विष्णुधर्मोत्तरपुराणम्/ खण्डः २/अध्यायाः ०४१-०४५

विकिस्रोतः तः
Jump to navigation Jump to search

2.41
।। पुष्कर उवाच ।।
सावित्री च ततः साध्वी जगाम वरवर्णिनी ।।
यथायथागतेनैव यत्रासौ सत्यवान्मृतः ।। १ ।।
सा समासाद्य भर्तारं तस्योत्सङ्गगतं शिरः ।।
कृत्वा विवेश तन्वङ्गी लम्बमाने दिवाकरे ।। २ ।।
सत्यवानपि निर्मुक्तो धर्मराज्ञा शनैः शनैः ।।
उन्मीलयति ते नेत्रे प्रस्यन्दत च भार्गव ।। ३ ।।
ततः प्रत्यागतप्राणः प्रियां वचनमब्रवीत् ।।
क्वाऽसौ प्रयातः पुरुषो यो मामाकृष्य गच्छति ।। ४ ।।
जानामि न वरारोहे कश्चासौ पुरुषः शुभे ।।
वनेऽस्मिँश्चारुसर्वाङ्गि सुप्तस्य च चिरं गतम् ।। ५ ।।
उपवासपरिक्लान्ता कर्षिता भवती मया ।।
अस्माद्दुर्हृदयेनाद्य पितरौ दुःखितौ तथा ।। ६ ।।
द्रष्टुमिच्छाम्यहं सुभ्रु गमने त्वरिता भव ।।
सावित्र्युवाच ।।
आदित्योऽस्तमनुप्राप्तो यदि ते रुचितं प्रभो ।। ७ ।।
आश्रमन्तु प्रयास्यावः श्वशुरौ तप्यतो मम ।।
यथावृत्तं च तत्रैव तव वक्ष्याम्यथाश्रमे ।। ८ ।।
पुष्कर उवाच ।।
एतावदुक्त्वा भर्तारं सह भर्त्रा ययौ तदा ।।
आससादाश्रमं चैव सह भर्त्रा नृपात्मजा ।। ९ ।।
एतस्मिन्नवकाशे तु लब्धचक्षुर्महीपतिः ।।
द्युमत्सेनः सभार्यस्तु पर्यतप्यत भार्गव ।। 2.41.१० ।।
सावित्र्यपि वरारोहा सह सत्यवता तदा ।।
ववन्दे तत्र राजानं सभार्यं भृगुनन्दन ।। ११ ।।
परिष्वक्तस्तदा पित्रा सत्यवान्राजनन्दनः ।।
अभिवाद्य ततः सर्वान्वने तस्मिँस्तपोधनान् ।। १२ ।।
उवास तां तदा रात्रिमृषिभिः सह धर्मवित् ।।
सावित्र्यपि जगादाथ यथा वृत्तमनिन्दिता ।। १३ ।।
व्रतं समापयामास तस्यामेव तदा निशि ।।
ततस्तु राम रात्र्यन्ते शाल्वेभ्यस्तस्य भूपतेः ।। १४ ।।
आजगाम जनः सर्वो राज्यार्थाय निमन्त्रणे ।।
आज्ञापयामास तदा तथा प्रकृतिशासनम् ।। १५ ।।
विचक्षुषस्ते नृपते येन राज्यं पुरा हृतम् ।।
अमात्यैः सह भोक्तव्यं राज्यमस्तु पुरे नृप ।। १६ ।।
एतच्छ्रुत्वा ययौ तत्र बलेन चतुरङ्गिणा ।।
लेभे च सकलं वाक्यं धर्मराज्ञो महात्मनः ।। १७ ।।
भ्रातॄणां च शतं लेभे सावित्र्यपि वराङ्गना ।।
एवं पतिव्रता साध्वी पितृपक्षं नृपात्मजा ।। १८ ।।
उज्जहार वरारोहा भर्तृपक्षं तथैव च ।।
मोचयामास भर्तारं मृत्युपाशवशीकृतम् ।। १९ ।।
तस्मात्साध्व्यः स्त्रियः पूज्याः सततं देववज्जनैः ।।
तासां राम प्रसादेन धार्यते वै जगत्त्रयम् ।। 2.41.२० ।।
तासां न वाक्यं भवतीह मिथ्या न जातु लोकेषु चराचरेषु ।।
तस्मात्सदा ताः परिपूजनीयाः कामान्समग्रानभिकामयानैः ।। २१ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे सावित्र्युपाख्याने एकचत्वारिंशात्तमोऽध्यायः ।। ४१ ।।
2.42
पुष्कर उवाच ।।
गवां हि पालनं राज्ञा कर्तव्यं भृगुनन्दन ।।
गावः पवित्राः संगत्या गोषु लोकाः प्रतिष्ठिताः ।। १ ।।
गावो वितन्वते यज्ञं गावो विश्वस्य मातरः ।।
शकृन्मूत्रं परं तासामलक्ष्मीनाशनं स्मृतम् ।। २ ।।
तद्धि सेव्यं प्रयत्नेन तत्र लक्ष्मीः प्रतिष्ठिता ।।
उद्वेगं च न गन्तव्यं शकृन्मूत्रस्य जानता ।। ३ ।।
गवां मूत्रपुरीषेषु ष्ठीवनाद्यं न सन्त्यजेत् ।।
गोरजः परमं पुण्यमलक्ष्मीविघ्ननाशनम् ।। ४ ।।
गवां कण्डूयनं चैव सर्वकल्मषनाशनम् ।।
तासां शृङ्गोदकश्चैव जाह्नवीजलसन्निभम् ।। ५ ।।
गोमूत्रं गोमयं क्षीरं दधि सर्पिश्च रोचनम् ।।
षडङ्गमेतन्माङ्गल्यं पवित्रं तु पृथक्पृथक् ।। ६ ।।
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।।
पवित्रं परमं ज्ञेयं स्नाने पाने च भार्गव ।। ७ ।।
रक्षोघ्नमेतन्माङ्गल्यं कलिदुःखप्रणाशनम् ।।
रोचना च तथा धन्या रक्षोरगगदापहा ।।
यस्तु कल्ये समुत्थाय मुखमाज्ये निरीक्षते ।।
तस्यालक्ष्मीः क्षयं याति वर्धते न तु किल्बिषम् ।। ९ ।।
गवां ग्रासप्रदानेन पुण्यं सुमहदश्नुते ।।
यावत्यः शक्नुयाद्गावः सुखं धारयितुं गृहे ।। 2.42.१० ।।
धारयेत्तावतीर्नित्यं क्षुधितास्तु न धारयेत् ।।
दुःखिता धेनवो यस्य वसन्ति द्विज मन्दिरे ।। ११ ।।
नरकं समवाप्नोति नात्र कार्या विचारणा ।।
दत्त्वा परगवे ग्रासं पुण्यं सुमहदश्नुते ।। १२ ।।
शैशिरं सकलं कालं ग्रासं परगवे तथा ।।
दत्त्वा स्वर्गमवाप्नोति संवत्सरशतानि षट् ।। १३ ।।
अग्रभक्तं नरो दत्त्वा नित्यमेव तथा गवाम् ।।
मासषट्केन लभते नाकलोकं समायुतम् ।। १४ ।।
सायं प्रातर्मनुष्याणामशनं देवनिर्मितम् ।।
तत्रैवमशनं दत्त्वा गवां नित्यमतन्द्रितः ।। १५ ।।
द्वितीयं यः समश्नाति तेन संवत्सरान्नरः ।।
गवां लोकमवाप्नोति यावन्मन्वन्तरं द्विज ।। १६ ।।
गवां प्रचारे पानीयं दत्त्वा पुरुषसत्तमः ।।
वारुणं लोकमासाद्य क्रीडत्यब्दगणायुतम् ।।
परां तृप्तिमवाप्नोति यत्रयत्राभिजायते ।। १७ ।।
गवां प्रचारभूमिं तु वाहयित्वा हलादिना ।।
नरकं महदाप्नोति यावदिन्द्राश्चतुर्दश ।। १६ ।।
गवां पानप्रवृतानां यस्तु विघ्नं समाचरेत ।।
ब्रह्महत्या कृता तेन घोरा भवति भार्गव ।।
सिंहव्याघ्रभयत्रस्तां पङ्कमग्नां जले गताम् ।। १९ ।।
गामुद्धृत्य नरः स्वर्गे कल्पभोगानुपाश्नुते ।।
गवां यवसदानेन रूपवानभिजायते ।। 2.42.२० ।।
सौभाग्यं महदाप्नोति लावण्यं च द्विजोत्तम ।।
औषधं च तथा दत्त्वा विरोगस्त्वभिजायते ।। ।। २१ ।।
औषधं लवणं तोयमाहारं च प्रयच्छतः ।।
विपत्तौ पातकं नास्य भवत्युद्बन्धनादिकम ।। २२ ।।
वक्तव्यता दिवापाले रात्रौ स्वामी न तद्गृहे ।।
तत्रापि तन्नियुक्तश्च कश्चिदन्यो न चेद्भवेत् ।। २३ ।।
तासां चेदविरुद्धानां चरन्तीनां मिथो वने ।।
यामुत्पत्य वृको हन्यान्नपालस्तत्र किल्बिषी ।। २४ ।।
संरुद्धासु तथैवासु वृकः पाले त्वनायति ।।
यामुत्पत्य वृको हन्यात्पाले तत्किल्बिषं भवेत ।। २५ ।।
गोवधेन नरो याति नरकानेकविंशतिम् ।।
तस्मात्सर्वप्रयत्नेन कार्यं तासां तु पालनम् ।। २६ ।।
विक्रयाच्च गवां राम न भद्रं प्रतिपद्यते ।।
तासां च कीर्तनादेव नरः पापाद्विमुच्यते ।। २७ ।।
तासां संस्पर्शनं धन्यं सर्वकल्मषनाशनम् ।।
दानेन च तथा तासां कुलान्यपि समुद्धरेत् ।। २८ ।।
उदक्या सूतिको दोषो नैव तत्र गृहे भवेत् ।।
भूमिदोषास्तथान्येऽपि यत्रैका वसते तु गौः ।। २९ ।।
गवां निश्वासवातेन परा शान्तिर्गृहे भवेत ।।
नीराजनं तत्परमं सर्वस्थानेषु कीर्तितम् ।। 2.42.३० ।।
गवां संस्पर्शनाद्राम क्षीयते किल्बिषं नृणाम् ।।
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।। ३१ ।।
एकरात्रोपवासं च श्वपाकमपि शोधयेत् ।।
पृथक्त्वप्रत्ययाभ्यस्तमतिसन्तपनं स्मृतम् ।। ३२ ।।
सर्वाशुभविमोक्षाय पुरा चरितमीश्वरेः ।।
प्रत्येकं च त्र्यहाभ्यस्तं चातिसांतपनं स्मृतम् ।। ३३ ।।
सर्वकामप्रदं राम सर्वाशुभविनाशनम् ।।
कृच्छ्रातिकृच्छ्रं पयसा दिवसानेकविंशतिम् ।। ३४ ।।
निर्मलास्तेन चीर्णेन भवन्ति पुरुषोत्तमाः ।।
त्र्यहमुष्णं पिबेन्मूत्रं त्र्यहमुष्णं घृतं पिबेत् ।। ।। ३५ ।।
त्र्यहमुष्णं पयः पीत्वा वायुभक्षः परं त्र्यहम् ।।
तप्तकृच्छ्रमिदं प्रोक्तं सर्वाशुभविनाशनम् ।। ३६ ।।
शीतकृच्छ्रस्तथैवैष क्रमाच्छीतैः प्रकीर्तितः ।।
सर्वाशुभविनाशाय निर्मितो ब्रह्मणा स्वयम् ।। ३७ ।।
गोमूत्रेण चरेत्स्नानं वृत्तिं कुर्यात्तु गोरसैः ।।
उत्थितामुत्थितस्तिष्ठेदुपविष्टासु ना स्थितः ।। ३८ ।।
अभुक्तवत्सु नाश्नीयादपीतासु च नो पिबेत् ।।
त्राणं तु रामाकृत्वैव तथा देवे प्रवर्षति ।। ३९ ।।
त्राणं नैवात्मनः कार्यं भया र्त्ताश्च समुद्धरेत् ।।
आत्मानमपि सन्त्यज्य गोव्रतं तत्प्रकीर्तितम् ।। 2.42.४० ।।
सर्वपापप्रशमनं मासेनैकेन भार्गव ।।
व्रतेनानेन चीर्णेन गोलोकं पुरुषो व्रजेत् ।। ४१ ।।
अभीष्टमथ वा राम यावदिन्द्राश्चतुर्दश ।।
गवां निर्हारनिर्मुक्तानश्नन्प्रतिदिनं यवान् ।। ४२ ।।
मासेन तदवाप्नोति यत्कि ञ्चिन्मनसेच्छति ।।
गोमतीं च तथा विद्यां सायं प्रातस्तथा जपन् ।। ४३ ।।
गोलोकमाप्नोति नरो नात्र कार्या विचारणा ।।
उपर्युपरि सर्वेषां गवां लोकः प्रकीर्तितः ।। ४४ ।।
निवसन्ति सदा यत्र गावस्त्वाकाशगा दिवि ।।
विमानेषु विचित्रेषु वृतेष्वप्सरसां गणैः ।। ४५ ।।
किङ्किणी जालचित्रेषु वीणामुरजनादिषु ।।
सदा कामजला नद्यः क्षीरपायसकर्दमाः ।। ४६ ।।
शीतलामलपानीयाः सुवर्णसिकतास्तथा ।।
पुष्करिण्यः शुभास्तत्र वैडूर्यकमलोत्पलाः ।। ४७ ।।
मानसी च तथा सिद्धिः तत्र लोके भृगूत्तम ।।
तञ्च लोकं नरा यान्ति गवां भक्त्या न संशयः ।। ४८ ।।
गोमतीं कीर्तयिष्यामि सर्वपापप्रणाशिनीम् ।।
तां तु मे वदतो विप्र शृणुष्व सुसमाहितः ।। ४९ ।।
गावः सुरभयो नित्यं गावो गुग्गु लुगन्धिकाः।।।
गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं परम् ।। 2.42.५० ।।
अन्नमेव परं गावो देवानां हविरुत्तमम् ।।
पावनं सर्वभूतानां रक्षन्ति च वहन्ति च ।।५१।।
हविषा मन्त्रपूतेन तर्पयन्त्यमरान्दिवि ।।
ऋषीणामग्निहोत्रेषु गावो होमे प्रयोजिताः ।। ५२ ।।
सर्वेषामेव भूतानां गावः शरणमुत्तमम् ।।
गावः पवित्रं परमं गावो मङ्गलमुत्तमम् ।। ५३ ।।
गावः स्वर्गस्य सोपानं गावो धन्यास्सनातनाः ।।
ॐ नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च ।। ५४ ।।
नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमोनमः ।।
ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधा स्थितम् ।। ५५ ।।
एकत्र मन्त्रास्तिष्ठन्ति हविरेकत्र तिष्ठति ।।
देवब्राह्मणगोसाधुसाध्वीभिः सकलं जगत् ।। ५६ ।।
धार्यते वै सदा तस्मात्सर्वे पूज्यतमा सदा ।।
यत्र तीर्थे सदा गावः पिबन्ति तृषि ता जलम् ।।
उत्तरन्ति पथा येन स्थिता तत्र सरस्वती ।।५७।।
गवां हि तीर्थे वसतीह गङ्गा पुष्टिस्तथा तद्रजसि प्रवृद्धा ।।
लक्ष्मीः करीषे प्रणतौ च धर्मस्तासां प्रणामं सततं च कुर्यात् ।। ५८ ।। ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० गोमाहात्म्ये गोमतीविद्या नाम द्विचत्वारिं शत्तमोऽध्यायः ।। ४२ ।।
2.43
।। पुष्कर उवाच ।। ।।
अतः परं प्रवक्ष्यामि तव राम चिकित्सितम् ।।
संक्षेपेण गवां पुण्यं सारभूतं शृणुष्व तत् ।। ।। १ ।।
शृङ्गमूलेषु धेनूनां तैलं दद्यात्ससैन्धवम् ।।
शृङ्गीवीरबलामांसीकल्कसिद्धं समाक्षिकम् ।। २ ।।
सिमिचूर्णयुतं देयमथवापि तथा घृतम् ।।
कर्णमूलेषु सर्वेषु मञ्जिष्ठाहिङ्गुसैन्धवैः ।। ३ ।।
सिद्धं तैलं प्रदातव्यं गोरसो वाथवा पुनः ।।
माक्षिकं सैन्धवं शंखं तगरीं पिप्पलीं सिहाम् ।। ४ ।।
अजाक्षीरेण संपेष्य गुलिकां कारयेद्भिषक् ।।
एतन्नेत्राञ्जनं श्रेष्ठं घृतमाक्षिकसंयुतम् ।। ५ ।।
बिल्वमूलमपामार्गं धातकीं च सपाटलाम् ।।
कुटजं दन्तमूलेषु लेपं तच्छूलनाशनम् ।। ६ ।।
दन्तशूलहरैर्द्रव्यैर्घृतं राम विपाचितम् ।।
मुखरोगहरं ज्ञेयं जिह्वारोगेषु सैन्धवम् ।। ७ ।।
शृङ्गवेरं हरिद्रे द्वे त्रिफलां च गलग्रहे ।।
शृङ्गवेरं हरिद्रे द्वे वल्कलं कुटजस्य च ।। ८ ।।
अपामार्गविडंगांश्च लवणेन विमिश्रितम् ।।
औषधं मुखरोगघ्नं ज्वरदाहविनाशनम् ।। ९ ।।
हृच्छूले बस्तिशूले च वातरोगे क्षते तथा ।।
त्रिफलाघृतसमिश्रं गवां पानं प्रशस्यते ।। 2.43.१० ।।
शतपुष्पायुतं पक्वं तैलं कुटजचित्रकैः ।।
गवां राम प्रदातव्यं सर्वहृद्रोगनाशनम् ।। ११ ।।
अतीसारे हरिद्रे द्वे पाठां चैव प्रदापयेत् ।।
आनाहे घृतसंयुक्तां दापयेत्पद्मचारिणीम् ।। ।। १२ ।।
सर्वेषु कुष्ठरोगेषु तथा शाखागदेषु च ।।
शृङ्गवेरं च दार्वीं च कासे श्वासे प्रदापयेत् ।।१३।।
दातव्या भग्नसन्धाने प्रियङ्गुर्लवणान्विता ।
वातरोगेषु सर्वेषु शतपुष्पाविपाचितम् ।। १४ ।।
गवां तैलं प्रदातव्यं सर्ववातगदापहम् ।।
यूषणं मधुसंमिश्रं कफरोगेषु दापयेत् ।। १५ ।।
पित्त रोगेषु सर्वेषु मधुयष्टिविपाचितम् ।।
गव्यमाज्यं प्रदातव्यं सर्वपित्तगदापहम् ।। १६ ।।
शाखोटकरमापानं रक्तपित्ते प्रशस्यते ।।
गोधूमानां च चूर्णानि माषाश्चैव ससर्षपाः ।। १७ ।।
पयसा च समालोड्य गुरुमिश्राः प्रदापयेत् ।।
रक्तस्रावेषु कृच्छ्रेषु गवामेतत्प्रशस्यते ।। १८ ।।
तिलाम्भकरुहांश्चैव हरितालं घृतं तथा ।।
भग्नक्षतानां धेनूनां लेपने तत्प्रशस्यते ।। १९ ।।
वत्सानां च सरोगाणां पाठां तक्रेण पाययेत् ।।
हरिद्रां क्षीरसंयुक्तामथवा रोगशान्तये ।। 2.43.२० ।।
माषास्तिलाः सगोधूमाः पशुक्षीरं घृतं तथा ।।
एषां पिण्डाः प्रदातव्या लवणेन सुसँस्कृताः।।
पुष्टिप्रदा तु वत्सानां वृषभाणां बलप्रदा ।। २१ ।।
देवदारुवचामांसीगुग्गुलुर्हिङ्गुसर्षपाः ।।
एष धूपः प्रदातव्यः किञ्चिद्घृतपरिप्लुतः ।। २२ ।।
सर्वग्रह विनाशाय पलङ्कशयुतः शुभः ।।
घण्टा चापि गवां कार्या धूपेनानेन धूपिता ।। २३ ।।
अश्वगन्धा तिलं चुक्रं वस्तियोगे प्रशस्यते ।।
अश्वगन्धायुतं तक्रं तिलान्वस्ति प्रशस्यते ।।
भवति क्षीरिणी तेन धेनुर्भृगुकुलोद्भव ।। २४ ।।
पिण्याकमेव निर्दिष्टं गवां राम रसायनम् ।।
शीतोदपानमार्द्रञ्च यवसं च विवर्जयेत् ।। २५ ।।
जरान्विता तथा स्थानं तच्च शीतं द्विजोत्तम ।।
धार्यं चैव गवां मध्ये मत्तोजः सर्वथा भवेत् ।। ।। २६ ।।
गवां वेश्मनि दीपास्तु दातव्या राम रात्रिकाः ।। २७ ।।
गवां हि रोगोपशमाय शस्तं गतेऽर्धमासे लवणं सदैव ।।
आनाहशूलारुचिनाशनं तदजाविकस्यापि तथा प्रशस्तम् ।।२८।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०- रामं प्रति पुष्करोपाख्याने गोचिकित्सितं नाम त्रिच
त्वारिंशत्तमोऽध्यायः ।। ४३ ।।
2.44
पुष्कर उवाच ।।
अतः परं प्रवक्ष्यामि शान्तिकर्म गवां तव ।।
नित्यं नैमित्तिकं काम्यं तथा पुष्टिविवर्धनम् ।। ऽ ।।
पञ्चमीषु च शुक्लासु श्रियः पूजा विधीयते ।।
गवां पुरीषे धर्मज्ञ धूपदीपान्नसम्पदा ।। २ ।।
वन्यैः सुकुसुमैर्भक्त्या ब्राह्मणानां च पूजनम् ।।
तत्रैवाहनि कर्तव्यं वासुदेवस्य पूजनम् ।। ३ ।।
स हि सर्वगतो देवः क्षीरोदधिनिकेतनः ।।
त्रैलोक्याधारभूतानां विशेषेण तथा गवाम् ।। ४ ।।
आश्वयुक्शुक्लपक्षस्य पञ्चदश्यां भृगूत्तम ।।
वृत्रान्तकस्य कर्तव्यस्तदा यागस्तु गोमता ।। '५ ।।
गन्धधूपनमस्कारपुष्पदीपान्नसम्पदा ।।
इह प्रजायाः साम्राधः पृषदश्वा तथैव च ।। ६ ।।
घृतप्रतीकश्च तथा रौद्रीभिश्च भृगूत्तम ।।
नित्याभिश्च तथा वह्निं घृतेन जुहुयाद्बुधः ।। ७ ।।
अम्भस्थेति च मन्त्रेण लवणं चाभिमन्त्रयेत् ।।
दध्ना संप्राशनं कार्यं दधिक्राव्णेत्यनन्तरम् ।। ८ ।।
यजमानेन देया च धेनुः स्याच्छतधेनुना ।।
तदूनवित्तो दद्याच्च होत्रे शक्त्यैव दक्षिणाम्।।९।।
गावः स्वलंकृताः पश्चाद्गन्धमाल्यफलादिभिः ।।
स्वाशिता मुक्तवत्साश्च कुर्युर्वह्निं प्रदक्षिणम् ।। 2.44.१० ।।
क्ष्वेडाकिलकिलाशब्दैः शङखवाद्यरवैस्तथा ।।
वृषाणां योजयेद्युद्धं गोपालानां तथैव च ।। ११ ।।
द्वितीयेऽहनि धेनूनां वृषाणां सह वत्सकैः ।।
लवणं तत्प्रदातव्यं ब्राह्मणेनाभिमन्त्रितम।।१२।।
भोजनं गोरसप्रायं ब्राह्मणांश्चात्र भोजयेत् ।।
स्वस्ति वाच्यं ततः पश्चाद्दत्तदायान्विसर्जयेत ।। १ ३।।
नित्यमेतत्तु वो दिष्टं शान्तिकर्म शुभं गवाम् ।।
अतः परं प्रवक्ष्यामि कर्म नैमित्तिकं तव ।। १४ ।।
धेनूनां मारके प्राप्ते तथा रोगाऽद्युपद्रवे ।।
क्षीरक्षये तथान्यस्मिन्प्रकृतेस्तु विपर्यये ।। १५ ।।
त्रिरात्रोपोषितो विद्वानेकरात्रोषितोऽथ वा ।।
गवां मध्ये शुभे देशे स्थण्डिलं परिकल्पयेत।।१६।।
अष्टपत्रं लिखेत्पद्मं कर्णिकाकेसरान्वितम् ।।
पूजयेत्कर्णिकामध्ये वासुदेवं श्रिया सह ।। १७ ।।
कृसरैः पूजन कार्यं देवतानां यथाक्रमम् ।।
यासां तासां प्रवक्ष्यामि तव नामानि भार्गव ।। १८ ।।
सुभद्रां नाम दिग्धेनुं पूर्वभागे समर्चयेत् ।।
पूजनीयस्ततो ब्रह्मा सुरभिस्तदनन्तरम् ।। ।। १९ ।।
ततः सूर्यस्ततो धेनुर्बहुरूपा द्विजोत्तम ।।
ततस्तु पृथिवीं देवीं ततोऽनन्तं प्रपूजयेत् ।। 2.44.२० ।।
ततश्च विश्वरूपाक्षं दिग्धेनुं तदनन्तरम् ।।
ततः सिद्धिं ततो ऋद्धिं ततः शान्तिं समर्चयेत् ।। २१ ।।
रोहिणी नाम दिग्धेनुस्ततः पूज्या द्विजोत्तम ।।
ततश्चन्द्रमसं देवं महादेववृषं ततः ।। २२ ।।
महादेवं ततो देवं पूजयेत्तदनन्तरम् ।।
इत्येता देवताः प्रोक्ताः कृसरे तव षोडश ।। २३ ।।
पत्रेषु पूजनीयाश्च दिक्पालाश्च यथादिशम् ।।
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ।। २४ ।।
प्रत्येकां पूजयेद्राम देवतां प्रयतो द्विजः ।।
पूर्णकुम्भानि सर्वाणि प्रत्येकं विनिवेदयेत ।। २५ ।।
भक्त्यास्थगितवक्त्राणि वर्धमानैस्सतण्डुलैः ।।
सहिरण्यैर्यथाशक्ति ततो होमं समारभेत् ।। २६ ।।
वेदिं कृत्वा यथशास्त्रं समिध्य च हुताशनम् ।।
एकैकं दैवतं राम समुद्दिश्य यथाविधि ।। २७ ।।
चतुर्थ्यन्तेन धर्मज्ञ नाम्ना तु प्रणवादिना ।।
होमद्रव्यैस्तथैकैकं शतसंख्यं तु होमयेत् ।। २८ ।।
समिधः क्षीरवृक्षस्य अक्षतानि तिलाँस्तथा ।।
सिद्धार्थकान्यथाज्यं च प्रत्येकं जुहुयात्क्रमात् ।। २९ ।।
ततो रक्षोहणैर्मन्त्रैर्जुहुयाद्गौरसर्षपान् ।।
ततः समापयेद्विद्वानग्निकर्म यथाविधि ।। 2.44.३० ।।
सुवर्णं च तथा कांस्यं धेनुं वस्त्रयुगं तथा ।।
कर्तुर्देयमुपस्रष्टुर्वस्त्रयुग्मं गुरोस्तथा ।। ३१ ।।
भोजनं गोरसप्रायं ब्राह्मणांश्चात्र भोजयेत् ।।
स्वस्ति वाच्यं ततः पश्चाद्दत्तदाया द्विजोत्तमाः ।। ३२ ।।
रक्षोहणैस्तथा मन्त्रैः कुर्युरभ्युक्षणं गवाम् ।।
गवां च पूजा कर्तव्या गन्धमाल्यानुलेपनैः ।। ३३ ।।
मोक्तव्याश्च तदा वत्सा यथाकामं द्विजोत्तम ।।
शान्तिकर्म गवामेतत्सर्वोत्पातप्रशान्तये ।। ३४ ।।
कर्तव्यं भृगुशार्दूल परमं कर्म दारुणम् ।।
अतः परं प्रवक्ष्यामि काम्यं कर्म तवानघ ।। ३५ ।।
कर्ता तूपवसेत्तत्र कारकैश्च तथैव च ।।
पूर्वभाद्रपदायोगमाहिर्बुध्न्यगते तथा ।। ३६ ।।
स्नानं निशाकरे कुर्याद्द्वितीयेऽहनि शास्त्रवित् ।।
उदुम्बरस्य पत्राणि पञ्चगव्यं कुशोदकम् ।। ३७ ।।
रोचनां च समंगां च क्षिपेत्कुम्भद्वये ततः ।।
कुम्भद्वयं बुधः कुर्याद्गन्धमाल्योज्ज्वलं दृढम् ।। ३६ ।।
अकालमूलं संस्थाप्य कर्ता तेन तदा भवेत् ।।
स्नात्वा गोवालचीराणि परिधाय समाहितः ।। ३९ ।।
पूजयेच्चाप्यहिर्बुध्न्यमादित्यं च तथैव च ।।
वरुणं च शशाङ्कं च गन्धमाल्यान्नसम्पदा ।। ।। 2.44.४० ।।
धूपदीपनमस्कारैस्तथैव बलिकर्मणा ।।
अक्षतानां च पात्राणि ततो राम चतुर्दश ।। ४१ ।।
अहिर्बुध्न्याय रुद्राय सफलांश्च निवेदयेत्।।
खट्वांगेन तु दातव्यं तथा धूपं द्विजोत्तम ।। ४२ ।।
ततस्तु पूजा कर्तव्या देवदेवस्य चक्रिणः ।।
ॐकारपूर्वमाज्यं च सर्वासां जुहुयात्ततः ।। ४३ ।।
देवतानां यथोक्तानामेकैकस्य शतंशतम् ।।
गोवालशफशृङ्गैश्च त्रिवृतं कारयेन्मणिम् ।। ४४ ।।
धारणं तस्य कर्तव्यं कण्ठे मूर्ध्न्यथवा भुजे ।।
कर्त्रे चैवोपद्रष्ट्रे च शक्त्या देया च दक्षिणा ।। ४५ ।।
ब्राह्मणानां च सर्वेषां यथावदनुपूर्वशः ।।
अलंघयन्भद्रपदामथान्त्यां करोति यः स्नानमिदं सदैव ।।
भवन्ति तस्यायुतशश्च गावः परामवाप्नोति तथैव वृद्धिम् ।। ४६ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० व० सं० रामं प्रति पुष्करोपाख्याने गवां शान्तिकर्म नाम चतुश्चत्वारिंशत्तमोऽध्यायः ।। ४४ ।।
2.45
पुष्कर उवाच ।।
राज्ञां तुरङ्गमायत्तो विजयो भृगुनन्दन ।।
तस्मात्सर्वं प्रयत्नेन तुरङ्गाणां समर्जनम् ।। १ ।।
राज्ञा यत्नवता भाव्यं पालने च विशेषतः ।।
तावन्तस्तुरगा धार्या यावतां पोषणं सुखम् ।। २ ।।
कर्तुं शक्यं न धार्यास्ते दुःखिताः क्षुधितास्तथा ।।
दुःखितास्ते श्रियं लोके विनिघ्नन्ति जयं तथा ।। ३ ।।
धारणीयाः सुविहिता विधिना यवसादिताः।।
विधृतास्ते तथा कुर्युर्लोकद्वयजयं तथा ।।४।।
मङ्गल्यास्ते पवित्रास्ते रजस्तेषां तथैव च ।।
कैवल्यस्यैव ते भक्ता देवस्य परमेष्ठिनः ।।५।।
अन्ति मध्ये तथा तेन नानुज्ञाता दिवौकसाम् ।।
ततोऽश्वमेधतुरगस्तस्यैवैकस्य हूयते ।। ६ ।।
सर्वरत्नाधिको जातस्तुरगोऽमृतमन्थनात् ।।
उच्चैःश्रवास्तेन हयः सर्वरत्नोत्तमः स्मृतः ।। ७ ।।
सपक्षा देववाह्यास्ते मनुष्याणामपक्षकाः ।।
पद्मना शालिहोत्रेण वाहनार्थं पुरा कृताः ।। ८ ।।
नीराजयन्ति ते देशान्ह्रेषितैर्बलशालिनः ।।
गन्धर्वास्ते विनिर्दिष्टाः श्रियः पुत्रा जितश्रमाः ।। ९ ।।
प्रधानमंगं सैन्यस्य शोभा च परमा हयाः ।।
सुदूरगमने युद्धे यानश्रेष्ठास्तुरङ्गमाः ।। 2.45.१० ।।
वल्गन्तमुच्चैस्तुरगं चामरापीडधारिणम् ।।
आरुह्य या भवेत्तुष्टिर्न सा राम त्रिविष्टपे ।। ११ ।।
सन्नद्धपुरुषारूढैः सुसन्नद्धैस्तुरङ्गमैः ।।
दृष्टैरेवारिसैन्यस्य पतन्ति हृदयान्यलम् ।। १२ ।।
तुरङ्गपादोद्धृतधूलिदण्डं यस्यातपत्रानुकृतिं करोति ।।
नभः समग्रा वसुधा तु तस्य शैलावतंसा भवतीह वश्या ।। १३ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० व० सं० रामं प्रति पुष्करोपाख्याने अश्वप्रशंसा नाम पञ्चचत्वारिंशत्तमोऽध्यायः ।। ४५ ।।