विष्णुधर्मोत्तरपुराणम्/ खण्डः २/अध्यायाः ०३१-०३५

विकिस्रोतः तः
Jump to navigation Jump to search

2.31
।। पुष्कर उवाच ।।
दुर्गे सर्वगुणोपेते वास्तुलक्षणसंयुते ।।
वसन्विवर्धयेत्कोशं धर्मेण पृथिवीपतिः ।। १ ।।
प्रजानां पालनं कार्यं तत्र स्थाने महीक्षिता ।।
स्वदेशे देवतायाश्च कृता राज्ञः पुरातनैः ।। २ ।।
दायं वित्तं जनं तासां प्रयत्नेन च पालयेत् ।।
देवद्रव्यापहारेण राजा नरकमृच्छति ।। ३ ।।
अस्मिन्नपि तथा लोके प्राप्नोति च पराभवम् ।।
पालयन्ति महीं देवाः पूजिताः पृथिवीक्षिता ।। ४ ।।
दैवायत्तमिदं सर्वं भूतलं द्विजपुङ्गव ।।
धूपदीपनमस्कारपुष्पमाल्यानुलेपनैः ।। ५ ।।
रत्नानुसम्प्रदानैश्च पूजनीयाः सुरोत्तमाः ।।
पूजिताः पूजयन्त्येते चायुषा यशसा श्रिया ।। ६ ।।
प्राप्यते देवताभक्त्या चानुष्ठाने महत्पदम् ।।
पूजिताः संप्रयच्छन्ति कामान्नृणामभीप्सितान् ।। ७ ।।
एकमप्याश्रितो देवं राजा भार्गवनन्दन ।।
सर्वासां पूजनं कुर्याद्देवतानामसंशयम् ।।८ ।।
देवतानां न चोच्छिन्द्यात्पूर्वदायं कथञ्चन ।।
प्राक्स्थितं तन्न चोच्छिंद्यान्न च च्छिंद्यात्तथा नवम् ।। ९ ।।
तच्छेत्ता नरकं याति सह पूर्वैः पितामहैः ।।
अपि स्वल्पं न हर्तव्यं देवद्रव्यं विजानता ।। १० ।।
स्वल्पस्यापि फलं घोरं यस्माज्जन्मान्तरे भवेत् ।।
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ।। ११ ।।
देवद्रव्यापहरणान्नरकं प्रतिपद्यते ।।
सन्तीह देवताः सौम्याः सन्त्युग्राश्चापि भार्गव ।। १२ ।।
दर्शयन्ति रुषं सौम्य राज्यभ्रंशादिभिर्नृणाम् ।।
अस्मिँल्लोके रुषं क्रूरां नैव कुर्वन्ति देवताः ।। १३ ।।
तासां वित्तापहरणाद्राजा नरकमृच्छति ।।
पूर्वैः पितामहैस्सार्धं प्रागुक्तं फलमेव तु ।। १४ ।।
देवद्रव्यापहरणं नैव जातु भवेद्वृथा ।।
सर्वस्वरहितान्कृत्वा देवद्रव्यापहारिणः ।। १५ ।।
अङ्कयित्वा द्विजश्रेष्ठ स्वराष्ट्राद्विप्रवासयेत् ।।
त्रैविद्या वणिजो वैश्या लिङ्गिनो देवपालकाः ।। १६ ।।
तथा तत्प्रतिबद्धाश्च न कुर्युः कलहं मिथः ।।
तेषां सहायकः स्वामी निग्रहानुग्रही भवेत् ।। १७ ।।
रागद्वेषवियुक्तस्तु विवास्यश्चान्यथा भवेत् ।।
दण्डं च देवतागामि देवद्रव्यस्य सूचकम् ।। १८ ।।
सर्वान्विवासयेद्राजा धार्मिको धर्मकारणात् ।।
राज्ञा सर्वप्रयत्नेन पालनीयाः सुरालयाः ।। १९ ।।
कर्तव्याश्च महाभाग सुरलोकमभीप्सता ।।
देवतास्तु प्रतिष्ठाप्य तल्लोकं ध्रुवमाप्नुयात ।। २० ।।
कृत्वा देवगृहं शुभ्रं स्वर्गमाप्नोत्यनुत्तमम् ।।
तदा भोगप्रमाणेन लक्ष्मीस्तत्रापि भार्गव ।। २१ ।।
मृत्प्रासादाद्दशगुणं स्थूलदारुकृते भवेत् ।।
फलं दशगुणं तस्मात्तथा पक्वेष्टकाकृते ।। २२ ।।
तस्माद्दशगुणं शैले नात्र कार्या विचारणा ।।
यावत्संख्यं नरः कुर्याद्देववेश्म सुधासितम् ।। २३ ।।
तावज्जन्मान्तराणीह यशसा स विराजते ।।
कृत्वा च चित्रविन्यासं गन्धर्वैः सह मोदते ।। २४ ।।
कृत्वा संशोधनं तत्र विरोगः समपद्यते ।।
प्रोक्षयित्वा मनस्तापान्मानवः प्रतिमुच्यते ।। २५ ।।
कृत्वोपलेपनं राम नाकमाप्नोत्यनुत्तमम् ।।
गान्धर्वलोकमाप्नोति कृत्वा वर्णकरञ्जितम् ।। २६ ।।
गन्धैः समुक्षितं कृत्वा गन्धर्वैस्सह मोदते ।।
उपकारप्रदानेन श्रियमाप्नोत्यनुत्तमाम् ।। २७ ।।
गीतवाद्यप्रदानेन सुखमाप्नोत्यनुत्तमम् ।।
प्रेक्षणीयप्रदानेन रूपवानभिजायते ।। २८ ।।
तथा औज्ज्वल्यमाप्नोति यत्रयत्राभिजायते ।।
स्नापयित्वा घृतेनार्चां सर्वपापैः प्रमुच्यते ।। २९ ।।
स्नापयित्वा च तैलेन विरोगः समपद्यत ।।
अम्बुना स्नापयित्वा तु सौभाग्यमधिगच्छति ।। ३० ।।
विरूक्षयित्वा तां राम पापं जहति मानवाः ।।
अनुलेपनदानेन रूपमाप्नोत्यनुत्तमम् ।। ३१ ।।
तथा पुष्पप्रदानेन श्रियमाप्नोत्यनुत्तमाम् ।।
धूपदानेन धर्मज्ञ रतिमाप्नोति शोभनाम् ।। ३२ ।।
तथा दीपप्रदानेन चक्षुष्मानभिजायते ।।
अन्नदः सर्वमाप्नोति यत्किंचिन्मनसेच्छति ।।३३ ।।
पानकानां प्रदानेन तृप्तिमाप्नोत्यनुत्तमाम ।।
वसुदो रूपमाप्नोति रूपमाप्नोति रूप्यदः ।। ३४ ।।
रुक्मदस्सर्वमाप्नोति श्रियमाप्नोति सर्वदः ।।
छत्रदः स्वर्गमाप्नोति तालवृन्तप्रदो दिवम् ।। ३५ ।।
चामराणां प्रदानेन राजा भवति धार्मिकः ।।
पताकायाः प्रदानेन सर्वपापान्व्यपोहति ।। ३६ ।।
ध्वजदानेन लोकेऽस्मिन्ध्वजभूतो भवेन्नरः ।।
नानाविधानां भोगानां तथा राम प्रदायकः ।। ३७ ।।
तानेव भोगानाप्नोति सर्वमाप्नोति भूमिदः ।।
देवमाल्यापनयनाद्गोदानफलमाप्नुयात् ।। ३८ ।।
तदाहुतिप्रदानेन तल्लोकमभिपद्यते ।।
नमस्कारप्रणामाभ्यामेनोभिः प्रतिमुच्यते ।। ३९ ।।
प्रदक्षिणं तथा कृत्वा भवत्याचारवारन्नरः ।।
स्तुत्वा च देवतां राम मनोदुःखात्प्रमुच्यते ।।४०।।
सन्तर्पयित्वा तोयेन तृप्तिं समधिगच्छति ।।
तस्मात्सर्वप्रयत्नेन विशुद्धेनान्तराप्मना ।। ४१ ।।
अर्चास्थाः पूजयेत्सर्वा देवता भूरिदर्शन ।।
तदाश्रितांश्च युञ्जीत तदा तद्विधिपारगान् ।। ४२ ।।
तत्पूजने तथा राम तांश्च सम्पूजयेत्सदा ।।
ब्राह्मणाश्च नियोक्तव्या वेदोक्तसुरपूजने ।।४३ ।।
यस्य राज्ञस्तु विषये देववेश्म विशीर्यते ।।
तस्य सीदति तद्राष्ट्रं देववेश्म यथा तथा ।। ४४ ।।
संस्कारं लम्भयेद्यस्तु देववेश्म पुरातनम् ।।
स च सौख्यमवाप्नोति यत्रयत्राभिजायते ।। ४५ ।।
वापीकूपतडागानां सदा त्रिदशवेश्मनाम् ।।
भूयः संस्कारकर्ता च लभते मुक्तिजं फलम् ।। ४६ ।।
देवसम्पूजनाद्राम वृद्धिं समुपगच्छति ।।
राज्ञस्तु विषये यस्य पूज्यन्ते सततं सुराः ।।४७ ।।
अतिवृष्टिरनावृष्टिर्मूषकाः शलभाः शुकाः ।।
राक्षसाश्च पिशाचाश्च रिपवश्च सुदारुणाः ।।४८।।
ईतयश्च तथैवान्या न भवन्ति द्विजोत्तम।।४९।।
तस्मात्प्रयत्नेन सदा नरेन्द्रैः पूजा विधेया विषये सुराणाम्।।
सुरार्चनात्पूतसमस्तपापास्स्वर्गं क्षितीशाश्चिरमाप्नुवन्ति ।।५०।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०सुरपूजामाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः।।३१।।
2.32
पुष्कर उवाच ।।
ब्राह्मणान्पूजयेद्राजा ब्राह्मणान्पालयेत्सदा ।।
ब्राह्मणा हि महाभाग देवानामपि दैवतम् ।।१।।
ब्राह्मणानां क्षितिं दद्याद्भोगानन्यांश्च पार्थिवः ।।
ब्राह्मणेषु तु यद्दत्तं निधिस्तत्पारलौकिकम् ।। २ ।।
वेदलाङ्गलकृष्टेषु द्विजक्षेत्रेषु भारत ।।
उप्तस्य दानबीजस्य फलस्यान्तो न विद्यते ।।३।।
ब्रह्मस्वं चैव नादद्याद्ब्रह्मस्वं पालयेत्तथा ।।
ब्रह्मस्वहरणाद्राम नरकं पश्यते नरः ।। ४ ।।
न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यतै ।।
विषमेकाकिनं हन्ति ब्रह्मस्वं सप्तपूरुषम् ।। ५ ।।
ब्रह्मस्वं प्रणयाद्भुक्तं हिनस्त्यासप्तमं कुलम् ।।
द्रोहाद्भुक्तं तदेवेह कुलानां पातयेच्छतम् ।। ६ ।।
सुवर्णमेकं गामेकां भूमेरप्येकमङ्गुलम्। ।।
हरन्नरकमाप्नोति यावदाभूतसम्प्लवम् ।। ७ ।।
दृष्ट्वा विटं दुराचारं ब्राह्मणं न द्विषेत्क्वचित् ।।
ब्राह्मणानां परीवादान्नाशमाप्नोति मानवः ।। ८ ।।
न जातु ब्राह्मणं हन्यात्सर्वपापेष्ववस्थितम् ।।
नैवास्ति ब्राह्मणवधात्पापं गुरुतरं क्वचित् ।। ९ ।।
ब्रह्महा नरकं याति यावदाभूतसम्प्लवम् ।।
वर्षाणामयुतं राम पच्यते स्नायुपूरिते ।। १० ।।
शोणितं यावतः पांशून्गृह्णातीह द्विजन्मनाम् ।।
कर्ता तावन्ति वर्षाणि कृतकृन्नरके वसेत् ।। ११ ।।
उपद्रुतो द्विजो येन त्यजेज्जीवितमात्मनः ।।
ब्रह्महत्या भवेत्तस्य नात्र कार्या विचारणा ।। १२ ।।
देहत्यागाच्च नरकं ब्राह्मणोऽपि प्रपद्यते ।।
तेन चाधिकमाप्नोति राम पापं नराधमः ।।१३।।
अदैवं दैवतं कुर्युः कुर्युर्दैवमदैवतम् ।।
ब्राह्मणाश्च महाभागा नमस्यास्ते सदैव हि ।। १४ ।।
ब्राह्मणानां तथा कार्यं यत्नात्कुर्वीत पार्थिवः ।।
कालातिपातं च तथा विप्रकार्ये न कारयेत् ।। १५ ।।
निष्पीडितस्तूपवसेद्येन विद्वान्निशां जनः ।।
स राम नरकं याति वर्षाणां तु दशायुतम् ।। १६ ।।
ब्राह्मणी रुदती हन्ति कुलं रोदायते ध्रुवम् ।।
तदश्रुवह्निर्दहति कुलं त्रिपुरुषं ध्रुवम् ।। १७ ।।
विद्वानप्यथवाविद्वान्ब्राह्मणो मानमर्हति ।।
प्रणीतश्चाप्रणीतश्च यथाग्निर्द्विजपुङ्गव ।। १८ ।।
प्रतिष्ठां प्राप्नुवन्तीह सुरा विप्रप्रतिष्ठिताः ।। १९ ।।
तन्मुखे तु तथाश्नन्ति देवाश्च पितृभिः सह ।।
वह्नौ हुताच्छ्रेष्ठतमं हुतं विप्रमुखाग्निषु ।। २० ।।
अस्कन्दमविरुद्धं च प्रायश्चित्तैर्विवर्जितम् ।।
यावतो ग्रसते ग्रासान्विद्वान्विप्रः सुसंस्कृतः ।। २१ ।।
अन्नप्रदस्य तावन्तः क्रतवः परिकीर्तिताः ।।
ब्राह्मणानां करान्मुक्तं तोयं शिरसि धारयेत् ।। २२ ।।
ब्राह्मणस्य करे यस्मात्सर्वतीर्थसमागमः ।।
ब्राह्मणेभ्यः समुत्पन्नं त्रैलोक्यं सचराचरम् ।। २३ ।।
अमोघशापा धर्मज्ञ कथितास्ते जगत्त्रये ।।
आशीर्वादममोघं च ब्राह्मणानां प्रकीर्तितम् ।। २४ ।।
आशीर्वादपराः कार्यास्तस्माद्राज्ञा द्विजोत्तमाः ।।
यैः कृतः सर्वभक्ष्योग्निरपेयश्च महोदधिः ।। २५ ।।
क्षयी सोमोऽजवृषणस्तथैव च शतक्रतुः ।।
येषां कोपाग्निरद्यापि दण्डके नोपशाम्यति ।। २६ ।।
विपुलश्च तथा येषां प्रसादो भृगुनन्दन ।।
येषां प्रसादात्क्षीणोऽपि वृद्धिमिच्छति चन्द्रमाः ।। २७ ।।
येषां प्रसादाद्रक्षोभिर्नाभिभूयेत भास्करः ।।
येषां प्रसादाद्विपुलां कार्तवीर्यः श्रियं गतः ।। २८ ।।
येषां प्रसादाद्धनदो धनाध्यक्षत्वमागतः ।।
अस्नातः स्नानमाप्नोति व्रतमाप्नोत्यथाव्रती ।। २९।।
येषां वचनमात्रेण किम्भूतमधिकं ततः ।।
भोगं राज्यं तथा स्वर्गं येषां वाक्येन लभ्यते ।। ३० ।।
अपावनकरः क्रोधो येषां राम सदा स्थितः ।।
ते पूज्यास्ते च सत्कार्यास्तेषां दाराणि दापयेत् ।। ३१ ।।
धारयन्ति जगत्सर्वं ब्राह्मणा वेदपारगाः।।
देवानाप्याययन्तीह ब्राह्मणा भृगुनन्दन ।।३२।।
ते तृप्तास्तर्पयन्तीह भुवनं सकलं सुराः ।।
ब्राह्मणेनाहुतिर्दत्ता वह्नौ भृगुकुलोद्वह ।। ३३ ।।
आदित्यमाप्नोत्यादित्याद्वृष्टिर्भवति भूतले ।।
अन्नस्य च तथोत्पत्तिरन्नाद्भूतोद्भवः स्मृतः ।। ३४ ।।
तस्मात्त्रिभुवनं सर्वं ब्राह्मणैरेव धार्यते ।।
ब्राह्मणप्रभवा भूमिर्ब्राह्मणप्रभवो दिवः ।। ३५ ।।
ब्राह्मणानामिमे लोकाः परलोकास्तथैव च ।।
इज्यास्वाध्यायतपसामुपरोधाद्यदा द्विजाः ।। ३६ ।।
स्वाम्यं भुवि न विन्दन्ति क्षत्त्रियास्तु तदा कृताः ।।
ब्राह्मणानां वचः कार्यं राजभिः सततोत्थितैः ।। ३७ ।।
धर्ममर्थं च कामं च तेषां वाचि प्रतिष्ठितम् ।।
ब्राह्मणानां तु वाक्येन निग्रहानुग्रहावुभौ ।। ।। ३८ ।।
लोके कार्यौ भूमिभृता भूतिकामेन नित्यदा ।।
राजा ब्राह्मणवाक्येन यः कुर्याच्छासनादिकम् ।। ३९ ।।
सम्यग्वाप्यथवासम्यक्तेन नाके महीयते ।।
उल्लंघ्य शास्त्रं नृपतिर्यो यथारुचि वर्तते ।। ४० ।।
स राम नरकं याति सुकृतेनापि कर्मणा ।।
यत्र ब्राह्मणवाक्यानि न करोतीह यो नरः।।। ४१ ।।
न तत्र दोषवान्विप्रो राजा दोषेण लिप्यते ।।
ब्राह्मणं दशवर्षं च शतवर्षं च भूमिपम् ।। ४२ ।।
पितापुत्रौ विजानीयाद्ब्राह्मणस्तु तयोः पिता ।।
यस्य राज्ञस्तु विषये ब्राह्मणः सीदति क्षुधा ।।
तस्य सीदति तद्राष्ट्रं दुर्भिक्षव्याधितस्करैः ।। ४३ ।।
तस्मात्पूज्या नमस्कार्यास्सं विभाज्यास्तथा द्विजाः ।।
राज्ञा सर्वप्रयत्नेन लोकद्वयमभीप्सता ।। ४४ ।।
यद्ब्राह्मणास्तुष्टतमा वदन्ति तद्देवताः प्रत्यभिनन्दयन्ति ।।
तुष्टेषु तुष्टाः सततं भवन्ति प्रत्यक्षदेवेषु परोक्षदेवाः ।। ४५ ।।
इति श्रीविष्णुधर्मोत्तरे द्वि०खण्डे मा० सं० रामं प्रति पुष्करवाक्ये ब्राह्मणप्रशंसावर्णनंनाम द्वात्रिंशत्तमोऽध्यायः ।। ३२ ।।
2.33
।। पुष्कर उवाच ।।
साध्वीनां पालनं कुर्यात्पूजनं च महीपतिः ।।
एकपत्न्यः स्त्रियः सर्वा धारयन्ति जगत्त्रयम् ।। १ ।।
भर्तृव्रता भर्तृपरा भर्तृपूजनतत्परा ।।
या तु स्त्री सा दिवं याति सह भर्त्रा द्विजोत्तम ।। २ ।।।
एकपत्न्यस्तु यद्दुःखं सहन्ते द्विज सानुगाः ।।
तेन ताः स्वर्गमासाद्य सुखमायन्त्यनेकधा ।। ३ ।।
तासां प्रभावो हि महांस्तेजश्चैवातिदुःसहम ।।।
न कोपनीया नोपेक्ष्या नैव ताश्च विमानयेत् ।। ४ ।।
नाहूयेदपराधेषु दण्ड्यस्तासां पतिर्भवेत् ।।
पुत्रो वाप्यथवा नीतौ नैव राजा प्रभुः क्वचित ।।। ।। ५ ।।
नैव साध्वी विनिर्दिष्टा केवलोपस्थरक्षणात् ।।
विप्रियं नाचरेत्किञ्चित्पत्युः साध्वीति सा स्मृता ।। ६ ।।
कर्मणा मनसा वाचा भर्तुः प्रियहितैषिणी ।।
या नारी सा स्मृता साध्वी पतिपूजनतत्परा ।। ७ ।।
नमस्कार्याश्च पूज्याश्च वन्दनीयाश्च भार्गव ।।
राज्ञा सर्वप्रयत्नेन तथा लोकैश्च सर्वशः ।। ८ ।।
अनाथां च तथा साध्वीं बिभृयात्पार्थिवोत्तमः ।।
तस्यै यद्दीयते दानं तदनन्तं प्रकीर्तितम् ।। ९ ।।
साध्वीनामपमानेन कुलं दहति पूरुषः ।।
तासां सम्पूजनाद्राम स्वकुलं चोन्नतिं नयेत् ।। १० ।।
न धनेन न धान्येन न शीलेन न बन्धुभिः ।।
न यज्ञैर्दक्षिणावद्भिर्नाधीतेन तथैव च ।। ११ ।।
अकुलानि कुलान्याहुः किन्तु स्त्रीणां विचेष्टितैः ।।
येषु साध्व्यः स्त्रियो राम कुलेषु कुलधूर्वहाः ।। ।।। १२ ।।
महाकुलानि तानीह कृशान्यपि धनैर्यदि ।।
पुत्राणामपि तत्पुत्रं साध्वी यस्यारणिर्भवेत् ।। १३ ।।
हव्येषु साध्वीतनयं तथा कव्यषु योजयेत् ।।
तत्राल्पस्यापि दानस्य महत्पुण्यं प्रकीर्तितम् ।। १४ ।।
गायत्री तु यथा राम यथा गङ्गा सरिद्वरा ।।
पावनी कीर्तनादेव तथा साध्वी वराङ्गना ।। १५ ।।
रामास्तु भृगुशार्दूल न प्रदुष्यन्ति कर्हिचित् ।।
मासिमासि रजस्तासां दुष्कृतान्यपकर्षति ।। १६ ।।
सोमस्तासां ददौ शौचं गन्धर्वः शिक्षितां गिरम् ।।
अग्निश्च सर्वमेध्यत्वं तस्मान्निष्कल्मषाः स्त्रियः ।। १७ ।।
ब्राह्मणाः पादतो मेध्या गावो मेध्यास्तु पृष्ठतः ।।
अजाश्वौ मुखतो मेध्यौ स्त्रियो मेध्यास्तु सर्वतः ।। १८ ।।
यामयो यानि गेहानि शपन्त्यप्रतिपूजिताः ।।
तानि कृत्याह तानीव विनश्यन्ति समन्ततः ।। १९ ।।
स्त्रियः श्रियश्च गेहेषु न विशेषोऽस्ति कश्चन ।।
तस्मात्सर्वप्रयत्नेन पूजनीयाः सदा स्त्रियः ।। २० ।।
मिथ्या न साध्वी भवतीह लोके भवत्यथास्मिन्नपरे च राम ।।
साध्व्यस्तथा पूज्यतमा प्रदिष्टा लोकेषु सर्वेषु चराचरेषु ।। २१ ।। ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे साध्वीमाहात्म्यं नाम त्रयस्त्रिंशोऽध्यायः ।। ।। ३३ ।।
2.34
राम उवाच ।। ।।
साध्वीनां श्रोतुमिच्छामि देव धर्मानशेषतः ।।
साध्व्यो हि नार्यो लोकानामाधार इह कीर्तितः ।। १ ।।
।। पुष्कर उवाच ।। ।।
एतदेव परं राम रामाणां धर्मकारणम् ।।
यदासां सर्वकार्येषु नित्यं हि परतन्त्रता ।। २ ।।
बाल्ये पितुर्वशे तिष्ठेत्पाणिग्राहस्य यौवने ।।
पुत्राणां भर्तरि प्रेते न स्त्री स्वातन्त्र्यमर्हति ।। ३ ।।
पित्रा भर्त्रा सुतेनेह नेच्छेद्विरहमात्मनः ।।
तेषां च विरहेण स्त्री गर्ह्ये कुर्यादुभे कुले ।। ४ ।।
सदा प्रहृष्टया भाव्यं गृहकार्ये च दक्षया ।।
सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया ।। ५ ।।
यः प्रदद्यात्पिता त्वेनां तदभावेपि कारकः ।।
तं शुश्रूषेत जीवन्तं संस्थितं न तु लंघयेत् ।। ६ ।।
मङ्गलार्थं स्वस्त्ययनं यज्ञश्चासां प्रजायते ।।
प्रयुज्यते विवाहेषु प्रदानं स्वामिकारितम् ।। ७ ।।
अनृतावृतुकालोक्ते मन्त्रसंस्कारकृत्पतिः ।।
सुखं नित्यं ददातीह परलोके च योषितः ।। ८ ।।
विशीलः कामवृत्तो वा गुणैर्वा परिवर्जितः ।।
उपचर्यः स्त्रिया साध्व्या सततं देववत्पतिः ।। ९ ।।
नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषितम् ।।
पतिं शुश्रूषते यत्तु तेन स्वर्गे महीयते ।। १० ।।
पाणिग्राहस्य साध्वी स्त्री जीवतो वा मृतस्य वा ।।
पतिलोकमभीप्सन्ती नाचरेत्किञ्चिदप्रियम् ।।११।।
कामं तु क्षपयेद्देहं पुष्पमूलफलैः शुभैः ।।
न तु नामापि गृह्णीयात्पत्यौ प्रेते परस्य तु।।१२।।
आसीतामरणात्क्षान्ता नियता ब्रह्मचारिणी ।।
यो धर्म एकपत्नीनां काङ्क्षन्ती तमनुत्तमम्।।१३।।
अनेकानि सहस्राणि सुमुग्धब्रह्मचारिणाम् ।।
दिवङ्गतानां विप्राणामकृत्वा कुलसन्ततिम् ।। १४ ।।
मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता।।
स्वर्गं गच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः ।। १५।।
अपत्यलोभाद्या तु स्त्री भर्तारमतिवर्त्तते ।।
सेह निन्दामवाप्नोति परलोकाच्च हीयते ।। १६ ।।
नान्योत्पन्ना प्रजास्तीह न चाप्यन्यपरिग्रहा ।।
न द्वितीयश्च साध्वीनां कश्चिद्भर्तोपदिश्यते।।१७।।
पतिं हित्वा निकृष्टं स्वं चोत्कृष्टं या निषेवते।।
निन्द्यैव लोके भवति परपूर्वेति चोच्यते ।। १८ ।।
व्यभिचारात्तु भर्तुः स्त्री लोकान्प्राप्नोति निन्दितान् ।।
शृगालयोनिं चाप्नोति पापरोगैश्च पीड्यते ।। १९ ।।
पतिं या नाभिचरति मनोवाग्देहसंयता ।।
इहाग्र्यां कीर्त्तिमाप्नोति परलोके च शस्यते ।। २० ।।
पत्युरभ्यधिकं नारी नोपवासव्रतं चरेत् ।।
अनायुष्यं द्विजश्रेष्ठ पत्युस्तस्यास्तदुच्यते ।।२१।।
देवताराधनं कुर्यात्कामं वा ब्राह्मणोत्तम ।।
नारी पतिव्रता राम प्राप्तानुज्ञां तु भर्त्तृतः ।। २२ ।।
नारी खल्वननुज्ञाता पित्रा भर्त्रा सुतेन वा ।।
विफलं तद्भवेत्तस्या यत्करोत्यौर्ध्वदैहिकम् ।।२३।।
स्त्रीणां पूज्यतमा लोके देवतागृहवासिनाम् ।।
या स्ताः सम्पूजनीयाः स्युस्तासामेव यथाविधि ।। २४ ।।
तासां च पूजनं कार्यं विदितं स्वामिनस्तथा ।।
अन्यथा चेत्प्रवर्त्तेत निर्ग्राह्या सा प्रकीर्तिता ।। २५ ।।
गत्वान्यपुरुषं नारी नरकं प्रतिपद्यते ।।
कूटशाल्मलिमित्युक्तं यावदाभूतसम्प्लवम् ।। २६ ।।
गर्हिता च तथा पत्युर्नरकं याति भार्गव ।।
दशवर्षसहस्राणि तथैवाप्रियवादिनी ।। २७ ।।
सर्वावस्थास्वपि स्त्रीषु न वधो विद्यते द्विज ।।
परेण शङ्कितामेनां संयतां वासयेद्गृहे ।। २८ ।।
हृताधिकारां मलिनां पिण्डमात्रोपजीविनीम् ।।
परिभूतामधःशय्यां वासयेद्व्यभिचारिणीम् ।। २९ ।।
मूलकर्म न कर्त्तव्यं कथञ्चिदपि योषिता ।।
मूलकर्मरता नारी कल्पं नरकमावसेत ।। ३०।।
दौर्भाग्यं महदाप्नोति तत्र यत्राभिजायते ।।
या च नारी सपत्नीनां कुर्याद्दौर्भाग्यकारणम् ।। ३१ ।।
कुहकैः पश्यति सापि कल्पानां नरके द्विज ।।
पुंस्त्वमूलं तथा लक्ष्मों पत्युर्हिंसति सा तथा ।।३२।।
यक्षरक्षःपिशाचानां मूलकर्मरता सदा ।।
वश्यो भवति लोकेषु भर्ता तस्यास्तथैव च ।। ३३ ।।
नारी कृत्वा पतिं वश्यं सततं मूलकर्मणा ।।
लभतेन्ते तु दौर्भाग्यं भूतैर्वा भक्ष्यते ध्रुवम् ।।३४।।
तस्मात्सर्वप्रयत्नेन मूलकर्म विवर्जयेत् ।।
आत्मानमथ भर्तारं नाशयेन्मूलकर्मणा ।। ३५ ।।
ब्राह्मणी न पिबेन्मद्यं न च विट्क्षत्रियस्त्रियः ।।
सुरां पिबेयुर्धर्मज्ञ तत्पानान्नाशमाप्नुयुः ।। ३६ ।।
ततो भवति धर्मज्ञ जलौका रक्तपायिका ।।
कल्पावशेषं सकलं तेन घोरेण कर्मणा ।। ३७ ।।
परवेश्मरुचिर्न स्यान्न स्यात्कलहशालिनी ।।
न च तिष्ठेत्तथा द्वारि न च राम गवाक्षके ।।३८।।
मण्डनं वर्जयेन्नारी तथा प्रोषित भर्तृका ।।
देवताराधनपरा भवेद्भर्तृहिते रता ।। ३९ ।।
धारयेन्मङ्गलार्थाय किञ्चिदाभरणं तथा ।।
न जातु विधवा वेषं कदाचिदपि कारयेत् ।।४०।
पतिव्रता तु या नारी सह भर्त्रा दिवङ्गता ।।
कल्पावशेषं मुदिता पूज्यते त्रिदशालये ।। ४१ ।।
पतिव्रतां सवर्णां स्त्रीं द्विजातिः पूर्वमारिणीम ।।
दाहयेदग्निहोत्रेण यज्ञपात्रैश्च धर्मवित् ।। ४२ ।।
भार्यायै पूर्वमारिण्यै दत्त्वाग्नीनन्त्यकर्मणि ।।
पुनर्दारक्रियां कुर्यात्पुनराधानमेव च ।। ४३ ।।
मृते भर्तरि या साध्वी पुत्रमाश्रित्य भार्गव ।।
तपसा शातयेद्देहं तेन स्वर्गे महीयते ।। ४४ ।।
पतिपक्षे नरं कञ्चित्पुत्राभावे समाश्रयेत् ।।
बिभृयाद्धि स चाप्येनां भोजनाच्छादनैः सदा ।। ४५ ।।
पतिपक्षे समुच्छिन्ने पितृपक्षः प्रभुः स्त्रियः ।।
विषमस्थापि भर्तव्या पितृपक्षे स्वबन्धुभिः ।। ४६ ।।
मृतं भर्तारमादाय यदि वाथ पतिव्रता ।।
प्रविशेद्द्विजशार्दूल ज्वलितं जातवेदसम् ।। ४७ ।।
तिस्रः कोट्योर्द्धकोटी च यानि लोमानि मानवे ।।
तावन्त्येव शताब्दानि स्वर्गलोके महीयते ।। ४८ ।।
व्यालग्राही यथा सर्पं बिलादुद्धरते बलात् ।।
एवं भर्त्तारमादाय सह तेनैव गच्छति ।। ४९ ।
सद्वृत्तमध्यापयितुं गतानां स्त्रीणां वियोगक्षतकातराणाम् ।।
तासां मृते जीवितवल्लभे हि नाग्निप्रवेशादपरो हि धर्म ।। ५० ।।।
इति विष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने स्त्रीधर्मो नाम चतुस्त्रिंशत्तमोध्यायः ।। ३४ ।।
2.35
राम उवाच ।। ।।
स्त्रीणां पूज्यतमा लोके देवतास्त्वं प्रकीर्तय ।।
तासां कालं विधानं च फलं पूजनतस्तथा ।। १ ।।
पुष्कर उवाच ।।
श्रियः सम्पूजनं कार्यं स्त्रीभिस्तु सततं गृहे ।।
पुप्पार्घमाल्यनैवेद्यधूपदीपानुलेपनैः ।। २ ।।
गृहसम्मार्जनं राम तथा तस्योपलेपनम् ।।
पुष्पोपहारकरणं सुधाशुक्लत्वमेव च ।। ३ ।।
सर्वमेतद्विजानीयाच्छ्रियः सम्पूजनं द्विज ।।
स्नानानुलेपनं यच्च गन्धवर्णावधारणम् ।। ४ ।।
सुवर्णता च नारीणां श्रियः सम्पूजनाद्भवेत् ।।।
अष्टमीषु च सर्वासु पूजनीयाप्यशोकिका ।। ५ ।।
गन्धमाल्यनमस्कारधूपदीपादिभिस्तथा ।।
तस्मिन्नहनि या भुङ्क्ते नक्तं तैलविवर्जितम् ।। ६ ।।
भवत्यथ विशोका सा यत्रयत्राभिजायते ।।
अष्टमीषु च सर्वासु न चेच्छक्नोति भार्गव ।। ७ ।।
प्रोष्ठपद्यां व्यतीतायां या स्यात्कृष्णाष्टमी द्विज ।।
तस्यामवश्यं कर्त्तव्या देव्याः पूजा यथाविधि ।। ८ ।।
अपामिव त्रिलोकेषु प्रकृतिः स्त्रीषु चोच्यते ।।
या प्रेरयति कर्माणि लोकेषु द्विजसत्तम ।। ।। ९ ।।
तस्यां सम्पूजनं कार्यं शुक्लां पञ्चदशीं तथा ।।
माल्यानुलेपनैः शुक्लैर्धूपेन च सुगन्धिना ।। १० ।।
रक्तवस्त्रप्रदानेन दीपदानेन चाप्यथ ।।
वैदलैश्च तथा भक्ष्यैर्भोज्यैश्चोष्यैस्तथैव च ।। ११ ।।
पूजयित्वा च तां देवीं भोक्तव्यं निशि भार्गव ।।
यदि पञ्चदशीं सर्वां न शक्नोति कदाचन ।।। ।। १२ ।।
देव्याः सम्पूजनं कार्यमवश्यमपि कार्तिके ।।
उपार्तिं पूजयेद्या तु सा तु नारी पतिव्रता ।। १३ ।।
सदा धर्मरता साध्वी लोके भवति भार्गव ।।
नाशुभे च मतिस्तस्याः कदाचिदपि जायते ।। १४ ।।
एकादशीं तथा कृष्णां फाल्गुने मासि भार्गव।।
शुद्धे देवस्य कर्त्तव्या पूजा धर्मभृतां वर ।। १५ ।।
पूजनाच्छन्दोदेवस्य तनयं गुणवर्जितम् ।।
न प्राप्नोति तथाऽप्नोति गुणवन्तमसंशयम् ।। १६ ।।
गन्धमाल्यादिभिर्भक्त्या तथा वै वास्तुदेवताम् ।।
एकादशीं तथा प्राप्य चैत्रशुक्लस्य पूजयेत् ।। १७ ।।
संपूज्य तां महाभाग गृहभङ्गो न जायते ।।
शुक्लाष्टमीं तु सम्प्राप्य मासि भाद्रपदे तथा ।। १८ ।।
दूर्वाप्रतानं लुप्पेत्तदुत्तराशाभिगामिनम् ।।
पूजयेद्गृहमानीय गन्धमाल्यानुलेपनैः ।। १९ ।।
फलमूलैस्तथा राम धूपदीपौ विवर्जयेत् ।।
अग्निपक्वं तथा सर्वं न निवेद्यं कथञ्चन ।। २० ।।
भोक्तव्यं च तथा राम वह्निपाकविवर्जितम् ।।
दूर्वांकुरस्थां सम्पूज्य विधिना यौवनश्रियम् ।। २१ ।।
यौवनं स्थिरमाप्नोति यत्रयत्राभिजायते ।।
सोपवासा तु या नारी कृष्णपक्षस्य कार्तिके ।। २२ ।।
द्वादश्यां पूजयेद्विष्णुं गां सवत्सामनन्तरम् ।।
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ।। २३ ।।
नैवेद्यं गोरसं सर्वं वर्जनीयं प्रयत्नतः ।।
भोक्तव्यं च न धर्मज्ञ दोग्धव्या नैव चार्जुने ।।२४।।
गावः प्राप्नोति कृत्वैवं नात्र कार्या विचारणा ।।
धेनुं तां यदि विप्राय प्रददाति यथाविधि।।२५।।
स्वर्गलोकमथासाद्य न ततो विनिवर्तते ।।
कार्तिके च तथा मासि कृत्तिकायां च पूजनम् ।। २६ ।।
कर्तव्यं गन्धकलशैर्गन्धमाल्यानुलेपनैः ।।
भक्ष्यैश्च परमान्नैश्च कुल्माषैः पर्पटैस्तथा।।२७।।
शक्त्या वस्त्रैश्च धर्मज्ञ महारञ्जनरञ्जनैः ।।
गुडेन मधुना चैव सितया लवणेन च।।२८।।
आर्द्रकेणेक्षुणा चैव तथा कालोद्भवैः फलैः।।
सर्वैश्च विविधैरन्नैर्गन्धैर्नानाविधैस्तथा।।२९।।
पानकैश्च तथा हृद्यैः पूजनीयाश्च कृत्तिकाः ।।
सह चन्द्रमसा राम तेन सौभाग्यमश्नुते ।।३० ।।
नारी च रूपलावण्ये धर्मे चाग्र्यां तथा मतिम् ।।
अवैधव्यं च धर्मज्ञ यत्रयत्राभिजायते ।।३१।।
लवणस्य तुलां कृत्वा महारञ्जनरंजिते ।। ।।।
वस्त्रे वस्त्रेण तेनाथ सालङ्कारां सितच्छविम् ।। ३२ ।।
कृत्वा पिण्डं हरिद्राक्तं कृत्तिकानां निवेदयेत् ।।
ग्राहयेद्ब्राह्मणं तां च प्राप्ते चन्द्रोदये तथा ।। ३३।।
अनेन कर्मणा नारी सौभाग्यं महदश्नुते ।।
पुरुषोऽप्यथ वै शुद्धो सौभाग्यं महदश्नुते ।।
कृत्तिकाप्रतिपादे तु तासां कृत्वैव पूजनम्।।३४।। ।
या भुङ्क्ते गोरसप्रायं कृत्वा ब्राह्मणपूजनम् ।।
सप्त जन्मान्तराण्येव सौभाग्यं रूपमेव च ।।३५।।
स्वर्गे तु भोगानाप्नोति सह भर्त्रा तु सा शुभा ।। ।। ३६ ।।
प्राप्य पञ्चदशीं राम तथा शुक्लां च कार्तिकीम् ।।
कार्तिकं कार्तिकीं राम गृहभित्तौ समालिखेत् ।। ३७ ।।
उपद्वारं गृहाद्बाह्यं नानावर्णैस्तु वर्णकैः ।।
गृहोपकरणं शक्त्या तयोश्चैवाभितो लिखेत् ।। ३८ ।।
पीठखड्गासनाद्यत्र शकटोलूखलादिकम् ।।
ततस्तौ पूजयेन्नारी नानाभक्तिपरा शुचिः ।। ३९ ।।
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ।।
इक्षुणेक्षुविकारैर्वा विशेषेण च पूजयेत् ।। ४० ।।
तयोस्तु पूजनं कृत्वा मत्स्यं च सिकतायुतम् ।। ।।
शुक्तिनेत्रं न्यसेत्क्षीरे तच्च दद्याद्द्विजातये ।। ४१ ।।
ततश्च नक्तं भुञ्जीत तिलतैलविवर्जितम् ।।
अनयोः पूजनाद्राम गृहभङ्गं न चाप्नुयात्।।४२।।
पतिव्रता महाभाग दीर्घमाप्नोति जीवितम् ।।
कार्तिके च तथा मासि सार्धं चन्द्रमसा सदा ।।४३।।
रोहिण्यां रोहिणीपूजा कर्तव्या विधिना द्विज ।।
सर्वैरविधवाचिह्नैर्लवणेन च भूरिणा ।। ४४ ।।
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ।।
तथा कुंकुमरक्तेन शक्त्या भार्गव वाससा ।। ४५ ।।
सौभाग्यं परमाप्नोति कृत्वैतत्परमाङ्गना ।।
शुक्लपक्षत्रयोदश्यां या च नारी पतिव्रता ।। ४६ ।।
पूजयेत्सोपवासा च कामदेवमतन्द्रिता ।।
पट्टवर्णकविन्यासं तस्य भार्या तथा पतिम् ।। ४७ ।।
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ।।
गुडेन मधुना चैव सितया चार्द्रकेण च ।।४८।।
लवणेन रसैश्चान्यैर्गन्धैः सस्यैः पृथक्पृथक् ।।
भक्ष्यैर्नाविधैश्चैव कुंकुमार्द्रेण वाससा ।।४९।।
गन्धतोयाम्बुपूर्णेन द्रुमपल्लवशालिना ।।
पूर्णकुम्भेन भव्येन माल्यकण्ठेन भार्गव ।। ५० ।।
कामदेवाय नो दद्याद्यदम्लं किञ्चिदेव तु ।।
ततश्च पश्चाद्धोक्तव्यं सर्वमम्लविवर्जितम् ।। ५१ ।।
सर्वान्कामानवाप्नोति कामपूजाविधायिनी ।।
अथ चेन्नैव शक्नोति सर्वां राम त्रयोदशीम् ।। ५२ ।।
चैत्रशुक्लेन सर्वासां फलमाप्नोत्यसंशयम्।।
तस्मात्सर्वप्रयत्नेन चैत्रशुक्लत्रयोदशीम् ।। ५३ ।।
कामस्य पूजा कर्तव्या सर्वकामप्रदायिनी ।।
कामदेवं समभ्यर्च्य कार्यमात्माभिपूजनम् ।। ५४ ।।
कुंकुमाङ्कैस्तथा वस्त्रैर्गन्धमाल्यविभूषणैः ।।
भर्तारं पूजयेत्पश्चान्नारी तु कृतमण्डना ।। ५५ ।।
कुकुमांकेन वस्त्रेण गन्धमाल्यैर्मनोहरैः ।।
पुरुषोऽपि समभ्यर्च्य कामदेवमसंशयम् ।। ५६ ।।
सर्वान्कामानवाप्नोति नात्र कार्या विचारणा ।।
तथा शुक्लचतुर्थीषु गौरीपूजा सदा भवेत् ।। ५७ ।।
स्नाताभिः सोपवासाभिः सूर्यस्योदयनं प्रति ।।
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ।। ५८ ।।
गुडेन सितया चापि मधुना चार्द्रकेण च ।।
सर्वैश्चाविधवाचिह्नैर्लवणेन च भूरिणा ।। ५९ ।।
चतुर्थीद्वितये पूज्या सर्वशक्त्या विशेषतः ।।
आषाढेऽप्यथवा मासि माघे चाप्यथवा द्विज ।। ६० ।।
चतुर्णामपि कुण्डानां मध्ये सूर्यांशुसेविनी ।।
आषाढे सोपवासा तु तृतीयायां तथा वसेत् ।। ६१ ।।
न तस्या दुर्लभं लोके किञ्चिद्भवति भार्गव ।।
माघेऽप्युपोषिता मासि रात्र्यन्ते तुहिनोत्करैः ।।६२।।
शुक्लीकृत्याखिलान्यङ्गान्यध्यास्ते शयनं यया ।।
ततश्च शीततोयेन पश्चात्स्नानं समाचरेत् ।। ।। ६३ ।।
सापि कामानवाप्नोति यान्राम मनसेच्छति।।
पतिव्रता सदा लोला सुभगा रूपसंयुता ।। ६४ ।।
धर्मप्रिया च भवति गौरीपूजनतत्परा ।।
आषाढे दाडिमं पुष्पं मधौ कर्पाससम्भवम् ।। ६५ ।।
निवेद्य सर्वमार्यायै सौभाग्यं महदश्नुते ।।
शक्राणी च तथा पूज्या मासि भाद्रपदे भवेत् ।। ।। ६६ ।।
स्त्रीणां गौरीविधानेन सर्वकामप्रदा हि सा ।।
प्रोष्ठपदस्य मासस्य चतुर्थ्यां द्विजसत्तम ।। ६७ ।।
शक्राणीपूजनं कृत्वा नाकपृष्ठे महीयते ।।
पूजातिथिषु सर्वासु राम ब्राह्मणपूजनम् ।।६८।।
कर्तव्यं यच्च नैवेद्यं देयं तत्सुभगासु च ।।
अनभ्यर्च्य तथा गौरीं गौरीदीपं प्रपश्यति ।। ।। ६९ ।।
दौर्भाग्यं महदाप्नोति वर्जितं तस्य दर्शनम् ।।
गौरीपूजनकामा स्त्री तस्मिन्नहनि या द्विज ।। ७० ।।
स्नानमुष्णाम्बुना कुर्यात्सापि सौभाग्यमश्नुते ।।
सम्पूज्य विधिना गौरीं यत्रयत्राभिजायते ।। ७१ ।।
रूपलावण्यसौभाग्ययुक्ता भवति चाप्यथ ।।
नित्यं चाविधवा राम तथैव च पतिव्रता ।। ७२ ।।
एताः पूज्यतमा स्त्रीषु दैवतास्ताः प्रकीर्तिताः ।।
अतः परं तु या कुर्यात्सतीमार्गविवर्जनम् ।। ७३ ।।
हिंसात्मकमनिर्दिष्टमशुद्धं वा द्विजोत्तम ।।
देवताराधनं सा तु चिरं नरकमृच्छति ।। ७४ ।।
ततस्तु चाप्यनायुष्यं ग्रहभूतविवर्धनम् ।।
हिंसात्मका तु या नारी देवताराधने रता ।। ७५ ।।
मूलकर्मरता भर्त्रा सा विवाह्या भृगूत्तम ।।
पौंश्चल्यादपि नारीणां राम हिंसा विवर्जिता ।। ७६ ।।
स्त्रीस्वभावं शुभं राम सौम्यत्वं मार्दवं दया ।।
निर्दया राक्षसी राम पिशाची वा द्विजोत्तम ।। ७७ ।।
अथवा सर्वमुत्सृज्य पतिपूजनतत्परा ।।
केशवाराधनं कुर्याच्छ्रियश्च पुरुषर्षभ ।। ७८ ।।
तेनैव सर्वमाप्नोति यत्किञ्चित्परमृच्छति ।।
अफलं सर्वमेव स्याद्भर्त्रनुज्ञां विना कृतम् ।।७९।।
केशवाराधनं राम तथापि सफलं स्त्रियः ।।
सर्वभूतानि गोविन्दो भर्ता नान्यस्तु योषितः ।।
भर्त्रनुज्ञां विना तस्मात्ततः पूजा विधीयते ।। ८० ।।
नारायणः पूज्यतमो हि लोके नारायणः सर्वगतः प्रधानः ।।
नारायणाराधनतत्परा स्त्री कामानवाप्नोति न संशयोऽत्र ।। ८१ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करवाक्ये स्त्रीदेवतापूजननिरूपणं नाम पञ्चत्रिंशत्तमोऽध्यायः ।। ३५ ।।