विष्णुधर्मोत्तरपुराणम्/ खण्डः २/अध्यायाः ०११-०१५

विकिस्रोतः तः

2.11
।। पुष्कर उवाच ।।
अश्वानामृषिभिः प्रोक्ता महादोषा भृगूत्तम ।।
यैरन्विता परित्याज्यास्तन्मे निगदतः शृणु ।। १ ।।
हीनदन्तो द्विदन्तश्च कराली कृष्णतालुकः ।।
कृष्णजिह्वश्च यमजो जातमुष्कश्च यस्तथा ।। २।।
द्विशफश्च तथा शृङ्गी नृवर्णो व्याघ्रवर्णकः ।।
खरवर्णो भस्मवर्णो जातवर्णश्च काकुदी ।। ३ ।।
श्वित्री च काकसादी च खरशारस्तथैव च ।।
वानराख्यः कृष्णसटः कृष्णमुष्कस्तथैव च ।। ४ ।।
कृष्णप्रोथश्च मूकश्च यश्च तित्तिरसन्निभः ।।
विषमश्वेतपादश्च ध्रुवावर्तविवर्जितः ।। ५ ।।
अशुभावर्तसंयुक्तो वर्जनीयस्तुरङ्गमः ।।
।। राम उवाच ।।
वाजिनः के ध्रुवावर्ताः केषु स्थानेषु शोभनाः ।।
वाजिनः के तदा शस्तास्तन्ममाचक्ष्व पृच्छतः ।। ६ ।।
पुष्कर उवाच ।।
रन्ध्रोपरन्ध्रयोर्द्वौद्वौ द्वौद्वौ मस्तकवक्षसोः ।।
प्रमाणे च ललाटे च ध्रुवावर्ता दश स्मृतः ।। ७ ।।
एकोपि न भवेद्यस्य धुवावर्तस्तु वाजिनः ।।
न तं शंसन्ति धर्मज्ञ तस्मात्तं परिवर्जयेत ।।८।।
उत्तरोष्ठे भृगुश्रेष्ठ प्रमाणस्य तथोपरि ।।
नासापुटे तथा प्रोथे गण्डप्रोथाक्षिमध्यगः ।।९ ।।
कथयोरश्रुपातेन भ्रुवोः कण्ठाग्रयोस्तथा ।।
नाभ्यां हनुबला कक्षास्कन्धोपस्कन्धसन्धिषु ।। १० ।।
विदो बाहुप्रदेशे च गलमध्ये तथैव च ।।
आसने ककुदे प्रोथे जानुजंघासु भार्गव ।। ११ ।।
कुष्टिकानाभिकक्षासु मुष्कयोर्मूत्रदेशजः ।।
त्रिके च मूलपुच्छे च उपरि स्थूणयोस्तथा ।। १२ ।।
पिण्डयोर्जठरे चैव सीवनीयोपकुक्षिषु ।।
आवर्त्तैर्वर्जनीयाः स्युः प्रयत्नेन तुरङ्गमाः ।। १३ ।।
ककुदे कर्णयोश्चैव यस्यावर्तः कुवाजिनः ।।
अत्यन्तमप्रशस्तं तं राजा राष्ट्राद्विवासयेत् ।। १४ ।।
हस्तिदेवमणिः सर्वं पूर्वकायेषु लक्षणः ।।
सुव्यक्तो रोचमानो वा न तु काकुदिनं क्वचित।।१५।।
मेखला वाप्यधःकायाद्धन्यादावर्तसम्भवम् ।।
दोषान्सर्वांस्तुरङ्गस्य न हन्यात्काकसादिनम् ।। १६ ।।
अतः परं प्रवक्ष्यामि शुभमावर्तलक्षणम् ।।
सृक्किण्योश्च ललाटे च तथा श्रवणमूलयोः ।। १७ ।।
निगाले च तथा कण्ठे स्तुतकेशान्तयोस्तथा ।।
बाहुमूले तथा शस्ता रोमजातास्तुरङ्गमाः ।। १८ ।।
आवर्तस्तु निगालस्थो ज्ञेयो देवमणिः शुभः ।।
कण्ठजो रोचमानश्च सर्वावर्त्तो जनाधिपः ।। १९ ।।
अर्केन्द्रगोपचन्द्राभा ये च वायस सन्निभाः ।।
सुवर्णवर्णाः स्निग्धाश्च प्रशस्यन्ते सदैव ते ।। २० ।।
दीर्घग्रीवाक्षकूटाश्च ह्रस्ववर्णाश्च ये तथा ।।
ह्रस्वप्रोथाश्च शस्यन्ते मेघौघसदृश स्वनाः ।।
पृथूरुपादजवना मुखपुण्ड्राश्च वै हयाः ।।२१ ।।
चन्द्रांशुशुक्लास्तुरगाः प्रशस्ताः कर्णान्तकेशैर्गवलालिवर्णैः ।।
ये रक्तवर्णाश्च समग्रपादैः शुक्लाश्च वर्णैश्च महानुभावाः ।। २२ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे अश्वलक्षणं नामेकादशोऽध्यायः ।। ११ ।।
2.12
पुष्कर उवाच ।।
चमरीबालसम्भूताः शशाङ्कांशुसमप्रभाः ।।
संहताः स्निग्धदीर्घाश्च तथा स्थालिनिबन्धनाः ।। १ ।।
दण्डश्च चामरे कार्यो रुक्मरूप्यमयस्तथा ।।
प्रवालवैडूर्यमयस्तथैव कनकान्वितः ।।२।।
क्षीरवृक्षस्य वा कार्यो रुक्मरूप्यनिबन्धनः ।।
रत्नैः प्रशस्तैश्चित्रो वा काञ्चनस्य प्रशस्यते ।। ३ ।।
चन्दनस्याथ दन्तस्य शार्ङ्गः कार्यो यथा भवेत ।।
अर्धहस्तान्न चाप्यूनो मध्यर्धान्न तथाधिकः ।। ४ ।।
कर्तव्यं चामरं राज्ञा न च भार्गव रञ्जितम ।।५।।
आपीतवर्णं तु भवेत्प्रशस्तं सांवत्सरामात्यपुरोहितानाम् ।।
नरेन्द्रपत्नीयुवराजसैन्यस्यालस्य शेषस्य जनस्य कृष्णः ।। ६।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे चामरलक्षणं नाम द्वादशोऽध्यायः ।।१२ ।।
2.13
पुष्कर उवाच ।।
हंसपक्षैर्विरचितं मयूरस्य शुकस्य च ।।
पक्षैरथ बलच्छाया च्छत्रं राज्ञः प्रशस्यते ।। १ ।।
मित्रपक्षं न कर्तव्यं हीनं परिमितं तथा ।।
चतुरस्रं तु कर्तव्यं ब्राह्मणस्य भृगूत्तम।। २ ।।
वृत्तं राज्ञां प्रशस्तं स्याच्छुक्लवस्त्रविभूषितम् ।।
सितं दूकूलसंछन्नं पताकाभिर्विभूषितम् ।। ३ ।।
एतस्मिन्दिग्विभागे तु कार्याश्चन्द्रांशुनिर्मलाः ।।
चतस्रस्तस्य धर्मज्ञ पताका रुक्मभूषिताः ।।४।।
दण्डं चामरवत्कार्यं वैणवं च प्रशस्यते।।
त्रिचतुःपञ्चषड्सप्तचाष्टपर्वः प्रशस्यते ।। ५ ।।
दशद्वादशभिर्वापि शेषैस्तु परिवर्जयेत् ।।
छत्रं दण्डोग्रपर्वाणं दण्डः सर्वत्र शस्यते ।। ६ ।।
धारयन्ति च दण्डं वै वैणवं गृहमेधिनः ।।
राज्ञां प्रशस्तं षड्ढस्तं छत्रदण्डं भृगूत्तम ।। ७।।
अथ पञ्चोनहस्तं तु महिषीयुवराजयोः ।।
सेनापतिसुराध्यक्षसांवत्सरपुरोहितैः ।।८।।
पञ्चहस्तस्तु कर्तव्यश्छत्रदण्डो भृगूत्तम ।।
चतुर्हस्तस्तु कर्तव्यो मया येऽत्र न कीर्तिताः ।। ९ ।।
व्यासो दण्डार्धमानेन सदा छत्रस्य शस्यते ।।
छत्रं विभूषयेद्राज्ञां त्वर्धचन्द्रदिवाकरैः ।।१०।।
वज्रेन्द्रनीलैः स्फटिकैश्च राम वैदूर्यमुक्ताफलसत्प्रवालैः ।।
विभूषितं रश्मियुतं प्रशस्तं सदातपत्रं तु महीपतीनाम् ।। ११ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे छत्रलक्षणं नाम त्रयोदशोऽध्यायः ।। १३ ।।
2.14
पुष्कर उवाच ।।
भद्रासनं नरेन्द्रस्य क्षीरवृक्षेण कारयेत् ।।
उच्छ्रायश्च तथा तस्य अध्यर्धं तु समं भवेत् ।। १ ।।
हस्तत्रयं तथा विष्टं विस्तरेण तु कारयेत् ।।
आयामश्चास्य कर्तव्यो विस्तरेणार्धसम्मितः ।। २ ।।
चतुरस्रं तु कर्तव्यं राज्ञो भद्रासनं शुभम्।।
नाष्टास्रं न तथा वृत्तं न च दीर्घं भृगूत्तम ।।३।।
सुवर्णरूप्यताम्रैश्च चित्रं कार्यं विशेषतः ।।
रत्नैः प्रशस्तैर्न तथा न रत्नप्रतिरूपकैः ।। ४ ।।
चत्वारः पुरुषास्तत्र विन्यस्ता भृगुनन्दन ।।
द्विगुणाश्च तथा सिंहास्तेभ्यस्तु द्विगुणास्तथा ।। ५ ।।
भद्रासनं तत्र भवेन्नृपस्य तलेन पूर्णं ससुखं परार्ध्यम् ।।
वैयाघ्रचर्मास्तरणं सुखार्थं वरासनं तस्य समामनन्ति ।। ६ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे भद्रासनलक्षणं नाम चतुर्दशोऽध्यायः ।। १४ ।।
2.15
पुष्कर उवाच ।।
वज्रं मरकतं चैव पद्मरागं च मौक्तिकम् ।।
इन्द्रनीलं महानीलं वैडूर्यमथ सस्यकम् ।। १ ।।
इन्द्रकान्तं सूर्यकान्तं स्फटिकं पुलकं तथा ।।
कर्केतनं पुष्परागं तथा ज्योतीरसं द्विज।। २ ।।
स्फटिकं राजवर्तं च तथा राजमयं शुभम् ।।
सौगंधिकं तथा सख्यं शङ्खब्रह्ममयं तथा ।। ३ ।।
गोमेधं रुधिराक्षं च तथा बल्लातकं द्विज ।।
धूलीमरकतं चैव तुत्तूकं शेषमेव च ।। ४ ।।
पलुं प्रवालकं चैव गिरिवज्रं च भार्गव ।।
भुजगेशमणिं चैव तथा वज्रमणिं शुभम् ।। ५ ।।
टीटिभं च तु तापिच्छं भ्रामरं च तथोत्पलम् ।।
रत्नान्येतानि धार्याणि सर्वाण्येव महीक्षिता ।। ६ ।।
सुवर्ण प्रतिबद्धानि जयारोग्यसमृद्धये ।।
तेषां गुरुत्वं रागश्च स्वच्छत्वं रश्मिमालिता ।। ७ ।।
सुजातता मसृणता सुसंस्थानत्वमेव च ।।
गुणवन्तो विनिर्दिष्टा धार्यास्ते गुणसंयुताः ।। ८ ।।
खंडास्सशर्करा ये च निष्प्रभा मलिनास्तथा ।।
न ते धार्या नरेन्द्राणां जयश्रीजीवितैषिणाम् ।। ९ ।।
समस्तरत्नवर्गेऽपि वज्रधारणमिष्यते ।।
अम्भस्तरति यद्वज्रमभेद्यं विमलं च यत् ।। १० ।।
तथा च शुद्धं षट्कोणं लघु भार्गवनन्दन ।।
प्रभा च शक्रवापाभा यस्यार्काभिमुखी भवेत् ।। ११ ।।
तं वज्रं धारयन्राजा सर्वाञ्जयति शात्रवान् ।।
शुक्लपक्षनिभः स्निग्धः कान्तिमान्विमलस्तथा ।। १२ ।।
सुवर्णचूर्णसंकाशैः सूक्ष्मैर्बिन्दुभिरन्वितः ।।
शस्तो मरकतो राम गम्भीरश्चोन्नतस्तथा ।। १३ ।।
धार्यश्च पृथिवीशानां सर्वोपद्रवनाशनः ।।
कुरुविन्दाद्भवेज्जन्म तथा सौगन्धिकाद्द्विज ।।१४।।
स्फटिकात्पद्मरागाणां श्रेष्ठास्ते ह्युत्तरोत्तरम् ।।
जहरङ्गा भवन्तीह कुरुविन्दभवाश्च ये ।।१५।।
कषायरङ्गा निर्दिष्टा ये च सौगन्धिकोद्भवाः ।।
स्वच्छाश्च रागवन्तश्च विज्ञेयाः स्फटिकोद्भवाः ।। १६ ।।
मुक्ताफलाः शुक्तिभव बहवो मत्स्यजास्तथा ।।
उत्कृष्टा न तथा तेभ्यो ये तु शङ्खोद्भवा द्विज ।।१७।।
तेभ्यः प्रशस्ता विज्ञेया नागकुम्भसमुद्भवाः ।।
निष्प्रभास्ते समुद्दिष्टाः श्रेष्ठाः क्रोडिभवा द्विज ।।१८।।
तेभ्यो वेणुदलाः श्रेष्ठास्तेभ्यो भुजङ्गसम्भवाः ।।
तेभ्योऽपि भुविदुष्प्राप्यं मौक्तिकं मेघसम्भवम् ।। १९ ।।
धारणात्तस्य नृपतेः सर्वसिद्धिः प्रकीर्तिता ।।
मौक्तिकानां तु सर्वेषां वृत्तत्वं गुण उच्यते ।। २० ।।
सुष्ठुता च सुशुक्लत्वं महत्त्वं च भृगूत्तम ।।
इन्द्रनीलस्तु यः क्षीरं राजते भाजने स्थितम्।। २१ ।।
रञ्जयेत्स्वप्रभावेन तममूल्यं विनिर्दिशेत् ।।
नीलरक्तं तु वैडूर्यं सर्वतः श्रेष्ठमुच्यते ।। २२ ।।
सर्वेषामेव रत्नानां धार्यं कर्केतनं स्मृतम् ।।
पुष्परागास्तथा राम ये चान्ये कीर्तिता मया ।। २३ ।।
प्रशस्तरत्नैर्भूपानां मुकुटान्यङ्गदानि च ।।
हाराणि राम कार्याणि केयूराभरणानि च ।। २४ ।।
अप्रशस्तानि रत्नानि वर्जनीयानि दूरतः ।।
सर्वरत्नोत्तमं राजा विवर्णं मलिनं तथा ।। २५ ।।
न धारयेत धर्मज्ञः सुशुद्धं धारयेत्सदा ।।
धृतिः प्रशस्ता भृगुवंशचन्द्र रत्नोत्तमानां सततं नृपाणाम् ।।
रत्नांशुदग्धं तु नरस्य देहादनर्थमाशु प्रशमं प्रयाति ।। २६ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रत्नलक्षणं नाम पञ्चदशोऽध्यायः ।। १५ ।।