पुत्रकामानवाप्नोति तथा सर्वानभीप्सितान् ।। ११ ।।
पुत्रीयमेतद्व्रतमुत्तमं ते मयेरितं यद्यपि धर्मनित्यम् ।।
तथाप्यनेनैव समस्त कामान्कृतेन लोके पुरुषा लभन्ते ।। १२ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने पुत्रीयाष्टमीव्रतं नाम पञ्चपञ्चाशत्तमोऽध्यायः ।। ५५ ।।