विष्णुधर्मोत्तरपुराणम्/ खण्डः २/अध्यायाः ००६-०१०

विकिस्रोतः तः
Jump to navigation Jump to search

।। पुष्कर उवाच ।। ।।
सर्वलक्षणलक्षण्यो मन्त्री राज्ञस्तथैव च ।।
ब्राह्मणो वेदतत्त्वज्ञो विनीतः प्रियदर्शनः ।। १ ।।
स्थूललक्षो महोत्साहः स्वामिभक्तः प्रियंवदः ।।
बृहस्पत्युशनः प्रोक्तां नीतिं जानाति सर्वतः ।। २ ।।
रागद्वेषेण यत्कार्यं न वदन्ति महीक्षितः ।।
लोकापवादाद्राजार्थे भयं यस्य न जायते ।। ३ ।।
क्लेशक्षमस्तथा यश्च विजितात्मा जितेन्द्रियः ।।
गूढमन्त्रश्च दक्षश्च प्राज्ञो भक्तजनप्रियः ।। ४ ।।
इङ्गिताकारतत्त्वज्ञ ऊहापोहविशारदः ।।
शूरश्च कृतविद्यश्च न च मानी विमत्सरः ।। ५ ।।
चारप्रचारकुशलः प्रणिधिप्रणयात्मवान् ।।
षाड्गुण्यविधितत्त्वज्ञ उपायकुशलस्तथा ।। ६ ।।
वक्ता विधाता कार्याणां नैव कार्यातिपातिता ।।
समश्च राजभृत्यानां तथैव च गुणप्रियः ।। ७ ।।
कालज्ञः समयज्ञश्च कृतज्ञश्च जनप्रियः ।।
कृतानामकृतानाञ्च कर्मणां चान्ववेक्षिता।। ८ ।।
यथानुरूपमर्हाणां पुरुषाणां नियोजिता ।।
राज्ञः परोक्षे कार्याणि सम्पराये भृगूत्तम ।। ९ ।।
कृत्वा निवेदिता राजन्कर्मणां गुरुलाघवम् ।।
शत्रुमित्रविभागज्ञो विग्रहास्पदतत्त्ववित् ।। १० ।।
स राज्ञः सर्वकार्याणि कुर्याद्भृगुकुलोद्वह ।।
विदितानि यथा कुर्यान्नाज्ञातानि महीक्षिता ।। ११ ।।
अज्ञातानि नरेन्द्रस्य कृत्वा कार्याणि भार्गव ।।
अचिरेणापि विद्वेषं स मन्त्री त्वधिगच्छति ।।१२।।
करोति यस्तु कार्याणि विविधानि महीपते ।।
भेदो नो तस्य भवति कदाचिदपि भूभुजा ।। १३ ।।
एवंगुणो यस्य भवेच्च मन्त्री वाक्ये च तस्याभिरतस्य राज्ञः ।।
राज्यं स्थिरं स्याद्विपुला च लक्ष्मीर्वंशश्च दीप्तो भुवनत्रयेऽपि ।। १४ ।। ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे मत्रिलक्षणं नाम षष्ठोऽध्यायः ।। ६ ।।
2.7
।। पुष्कर उवाच ।। ।।
राज्ञाग्र्यमहिषी कार्या सर्वलक्षणपूजिता ।।
विनीता गुरुभक्ता च ईर्षाक्रोधविवर्जिता ।। १ ।।
राज्ञः प्रियहितासक्ता चारुवेशा प्रियंवदा ।।
भृताभृतजनज्ञा च भृतानामनुवेक्षिणी ।। २ ।।
अभृतानां जनानां च भृतिकर्मप्रवर्तिनी ।।
रागद्वेषवियुक्ता च सपत्नीनां सदैव या ।। ३ ।।
भोजनासनपानेन सर्वेषामनुवेक्षिणी ।।
सपत्निपुत्रेष्वपि या पुत्रवत्परिवर्तते ।। ४ ।।
मन्त्रिसंवत्सरामात्यान्या च पूजयते सदा ।।
ब्रह्मण्या च दयायुक्ता सर्वभूतानुकम्पिनी ।। ५ ।।
कृताकृतज्ञा राज्ञश्च विदिता मण्डलेष्वपि ।।
परराजकलत्रषु प्रीयमाणा मुदा युता ।।६।।
दूतादिप्रेषणकरी राजद्वारेषु सर्वदा ।।
तद्द्वारेण नरेद्राणां कार्यज्ञा च विशेषतः ।। ७ ।।
एवंगुणगणोपेता नरेन्द्रेण सहानघा ।।
अभिषेच्या भवेद्राज्ये राज्यस्थेन नृपेण वा ।। ८ ।।
एवं यदा यस्य भवेच्च पत्नी नरेन्द्रचन्द्रस्य महानुभावा ।।
वृद्धिं व्रजेत्तस्य नृपस्य राष्ट्रं सचारकं नात्र विचारणास्ति।।९।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे अग्र्यमहिषीलक्षणं नाम सप्तमोऽध्यायः ।। ७ ।। ।।
2.8
राम उवाच ।। पुरुषाणां तथा स्त्रीणां गजानां तुरगैस्सह ।।
वालव्यजनच्छत्राणां तथा भद्रासनस्य च ।। १ ।।
रत्नानां धनुषां चैव खड्गस्य च सुरात्मज ।।
लक्षणं श्रोतुमिच्छामि तन्ममाचक्ष्व पृच्छतः ।। २ ।।
पुष्कर उवाच ।।
आदावेव प्रवक्ष्यामि पुरुषाणां तु लक्षणम् ।।
निबोध तन्मे गदतो भृगुवंशाविवर्धन ।। ३ ।।
एकाधिको द्विशुक्लश्च त्रिभिर्व्याप्नोति यस्तथा ।।
त्रिवलीवाँस्त्रिविनतः त्रिकालज्ञश्च भार्गव ।। ४ ।।
पुरुषः स्यात्सुलक्षण्यो विपुलश्च तथा त्रिषु ।।
चतुर्लेखस्तथा यश्च तथैव च चतुःसमः ।। ५ ।।
चतुष्किष्कुश्चतुर्दंष्ट्रश्चतुष्कृष्णस्तथैव च ।।
चतुर्गंधश्चतुर्ह्रस्वः पञ्चसूक्ष्मस्तथैव च ।। ६ ।।
पञ्चदीर्घो भृगुश्रेष्ठ तथैव च षडुन्नतः ।।
सप्तस्नेहोऽष्टवंशश्च नव स्थानामलस्तथा ।। ७ ।।
दशपद्मो दशबृहन्न्यग्रोधपरिमण्डलः ।।
चतुर्दशसमद्वन्द्वः षोडशाख्यश्च शस्यते ।। ८ ।।
राम उवाच ।।
एकाधिकाद्या ये प्रोक्ताः पुरुषस्य त्वया गुणाः ।।
तानहं श्रोतुमिच्छामि यथावद्वरुणत्मज ।। ९ ।।
पुष्कर उवाच ।।
धर्मे चार्थे च कामे च जनः सर्वोऽभिषज्यते ।।
एकाधिकस्तु विज्ञेयो यस्तु धर्मे विशेषतः ।। १ ०।।
तारकाभ्यां विना नेत्रे शुक्लाश्च दशनास्तथा ।।
द्वात्रिंशद्राम यस्य स्युर्द्विशुक्लः स तु कीर्तितः ।। ।।११।।
उरो नाभिस्तथा सक्थिर्गंभीरा यस्य देहिनः ।।
प्रोच्यते स तु धर्मज्ञ त्रिगम्भीरो नरोत्तमः ।।
अनसूया दया क्षान्तिस्त्रिकमेकं प्रकीर्तितम् ।। ।।१२।।
मङ्गलाचारसंस्पर्शः शौचं चेत्यपरं त्रयम् ।।
अनायासमकार्पण्यमैश्वर्यं च त्रयस्त्रिकाः।।
त्रिप्रलम्बो भुजाभ्यां तु वृषणेन च कीर्त्यते ।।
दिग्देशजातिसर्गैश्च तेजसा यशसा श्रिया ।। १४ ।।
व्याप्नोति यो भृगुश्रेष्ठ त्रिभिर्व्याप्नोत्यसौ स्मृतः ।।
उदरे वलयस्तिस्रो गम्भीरा यस्य देहिनः ।। १५ ।।
स उच्यते भृगुश्रेष्ठ त्रिवलीवान्नरोत्तमः ।।
देवतानां द्विजानां च गुरूणां च तथा नतः ।। १६ ।।
पुरुषो भार्गवश्रेष्ठ प्रोक्तस्त्रिविनतः सदा ।।
धर्मस्यार्थस्य कामस्य संपत्कालविभागवित् ।। १७ ।।
सेवते यश्च धर्मज्ञः प्रोच्यते स त्रिकालवित् ।।
उरौ ललाटं वक्त्रं च विस्तीर्णं यस्य देहिनः ।। १८ ।।
कथितः स भृगुश्रेष्ठ विपुलस्त्रिषु मानवः ।।
द्वौ पाणी द्वौ तथा पादौ ध्वजच्छत्रादिभिर्युतौ ।। १९ ।।
लेखाभिर्यस्य निर्दिष्टश्चतुर्लेखः स मानवः ।।
अङ्गुल्यो हृदयं पृष्ठं कटिर्यस्य तथा समाः ।।२० ।।
पुरुषः स भृगुश्रेष्ठ चतुस्सम उदाहृतः ।।
षष्णवत्यङ्गुलोत्सेधश्चतुष्किष्कुः प्रमाणतः ।। २१ ।।
प्रमाणयोगाद्धर्मज्ञ चतुकिष्कुः स कीर्तितः ।।
दंष्ट्राश्चतस्रश्चन्द्राभा दशनेभ्यः समुन्नताः ।। २२ ।।
किञ्चिद्यस्य स धर्मज्ञ चतुर्दंष्ट्रः प्रकीर्तितः ।।
नेत्रतारे भ्रुवौ श्मश्रुः कृष्णाः केशास्तथैव च ।। २३ ।।
यस्येह स चतुष्कृष्णः प्रोच्यते मनुजोत्तमः ।।
नासायां वदने स्वेदे कक्ष्यासु च नरोत्तम ।। २४ ।।
गन्धस्तु सुरभिर्यस्य चतुर्गन्धः स कीर्तितः ।।
बाहू जानूरुगण्डश्च चत्वार्यस्य समानि तु ।। ।। २८९ ।।
पुरुषस्य भृगुश्रेष्ठ चतुस्सम उदाहृतः ।।
आस्यासृङ्मध्यपद्मानां तुल्यो गन्धस्तु यस्य वै ।। २६ ।।
कथितः स भृगुश्रेष्ठ चतुर्गन्ध इति द्विजैः ।।
ह्रस्वं लिङ्गं तथा ग्रीवा जंघे ह्रस्वे तु देहिनः ।। २७ ।।
यस्य भार्गवशार्दूल चतुर्ह्रस्वः स कीर्तितः ।।
अङ्गुलीनां तु पर्वाणि नखकेशद्विजत्वचम् ।।
सूक्ष्मणि यस्य तं राम पञ्च सूक्ष्मं प्रचक्षते ।। २८ ।।
हनू नेत्रे ललाटं च नासा चैव स्तनान्तरम् ।।
दीर्घाणि यस्य तं राम पञ्चदीर्घं विदुर्बुधाः ।। २९ ।।
वक्षः कक्षौ नखा नासा मुखं चैव कृकाटिका ।।
षडुन्नतानि यस्येह तं वदंति षडुन्नतम ।। ३० ।।
त्वक्केशलोमदंताश्च दृष्टिर्वाणी नखास्तथा ।।
स्निग्धा यस्येह तं प्राहुः सप्त स्निग्धं बहुश्रुताः ।। ३१ ।।
जानुवंशावुभौ राम भुजवंशौ तथाप्युभौ ।।
ऊरुवंशद्वयं चैव पृष्ठवंशं च भार्गव ।। ३२ ।।
नासावंशः समो यस्य सोऽष्टवंशः प्रकीर्तितः ।।
नेत्रे नासापुटौ कर्णौ मेढ्रपायू मुखं तथा ।। ३३ ।।
छिद्रा नवैते विमला यस्य तं तु नवामलम् ।।
जिह्वोष्ठतालु नेत्रान्तर्हस्तपादनखाः स्तनौ ।। ३४ ।।
शिश्नाग्रवक्षो यस्यैते पद्माभा दश देहिनाम् ।।
पाणी पादौ मुखं ग्रीवा श्रवणे हृदयं शिरः ।। ३५ ।।
ललाटमुदरं पृष्ठं बृहन्तः पूजिता दश ।।
प्रसारितभुजस्येह मध्यमाग्रत्वयांतरात् ।। ३६ ।।
उच्छ्रायेण समो यः स न्यग्रोधपरिमण्डलः ।।
कथितः स नृपश्रेष्ठः सर्वलक्षणपूजितः ।। ३७ ।।
पादौ गुल्फौ स्फिचौ पार्श्वौ वृषणावक्षिणौ हनू ।।
कर्णोष्ठसक्थिनी जंघे हस्तौ बाहू तथा भ्रुवौ ।। ३८ ।।
द्वन्द्वान्येतानि यस्य स्युः समानि तु चतुर्दश ।।
चतुर्दशसमद्वन्द्वः कथितः स नृपोत्तमः ।। ३९ ।।
विद्यास्थानानि यानीह कथितानि चतुर्दश ।।
प्रपश्यति च यो राम नेत्राभ्यां च नरोत्तमः ।। ४० ।।
सम्यक्स कथितो लोके षोडशाक्षो भृगूत्तम ।।
रूक्षं शिराततं गात्रं तथा मांसविवर्जितम ।।
दुर्गन्धि चाशुभं सर्वं विपरीतं च शस्यते ।। ४१ ।।
दृष्टिः प्रसन्ना मधुरा च वाणी मत्तेभतुल्या च गतिः प्रशस्ता ।।
एकैककूपप्रभवाश्च रोमा सत्त्वं प्लुतं हासमनुल्बणं च ।। ४२ ।।
श्रान्तस्य यानमशनं च बुभुक्षितस्य पानं तृषा परिगतस्य परेषु रक्षा ।।
एतानि यस्य पुरुषस्य भवंति काले तं धन्यमाहुरधिभूमि नरं द्विजेन्द्राः ।। ४३ ।। ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे पुरुषलक्षणं नामाष्टमोऽध्यायः ।।८।।
2.9
पुष्कर उवाच ।।
शस्ता स्त्री चारुसर्वाङ्गी मत्तमातङ्गगामिनी ।।
गुरूरुजघना या च मत्तपारावतेक्षणा ।।१ ।।
सुनीलकेशी तन्वङ्गी परपुष्टनिनादिनी ।।
तनुमध्या विलोमाङ्गी स्निग्धवर्णा मनोहरा ।।२।।
समग्रभूस्पृशौ यस्याश्चरणौ कमलोपमौ ।।
नाभिः प्रदक्षिणावर्ता संहतौ च तथा स्तनौ।।३।।
विभक्तमधरोष्ठं च दर्शनं मधुरं तथा ।।
गुह्यं प्रदक्षिणावर्तमश्वत्थदलसन्निभम्।।४।।
गुल्फौ निगूढौ गूढे च तथा यस्याः ककुन्दरे।।
मध्यनाभेश्च यस्याः स्याद्धस्तांगुष्ठप्रमाणतः ।। ५।।
पिण्डिके च न सन्नद्धे न लम्बा च तथा कटिः ।।
जठरं च प्रलंबं च नयने च न केकरे ।।६।।
कचाश्च कपिशा केशाः केशा रूक्षास्तथैव च ।।
न च वृक्षनदीनाम्नी न देवगिरिनामिका ।। ७ ।।
न चैवोरगगन्धर्वभूतप्रेतसनामिका ।।
न वाचाला न लुब्धा च न शठा कलहप्रिया ।।८।।
न लोलुपा न दुर्भावा न वा कुण्ठकपालिका ।।
देवद्विजातिसिद्धानां साधूनां पूजने रता ।। ९ ।।।
शीलोपेता गुणोपेता न शिराला न लोमशा ।। १० ।।
गण्डैर्मधूकपुष्पाभैः स्निग्धैश्च दशनच्छदैः ।।
न संहतभ्रूः संश्लिष्टचरणांगुलिकुड्मला ।।। ।। ११ ।।
पतिप्रिया पतिप्राणा या नारी पतिदेवता ।।
अलक्षणापि संज्ञेया सर्वलक्षणसंयुता ।। १२ ।।
भ्रुवं कनीनिका यस्या न स्पृशेत कथंचन ।।
न तां कुर्वीत भार्यार्थं मृत्युः सा कथिता बुधैः ।।१३।।
सरोममुत्तरोष्ठं च गण्डौ यस्याः सकूपकौ।।
अतिदीर्घा कषाया च चलन्मांसचया तथा ।। १४ ।।
सा विवर्ज्या विशेषेण नरेण हितमिच्छता ।। १५ ।।
संक्षेपतस्ते कथितं मयैतत्स्याल्लक्षणं चारु नितम्बिनीनाम् ।।
रहस्यमेतत्कथितं तु तत्र यत्राकृतिस्तत्र गुणा वसन्ति ।। १६ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे स्त्रीलक्षणं नाम नवमोऽध्यायः ।। ९ ।।
2.10
पुष्कर उवाच ।।
नागाः प्रशस्ता धर्मज्ञ प्रमाणेनाधिकास्तु ये ।।
दीर्घहस्ता महोच्छ्वासा स्वासनाश्च विशेषतः ।। १ ।।
निगूढवंशा मध्वाक्षा मूढा मूढोष्ठमस्तकाः ।।
विंशत्यष्टाधिकनखाः शीतकालमदाश्च ये।।२।।
येषां चैव कराः पादा दीर्घा लाङ्गूलमेव च।।
दक्षिणं चोन्नतं दीप्तं बृंहितं जलदोपमम् ।। ३ ।।
अत्यर्थवेदना ये च शूराः शब्दसहिष्णवः ।।
कर्णौ च विपुलौ येषां सूक्ष्मबिन्दुयुतत्वचः। ४।।
ते प्रशस्ता महाभाग ये तथा सप्तसुस्थिताः ।।
दन्तच्छदेषु दृश्यन्ते येषां स्वस्तिकलक्षणाः ।।५।।
शृङ्गारवालव्यजनं वर्द्धमानाङ्कुशास्तथा ।।
ते धार्या न तथा धार्या वामना मत्कुणादयः ।। ६ ।।
हस्तिन्यो याश्च गर्भिण्यो ये च मूढा मतङ्गजाः ।।
अपाकलाश्च कुब्जाश्च सद्दन्ता ये च भार्गव ।। ७ ।।
कुदन्ताश्च तथा वर्ज्या वामकूटाश्च यत्नतः ।।
अस्रुस्पृशश्च कूटाश्च शठाश्च विकटाश्च य ।। ८ ।।
राम उवाच ।।
वामनाद्यश्च ये नागाः प्रोक्ता निन्दितलक्षणाः ।।
तेषां तु श्रोतुमिच्छामि लक्षणं वरुणात्मज ।। ९ ।।
।। पुष्कर उवाच ।।
आयामेन न संपूर्णो योतिह्रस्वो भवेद्गजः ।।
वामनस्तु समाख्यातो मत्कुणो दन्तवर्जितः ।। १० ।।
दशां चतुर्थीं संप्राप्य वर्धते यस्य न द्विजौ ।।
स्थूलावनायतौ स्यातां स मूढाख्यो गजाधमः ।। ११ ।।
अपाकलो विशालेन दन्तेनैकेन वारणः ।।
संक्षिप्तवक्षोजघनः पृष्ठमध्यसमुन्नतः ।। १२ ।।
प्रमाणहीनतन्नाभिः स कुब्जो वारणाधमः ।।
अत्युन्नतांसः सद्दन्तः कुदन्तः स्यान्नतो बहिः ।। १३ ।।
वामदन्तोन्नतो नागो वामकूटश्च कथ्यते ।।
दन्तौ वक्त्रस्पृशौ यस्य सोऽस्रुस्पृक्कथितो गजः ।। १४ ।।
एकदन्तस्तथा नागः कूट इत्यभिधीयते ।।
पादयोः सन्निकर्षः स्याद्यस्य नागस्य गच्छतः ।। १५ ।।
स शठोध्वनि युद्धे च लक्षणज्ञैर्न्न पूजितः ।।
अरत्न्यभ्यधिकं यस्य विस्तरेण स्तनान्तरम् ।। १६ ।।
विकटः स विनिर्दिष्टो दुर्गतिर्निन्दितो गजः ।।
राम उवाच ।।
श्रोतुमिच्छामि धर्मज्ञ कुञ्जरं सप्तसुस्थितम् ।। १७ ।।
यं प्राप्य किल राजानो जयन्ति वसुधां नृपाः ।।
।। पुष्कर उवाच ।।
वर्णं सत्त्वं बलं रूपं कान्तिस्संहननं जवम् ।।
सप्तैतानि सदा यस्य स गजः सप्तसुस्थितः ।। १८ ।।
येषां भवेद्दक्षिणपार्श्वभागे रोम्णां च पुंजः पिटकोऽथवापि ।।
ते नागमुख्या विजयाय युद्धे भवन्ति राज्ञां न हि संशयोऽत्र ।। ५९ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेय वज्रसंवादे हस्तिलक्षणं नाम दशमोऽध्यायः ।। १० ।।