विष्णुधर्मोत्तरपुराणम्/ खण्डः २/अध्यायाः ०४६-०५०

विकिस्रोतः तः
Jump to navigation Jump to search

।। पुष्कर उवाच ।। ।।
अतः परं प्रवक्ष्यामि शृणु तेषां चिकित्सितम् ।।
वृषो निम्ब बृहत्यौ च गुडूची च समांसिका ।। १ ।।
शिङ्घाणकहरापिण्डी स्वेदस्य शिरसस्तथा ।।
यावशूकं समदनं पिप्पली विश्वभेषजम् ।। २ ।।
सर्षपा गृहधूमश्च निर्गुण्डी सुरसा वचा ।।
निम्बपत्रयुता पायौ वर्तिः शूलविनाशिनी ।। ३ ।।
हिङ्गु पुष्करमूलं च नागरं साम्लवेतसम् ।।
पिप्पली सैन्धवयुतं शूलघ्नं तूष्णवारिणा ।। ४ ।।
नागरातिविषौ मुस्ता सानन्ता बिल्वमालका ।।
क्वाथो मासं पिबेद्वाजी सर्वातीसारनाशनम् ।। ५ ।।
प्रियंगुशारिवाभ्यां च युक्तमाजं शृतं पयः ।।
पर्याप्तशर्करं पीत्वा श्रमाद्वाज्यवमुच्यते ।। ६ ।।
द्रोणिकायां तु दातव्या तैलवस्तिस्तुरङ्गमे ।।
कोष्ठजाश्च शिरा वेध्यास्तेन तस्य सुखं भवेत् ।। ७ ।।
दाडिमं त्रिफलां व्योषं गुडं च समभागिकम् ।।
पिण्डमेतत्प्रदातव्यमश्वानां कासनाशनम् ।। ८ ।।
प्रियङ्गुरोध्रमधुभिः पिबन्ति स्म रसं हयाः ।।
क्षीरं वामं च कालोड्यं कश्मलाद्विप्रमुच्यते ।। ९ ।।
प्रस्कन्नेषु च सर्वेषु श्रेय आदौ विशोषणम् ।।
अभ्यङ्गोद्वर्तनस्नेहनस्यवर्तिक्रमस्ततः ।। 2.46.१० ।।
प्रस्कन्नं प्रशमं याति यदि नानेन कर्मणा ।।
उरस्युपान्तपार्श्वे च ततो विस्रावयेच्छिराम् ।। ११ ।।
ज्वलितानां तुरङ्गाणामयमेव क्रियाक्रमः ।।
नस्यमेकं विना राम सर्वमेतत्प्रशस्यते ।। १२ ।।
रोध्रकरञ्जयोर्मूलं मातुलुङ्गाग्निनागराः ।।
कुष्ठहिङ्गुवचारास्नालेपोऽयं शोफनाशनः ।। १३ ।।
समासेन शिरां विध्याद्देया वापि जलौकसः ।।
त्र्यहेत्र्यहे वा धर्मज्ञ नस्यकर्म समाचरेत् ।। १४ ।।
मञ्जिष्ठा मधुकं द्राक्षा बृहत्यौ रक्तचन्दनम् ।।
त्रपुसीबीजमूलानि शृङ्गाटककशेरुकम् ।। १५ ।।
अजापयः शृतमिदं सुशीतं शर्करान्वितम्।।
पीत्वा निरशनो वाजी रक्तमेहात्प्रमुच्यते ।। १६ ।।
मन्याहनुनिगालस्थः शिरःशोफो गलग्रह ।।
अभ्यङ्गः कटुतैलेन तत्र तेष्वेव शस्यते ।। १७ ।।
यवैः स्निग्धकुलत्थैश्च ततः स्वेदं प्रयोजयेत् ।।
मृदूकृते ततः शोफे नस्यकर्म समाचरेत् ।।१८।।
वचा- - - - सैन्धवं स्वरसो रसः ।।
कृष्णाहिङुयुतैरेभिः कृत्वा नस्यं न सीदति ।।१९।।
निशा ज्योतिष्मती पाठा कृष्णा कुष्ठा वचा मधु ।।
जिह्वास्तम्भे च लेपोऽयं गुडमूत्रयुतो हितः ।। 2.46.२० ।।
तिलैर्युक्ता रजन्या च निम्बपत्रैश्च योजिता ।।
क्षौद्रेण शोधनी पिण्डी सर्पिषा व्रणरोपिणी ।। २१ ।।
अभिघातेन खञ्जन्ति येनाश्वास्तीव्रवेदनाः ।।
परिषेकक्रिया तेषां तैलेनाशु रुजापहा ।।२२।।
दोषकोपाभिघाताभ्यां तिलजे जृम्भते सदा ।।
शान्तिर्मध्वाज्यबन्धाभ्यां पक्वम्भिन्ने व्रणे क्रमः ।। २३ ।।
अश्वत्थोदुम्बरप्लक्षमधूकवटकल्ककैः।।
प्रभूतसलिलः क्वाथः सुखोष्णो व्रणशोधनः ।। २४ ।।
शताह्वा नागरं रास्ना मञ्जिष्ठाकुष्ठसैन्धवैः ।।
देवदारुवचायुग्मरजनीरक्तचन्दनैः ।। २५ ।।
तैलं सिद्धं कषायेण गुडूच्या पयसा सह ।।
प्रक्षीणे वस्तिनस्ये च योज्यं सर्वत्र लंघने ।। २६ ।।
रक्तस्रावो जलौकाभिर्नेत्रान्ते नेत्ररोगिणः ।।
खदिरोदुम्बराश्वत्थकषायेण च धावनम् ।। २७ ।।
धात्रीदुरालभातिक्ता प्रियङ्गुकुङ्कुमैः समैः ।।
गुडूच्या कृतकः कल्को हितमुष्णावलम्बिते ।। ।। २८ ।।
उपान्ते च शिरास्रावे मुष्कशोफे तथैव च ।।
क्षिप्रकारिणि दोषे च सद्यो वेधनमिष्यते ।। २९ ।।
गोशकृत्सर्जिकाकुष्ठरजनीतिलसर्षपैः ।।
गवां मूत्रेण पिष्टैश्च मर्दनं कण्डुनाशनम् ।। 2.46.३० ।।
सितामधुयुतः क्वाथो वाशिकायाः सशर्करः ।।
रक्तपित्तहरः पानादश्वकर्णात्तथैव च ।। ३१ ।।
आमे परिणते पक्वं पक्वमांसे जरां गते ।।
पक्वमांसयुतं नेष्टं सर्वं जीर्णं प्रशस्यते ।। ३२ ।।
सप्तमेसप्तमे देयमश्वानां लवणं दिने ।।
तथा भुक्तवतां देया परिपाने तु वारुणी ।। ३३ ।।
जीवनीयैः सुमधुरैर्मृद्वीकाशर्करायुतैः ।।
सपिप्पलीकैः शरदि प्रतिमानं सपद्मकम् ।। ३४ ।।
विडङ्गपिप्पलीधान्याशताह्वा रोध्रसैन्धवैः ।।
सावित्रकैस्तुरङ्गाणां प्रतिपानं हिमागमे ।। ३५ ।।।
रोध्रं प्रियङ्गुका रास्ना पिप्पलीविश्वभेषजैः ।।
सक्षौद्रैः प्रतिपानं स्याद्वसन्ते कफनाशनम् ।। ३६ ।।
प्रियङ्गुपिप्पलीरौद्रयष्ट्याह्वैः समहौषधैः ।।
निदाघे सगुडा देया मदिराप्रतिपानके ।। ३७ ।।
भद्रकाष्ठा सलवणं पिप्पल्या विश्वभेषजम् ।।
भवेत्तैलयुतैरेभिः प्रतिपानं घनागमे ।। ३८ ।।
निदाघावृतपित्तानां क्षरन्मदोष्णशोणिताः ।।
प्रावृड्भिन्नपुरीषाश्च पिबेयुर्वाजिनो घृतम् ।। ३९ ।।
पिबेयुर्वाजिनस्तैलं कफवाय्वधिकास्तु ये ।।
स्नेहव्यापद्भवेद्येषां तेषां कार्यं विरूक्षणम् ।। 2.46.४० ।।
त्र्यहं यवागू रूक्षा स्यात्सुरा च लवणान्विता ।।
भोजने तक्रसंयुक्तं ह्येष वै रूक्षणे विधिः ।। ४१ ।।
प्रायोगिकस्तथा देयो वस्तिस्तस्य निरत्ययः ।।
ये पिबन्ति हयाः स्नेहं तेषां वस्तिं न दापयेत् ।। ४२ ।।
शरन्निदाघयोः सर्पिस्तैलं शीतवसन्तयोः ।।
वर्षासु शिशिरे चैव वस्तौ देयमिहेष्यते ।। ४३ ।।
गुर्वभिष्यन्दिभक्तानि व्यायामः स्नानमातपम् ।।
पायुर्वस्तं च वाहस्य स्नेहपीडस्य वर्जितम्।। ४४ ।।
स्नानं पानं सकृद्दृष्टमश्वानां सलिलागमे ।।
अत्यर्थदुर्दिने काले स्नानमेकं प्रशस्यते ।। ४५ ।।
युक्तशीतातपे काले द्विः पानं लवणं सकृत् ।।
ग्रीष्मे त्रिः स्नानपानं स्याच्चिरं तस्यावगाहनम् ।। ४६ ।।
निस्तुषाणां प्रदातव्यं यवानां चतुराढकम् ।।
ववर्णव्रीहिमौदालाकलनां वापि दापयेत् ।। ४७ ।।
अहोरात्रेण चान्द्रस्य यवसस्य तुला दश ।।
अष्टौ शुष्कस्य दातव्याश्चतस्रोऽथ बुसस्य वा ।। ४८ ।।
दूर्वा पित्तं बुसः कार्श्यं तद्बुसः श्लेष्मसञ्चयम् ।।
नाशयत्यर्जुनः श्वासं तथा माषो बलक्षयम् ।। ४९ ।।
वातिकाः पैत्तिकाश्चैव श्लेष्मजाः सान्निपातिकाः ।।
न रोगाः पीडयिष्यन्ति दूर्वाहारं तुरङ्गमम् ।। 2.46.५०।।
द्वौ रज्जुबन्धौ दुष्टानां पक्षयोरुभयोरपि ।।
पश्चाद्बन्धश्च कर्तव्यो हरकीलव्यपाश्रयः ।। ५१ ।।
केशानुरूपमास्यस्य केशपुच्छप्रकल्पनम् ।।
छेदः खुरप्रवृद्धौ च वर्जयेत्तु कनीनिकाम् ।। ५२ ।।
यत्नोपन्यस्तयवसः कृतधूपनभूमयः ।।
वसेयुः सम्भृते स्थाने प्रदीपैः सार्वरात्रिकैः ।। ५३ ।।
शाखामृगोजाः कृकवाकवश्च धार्याश्च शालासु तथैव धेनुः ।।
कुर्युर्निशीथे पुरुषाः सशस्त्राः संरक्षणं राम तुरङ्गमाणाम् ।। ५४ ।। ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने अश्वचिकित्सा नाम षट्चत्वारिंशत्तमोऽध्यायः ।। ४६ ।। ।। छ ।।
2.47
।। पुष्कर उवाच ।। ।।
नित्यं नैमित्तिकं काम्यं शान्तिकर्म निबोध मे ।।
पञ्चमीषु च सर्वासु श्रीधरं पूजयेद्भृशम् ।।१।।
श्रियश्च पूजनं कार्यं हयराज्ञस्तथैव व ।।
रामोच्चैःश्रवसो नित्यं गन्धमाल्यानुलेपनैः ।। ।। २ ।।
धूपदीपनमस्कारैस्तथा चैवान्नसम्पदा ।।
शरद्वसन्तयोः कार्यमेकदन्तस्य पूजनम् ।। ३ ।।
प्रतिपत्पञ्चमी षष्ठी सप्तमी द्वादशी तथा ।।
प्रशस्तास्तिथयो राम सूर्यवारो विशेषतः ।। ४ ।।
कृत्तिकां रोहिणीं भाग्यं चार्यम्णमश्विनीं तथा ।।
त्वाष्ट्रं सावित्रमादित्यं वायव्यं च भृगूत्तम ।। ।। ५ ।।
नक्षत्राणि प्रशस्तानि शुक्लपक्षस्तथैव च ।।
उद्यानेषु विचित्रेषु नदीनां पुलिनेषु च ।। ६ ।।
देवतायतनं राम पूजनं तस्य कारयेत् ।।
अर्घधूपनमस्कारदीपपुष्पान्नसम्पदा ।। ७ ।।
कुल्माषोल्लोपिकाभक्ष्यमद्यमांससुरासवैः ।।
ओदनैः परमान्नेन फलैः कालोद्भवैः शुभैः ।। ८ ।।
नृत्य गीतेन वाद्येन शङ्खशब्दैस्तथैव च ।।
सावित्रैश्च तथैवाज्यं जुहुयाज्जातवेदसि ।। ९ ।।
ॐकारपूर्वं च तथा रेवन्ताय पुनःपुनः ।।
द्विजातिपूजनं कार्यं माल्यमोदकचन्दनैः ।। 2.47.१० ।।
दक्षिणाभिश्च धर्मज्ञ यथावदनुपूर्वशः ।।
नारीषु वर्जयेत्सर्वं रेवन्तस्य निवेदितम् ।। ११ ।।
एवं सम्पूजितो दद्यात्तुरङ्गमशतान्यपि ।।
बलं तेजस्तथारोग्यं तुरङ्गाणां च भार्गव ।। १२।।
अश्वयुक्शुक्लपक्षस्य पञ्चदश्यां नरोत्तम ।।
तुरङ्गमाणां कर्तव्यं शान्तिकं तन्निबोध मे।।१३।।
दिगीशानीं विनिष्कृष्य ग्रामाद्देशे मनोरमे।।
प्रागुदक्प्रवणे राम स्थण्डिलं परिकल्पयेत् ।।१४।।
नासत्यौ वरुणं देवं तथैवाश्वयुजे द्विज ।।
पूजयेत्प्रयतो विद्वान्गन्धमाल्यानुलेपनैः।।१५।।
धूपैर्दीपैर्नमस्कारैस्तथा चान्नेन भूरिणा ।।
समुल्लिख्य ततो वेदिं शाखाभिः परिवारयेत् ।।१६।।
समन्ततस्तथार्द्राभिर्वस्त्रैश्चाप्यहतैस्तथा ।।
घटान्सर्वरसैः पूर्णान्दिक्षु दद्याद्यथाविधि ।।१७।।
विदिक्षु च तथा दद्याद्ध्वजच्छत्राणि बुद्धिमान् ।।
ततः समुपधायाग्निं जयप्रभृतिभिः पुनः ।। १८।।
हुत्वोक्तदेवतालिङ्गैर्मन्त्रैश्च जुहुयाद्घृतम् ।।
ततः सम्पूजनीयास्तु गन्धमाल्यैस्तुरङ्गमा ।।१९।।
सन्नद्धपुरुषारूढाः सुसन्नद्धास्तुरङ्गमाः ।।
सायुधैः पुरुषैः सार्धं वह्निं कुर्युः प्रदक्षिणम् ।।2.47.२०।।
त्रिः परिक्रामतो वह्निं क्ष्वेडोत्कृष्टनिनादितैः ।।
शङ्खवाद्यरवोन्मिश्रैर्नेतव्याः स्वगृहं ततः ।। २१ ।।
रसानि तानि वासांसि गौः कांस्यं कनकं तथा ।।
दक्षिणायै प्रदातव्यं कर्तुर्द्विजवरोत्तम ।। २२ ।।
कर्मणानेन भवति प्रभूतं राम वाहनम् ।।
हृष्टपुष्टं च धर्मज्ञ गदामयविवर्जितम् ।। २३ ।।
नित्यमेतत्तवोद्दिष्टं शृणु नैमित्तिकं तथा ।।
अश्वानां मारके प्राप्ते व्याधौ वाप्यतिदारुणे ।। २४ ।।
प्रकृतेश्च विपर्यासे तथा भृगुकुलोद्भव ।।
हयचारे शुभे देशे स्थण्डिलं परिकल्पयेत् ।। २५ ।।
विन्यसेत्कमलं तत्र तन्मध्ये पूजयेद्धरिम् ।।
श्रियं च देवीं तत्रैव केसरेषु च देवताः ।। २६ ।।
ब्रह्माणं शङ्करं सोममादित्यं च तथाश्विनौ ।।
रेवन्तमुच्चैःश्रवसं दिक्पालाँश्च दलेष्वपि ।। २७ ।।
सर्वेषां पूजनं कार्यं गन्धधूपान्नसम्पदा ।।
दीपमाल्यनमस्कारपुष्पैर्मूलैः सगोरसैः।।२८।।
प्रत्येकं पूर्णकुम्भैश्च गन्धमाल्याद्यलङ्कृतैः ।।
तथा पिशितवस्त्रैश्च वर्धमानैः सतण्डुलैः ।। २९ ।।
तथा प्रतिसरासूत्रैः पताकाभिश्च भार्गव ।।
तस्यै वोत्तरतो वेदिं कल्पयित्वा यथाविधि ।। 2.47.३० ।।
ततः समुपधायाग्निं यथोक्तानां पृथक्पृथक् ।।
ततोऽग्निहवनस्यानु कांस्यं गां काञ्चनं तथा ।। ३१ ।।
देयं वस्त्रयुगं कर्त्रे कारयित्रे तथैव च ।।
कर्मैतत्सर्वरोगघ्नं सर्वबाधाविनाशनम् ।। ३२ ।।
उपोषितेन कर्तव्यं ब्राह्मणेन यथाविधि ।।
उपोषितस्तदा तिष्ठेद्यजमानोऽपि भार्गव ।। ३३ ।।
अतः परं प्रवक्ष्यामि काम्यं कर्म तवानघ ।।
उपोषितौ सदा पौष्णे यजमानपुरोहितौ ।।३४।।
अश्विनर्क्षे सदा स्नानं कुर्युर्यन्मे निबोधत ।।
अकालमूलौ द्वौ कुम्भौ मधूककुसुमोत्कटौ ।। ३५ ।।
अश्वगन्धायुतौ कृत्वा स्नाप्यस्ताभ्यां तदा भवेत् ।।
उत्तमं पूजयेद्विद्वान्नासत्यौ शशिनं तथा ।। ३६ ।।
अश्विनौ वरुणं चैव शुक्लवासास्तथा हरिम् ।।
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ।। ३७ ।।
ततोऽश्वमिथुनं कार्यं सर्वौषधियुतं मृदा ।।
प्रणतेन ततो विद्वान्नासत्याभ्यां निवेदयेत् ।। ३८ ।।
धूपमश्वशफं दद्याद्दैवतानां तथैव च ।।
यथोक्तानां द्विजश्रेष्ठ जुहुयाच्च पृथक्पृथक् ।। ३९ ।।
चतुर्थ्यन्तेन नाम्ना तु प्रणवाद्येन भार्गव ।।
स्वाहान्तेनाथ शतशो मन्त्रपूतं घृतं द्विज ।। 2.47.४० ।।
अश्वलोम तथा धार्यं फलमूले तथैव च ।।
एकत्र त्रिवृतं कृत्वा मणिर्धार्यस्तु पूर्ववत् ।। ४१ ।।
अलंघयन्नश्विनतिं सदैव स्नानं च कुर्यात्प्रयता मनुष्यः ।।
अश्वानवाप्नोति सहस्रसंख्यान्कुलोद्भवान्वीर्यबलोपपन्नान् ।।४२।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने अश्वानां शान्तिकर्मविधानन्नाम सप्तचत्वारिंशत्तमोऽध्यायः।।४७।।
2.48
पुष्कर उवाच ।।
कुञ्जराः परमा शोभा शिबिरस्य बलस्य च।।
आयाति कुञ्जरेष्वेव विजयः पृथिवीक्षिताम् ।। १ ।।
तेषां संमार्जने यत्नं पालने च भृगूत्तम ।।
यथावन्नृपतिः कुर्याद्गन्धर्वाः कुञ्जरा मताः ।।२।।
जयन्ताश्च तथा धार्या यावतां पोषणं सुखम् ।।
कर्तुं शक्यं न धार्यास्ते क्षुधिता दुःखितास्तथा ।। ३ ।।
दुःखितास्ते नृणां हन्युः कुलानि च भृगूत्तम ।।
तस्मात्तेषां सुखं कार्यं यशःश्रीविजयप्रदम् ।। ४ ।।
सन्नद्धपुरुषारूढैः सुसन्नद्धैस्तुरङ्गमैः ।।
अनल्पैरपि यद्युक्तं बलं परबलप्रणुत् ।। ५।।।
तदैकस्यापि समरे कुञ्जरस्य सवर्मणः ।।
न शक्यं प्रमुखे स्थातुं वेगादापततो द्विज ।।६।।
अभिन्नानां तु संघानां संहृतानां च भेदनम् ।।
एकः क्रुद्धो रणे कुर्यात्कुञ्जरः साधु चोदितः ।।७।।
मदक्लिन्नकपोलस्य किञ्चिदञ्चितचक्षुषः ।।
बृहदाभोगशुण्डस्य कः शोभां कथितुं क्षमः ।।८।।
वेगेन धावमानस्य प्रसारितकरस्य च ।।
कः समर्थः पुरः स्थातुं स्तब्धकर्णस्य दन्तिनः ।।९।।
यस्य फूत्कारमात्रेण तुरङ्गमशतान्यपि।।
स्वारूढान्यपि वेगेन विद्रवन्ति दिशो दश।।2.48.१०।।
तत्सैन्यं कुञ्जरा यत्र स नृपो यस्य कुञ्जराः ।
मूर्तिमान्विजयो राम कुञ्जरा मदगर्विताः ।। ११ ।।
सपक्षा देववाह्यास्ते मनुजानां त्वपक्षकाः ।।
वाहनार्थं कृता राम स्वयमेव तु वेधसा ।।१२।।
दृष्ट्वा पताकाभिरलंकृतं तु नागेन्द्रसैन्यं प्रबलं यथाद्रिम्।।
पतन्ति शीघ्रं हृदयान्यरीणां तस्मात्प्रधानाः सततं गजेन्द्राः १३ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० गजप्रशंसा नामाष्टचत्वारिंशत्तमोऽध्यायः ।।४८।।
2.49
पुष्कर उवाच ।।
अतः परं प्रवक्ष्यामि कुञ्जराणां चिकित्सितम् ।।
पाकलेषु तु सर्वेषु कर्तव्यमनुवासरम् ।। १ ।।
घृततैलपरीषेकः स्थानं वातविवर्जितम् ।।
स्कन्धेषु च तथा कार्या क्रिया पाकलवद्द्विज ।।२।।
गोमूत्रं पाण्डुरोगे तु रजनीभिर्युतं हितम् ।।
आनाहे तैलसिक्तस्य निवातस्थं प्रशस्यते ।।३।।
लवणैः पञ्चभिर्मिश्रा प्रतिपानाय वारुणी ।।
विडङ्गत्रिफलाव्योषसैन्धवैः कवलाः कृताः ।।४।।
मूर्च्छास्वभोजयेन्नागं क्षौद्रतोयं तु पाययेत् ।।
अभ्यङ्गः शिरसः कार्यो नस्यश्चैव प्रशस्यते ।। ५ ।।
नागानां स्नेहकटुकैः पादरोगानुपक्रमेत् ।।
पञ्चकल्ककषायेण शोधनं च विधीयते ।। ६ ।।
.......मन्दनं कार्यं मृदुस्निग्धं च भोजयेत् ।।
शिखितित्तिरलावानां पिप्पलीमरिचान्वितैः ।। ७ ।।
रसैः सम्भोजयेन्नागं वेपधुर्यस्य जायते ।।
बालबिल्वं तथा रोध्रं धातुकीं वितुषा सह ।।८।।
अतीसारविनाशाय पिण्डं भुञ्जीत कुञ्जरः।।
नस्यं करग्रहे देयं घृतं लवणसंयुतम् ।।९।।
मागधी मरिचाढ्या च यवागुर्मस्तुसाधितः।।
तत्कर्णके च दातव्यं वाराहं च तथा रसम्।।2.49.१०।।
दशमूलकुलत्थाम्ल काकमाची विपाचितम्।।
तैलमूषणसंयुक्तं गलग्रहगदापहम् ।।११।।
अष्टभिर्लवणैः पिष्टैः प्रसन्नां पाययेद्युताम् ।।
मूत्रसंघेऽथवा बीजं क्वथितं त्रपुसस्य च ।। १२ ।।
त्वग्दोषेषु पिबेन्निम्बं वृषं वा क्वथितं द्विपः ।।
गवां मूत्रं विडङ्गानि कृमिदोषेषु शस्यते ।। १३ ।।
शृङ्गबेरकणाद्राक्षाशर्कराभिः शृतं पयः ।।
क्षतक्षयहरं पानात्तथा मांसरसः शुभः ।। १४ ।।
मुद्गोदनं व्योषयुतं ह्यरुचौ च प्रशस्यते ।।
द्रोणिकाशान्तये यूषं पटोलीनिम्बदुर्गजम् ।। १५ ।।
त्रिवृद्योषाग्निदन्त्यर्कश्यामक्षीरेभपिप्पली ।।
एष गुल्महरः स्नेहः कृतश्चैव तथासवः ।। १६ ।।
क्षीरवृक्षनदीजम्बुमल्लकीनां त्वचः शुभाः ।।
हृद्रोगशान्तये देया विदार्यश्च रसोदनात् ।। १७ ।।
भेदनश्रावाणभ्यङ्गस्नेहपानानुवासनैः ।।
सर्वानेव समुत्पन्नान्विद्रवेत्समुपाचरेत् ।। १८ ।।
यष्टिकं मुद्गयूषेण शारदेषु तथा पिबेत् ।।
बालबिल्वैस्तथा लेपः कटिरोगेषु शस्यते ।। १९ ।।
विडंगेन्द्रयवा हिङ्गुसरलं रजनीद्वयम् ।।
पूर्वाह्णे दापयेत्पिण्डं सर्वशूलोपशान्तये ।। 2.49.२० ।।
भारेण चलितं दन्तं कुञ्जरस्य समुद्धरेत् ।।
प्रधाना भोजने तेषां यष्टिकाव्रीहिशालयः ।। २१ ।।
मध्यमौ यवगोधूमौ शेषाः प्रत्यवराः स्मृताः ।।
विधौ योगे प्रयत्नेन दग्धिकां तु विवर्जयेत् ।। २२ ।।
यवसेषु तथैवेक्षुर्नागानां बलवर्धनम् ।।
नागानां यवसं शुष्कं कफवातप्रकोपनम् ।। २३ ।।
मदक्षीणस्य नागस्य पयःपानं प्रशस्यते ।।
जीवनीयैस्तथा द्रव्यैः शृतो मांसरसः शुभः ।। २४ ।।
मदवृद्धिकरान्योगान्वक्ष्याम्यहमतः परम् ।।
रणकाले समापन्ने यान्राजा संप्रयोजयेत् ।। २५ ।।
वायसः कुरवश्चोभौ काकोली नाकुली हरिः ।।
भवेत्क्षौद्रेण संयुक्तः पिण्डः सद्यः प्रभेदनः ।। २६ ।।
जातिभंगं समूलश्च कपोतत्वक्तथेङ्गुदी ।।
अश्वसारकभङ्गश्च पिण्डोऽयमपरस्तथा ।। २७ ।।
अजशृङ्ग्यर्कमूलाभ्यां सकुञ्जमधुसंयुतः ।।
मधुमिश्रोप्ययं पिण्डः पुष्पमूलफलान्वितः ।। २८ ।।
युद्धकालेऽत्र नागस्य कर्तव्या मदवर्धिनी ।।
कटुमत्स्या विडङ्गानि क्षारः कोशातकी पयः ।। २९ ।।
हरिद्रा चेति धूपोऽयं कुञ्जरस्य जयावहः ।।
पिप्पल्यः श्वेतलशुनं हरितालं मनःशिला ।। 2.49.३० ।।
अश्वमूत्रोषितो धूपः स्यात्सूर्यपरिशोषितः ।।
मार्द्वीकं कटुमत्स्याश्च तथा कटुकरोहिणी।।३१।।
आभयं च त्रयः शैलं धूपोऽयमपरः शुभः ।।
अग्निकः सर्ववर्णश्च पीलुरित्येष दीपनः।।३२।।
प्रदेयः कवलो युद्धे मनुष्यास्थिप्रधूपितः ।।
जीर्णे विधानो देयः स्यात्पिण्डश्च तृट्क्षयङ्करः ।।३३।।
पिप्पली तण्डुलस्तैलं मार्द्वीकं माक्षिकं तथा ।।
नेत्रयोः परिषेकोऽयं दीपनीयः प्रशस्यते ।। ३४ ।।
पुरीषं वृश्चिकायाश्च तथा पारावतस्य च ।।
क्षीरवृक्षकरीराश्च प्रपन्नाविष्टमञ्जनम् ।। ३५ ।।
अनेनाञ्जितनेत्रस्तु करोति कदनं रणे ।।
उत्पलानि च नीलानि मुस्तं तगरमेव च ।। ३६ ।।
तण्डुलोदकपिष्टानि नेत्रनिर्वापणं परम् ।।
प्रवृद्धये नदीजानां पञ्चमेऽब्दे वनौकसाम् ।। ३७ ।।
दन्तमूलपरीणाहाद्विगुणात्कल्पयेत्परम् ।।
वनेवृद्धैर्न्नवे च्छेदः कर्तव्यश्च तदा भवेत् ।। ३८।।
शय्यास्थानं भवेच्चास्य करीषैः पांसुभिस्तथा ।।
तैलावसेकः शीते स्यान्मासिमासि तथैव च ।। ३९ ।।
शरन्निदाघयोः सेकः सर्पिषा च तथेष्यते ।।
राज्यद्विपादभ्यधिकां तु शोभां नागस्य चान्यस्य न जातु कुर्यात् ।।
शोभाविधानं त्वधिकं सदैव राज्यद्विपस्यैव नृपस्तु कुर्यात् ।। 2.49.४० ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने हस्तिचिकित्सा नामैकोनपञ्चाशत्तमोऽध्यायः ।। ४९ ।।
2.50
पुष्कर उवाच ।।
अतः परं तु नागानां शान्तिकर्म निबोध मे ।।
नित्यं नैमित्तिकं काम्यं यथावदनुपूर्वशः ।। १ ।।
पञ्चमीषु च शुक्लासु वासुदेवस्य पूजनम् ।।
श्रियश्च राम कर्तव्यं नागस्यैरावणस्य च ।। २ ।।
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ।।
तथा च कृष्णपक्षान्ते मासिमासि द्विजोत्तम ।। ३ ।।
भूतेज्या सततं कार्या तिलमांसपयोगुडैः ।।
मत्स्यैः पक्वामिषैर्भक्ष्यैः सुमनोभिश्च भार्गव ।। ४ ।।
चतुष्पथेषु रथ्यासु तथा शून्यगृहेषु च ।।
एक वृक्षश्मशानेषु गोपुराट्टालकेषु च ।। ५ ।।
सङ्गमेषु नदीनां च पर्वतानां गुहासु च ।।
त्रिकण्टकेषु मुख्येषु शून्यदेवगृहेषु च ।। ६ ।।
शुक्लपक्षावसानेषु देवतेज्या विधीयते ।।
गजस्थानोत्तरे भागे प्रागुदक्प्रवणे शुभे ।। ७ ।।
ब्रह्माणं शङ्करं विष्णुं शक्रं वैश्रवणं यमम् ।।
चन्द्रार्कौ वरुणं वायुं त्वग्निं पृथ्वीं तथा खगम् ।। ८ ।।
शेषं च नागराजं तु भूधराँश्चैव कुञ्जरान् ।।
विरूपाक्षं महापद्मं भद्रं सुमनसं तथा ।। ९ ।।
अष्टौ च दिग्गजा ये वै ते स्मृता देवयोनयः ।।
कुमदैरावणौ पद्मः पुष्पदन्तोऽथ वामनः ।। 2.50.१० ।।
सुप्रतीकाञ्जनौ नील एतेऽष्टौ देवयोनयः ।।
यथोक्तानां सुकर्तव्यं पूजनं वै पृथक्पृथक् ।। ११ ।।
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ।।
ॐकारपूतेनाज्येन तथाग्निहवनं भवेत् ।। १२ ।।
पृथक्पृथक् च सर्वेषां चतुर्थ्यन्तैश्च नामभिः ।।
दक्षिणाभिस्ततो राम ब्राह्मणान्स्वस्ति वाचयेत् ।। १३ ।।
ततः शान्त्युदकं कृत्वा मन्त्रै रक्षोहणैर्द्विपान् ।।
अभ्युक्षयेत्कुशाग्रेण पूज्यास्ते च तथा तदा ।। १४ ।।
अतः परं प्रवक्ष्यामि कर्म नैमित्तिकं तव ।।
गजानां मरणे प्राप्ते तथा व्याधौ च दारुणे ।। १९ ।।
दन्तच्छेदाशुभोत्पत्तौ मृते गजद्विपे तथा ।।
दन्तभङ्गे तथा जाते वा सुपक्षमृते गजे ।। १६ ।।
कृष्णपक्षे मृते नागे वह्निपृष्ठे मृते तथा ।।
दारुणासु च वेलासु दक्षिणापरमूर्धनि ।। १७ ।।
हस्तिन्याथ मदे जाते प्रकृतेश्च विपर्यये ।।
पूर्वोत्तरे च दिग्भागे नगरात्सुमनोहरे ।। १८ ।।
स्निग्धप्राशन तोयेषु द्रुमवीतवनस्पतौ ।।
प्रागुदक्प्रवणं राम स्थण्डिलं परिकल्पयेत् ।। १९ ।।
कमलं विन्यसेत्तत्र कर्णिकाकमले हरिम् ।।
श्रियं च विन्यसेत्तत्र केसरेषु च विन्यसेत् ।। 2.50.२० ।।
ब्रह्माणं भार्गवं पृथ्वीं तथा स्कन्दं च भार्गव ।।
अनन्तं खं शिवं सोमं सर्वाण्येतानि भार्गव ।। २१ ।।
दलेषु तत्र दिक्पालान्विन्यसेत्सह कुञ्जरैः ।।
पत्रान्तरेषु चास्त्राणि यथावदनुपूर्वशः ।। २२ ।।
वज्रं तु विन्यसेद्धीमान्शक्रपत्रादनन्तरम् ।।
ततश्चक्रं ततो दण्डं तोरणं तदनन्तरम् ।। २३ ।।
ततश्च विन्यसेत्पाशं तोमरं सशरं धनुः ।।
ततो गदां महाभाग ततः शूलं च विन्यसेत् ।। २४ ।।
पद्मञ्च सान्तरदलं वृत्तया लेखया भजेत् ।।
आदित्यैः सह नासत्यौ ततः पूर्वेण विन्यसेत् ।। २५ ।।
वसूनग्निदिशाभागे साध्यान्याम्ये च विन्यसेत ।।
तथा च नैर्ऋते भागे देवानङ्गिरसो न्यसेत् ।। २६ ।।
पश्चिमे भृगवो भागे वायव्ये मरुतस्तथा ।।
विश्वेदेवास्तथोदक् च रुद्राञ्शिवदिशि न्यसेत् ।। २७ ।।
कृत्वैतद्देवतान्यासं वृत्तया रेखया भजेत् ।।
बाह्येन विन्यसेत्तस्याः सूत्रकारानॄषीन्द्विज ।। २८ ।।
पूर्वेण राम याम्येन तथा देवीं सरस्वतीम् ।।
नदीः पश्चिमतः शैलांस्तथोदग्भृगुनन्दन।।२९।।
महाभूतानि वेदीषु कोणहस्तगतानि तु।।
पद्मं चक्रं गदां शङ्खमीशान्यादिषु विन्यसेत्।। । ।। 2.50.३० ।।
चतुरस्रं तथा कार्यं चतुर्द्वारं च मण्डलम् ।।
प्रमाणं मण्डलस्यात्र भवेद्भूमिवशात्तथा ।।
विदिक्षु पूर्णकलशान्पूर्णपात्रयुतान्न्यसेत ।। ३१ ।।।
सप्तहस्तेषु दण्डेषु पताकाश्च तथा न्यसेत् ।।
सिता रक्ताः सिताः पीता यथावदनुपूर्वशः ।।
दिक्षु तोरणविन्यासं तोरणानां च वेष्टनम् ।। ३२ ।।
क्षीरवृक्षद्रुमदलैः कुसुमैः सफलैर्भवेत् ।।
तोरणस्य प्रमाणं च षड्ढस्तं परिकीर्तितम् ।। ३३ ।।
उच्छ्रायेण तथा यामाज्ज्ञेयं राम समद्वयम् ।।
तार्क्ष्यं तालं च मकरं ऋष्यं चैवानुपूर्वशः ।। ३४ ।।
तोरणोपरि मध्ये तु दानवान्विनिवेशयेत् ।।
कर्णकैर्लक्षणोपेतान्विन्यसेद्देवतागणान् ।। ३५ ।।
सायुधान्सपताकाँश्च सातपत्रं शतक्रतुम् ।।
दिग्गजानां च विन्यासमोषधीभिः प्रकल्पयेत् ।। ३६ ।।
ऐरावणं दले शक्रे लाजाभिर्विन्यसेद्बुधः ।।
नागं पुष्पमयं पद्ममाग्नेये विन्यसेद्दले ।। ३७ ।।
पुष्पदन्तस्तथा याम्ये नागः कार्यः प्रियंगुभिः ।।
तथा च नैर्ऋते भागे नागः पुष्पेण वामनः ।।। ।। ३८ ।।
वायव्ये चाञ्जनं पत्रे माषैः कुर्याद्विचक्षणः ।।
नीलश्च पत्रे कौबेरे शतपुष्पामयो भवेत् ।। ३९ ।।
ऐशान्ये कुमुदं कुर्यान्नागेन्द्रं सिततन्दुलैः ।।
ततस्तु पूजनं कार्यं सोपवासेन भार्गव ।। 2.50.४० ।।
जितेन्द्रियेण दान्तेन शिरःस्नातेन चाप्यथ ।।
शुक्लवस्त्रावृतेनापि सोष्णीषेण तथैव च ।। ४१ ।।
काञ्चनालंकृतेनापि सपवित्रेण भार्गव ।।
सर्वासां पूजनं कुर्याद्देवतानां पृथक्पृथक ।। ४२ ।।
अस्त्राणां कुञ्जराणां च पद्मादीनां तथैव च ।।
तोरणे तु निविष्टानां तार्क्ष्यादीनां पृथक्पृथक् ।। ४३ ।।
सागराणां तु कुम्भेषु गन्धमाल्यानुलेपनैः ।।
धूपैर्दीपैर्नमस्कारैर्वासोभिश्च पृथक्पृथक् ।। ४४ ।।
तथा प्रतिसराभिश्च भूषणैश्च पृथक्पृथक् ।।
भूरिणा च तथान्नेन पानैश्च विविधैस्तथा ।। ४५ ।।
कुल्माषपरमान्नाभ्यां पूज्यास्ते कृसरेण च ।।
भूदकोल्लोपिकाभक्ष्यैः सितया गुडफाणितैः ।। ४६ ।।
मासौदनपयःक्षौद्रदधिपायससक्तुभिः ।।
अपूपफलमूलान्नरागखण्डवकैर्दलैः ।। ४७ ।।
एवं सम्पूजनं कृत्त्वा शङ्खवाद्यरवैर्द्विज ।।
गीतेन च महाभाग सुभगानर्तितेन च ।। ४८ ।।
ततस्तु पूजनं कृत्वा पूजास्थानात्तथाप्युदक्।।
आहिताग्निकुलादग्निं वेदिमुल्लिख्य बोधयेत् ।। ४९ ।।
देवतानां तु सर्वासामेकैकं तु पृथक्पृथक् ।।
चतुर्थ्यन्तेन नाम्ना तु प्रणवाद्येन भार्गव ।। 2.50.५० ।।
शतमाज्येन जुहयान्महाव्याहृतयस्तथा ।।
ततस्तु पूजिता नागा वह्निं देवगणान्द्विजान्।।५१।।
कृत्वा प्रदक्षिणं सर्वे व्रजेयुः स्वगृहाणि ते ।।
उपद्रष्ट्रे तथा कर्त्रे सर्वं तत्र निवेदयेत् ।।५२।।
भवेन्निष्कं च निष्कं च धेनुधेनुं भुवंभुवम् ।।
अश्वमश्वं तथान्या च दक्षिणा शक्तितो भवेत् ।। ५३ ।।
न भवेत्सा महाद्रोणा कथञ्चिदपि कस्यचित् ।।
तथा च हस्तिभिषजा प्रवृत्तेन च भूरिणा ।। ५४ ।।
पूजनीयौ तथैवात्र सांवत्सर पुरोहितौ ।।
हस्तिन्यां मदमत्तायां शान्तिकेऽस्मिन्द्विजोत्तम ।। ५५ ।।
राष्ट्रान्निर्वास्य तां कुर्याच्छान्तिमेतां द्विजोत्तम ।।
नागराज्ञि मृते कृत्वा तत्रैवान्यं मतङ्गजम् ।। ५६ ।।
स्नातं सर्वौषधैर्नागं सर्वगन्धैस्तथैव च ।।
सर्वबीजैश्च रत्नैश्च सर्वतीर्थजलैस्तथा ।। ५७ ।।
आहताम्बरसंवीतदर्शनं श्वेतलक्षणम् ।।
काञ्चनापीडिते वाद्यगीतपुण्याहनिस्वनैः ।। ५८ ।।
अर्चितं दैवतो वह्निं कृतविप्रप्रदक्षिणम् ।।
करिणीं तु समारुह्य वदेत्कर्णे तु कालवित् ।। ५९ ।।
श्रीगजस्त्वत्कृते राजा भवस्वास्य गजाग्रणीः ।।
गन्धमाल्याग्रभक्तैस्त्वां पूजयिष्यति पार्थिवः ।। 2.50.६० ।।
लोकस्तदाज्ञया पूजां करिष्यति तथानघ ।।
पालनीयस्त्वया राजा घोरयुद्धे तथाहवे ।। ६१ ।।
तिर्यग्भावं समुत्सृज्य दिव्यं भावमनुस्मर ।।
देवासुराणां युद्धे च श्रीगजस्त्रिदशैः कृतः ।। ६२ ।।
ऐरावणसुतः श्रीमानरिष्टो नाम रावणः ।।
श्रीगजानां तु तत्तेजः सर्वमेवात्र तिष्ठति ।। ६३ ।।
तत्तेजस्तव नागेन्द्र दिव्यभागसमन्वितम् ।।
उपतिष्ठतु भद्रं ते रक्ष राजानमाहवे ।। ६४ ।।
इत्येवमभिषिक्त्वेन शुभेऽहनि नराधिपः ।।
नित्यं चैवास्य कर्तव्यं ब्राह्मणैः स्वस्तिवाचनम् ।। ६५ ।।
तस्यानुगमनं कुर्युः शस्त्रहस्ताश्च मानवाः ।।
सितवर्णश्च कर्तव्यो राज्ञः पुण्याहकर्मसु ।। ६६ ।।
एतत्ते सर्वमाख्यातं गजानां शान्तिकर्मसु ।।
नक्षत्राणि प्रशस्तानि तिथयश्च तथा शृणु ।। ६७ ।।
चतुर्दशीं चतुर्थीं च नवमीं च विवर्जयेत् ।।
अङ्गारकदिने राम दिनं भास्करजस्य च ।। ६८ ।।
ऋक्षाणि वैष्णवं त्वाष्ट्रं शस्यते शक्रदैवतम् ।।
नक्षत्राणि मुहूर्ताश्च एत एव महाबल ।। ६९ ।।
देशकालोपसम्पन्नं विधिना च तथा कृतम् ।।
शान्तिकर्म गजेन्द्राणां सर्वबाधाविनाशनम् ।। 2.50.७० ।।
धन्यं यशस्यमायुष्यं राज्ञां च विजयावहम् ।।
भार्गवश्च्यवनः क्रुद्धो यथा शक्रस्य भार्गव ।। ७१ ।।
मदो नाम समुत्पन्नस्तथा दैत्यः सुदारुणः ।।
इन्द्रनाशाय शक्रार्थी ततः पश्चात्प्रसादितः ।। ७२ ।।
मदं स बहुधा चक्रे प्रजापतिसमो द्विज ।।
स्त्रीष्वक्षेषु तथा पाने मृगयायां धने तथा ।। ७३ ।।
विद्यासु चैव सर्वासु सर्वशिल्पेषु चाप्यथ ।।
जीवेषु राम सर्वेषु तथा रूपे बले कुले ।। ७४ ।।
एकोऽस्य धारणे शक्तो न कश्चिदितिचिन्तयन् ।।
यथोक्तेष्वधिकं भागं किञ्चित्पाने निवेशयेत् ।। ७५ ।।
प्राणिनामथ सर्वेषां नागेष्वभ्यधिकं तथा ।।
मदो यदा समभ्येति नागं ब्राह्मणसत्तम ।। ७६ ।।
राम शान्तिस्तदा कार्या यादृशी तां निबोध मे ।।
शालाप्रागुत्तरे भागे स्थण्डिलं कल्पयेद्बुधः ।। ७७ ।।
स्थण्डिले कमलं कृत्वा दिक्पत्रेषु तथेश्वरान् ।।
केसरं च्यवनं नागान्भुवं कं च सरस्वतीम् ।। ७८ ।।
पूजयेड्डिण्डिमं मध्ये गन्धमाल्यानुलेपनैः ।।
धूपदीपनमस्कारैर्वासोभिश्च पृथक्पृथक् ।। ७९ ।।
सर्वासां पूजनं कृत्वा पाद्याद्यनुरतो द्विज ।।
देवतानां घृतं हुत्वा यथाश्रद्धमनिन्दितम्।। 2.50.८०
रसपूर्णो घटो देयो दक्षिणार्थे च काञ्चनम् ।।
दत्त्वा वासांसि नागस्य गजाध्यक्षं च पूजयेत् ।। ८१ ।।
हस्तिपं कर्मिणश्चान्यान्दक्षिणाभिर्द्विजोत्तमान् ।।
सांवत्सरे च वित्तेन यतः सांवत्सरः स्वयम्।।८२।।
गजाध्यक्षाय तं दद्याद्दिण्डिमं प्रयतः स्वयम्।।
प्राङ्मुखश्च गजाध्यक्षो वादयेत्तं यथाविधि ।। ८३ ।।
उच्चैर्गम्भीरनिर्घोषे डिण्डिमे तु शुभं वदेत् ।।
अन्तरा पातिते तस्मिँस्तथैवाप्यशुभं वदेत् ।। ८४ ।।
डिण्डिमे सम्यगादत्ते शुभमेव विनिर्दिशेत् ।।
तदा प्रभृति मत्तस्य तदा नागस्य वै नृप ।। ८५ ।।
अशुभे लक्षणे जाते भूयस्तत्कर्म चाचरेत् ।।
शुभे तु लक्षणे जाते गजाध्यक्षस्य डिण्डिमम् ।। ८६।।
जये संस्थाप्य नन्दाद्याग्रजपाय..........................सर्वबाधाविनाशनम् ।। ८७ ।।
अतः परं प्रवक्ष्यामि काम्यं कर्म तवानघ ।।
उपोषितस्तथा याम्ये यजमाने पुरोहितः ।। ८८ ।।
शुभप्रदमिदं स्नानं यजमानस्य कारयेत् ।।
न्यग्रोधोदुम्बराश्वत्थमधुकोदकसंयुतैः ।। ८९ ।।
अकालमूलैः कलशैः पञ्चभिर्गजलक्षणैः ।।
स्नातः शुक्लाम्बरो विष्णुं चन्द्रार्कौ वरुणं तथा ।। 2.50.९० ।।
हस्तिनं पूजयेद्विद्वान्गन्धमाल्यान्नसम्पदा ।।
धूपदीपनमस्कारैर्वासोभिश्च तथैव च ।। ९१ ।।
हस्तिदन्तेन सूर्याय दत्त्वा धूपमतः परम् ।।
चतुर्थ्यन्तेन वै नाम्ना प्रणवाद्येन भार्गव ।।
सहस्रशो गजाश्चात्र दक्षिणा काञ्चनं तथा ।। ९२ ।।
यः स्वासते स्नानमिदं प्रकुर्वन्गजेन्द्रमुख्यान्गिरिसन्निकाशान् ।।
बहूनवाप्नोति तथास्य नागा भवन्त्यरोगा विनिमुक्तदोषाः ।।९३ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने गजानां शान्तिकर्मविधानं नाम पञ्चाशत्तमोऽध्यायः ।। ५० ।।