विष्णुधर्मोत्तरपुराणम्/ खण्डः २/अध्यायाः ०३६-०४०

विकिस्रोतः तः
Jump to navigation Jump to search

2.36
।। पुष्कर उवाच ।।
वैलोम्यं धर्मराजोऽपि नाचरत्यथ योषिताम् ।।
पतिव्रतानां धर्मज्ञ पूज्यास्तस्यापि तास्सदा ।। १ ।।
अत्र ते वर्णयिष्यामि कथां पापप्रणाशिनीम् ।।
यथा विमोक्षितो भर्ता मृत्युपाशावृतः स्त्रिया ।।२ ।।
मद्रेषु शाकले राजा बभूवाऽश्वपतिः पुरा ।।
अपुत्रस्तप्यमानोऽसौ पुत्रार्थे सर्वकामदम् ।। ३ ।।
सावित्र्याः कारयामास लक्षहोमं द्विजोत्तमैः ।।
सिद्धार्थकैर्हूयमाना सावित्री प्रत्यहं द्विज ।। ४ ।।
शतसंख्यैश्चतुर्थ्यां तु मासाद्दशदिने गते ।।
काले तु दर्शयामास स्वां तनुं मनुजेश्वरे ।। ५ ।।
सावित्र्युवाच ।।
राजन्भक्तोऽसि मे नित्यं प्राप्स्यसे तनयां शुभाम् ।।
मद्दत्तां यत्प्रसादाच्च पुत्रान्प्राप्स्यसि शोभनान् ।। ६ ।।
पुष्कर उवाच ।। एतावदुक्त्वा सा राज्ञः प्रणतस्यैव भार्गव ।।
जगामादर्शनं देवी खे यथा राम चञ्चला ।। ७ ।।
मालव्या नाम तस्यास्ति राज्ञः पत्नी पतिव्रता ।।
सुषाव तनयां काले सावित्रीमेव रूपतः ।। ८ ।।
सावित्र्या हुतया दत्ता तद्रूपसदृशा ततः ।।
सावित्र्येव भवेदेषा जगाद नृपतिर्द्विजान् ।। ।।
कालेन यौवनं प्राप्तां ददौ सत्यवते पिता ।।
नारदस्तु ततः प्राह राजानं दीप्ततेजसम् ।। १० ।।
क्षीणायुरेष वर्षेण भविष्यति नृपात्मजः ।।
प्रदीयते सकृत्कन्या चिन्तयित्वा नराधिपः ।। ११ ।।
तथापि प्रददौ कन्यां द्युमत्सेनात्मजे शुभाम ।।
सावित्र्यपि च भर्तारमासाद्य नृपनन्दनम् ।। १२ ।।
नारदस्य तु वाक्येन दूयमानेन चेतसा ।।
शुश्रूषां परमां चक्रे भर्तृश्वशुरयोर्वने ।। १३ ।।
राज्यभ्रष्टस्सभार्यस्तु नष्टचक्षुर्नराधिपः ।।
तुतोष तां समासाद्य राजपुत्रीं तदा स्नुषाम् ।। १४ ।।
चतुर्थेऽहनि मर्तव्यं यदा सत्यवता द्विज ।।
श्वशुरेणाभ्यनुज्ञाता तदा राज्ञा तु सा स्नुषा ।। १५ ।।
चक्रे त्रिरात्रं धर्मज्ञ प्राप्ते तस्मिंस्तदा दिने ।।
चारुपुष्पफलाहारं सत्यवान्प्रययौ वनम् ।। १६ ।।
श्वशुरेणाभ्यनुज्ञाता याचनाभङ्गभीरुणा ।।
सावित्र्यपि जगामाशु सह भर्त्रा महद्वनम् ।। १७ ।।
चेतसा दूयमानेन गूहमाना च तद्भयम् ।।
वने पप्रच्छ भर्तारं द्रुमांश्च समृगांस्तथा ।। १८ ।।
आश्वासयामास स राजपुत्रीं क्लान्तां वने पद्मपलाशनेत्राम् ।।
सन्दर्शनेनाथ मृगद्विजानां तथा द्रुमाणां विपिने नृवीरः।। १९ ।। ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने सावित्र्युपाख्याने वनप्रवेशो नाम षट्त्रिंशत्तमोऽध्यायः ।। ३६ ।।
2.37
।। सत्यवानुवाच ।। ।।
वनेऽस्मिन्षट्पदाकीर्णं सहकारं मनोहरम् ।।
श्रोत्रघ्राणमुखं पश्य वसन्ते रतिवर्धनम् ।। १ ।।
वने सपुष्पं दृष्ट्वैषा रक्ता श्लोकं मनोहरम् ।।
हसतीव मनः सेर्ष्यं त्वामिवायतलोचने ।। २ ।।
दक्षिणे दक्षिणेनैतां पश्य रम्यां वनस्थलीम् ।।
पुष्पितैः किंशुकैर्युक्तां ज्वलितामिव सप्रभैः ।। ३ ।।
सुगन्धिकुसुमामोदी वनराजिविनिर्गतः। ।
करोति वायुर्दाक्षिण्यादावयोः क्लमनाशनम् ।। ४ ।।
अप्युत्पलविशालाक्षि कर्णिकारैः सुपुष्पितैः ।।
काञ्चनैरिव भात्येषा वनराजी मनोहरा ।। ५ ।।
अतिमुक्तलताजालरुद्धमार्गवनस्थलीः ।।
पश्योच्चैश्चारुसर्वाङ्गि कुसुमोत्कर भूषणा ।। ६ ।।
मधुमत्तालिझाङ्कारव्याजेन वरवर्णिनि ।।
चापयष्टिं करोतीव कामः पान्थजिघांसया ।। ७ ।।
फुल्लचंपकसद्वक्त्रा पुंस्कोकिलविनादिनी ।।
विभाति चारुतिलका त्वमिवैषा वनस्थली ।। ८ ।।
कोकिलश्चूतशिखरे मञ्जरीरेणुपिञ्जरः ।।
गदितैर्व्यक्ततामेति कुलीनश्चेष्टितैरिव ।। ९ ।।
पुष्परेण्वनुलिप्ताङ्गः प्रियामनुसरन्वने ।।
कुसुमात्कुसुमं याति कूजन्कामी शिलीमुखः ।। १० ।।
मञ्जरीं सहकारस्य कान्ताचञ्च्वग्रखण्डिताम् ।।
स्वादयत्यतिपुष्पेऽपि पुंस्कोकिलयुवा द्रुमे ।। ११ ।।
काकः प्रसूतां वृक्षाग्रे सामिषाग्रेण चञ्चुना ।।
काकीं सम्पाययत्येष पक्षाच्छादित पुत्रकाम् ।। १२ ।।
भूभागं निम्नमासाद्य दयितासहितो युवा ।।
नाहारमपि चादत्ते कामी कामं कपिञ्जलः ।। १३ ।।
कलविङ्कस्तु विरुतैः सप्रियो विटपे स्थितः ।।
मुहुर्मुहुर्विशालाक्षि उत्कण्ठयति कामिनः ।।१४ ।।
क्षुद्रशाखां समारूढः शुकोऽयं कान्तया सह ।।
भारेण नमयञ्शाखां करोति सफलामिव ।। १५ ।।
वनेभपिशितास्वादतृप्तो निद्रामुपागतः ।।
शेते सिंहयुवा कान्ताचरणावरणाननः ।। १६ ।।
व्याघ्रयोर्मिधुनं पश्य शैलकन्दर संस्थितम् ।।
ययोर्नेत्रप्रभालोकैर्गुहा भिन्नेव लक्ष्यते ।। १७ ।।
अय द्वीपी प्रियां लेढि जिह्वाग्रेण पुनःपुनः ।।
प्रीतिमायाति महतीं लिह्यमानश्च कान्त्या ।। १८ ।।
उत्सङ्गकृतमूर्धानं निद्रापहृतचेतसम् ।।
जन्तूद्धरणतः कान्तं सुखयत्येव वानरी ।। १९ ।।
भूमौ निपतिता कान्तं मार्जारी दर्शितोदरा ।।
नखैर्दन्तैस्तुदत्येषा न च पीडयते तथा ।। २० ।।
शशकः शशिका चोभे संसुप्ते पीडिते इमे ।।
सँल्लीनगात्रचरणे कर्णैर्व्यक्तिमुपागते ।। २१ ।।
स्नातं सरसि पद्माढ्ये वारणं मदमन्थरम् ।।
सम्भावयति तन्वङ्गि मृणालशकलैर्वशा ।। २२ ।।
कान्तपोत्रसमुत्खातैः कान्ता मार्गानुसारिणी ।।
करोति कवलं मुस्तैर्वराही पोतकानने ।। २३ ।।
दृढाङ्गसन्धिर्महिषः कर्दमार्द्रतनुर्वने ।।
अनुव्रजति धावन्तीं प्रियां बद्धचतुष्ककः ।।२४।।
पश्य चार्वङ्गि सारङ्गः त्वत्कटाक्षनिभं वने ।।
सभार्यां मां तु पश्यन्तं कौतूहलसमन्वितम् ।। २५ ।।
पश्य पश्चिमपादेन रोही कण्डूयते मुखम् ।।
स्नेहार्द्रभावः कषति भर्ता शृङ्गाग्रकोटिना ।। २६ ।।
दाडिमे चमरीं पश्य सितवालामगच्छतीम् ।।
अन्वास्ते चमरः कामी वीक्षते मां च गर्वितः ।। ।। २७ ।।
आतपे गवयः पश्य निविष्टो भार्यया सह ।।
रोमन्थमास्ये कुर्वाणः काकं ककुदि धारयन् ।। २८ ।।
पश्याजं भार्यया सार्धं न्यस्ताग्रचरणद्वयम् ।।
विपुले बदरीस्कन्धे तच्छदग्रासकाम्यया ।। २९ ।।
हंसं सभार्यं सरसि विचरन्तं सुनिर्मले ।।
सुशुक्लस्येन्दुबिम्बस्य पश्यैनं सदृश श्रियम् ।। ३० ।।
सभार्यश्चक्रवाकोऽयं कमलाकरमध्यगः ।।
करोति पद्मिनीं कान्तां सपुष्पामिव सुन्दरि ।। ३१ ।।
मया फलोच्चयः सुभ्रु त्वया पुष्पोच्चयः कृतः ।।
इन्धनं न कृतं किञ्चित्तत्करिष्यामि सांप्रतम् ।। ३२ ।।
त्वमस्य सरसस्तीरे द्रुमच्छायामुपाश्रिता ।।
क्षणमात्रं प्रतीक्षस्व विश्रमस्व च भामिनि ।। ३३ ।।
।। सावित्र्युवाच ।। ।।
एवमेतत्करिष्यामि मम दृष्टिपथात्त्वया ।।
दूरे कान्त न गन्तव्यं बिभेमि गहने वने ।। ३४ ।।
।। पुष्कर उवाच ।। ।।
तस्य पातयतः काष्ठं जज्ञे शिरसि वेदना ।।
स वेदनार्त्तः सङ्गम्य भार्यां वचनमब्रवीत् ।। ३५ ।।
।। सत्यवानुवाच ।। ।।
आयासेन ममानेन जाता शिरसि वेदना ।।
तमश्च प्रविशामीव न च जानामि किञ्चन ।। ३६ ।।
त्वदुत्सङ्गे शिरः कृत्वा निद्रोपहतलोचनः ।।
पुष्कर उवाच ।।
तदुत्सङ्गे शिरः कृत्वा सुष्वाप गतचेतनः ।। ३७ ।।
पतिव्रता महाभागा ततस्सा राजकन्यका ।।
ददर्श धर्मराजं तु स्वयं तं देशमागतम् । ३८।।
नीलोत्पलदलश्यामं पीताम्बरधरं प्रभुम् ।।
विद्युल्लतानिबद्धाङ्गं सतोयमिव तोयदम् ।। ३९ ।।
किरीटेनार्कवर्णेन कुण्डलाभ्यां विराजितम् ।।
हारभारार्पितोरस्कं तथाङ्गदविभूषितम् ।। ४० ।।
तथानुगम्यमानं च कालेन सह मृत्युना ।।
स तु संप्राप्य तं देशं देहात्सत्यवतस्तदा ।। ४१ ।।
अङ्गुष्ठमात्रं पुरुषं पाशबद्धं वशङ्गतम् ।।
आकृष्य दक्षिणामाशां प्रययौ सत्वरं तदा ।। ४२ ।।
सावित्र्यपि वरारोहा त्यक्त्वा तं गतजीवितम् ।।
अनुवव्राज गच्छन्तं धर्मराजमतन्द्रिता ।। ४३ ।।
तामुवाच यमो गच्छ यथागतमनिन्दिते ।।
और्ध्वदैहिककार्येषु युक्ता भर्तुः समाचर ।।४४ ।।
नानुगन्तुमसौ शक्यस्त्वया लोकान्तरं गतः ।।
पतिव्रतासि तेन त्वं मुहूर्तमनुपश्यसि ।। ।।४५ ।।
गुरुशुश्रूषणाद्भद्रे तथा सत्यवतो महत् ।।
पुण्यं समर्जितं येन नयाम्येनमहं स्वयम् ।। ४६ ।।
एतावदेव कर्तव्यं पुरुषस्य विजानतः ।।
मातुः पितुश्च शुश्रूषा गुरोश्च वरवर्णिनि ।। ४७ ।।
गुरुत्रितयमेतच्च सदा सत्यवता वने ।। ४८ ।।
पूजितं पूजितस्स्वर्गस्तदानेन चिरं शुभे ।।
तपसा ब्रह्मचर्येण त्वग्निशुश्रूषया तथा ।।४९।।
पुरुषाः स्वर्गमायान्ति गुरुशुश्रूषणेन च ।।
आचार्यश्च पिता चैव माता भ्राता च पूर्वजः ।। ५० ।।
नार्तेनाप्यवमन्तव्या ब्राह्मणेन विशेषतः ।।
आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः ।।५१।।
माता पृथिव्या मूर्तिश्च भ्राता वै मूर्तिरात्मनः ।।
यन्मातापितरौ क्लेशं सहेते सम्भवे नृणाम् ।। ५२ ।।
न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि ।।
तयोर्नित्यं प्रियं कुर्यादाचार्यस्य च सर्वदा ।। ५३ ।।
तेष्वेव त्रिषु तुष्टेषु तपः सत्यं समाप्यते ।।
तेषां त्रयाणां शुश्रूषा परमं तप उच्यते ।। ५४ ।।
न तैरनभ्यनुज्ञातो धर्ममन्यं समाचरेत ।।
त एव हि त्रयो लोकास्त एव त्रय आश्रमाः ।। ५५ ।।
त एव च त्रयो वेदास्त एवोक्तास्त्रयोऽग्नयः ।।
पिता वै गार्हपत्योऽग्निर्माताग्निर्दक्षिणः स्मृतः ।। ५६ ।।
गुरुराहवनीयस्तु अग्नित्रेता गरीयसी ।।
त्रिष्वप्रमाद्यन्नेतेषु त्रींल्लोकाञ्जयते गृही ।। ५७ ।।
स हि दिव्येन वपुषा देववद्दिवि मोदते ।।
इमं लोकं मातृभक्तः पितृभक्तस्तु मध्यमम् ।। ५८ ।।
गुरुशुश्रूषया त्वेवं ब्रह्मलोकं समश्नुते ।।
सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः ।। ५९ ।।
अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ।।
यावत्त्रयस्ते जीवेयुस्तावन्नान्यत्समाचरेत् ।। ६० ।।
तनुं निवेदयेत्तेभ्यो मनो वचनकर्मभिः ।।
त्रिष्वेतेष्वितिकृत्यं हि पुरुषस्य समाप्यते ।। ६१ ।।
एष धर्मः परः साक्षादुपधर्मोऽन्य उच्यते ।।
गुरुपूजारतिर्भर्ता त्वं च साध्वी पतिव्रता ।। ६२ ।।
विनिवर्तस्व धर्मज्ञे ग्लानिर्भवति तेऽधुना ।।
सावित्र्युवाच ।।
पतिर्हि दैवतं स्त्रीणां पतिरेव परायणम्।। ६३ ।।
अनुगम्यः स्त्रिया साध्व्या पतिः प्राणधनेश्वरः ।।
मितं ददाति हि पिता मितं भ्राता मितं सुतः ।। ६४ ।।
अमितस्य हि दातारं भर्तारं का न पूजयेत ।।
नीयते यत्र भर्ता मे स्वयं वा यत्र गच्छति ।। ६५ ।।
मयापि तत्र गन्तव्यं यथाशक्ति सुरोत्तम ।।
पतिमादाय गच्छन्तमनुगन्तुमहं यदा ।। ६६ ।।
त्वां देव न हि शक्ष्यामि तदा त्यक्ष्यामि जीवितम् ।।
मनस्विनी तथा का च वैधव्याक्षरदूषिता ।। ६७ ।।
मुहूर्तमपि जीवेत मण्डनार्हाप्यमण्डिता ।।
यम उवाच ।।
पतिव्रते महाभागे परितुष्टोऽस्मि ते शुभे ।। ६८ ।।
विना सत्यवतः प्राणान्वरं वरय मा चिरम् ।।
सावित्र्युवाच ।।
विनष्टचक्षुषो राज्यं चक्षुषा सह कामये ।।
च्युतराज्यस्य धर्मज्ञ श्वशुरस्य महात्मनः ।। ६९ ।।
।। यम उवाच ।।
कृतेन कामेन निवर्त भद्रे भविष्यतीदं सकलं त्वयोक्तम् ।।
ममोपरोधस्तव च क्लमः स्यात्तथाध्वना तेन तव ब्रवीमि ।। ७० ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० सावित्र्युपाख्याने सप्तत्रिंशत्तमोऽध्यायः ।।३७।।
2.38
सावित्त्र्युवाच।।
कुतः क्लमः कुतो दुःखं सद्भिः सह समागमे ।।
सतां तस्मान्न मे ग्लानिस्त्वत्समीपे सुरोत्तम ।। १ ।।
साधूनां वाप्यसाधूनां सन्त एव परा गतिः ।।
नैवासतां नैव सतामसन्तो नैव चात्मनः ।। २ ।।
विषाग्निसर्पशस्त्रेभ्यो न तथा जायते भयम् ।।
अकारणजगद्वैरिखलेभ्यो जायते यथा ।। ३ ।।
सन्तः प्राणानपि त्यक्त्वा परार्थं कुर्वते यथा ।।
तथाऽसन्तोऽपि मनुजाः परपीडासु तत्पराः ।।४ ।।
त्यजत्यसूनयं लोकस्तृणवद्यस्य कारणात्।।
परोपधानसक्तास्ते परलोकं तथा सता ।। ५ ।।
निकायेषुनिकायेषु पुरा ब्रह्मा जगद्गुरुः ।।
असतामुपघाताय राजानः कृतवान्स्वयम् ।। ६ ।।
चारैः परीक्षयेद्राजा धूर्तान्सम्मार्जयेत्सदा ।।
निग्रहं चासतां कुर्यात्स तु लोकजिदुत्तमः ।। ७ ।।
धान्यसंरक्षणार्थाय निर्मार्ष्टा कक्षमुद्धरन् ।।
यथा वर्धयते धान्यं वर्द्धनीयास्तथा प्रजाः ।। ८ ।।
निग्रहेणा सतां राज्ञा सतां च परिपालनैः ।।
एतावदेव कर्तव्यं राज्ञा स्वर्गमभीप्सता ।। ९ ।।
राजकृत्यं हि लोकेषु नास्त्यन्यज्जगतीपते ।।
असतां निग्रहादेव सतां च परिपालनात् ।। १० ।।
राजानुशासिता तेषामसतां शासिता भवान् ।।
तेन त्वमधिको देव देवेभ्यः प्रतिभासि मे ।। ११ ।।
जगत्तु धार्यते सद्भिः सतामग्र्यस्तथा भवान् ।।
तेन त्वामभियान्त्या मे क्लमो देव न विद्यते ।। १२।।
यम उवाच ।।
तुष्टोस्मि ते विशालाक्षि वचनैर्धर्मसंहितैः ।।
विना सत्यवतः प्राणान्वरं वरय मा चिरम् ।। १३ ।।
सावित्र्युवाच ।।
सहोदराणां भ्रातॄणां कामयामि शतं विभो ।।
अनपत्यः पिता प्रीतिं पुत्रलाभात्प्रयातु मे।।१४।।
यम उवाच ।।
कृतेन कामेन निवर्त भद्रे भविष्यतीदं सकलं तवोक्तम् ।।
ममोपरोधस्तव च क्लमः स्यात्तथाधुना तेन तव ब्रवीमि ।।१५।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० स० सावित्र्युपाख्याने द्वितीयवरलाभो नामाष्टत्रिंशत्तमोध्यायः ।। ३८ ।।
2.39
सावित्र्युवाच ।।
धर्मो हि दैवतं स्त्रीणां पतिरेव परायणम् ।।
अनुगम्यः स्त्रिया साध्व्या पतिः प्राणधनेश्वरः ।। १ ।।
धर्मार्जने सुरश्रेष्ठ कुतो ग्लानिः कुतः क्लमः।।
त्वत्पादमूलमेवेदं परमं धर्मकारणम् ।। २ ।।
धर्मार्जनं सदा कार्यं पुरुषेण विजानता ।।
तल्लाभः सर्वलाभेभ्यो यतो देव विशिष्यते ।। ३ ।।
धर्मश्चार्थश्च कामश्च त्रिवर्गं जीवतः फलम् ।।
धर्महीनस्य कामार्थौ वन्ध्यासुतसमावुभौ ।। ४ ।।
धर्मादर्थस्तथा कामो धर्माल्लोकद्वयं तथा ।।
धर्म एकोऽनुयात्येनं यत्र कुत्र च गामिनम् ।। ५ ।।
शरीरेण समं नाशं सर्वमन्यद्धि गच्छति ।।
एको हि जायते जन्तुरेक एव विपद्यते ।। ६ ।।
धर्मस्तमनुयात्येको न सुहृन्न च बान्धवाः ।।
रूपसौभाग्यलावण्यं सम्पद्धर्मेण लभ्यते।। ७।।
ब्रह्मेन्द्रोपेन्द्रशर्वेन्द्रयमार्काग्न्यनिलाम्भसाम् ।।
वस्वश्विधनदाद्यानां ये लोकाः सर्वकामदाः ।। ८ ।।
धर्मेण तानवाप्नोति पुरुषः पुरुषान्तक ।।
मनोहराणि द्वीपानि वर्षाणि सुमुखानि च।। ९ ।।
प्रयान्ति धर्मेण नरास्तथैवामरतामिताः ।।
नन्दनादीनि मुख्यानि देवोद्यानानि यानि च ।। १० ।।
तानि पुण्येन लभ्यन्ते नाकपृष्ठं तथा नरैः ।।
विमानानि विचित्राणि तथैवाप्सरसः शुभाः ।। ११ ।।
तैजसानि शरीराणि सदा पुण्यवतां फलम ।।
राज्यं नृपतिपूजा च कामसिद्धिस्तथेप्सिता ।। १२ ।।
उपस्कराणि मुख्यानि फलं पुण्यस्य दृश्यते ।।
रुक्मवैडूर्यदण्डानि चन्द्रांशुसदृशानि च ।। १३ ।।
चामराणि सुराध्यक्ष भवन्ति शुभकर्मणाम् ।।
( पूर्णेन्दुमण्डलाभेन रक्तांशुकमितेन च ।।१४।।
धार्यतां यान्ति छत्रेण नरः पुण्येन कर्मणा ।।)
जयशङ्खस्वनादेव सूतमागधनिःस्वनम ।। १५ ।।
वरासनं सभृङ्गारं फलं पुण्या कर्मणः ।।
वरान्नपानं गीतं च नृत्यमाल्यानुलेपनम् ।। १६ ।।
रत्नवस्त्राणि मुख्यानि फलं पुण्यस्य कर्मणः ।।
रूपौदार्यगुणोपेताः स्त्रियश्चातिनोहराः ।। १७ ।।
वासः प्रासादपृष्ठेषु भवन्ति शुभकर्मणाम् ।।
सुवर्णकिंकिणी मिश्रचामराः पीठधारिणः ।। १८ ।।
वहन्ति तुरगा देव नरं पुण्येन कर्मणा ।।
हेमकक्षैः समातङ्गैश्चलत्पर्वतसन्निभैः ।। १९ ।।
खेलांघ्रिपदविन्यासैर्यान्ति पुण्येन कर्मणा ।।
सर्वकामप्रदे देवे सर्वापद्दुरितापहे ।।२० ।।
वहन्ति भक्तिं पुरुषास्सदा पुण्येन कर्मणा ।।
तस्य द्वाराणि यजनं तपो दानं दया क्षमा ।। २१ ।।
ब्रह्मचर्यं च सत्यं च तीर्थानुसरणं शुभे ।।
स्वाध्यायसेवा साधूनां सहवासः सुरार्चनम् ।।२२।।
गुरूणां चैव शुश्रूषा ब्राह्मणानां च पूजनम् ।।
इन्द्रियाणां जयश्चैव मार्दवं ह्रीरमत्सरम् ।। २३ ।।
तस्माद्धर्मः सदा कार्यो नित्यमेव विजानता ।।
न हि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम् ।। २४ ।।
बाल एवाचरेद्धर्ममनित्यं देव जीवितम् ।।
को हि जानाति कस्याद्य मृत्युः केन भविष्यति ।।२५।।
पश्यतोऽप्यस्य लोकस्य मरणं पुरतः स्थितम् ।।
अमरस्येव चरितमत्याश्चर्यं सुरोत्तम ।। २६ ।।
युवत्वापेक्षया बालो वृद्धत्वापेक्षया युवा ।।
मृत्योरुत्सङ्गमारूढः स्थविरः किमपेक्षते ।। २७ ।।
भुवः शैलं समारूढः ततो वृक्षाग्रमाश्रितः ।।
तत्राप्यविन्दतस्त्राणं मृत्योद्भीतस्य का गतिः ।। २८ ।।
न भयं मरणादेव प्राणिनामधिकं क्वचित ।।
तत्रापि निर्भयाः सन्तः सदा सुकृतकारिणः ।।२९ ।।
यम उवाच ।।
तुष्टोऽस्मि ते विशालाक्षि वचनैर्धर्मसङ्गतैः ।।
विना सत्यवतः प्राणान्वरं वरय मा चिरम् ।। ३० ।।
सावित्र्युवाच ।।
वरयामि त्वया दत्तं पुत्राणां शतमौरसम् ।।
अनपत्यस्य लोकेषु गतिः किल न विद्यते ।। ३१ ।।
यम उवाच ।।
कृतेन कामेन निवर्त भद्रे भविष्यतीदं सकलं त्वयोक्तम् ।।
ममोपरोधश्च तव क्लमः स्यात्तथाधुना तेन तव ब्रवीमि ।। ३२ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० सावित्र्युपाख्याने तृतीयवरलाभो नामैकोनचत्वारिंशोऽध्यायः ।।३९।।
2.40
सावित्र्युवाच ।।
सर्वधर्मविधानज्ञः सर्वधर्मप्रवर्तकः ।।
त्वमेव जगतां नाथः प्रजासंयमनो यमः ।। १ ।।
कर्मणामानुरूप्येण यस्माद्यमयसि प्रजाः ।।।
तस्मात्त्वमुच्यसे देव यम इत्येव नामतः ।। २ ।।
धर्मेणेमाः प्रजाः सर्वा यथा रञ्जयसे प्रभो ।।
तस्मात्ते धर्मराजेति नाम सत्यं निगद्यते ।। ३ ।।
सुकृतं दुष्कृतं चोभे पुरोधाय यथा जनाः ।।
त्वत्सकाशमथायान्ति तस्मात्त्वं मृत्युरुच्यसे ।। ४ ।।
सर्वेषामथ भूतानां यस्मादन्तकरो भवान् ।।।।
तस्मात्वमन्तकः प्रोक्तः सर्वदेवैर्महाद्युते ।। ५ ।।
विवस्वतस्त्वं तनयः प्रथमः परिकीर्तितः ।।
तस्माद्वैवस्वतो नाम्ना सर्वदेवेषु कथ्यसे ।। ६ ।।
कालं कलाद्यं कलयन्सर्वेषां त्वं हि तिष्ठसि ।।
तस्मात्कालेति ते नाम प्रोच्यते तत्सुदर्शिभिः ।।७ ।।
आयुष्ये कर्मणि क्षीणे गृह्णासि प्रसभं जनम् ।।।।।
तस्मात्त्वं कथ्यसे लोके सर्वप्राणहरेति वै ।। ८ ।।
तव प्रसादाद्देवेश धर्मे तिष्ठन्ति जन्तवः ।।
तव प्रसादाद्देवेश सङ्करो नैव जायते ।। ९ ।।
सतां सदा गतिर्देव त्वमेव परिकीर्तितः ।।
जगतोऽस्य जगन्नाथ मर्यादापरिपालकः ।।१० ।।
पाहि मां त्रिदशश्रेष्ठ दुःखितां शरणागताम् ।।
पितरौ च तथैवास्य राजपुत्रस्य दुःखितौ ।। ११ ।।
यम उवाच ।।
स्तुतेन भक्त्या धर्मज्ञे मया तुष्टेन सत्यवान् ।।
तव भर्ता विमुक्तोऽयं लब्धकामा व्रजाबले ।। १२ ।।
राज्यं कृत्वा त्वया सार्धं वत्सराशीतिपञ्चकम् ।।
नाकपृष्ठमथारुह्य त्रिदशैस्सह रंस्यते ।। १३ ।।
स्तोत्रेणानेन धर्मज्ञे कल्यमुत्थाय यश्च माम् ।।
कीर्तयिष्यति तस्यापि दीर्घमायुर्भविष्यति ।। १४ ।।
पुष्कर उवाच ।। एतावदुक्त्वा भगवान्यमस्तु विमुच्य तं राजसुतं महात्मा ।।
अदर्शनं तत्र जगाम राम कालेन सार्धं सह मृत्युना च।।१५।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० सावित्र्युपाख्याने चत्त्वारिंशत्तमोऽध्यायः ।। ४० ।।