सामग्री पर जाएँ

विष्णुधर्मोत्तरपुराणम्/ खण्डः २/अध्यायाः ००१-००५

विकिस्रोतः तः

2.1
श्रीगणेशाय नमः ।।
वज्र उवाच ।।
आदौ भगवता प्रोक्तो विजयो भरतस्य मे ।।
यच्छ्रुत्वा वेद्मि चात्मानं ब्रह्मन्विगतकल्मषम् ।।१ ।।
सुखश्राव्यश्च हृद्यश्च कथासारस्तु भार्गव ।।
कथाश्च विविधाः प्रोक्तास्तत्प्रसङ्गात्त्वयानघ ।। २ ।।
रसवत्यश्च धर्मज्ञ सर्वपापक्षयङ्कराः ।।
यास्ता ब्रह्मन्प्रसङ्गेन मयापहृतचेतसा ।। ३ ।।
प्रस्तुतास्ताः कथास्त्यक्तास्ता एव कथस्व मे ।।
भगवन्सर्वधर्मज्ञ प्रत्यक्षामलदर्थन ।।
कथानां तु प्रसङ्गेन प्रस्तुता याः कथाः पुरा ।।४।।
सुदूरमन्तरीभूत्वा रामस्य विदितात्मनः ।।
ता एव श्रोतुमिच्छामि त्वत्तो भृगुकुलोद्वह ।।५।।
लोकं वारुणमासाद्य रामो भृगुकुलोद्वहः ।।
श्रुतवान्देवदेवेशान्किन्नु भूयः प्रचेतसः ।।६।।
एतन्मे सर्वमाचक्ष्व तत्र मे संशयो महान् ।।
मार्कण्डेय उवाच ।।
कालस्य संख्यां तां श्रुत्वा रामप्रोक्तां प्रचेतसा ।। ७ ।।
पप्रच्छ वरुणं देवं राजधर्मानतः परम् ।।
पृष्टस्तु जामदग्न्येन रामं प्राह जलेश्वरः।।८।।
राजधर्माञ्छृणुष्वार्य पुष्करात्तनयान्मम ।।
राजधर्माः श्रुतास्तेन देवाद्दशशतेक्षणान् ।। ९ ।।
स यथावद्विजानाति राजधर्मान्द्विजोत्तम ।।
एवमुक्त्वा तदा राममानाय्य च तथा सुतम् ।। १० ।।
उवाच भार्गवस्यास्य धर्मान्कथय पुत्रक ।।
यत्रयत्रास्य सन्देहो भविष्यति महात्मनः ।। ११ ।।
तदुपानुद भद्रन्ते मम वाक्येन पुत्रक ।।
एवमुक्तस्तथेत्युक्त्वा गृहान्निन्ये भृगूत्तमम् ।।
तत्रास्य कथयामास राजधर्मान्महोदयान् ।। १२ ।।
रामेण पृष्टो वरुणस्य पुत्रो जगाद धर्मान्नृपसत्तमानाम् ।।
द्रव्यान्महार्थान्भुवि पालनाय लोकस्य सर्वस्य नरेन्द्रचन्द्र ।। १३ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामस्य पुष्करगृहगमनं नाम प्रथमोऽध्यायः ।। १ ।।
2.2
मार्कण्डेय उवाच ।।
सुखासीनो नरश्रेष्ठः पुष्करस्य निवेशने ।।
पप्रच्छ पुष्करं रामो धर्मनित्यो जितेन्द्रियः ।। १ ।।
राम उवाच ।।
राष्ट्रस्य किं कृत्यतमं तन्माचक्ष्व पृच्छतः ।।
आदावेव महाभाग यादोगणनृपात्मज ।। २ ।।
पुष्कर उवाच ।।
राष्ट्रस्य कृत्यं धर्मज्ञ राज्ञ एवाभिषेचनम् ।।
अनिन्द्रमबलं राष्ट्रं दस्यवोऽभिभवन्त्युत ।। ३ ।।
अराजकेषु राष्ट्रेषु धर्मावस्था न विद्यते ।।
वर्णानामाश्रमाणां च व्यवस्थानं च भार्गव ।। ४ ।
अराजकेषु राष्ट्रेषु नैव कन्या प्रदीयते ।।
विद्यते मम ता नैव तथा वित्तेषु कस्यचित् ।। ५ ।।
स्वात्म्यो न्यायः प्रवर्तेत विश्वलोपस्तथैव च ।।
लोके न कश्चिद्विद्येत गुरोर्वचनकारकः ।। ६ ।।।
नाधीयीरँस्त्रयीं विद्यां त्रयो वर्णा द्विजातयः ।।
देवानां यजनं न स्यादनावृष्टिस्ततो भवेत् ।। ७ ।।
नृलोकसुरलोकौ च स्यातां संशयितावुभौ ।।।
जनमारी भवेद्घोरा यदि राजा न पालयेत् ।।८।।
प्रजानां रक्षणार्थाय विष्णुतेजोपबृंहितः ।।
मानुष्ये जायते राजा देवसत्त्ववपुर्धरः ।। ९ ।।
यस्मिन्प्रसन्ने देवस्य प्रसादस्तूपजायते ।।
यस्मिन्क्रुद्धे जनस्यास्य क्रोधः समुपजायते ।। १० ।।
महद्भिः पुण्यसम्भारैः पार्थिवो राम जायते ।।
यस्यैकस्य जगत्सर्वं वचने राम तिष्ठति ।। ११ ।।
चातुर्वर्ण्यं स्वधर्मस्थं तेषु देशेषु जायते ।।
येषु देशेषु राजेन्द्र राजा भवति धार्मिकः ।। १२ ।।
(मारकं न च दुर्भिक्षं नाग्निचौरभयं तथा ।।
न च व्यालभयं तेषां येषां धर्मपरो नृपः) ।। १३ ।।
आदौ विन्देत नृपतिं ततो भार्यां ततो धनम् ।।
कुराजनि जनस्यास्य कुतो भार्या कुतो धनम् ।। १४ ।।
तस्मात्सर्वप्रयत्नेन राष्ट्रमुख्ये नरेश्वरः ।।
परीक्ष्य पूर्वैः कर्तव्यो धार्मिकः सत्य सङ्गरः ।। १५ ।।
येषां हि राजा भुवि धर्मनित्यस्तेषां न लोके भयमस्ति किञ्चित् ।।
तस्मात्प्रयत्नेन नरेन्द्र कार्यो राष्ट्रप्रधानैर्नृपतिर्विनीतः ।।१६।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करवाक्ये राजप्रशंसा नाम द्वितीयोऽध्यायः ।। २ ।।
2.3
पुष्कर उवाच ।।
सर्वलक्षणलक्षण्यो विनीतः प्रियदर्शनः ।।
अदीर्घसूत्री धर्मात्मा जितक्रोधो जितेन्द्रियः ।। १ ।।
स्थूललक्षो महोत्साहः स्मितपूर्वाभिभाषकः ।।
सुरूपः कुलसंपन्नः क्षिप्रकारी महाबलः ।। २ ।।
ब्रह्मण्यश्चाविसंवादी दृढभक्तिः प्रियंवदः ।।
अलोलुपस्संयतवाग्गंभीरः प्रियदर्शनः ।। ।। ३ ।।
नातिदण्डो न निर्दण्डः चारचक्षुरजिह्मगः ।।
व्यवहारे समः प्राप्ते पुत्रस्य रिपुणा सह ।। ४ ।।
रथे गजेऽश्वे धनुषि व्यायामे च कृतश्रमः ।।
उपवासतपःशीलो यज्ञयाजी गुरुप्रियः ।। ५ ।।
मन्त्रिसांवत्सराधीनः समरेष्वनिवर्तकः ।।
कालज्ञश्च कृतज्ञश्च नृविशेषज्ञ एव च ।। ६ ।।
पूज्यं पूजयिता नित्यं दण्ड्यं दण्डयिता तथा ।।
षाड्गुण्यस्य प्रयोक्ता च शक्त्युपेतस्तथैव च ।। ।। ७ ।।
उक्तैरनुक्तैस्तु गुणैरनेकैरलङ्कृतो भूमिपतिश्च कार्यः ।।
सम्भूय राष्ट्रप्रवरैर्यथावद्राष्ट्रस्य रक्षार्थमदीनसत्त्वः ।। ८ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करवाक्ये राजलक्षणं नाम तृतीयोऽध्यायः ।। ३ ।।
2.4
।। पुष्कर उवाच ।।
एवं गुणगणाकीर्णं वरयेयुर्नराधिपम् ।।
सम्भूय राष्ट्रप्रवराः क्षत्रियं तु कुलोद्गतम् ।। १ ।।
वृतश्च तैर्व्रतं राजा गृह्णीयाद्विजितेन्द्रियः ।।
पालयिष्यामि वः सर्वान्धर्मस्थान्नात्र संशयः ।। २ ।।
व्रतं गृहीत्वा राज्यार्थी वृणुयाद्ब्राह्मणोत्तमम् ।।
सांवत्सरं सुखायास्य सर्वस्य जगतो नृपः ।। ३ ।।
सर्वलक्षणलक्षण्यं विनीतं प्रियदर्शनम् ।।
सुरूपं वेशसंपन्नं नित्यमूर्जितदर्शनम ।। ४ ।।
अदीनवादिनं धीरं धर्मनित्यं जितेन्द्रियम् ।।
अव्यङ्गं नाधिकाङ्गं च वेदवेदाङ्गपारगम् ।। ५ ।।
चतुःषष्ट्यङ्गतत्त्वज्ञमूहापोहविशारदम् ।।
भूतभव्यभविष्यज्ञं गणितज्ञं विशेषतः ।। ६ ।।
विचन्द्रा शर्वरी यद्वन्मुकुटं च च्युतोपलम् ।।
गणितेन तथा हीनं ज्योतिषं नृपसत्तम ।। ७ ।।
आस्तिकं श्रद्दधानं च अनुकूलं महीपतेः ।।
सांवत्सरं नृपो गत्वा वरयेत्प्रयतः शुचिः ।। ८ ।।
येनाभिषिक्तो नृपतिर्विनष्टस्तु नराधिप ।।
सांवत्सरं न तं विद्वान्वरयेन्नृपसत्तम।। ९ ।।
न हीनाङ्गं न वाचालं न च निष्प्रतिभं नृपः ।।
कुवेशमलिनं मुण्डं नास्तिकं पापनिश्चयम् ।। १० ।।
भिन्नवृत्तिं च वरयेद्वरयेत्सद्गुणं सदा ।।
वरयित्वा तु वक्तव्याः स्वयमेव महीभुजा ।। ११ ।।
यथैवाग्निमुखा देवास्तथा राजमुखाः प्रजाः ।।
यथैवाग्निमुखा मन्त्रा राज्ञां सांवत्सरास्तथा ।। १२ ।।
त्वं मे माता पिता चैव देशिकश्च गुरुस्तथा ।।
दैवं पुरुषकारश्च ज्ञातव्यौ सततं त्वया ।। १३ ।।
समधर्मज्ञ भद्रं ते राज्यं साधारणं हि नौ ।।
समानेयः शुभो देवस्त्वयैव मम सत्तम ।। १४ ।।
पौरुषेण पदं कार्यं समरं च तथा मया ।।
स चेत्तदभिमन्येत पार्थिवस्य महागुणम् ।। १५ ।।
अथवा गुणदोषेण प्रज्ञया चाशु यो नृणाम् ।।
दैवोपघातसमरे विज्ञानं पौरुषस्य च ।। १६ ।।
वाडवं न च प्राज्ञस्तु तस्यैवानुमते तदा ।।
तेनोद्दिष्टौ तु वरयेद्राजा मन्त्रिपुरोहितौ ।। १७ ।।
तेनोद्दिष्टां च वरयेन्महिषीं नृपसत्तमः ।।
ततोऽभिषेकसम्भाराँस्तस्य कुर्यात्स दैववित् ।। १८ ।।
कुञ्जरं तुरगं कुर्यात्तस्य राज्ञः परीक्षितौ ।।
भद्रासनं च च्छत्रं च वालव्यजनमेव च ।। १९ ।।
खड्गरत्नं तथा चापं रत्नानि विविधानि च ।।
राज्ञो मृतस्य ये त्वासन्सर्वाणि तु नराधिप ।। २० ।।
ते न कार्या नरेन्द्रस्य तेन दैवविदा तथा ।।
कामं संवत्सरं कार्या अलाभेऽन्यस्य भूभुजा ।। २१ ।।
गुणाधिकस्य नो कार्या येऽन्यत्राभिहिता मया ।।२२।।
न तत्र नागाः सुभृता न योधा राज्ञो न माता न पिता न बन्धुः ।।
यत्रास्य साध्यं भवतीह विद्वान्सांवत्सरो धर्मविदः प्रमत्तः ।। २३ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करकथासु सांवत्सरिक लक्षणं नाम चतुर्थोऽध्यायः ।।४।।
2.5
राम उवाच ।।
राज्ञा पुरोहितः कार्यस्तथा मन्त्री च कीदृशः ।।
महिषी च तथा ज्येष्ठा तन्ममाचक्ष्व पृच्छतः ।। ।। १ ।।
पुष्कर उवाच ।।
अव्यङ्गं लक्षणोपेतमनुकूलं प्रियंवदम् ।।
अथर्ववेदविद्वांसं यजुर्वेदविशारदम् ।। २ ।।
द्विवेदं ब्राह्मणं राजा पुरोहितमथर्वणम् ।।
पञ्चकल्पविधानज्ञं वरयेत सुदर्शनम् ।।३।।
नक्षत्रकल्पो वैतानस्तृतीयः संहिताविधिः ।।
चतुर्थोङ्गिरसां कल्पः शान्तिकल्पस्तु पञ्चमः ।।४।।
पञ्चकल्पविधानज्ञमाचार्यं प्राप्य भूपतिः ।।
सर्वोत्पातप्रशान्तात्मा भुनक्ति वसुधां चिरम् ।।५।।
स च राज्ञस्तथा कुर्यान्नित्यं कर्म सदैव तु ।।
नैमित्तिकं तथा काम्यं दैवज्ञवचने रतः ।।६।।
न त्याज्यस्तु भवेद्राजा दैवज्ञेन पुरोधसा ।।
पतितस्तु भवेत्त्याज्यो नात्र कार्या विचारणा ।।७।।
तथैव पतितौ राम न त्याज्यौ तौ महीभुजा ।।
तयोस्त्यागेन राजेन्द्र राज्यभ्रंशो विनिर्दिशेत ।। ८ ।।
दुर्गतिः परलोके च बहुकालमसंशयम् ।।
सांवत्सरविरुद्धस्तु त्याज्यो राज्ञा पुरोहितः ।।
पुरोहितोऽन्यथा राज्ञो यथा माता यथा पिता ।।
अनिष्टमस्य व्यसनं हन्याद्दैवोपघातजम् ।। १० ।।
ब्राह्मणो निष्कृतिस्तस्य कुत्र शक्या महीभुजा ।।
यावन्न राज्ञा विद्वांसौ सांवत्सरपुरोहितौ ।। ११ ।।
वृत्तिच्छेदे तयो राज्ञः कुलं त्रिपुरुषं व्रजेत् ।।
नरकं वर्जयेत्तस्माद्वृतच्छेदं तयोः सदा ।। १२ ।।
स्थावरेण विभागश्च तयोः कार्यो विशेषतः ।।
अनुरूपेण धर्मज्ञ सांवत्सरपुरोहितौ ।। १३ ।।
भाव्यं सदा भार्गववंशचन्द्र पुरोहितस्यात्मसमस्य राज्ञा ।।
राज्ञो यथापि स्वजनेन भाव्यो विद्वान्प्रभुः स्यान्नृपतेः पुरोधाः ।। १४ ।। ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे पुरोहितलक्षणं नाम पञ्चमोऽध्यायः ।। ५ ।।