विष्णुधर्मोत्तरपुराणम्/ खण्डः १/विषयानुक्रमणिका

विकिस्रोतः तः
Jump to navigation Jump to search

श्रीगणेशाय नमः

अथ विष्णुधर्मोत्तरमहापुराणविषयानुक्रमणिका प्रारम्भः ।

प्रथमखण्डः १.

१ कथाप्रस्तावः ।

२ अशरीरस्यापि नारायणस्य लोकसिसृक्षया हिरण्यगर्भोत्पादनम्

३ भगवतो विष्णोर्वराहवपुषा भूम्युद्धारः ।..

४ कालाग्निरुद्रपातालसुतलाऽऽभासतलादिपातालानां तद्वासिनाञ्चाभिधानम् ...

५ भूरादिसप्तलोकानां तत्रत्यसप्तवायुस्कन्दादीनान्तन्निवासिनाञ्च वर्णनम्

६ ससंस्थानसपरिमाणभूमण्डलवर्णनावसरे क्षीरोदमध्ये श्वेतद्वीपमहिमाभिधानम्

७ जम्बूद्वीपे हिमवदादिकुलपर्वतवर्णनप्रसङ्गे सुमेरोर्विस्तृतवर्णनम्, हेमकूटोत्तरतो हरिवर्षाद्यभिधानानन्तरं कुलपर्वतेषु क्रमेण यक्षदैत्यगन्धर्वादीनां विहारभूमित्वाभिधानम् ...

८ नवविधभारतवर्षस्याष्टमहागिरिच्छन्नत्वाभिधानपुरस्सरं भारते कृतसु- कृतस्यैवेतरेषु रम्यवसतिषु किम्पुरुषादिवर्षेषु निवासकथनम्

९ पाञ्चालादिजनपदवर्णनम्

१० महेन्द्रमलयादिसप्तकुलपवर्तनिस्सृतनदीवर्णनम्

११ हिमगिर्युद्भवनदीवर्णनम्

१२ कोसलप्रशंसाख्यानम्

१३ अयोध्यावर्णनम्

१४ मनुपुत्रेक्ष्वाकुप्रशंसा ..

१५ मधुकैटभवधोपाख्यानन्तन्मेदःसम्भवत्वाद्भूमेर्मेदिनीत्यभिधानञ्च ...

१६ भार्गवोत्तंकमुनितपःप्रसन्नेन विष्णुना तस्मा इच्छाजलोत्पादनशक्तिप्रदानन्तदनुमतेन बृहदश्वेन राज्ञा कुवलाश्वशरीरान्तःप्रविष्टभगवत्साह्येनोदकराक्षसस्य धुन्धोर्हननं स्वस्य धुन्धुमाराह्वप्रसिद्धिलाभश्च ...

१७ धुन्धुमारवंशीयनृपतिवर्णनप्रसङ्गे स्त्रीमृगयादिव्यसनलम्पटबाहुराजस्य हैहयतालजङ्घादिनृपैःपराजयादरण्ये सगरोत्पत्त्यवसाने पञ्चत्वप्राप्ते- श्च्यवनेन सगरस्य धनुरादिविद्यापारगामित्वादियोग्यतापादनानन्तरं दारग्रहाद्यापादनम् –

१८ सगरनृपविसृष्टाश्वमेधीयतुरगमपहृत्य कपिलेन स्वाश्रमे पाताले तन्नि रोधः; तदन्वेषणव्यापृतषष्टिसहस्रसगरसुतानां स्वनिखातसागरमार्गेण पातालगमनं कपिलशापेन भस्मीभवनञ्च, तदन्वेषणप्रवृत्तांशुमता सन्तोषितकपिलतस्त्वत्पौत्रो भगीरथस्तदुद्धारार्थं स्वर्गङ्गामानेष्यतीति वरप्राप्तिः ...

१९ पित्र्युद्धारकामभगीरथस्य सहस्रवर्षतपोहष्टगङ्गादेशानुसारं वियतस्तन्नि- पातवेगसहनक्षमशङ्कराराधनान्ते तत्कपर्दे गङ्गानिपातः, अहो प्रखर- वेगाया मम सहनं कथं महेश्वरः सोढेत्यवलिप्तायास्तस्या हरेण सजटाजूटे तिरोधानम्, तदनु चिरतपःक्लिष्टभगीरथानुकम्पया तस्यास्त्यागः प्राच्यादिषु सप्तधा तद्गतिश्च ...

२० कान्यकुब्जे यज्ञदीक्षितस्य जह्नोराश्रमप्लावनात्तेन योगबलेन गङ्गायाः पानं मुन्यनुनयेन कर्णतस्त्यागो दुहितृत्वे कल्पनञ्च ( अत एव जाह्नवीत्वम्) ...

२१ स्वायम्भुवेऽन्तरे बाष्कलि (बलि) राजेन विश्वभुगिन्द्रपदमपहृतम्, पुनरिन्द्रस्य स्वाराज्यलब्धयेऽद्भुतवामनरूपमुग्धबाष्कलिनेन्द्रप्रार्थनया वामनाय त्रिपदभूमिदानप्रतिज्ञाने तद्दक्षिणचरणाक्रमणेन शक्रस्य स्वराज्यलाभो विष्णुपदाग्रक्षताण्डप्रविष्टपवित्रजलस्य विष्णुपदीत्वम्

२२ ब्रह्माण्डाद्विनिर्गत्य विष्णुतपोमहर्लोकचन्द्रमण्डलसर्ववर्षद्वीपसप्तपातालानि व्याप्य गङ्गाया भूयो ब्रह्माण्डप्रवेशः

२३ भगीरथस्य राजर्षेर्वंश्यानुवर्णनपुरस्सरङ्कार्त्तवीर्य्यस्य विशेषतः पौरुषवर्णनम्

२४ वृत्त्रासुरविश्वरूप ( ब्रह्म )हत्याभीतवासवस्य मानसे सरसि बिसतन्तौ लीनत्वान्नहुषस्येन्द्रता, शचीकामुकमुनिवाह्याशिबिकारूढस्य तस्या- गस्त्यशापात्सर्पता, भावियुधिष्ठिरसाक्षात्कारे शापविमोक्षः, देवराजा- भावे धर्मविप्लवान्मरकाद्युपद्रवाच्च प्रलीनस्वाहास्वधावषटकारे त्रिद- शप्रार्थितहर्यनुग्रहादिन्द्रस्य पुनः स्वाराज्यलाभे सर्वलोकशान्तिः

२५ हरिहरावत्रेः पुत्रीभूय दत्तात्रेयदुर्वासोरूपेणावतीर्णौ, तत्र दत्तात्रेयेण वेदाध्ययनयज्ञादिविनष्टधर्म्यक्रियाणामुद्धरणं कार्तवीर्यस्य दशसहस्र- वर्षपर्य्यन्तं तपश्चरणाच्छिष्यीकरणं प्रच्छन्नदैत्यतदाश्रितनृपपीडित- धरायाः शक्रसमीपगमनञ्च

२६ नाके भूम्या विष्णुदर्शनं शक्रं प्रति स्वदुःखनिवेदनं, शक्रेण तत्कष्ट- निवारणार्थं ब्रह्मसदोगमनम् ...

२७ दुष्टक्षत्रियपीडितभूभारहरणार्थं बृहस्पतिसहितशक्रेण पितामहस्तवनं शंकरो वो दुःखं निवारयिष्यति तत्समीपे गच्छतेति तस्योत्तरम्

२८ शंकरदर्शनस्तुती...

२९ शंकरकृतचन्द्रस्तुतिचन्द्रमण्डलमानादि ...

३० सूर्यदर्शनतन्मण्डलप्रमाणतत्प्रशंसापुरस्तरं रुद्रं प्रति सूर्येण कार्तवीर्या- नुगप्रच्छन्नासुरक्षत्त्रियादिनाशकरणप्रतिवचनम्

३१ द्विजवेशधारिसूर्यस्य भोजनार्थं कार्तिकेयसकाशगमने तदनुमतेन स्थावरीभूतासुराणां रविरश्मिप्रज्वलच्छरैः सर्वद्रुमदाहे वशिष्ठाश्रमस्यापि दाहाद्ब्राह्मणोऽवलिप्तस्यते (परशुरामः) बाहूंश्छेत्स्यतीति शापः

३२ भृगुवंशे जमदग्रिवडवाग्न्याद्युत्पतिः

३३ स्वपरिचर्याहृष्टपत्यृचीकलब्धवरया सत्यवत्या स्वमात्रे बलवत्तरे स्वस्यै च ब्रह्मवर्चस्विधर्मज्ञे पुत्रे वृते स्वमातृप्रार्थनया तया चरुविपर्यासकरणाद्गर्भयोर्विरुद्धधर्मता

३४ च्यवनमुनिकृपया विश्वामित्रस्य भाविब्राह्मण्यम्

३५. सत्यवती जमदग्निवात्स्यादिशतपुत्रान्, गाधेर्भार्या च विश्वामित्रमसूत। मध्यन्दिने बने शरक्रीडासक्तजमदग्निं पतिं रेणुका बाणानयनादिना पर्यचरत्, सूर्यकरसन्तप्तां चिरागतां तामवलोक्य जमदग्नौ शरैः सूर्यं हन्तुमुद्युक्ते विप्रमूर्तिधरो रविस्तत्पुत्रतां स्वीकृत्यच्छत्रोपानद्भयान्तामनुजग्राह। सा च सूर्यांशपुत्रोत्पत्यनन्तरं रामपुत्रमजीजनत्

३६ वनविहारागतचित्रांगराजमिच्छन्तीं स्वमातरं पित्राज्ञया परशुरामोऽवधीत् स्वाज्ञापालनतुष्टजमदग्निस्तस्मा इच्छामरणवरं दाशराथिरामसाक्षात्कारावधि शस्त्रधारित्वञ्च वितीर्य तदनुरोधेन तन्मातरं भ्रातॄंश्चोज्जीवयामास, रामश्च पितृनिदेशाच्छंकरमाराध्य तदनुज्ञया देवपीडकसैंहिकेयान्हन्तुमियेष

३७ सेंहिकेयनिवेशने विविधोत्पातवर्णनम् . . .

३८ उत्पातकारणजिज्ञासया पृष्टशुक्रेण सैंहिकेकाय परशुरामरूपिविष्णुना नरतिर्यग्देवादियोनाववतीर्य सुरपतपक्षपातिना सदा दैत्यविनाशिना युद्धं विहाय पाताले गन्तव्यमिति हित उपदिष्टे सैंहिकेयेन युद्धनिर्धारणम्

३९ शुक्रनयसमर्थकदुःस्वप्नसूचितदानवान्वयात्ययाशंकि गविष्ठमतमनादृत्य विष्णुहस्तेन मरणं श्रेय इति सैंहिकेयेन निश्चितम्

४० विष्णुना वैरेणालमिति राहुणोपदिष्टे क्षीरोदमथनलक्ष्म्यादिरत्नोत्पत्तिवर्णनम्

४१ लक्ष्मीनिवासस्थानानि विष्णुवल्लक्ष्म्या व्यापकता स्वायम्भुवाद्यन्तरे भृग्वादितस्तस्या उत्पत्तिश्च

४२ विष्णुनाऽदृष्टपूर्वां कामिनीतनुं निर्माय दैत्येभ्योऽमृतकलशमादाय प्रह्लादाय ब्रह्मदिनमितमायुष्यं वितीर्य च देवेभ्यस्तस्य दानं देवपंक्त्युष्पविष्टसूर्यरूपिराहुणा तस्य पानं तत्सूचितविष्णुना तच्छिर:कर्तेनपुरस्सरं तस्मै ग्रहत्वलोकपूज्यत्वादिवरदानम्

४३ विष्णुकर्तृकराहुशिरश्छेदक्रुद्धदैत्यानां देवैस्सह समरे तेषां पराजयः

४४ विष्णुना युद्धे हते निधनमाप्यापि स्वर्गराज्ये सुसिद्ध एवैति निश्चित्याग्रजराहुमतमनादृत्य साल्वस्य युद्धस्थिरीकरणम् .

४५ परशुरामेण युद्धयार्थं साल्वसमीपे अकृतव्रणस्य प्रेषणं, नाहं रामेण योत्स्ये किन्तु तद्गुरुशंकरेण सम्प्रहरिष्य इत्यकृतव्रणं विसृज्य साल्वस्य युद्धार्थं प्रयाणमू

४६ साल्वचमूयात्रायां दुर्निमित्तवर्णनम् ... ....

४७ युद्धभूमौ भार्गवागमनमू. . . .

४८आजौ सकृत्परशुपातेन रामेणासँख्यशाल्वचमूहननम्

४९ परशुरामकृतसाल्ववधतुष्टमहेन्द्रप्रमुखदेवानां रणभूमावागत्य परशुरामकर्मप्रशंसनं शंकरेण तद्गात्रसम्मार्जनपूर्वमनुत्तमशस्त्रग्रामस्य प्रदानमरातिं हत्वा परशोः पुनस्तद्धस्तगमनस्य च

५० ब्राह्मवैष्णवरौद्राग्नेयाद्यस्त्रप्रदानपुरस्सरं शंकरेण रामाय सप्रयोगरहस्यसंहारमनेकास्त्रवितरणम्

५१ सर्वदेववरिष्ठोऽपि भवांश्चेतसि कं स्मरतीति शंकरं प्रति परशुरामप्रश्नः

॥ अथ शंकरगीता ॥

५२ शंकरगीतासु ध्येयनिर्देशः ... .

५३ प्रजापतिः कश्यपस्यादितिदित्योर्भार्ययोः शक्रहिरण्याक्षपुत्रयोः स्वर्गपातालराज्ये प्रदत्तवान्,एकदा गिरिषूत्पतितेषु धराचलनात्पातालेऽर्णवजलमग्ने देवकृतोपद्रवं शंकमानो हिरण्याक्षः शक्रं विजित्य स्वाराज्यं लेभे, हृतस्वर्गत्रिदशप्रार्थनया विष्णुर्नृवराहवपुषानेकदैत्यसहित हिरण्याक्षं हत्वा शक्राय तल्लोकमर्पितवान् स च पर्वतपक्षाँश्चकर्त ....

५४महोग्रतपस्तुष्टप्रजापतिना हिरण्यकशिपवे देवतिर्यङ्नराद्यवध्यवरे दत्ते तदधमस्वभावशंकितदेवप्रार्थनया विष्णोस्तस्य वधे च सूचिते देवपीडनान्ते नृसिहवपुषा विष्णुना तद्वधः .

५५ बलिनोग्रतपसा प्रजापतेः सुरासुरावध्यत्ववरे लब्धे, प्राप्तायाश्च दैत्य: राजतायां स्वर्गादिन्द्रप्रभृतिदेवनिस्सार्णम्, शक्रेण कश्यपब्रह्मभ्यां सह विष्णवे स्वदुःखं निवेद्य वामनरूपिणा तेन बलिमखे त्रिपादभू मिप्राप्त्या सुमेरुपर्यन्तं पादद्वयभूमिलाभादवशिष्टभूमेरभावाद्बलये सुतले स्थानदानं द्वितीये मन्वन्तरे शक्रत्वप्राप्तिं सदा च सुतले स्वसन्निधानादिवरानददात्

५६ विष्णोर्दिव्यविभूतिवर्णनम्

५७ विष्ण्वाराधनतस्सकलार्थसाधनम्

५८ केशवतुष्टिकरनानाकर्मकथनम्

५९ वारनक्षत्रतिथिषूपवासकरणफलम्

६० श्रवणद्वादशीत्र्यहस्पृक्तिथिमहापूर्णमासीषूपवासदानादिफलम्

६१ प्रातःकालिक (अभिगम) पूजायामितिकर्तव्यता ..

६२ उपादानविधिः . . . . .

६३ इज्यासमयविधिमात्रामधुपर्कादीनां निर्वचनम् . ..

६४ स्वाध्यायकालानुकीर्तनमू .

६५ स्वस्तिकाद्यासनपवनजयस्थूलधराचिन्तनपुरस्सरं भूम्यादिपञ्चभूतमनोबुद्ध्यात्माव्यक्तपुरुषयोगादिकथनम्

॥ इति शङ्करगीता ॥

६६ शक्रप्रार्थनया शंकरेण पातालस्थनरवध्यदेवशत्रुहननार्थं वैष्णवधनुरक्षयसायकतूणवितरणपुरस्सरमसुरजयानन्तरन्दाशरथिरामहेतोरगस्त्याय तदर्पणोपदेशश्च

६७ विष्णुशिवयोः कः श्रेष्ठ इति देवप्रश्ने विष्णुशिवयोरभेदप्रकटनपुरस्सरं मदीयचापरत्नं भार्गवनन्दनाय ऋचीकपुत्राय ऋचीकपुत्रः स्वपुत्राय रामाय दास्यति स दैत्यान्हत्वा तद्राद्यवाय सोऽपि वरुणाय सोऽर्जुनाय स जनकाय दास्यतीति वैष्णवधनुषः सम्प्रदानवर्णनम्

६८ कैलासाद्रामस्य स्वपित्राश्रमे पित्रादीनभिवाद्य वरुणालयस्याश्मकनगरस्य दर्शनम् ...

६९ वरुणपुरसमृद्धिवर्णनपुरस्सरं सविग्रहगंगादिनदीसेवितस्य तस्य रामकर्तृकवन्दनानन्तरं वरुणकृतरामपूजा, ततो महादेवसन्देशश्रवणावसाने वरुणेन दैत्येभ्यो समराय दूतप्रेषणम् . ७० विविधास्त्रशस्त्रप्रहारिदानवचमूवीरान्निहत्यायःशङ्को रामद्वारा हननम्

७१ परशुरामकृतस्तुत्यनन्तरं भवत्कृतसर्वप्रशनोत्तरान्दास्यामीति वरुणोक्तिः

७२ रुद्रात्मककालस्यातिसूक्ष्मत्वेऽपि ग्रहगत्यनुसारेण मासवर्षादि वर्णनम्।

७३ निमेषाद्यारभ्य युगपर्यन्तं कालावयववर्णनपुरस्सरं तत्रतत्र ( युगे२) मनुष्यायुःप्रमाणधर्मवृद्धिह्रासादिवेदविभागब्रह्मायुर्वर्णनम् ॥ ...

७४ पुरा कृतादियुगान्तेषु क्षत्रियादिभिर्ब्राह्मणादित्रिवर्णादिनिपातने द्विजराजादिनिर्दिष्टविष्ण्ववतारप्रमितिविप्रादिद्वारा तत्तद्ब्रह्मक्षत्रियादिनाशपुरस्सरं पाराशरव्यासप्रकाशितचतुर्वर्गप्रदीपभूतमहाभारतस्य वैशम्पायनेन परीक्षिन्नृपायाख्यानं वेदान्व्यस्य पैलजैमिन्यादिशिष्याणा मध्यापनं वाल्मीकिनिर्मितरामाख्यानं विष्णुयशसः कल्क्युद्भवतत्कर्तव्यादि च।

७५ क्षीणे मन्वन्तरे मन्वन्तरेश्वराणां महर्लोके मनुशक्रदेवसप्तर्षीणां ब्रह्मलोके निवासः, कुलपर्वतवर्ज्यं भूलोकस्य नाशः, नौकारूपेण धरित्र्याः सर्वबीजरक्षणं भविष्यन्मनुना सह सप्तर्षीणां तत्र निवासः, . मत्स्यरूपिशृंगिविष्णोर्नौकारक्षणं मुनीनां तत्स्तवनं नावि हिमशिशिखरं नीतायां विष्णोरन्तर्धानं कृतयुगप्रादुर्भावश्च।

७६ जलप्रायभूतले सप्तसूर्यदग्धजीवानां जनलोके स्थितिः, रौद्रतेजसाऽर्क नाशे महारौद्रघनावारिपूर्णजगति स्वशरीरे वायुष्मादाय युगसहस्रपर्यन्तमर्णवे पितामहः स्वपिति विबुद्धश्च सृजति जगदिति प्रतिकल्पक्रमः ... ...

७७ कल्पान्ते जगदस्वथावर्णनम्

७८ एकार्णवे भूमितले वटशाखिनि पर्यंङ्कस्थभगवदुदरे ब्रह्मा त्रिलोकीदर्शनान्तरं युगसहस्रमुषित्वाप्यन्तं नाप।

७९ कल्पान्ते बालरूपिविष्णोरनिरुद्धता तन्नाभिकमलाद्ब्रह्माविर्भावः .

८० ब्रह्मोत्पतिमारभ्य कालगतिपूर्वकं वज्रपरीक्षिज्जनमेजयाचलवज्राणां भाव्येतदवनिरक्षणमभिधाय धनञ्जयानन्तरं राक्षसैः सुधर्मसभाया हिमाचले नयनम्

८१ अहोरात्रकल्पाद्यात्मककालस्य दैवतादिकथनपुरस्सरं मन्वन्तरसादृश्यकथनम्

८२ कृतादियुगदेवषष्ट्यब्दनाम तत्कालगुरुचारसम्भूतद्वादशाब्दाधिप तत्फलसौम्यबार्हस्पत्यनाक्षत्रादिवर्षतत्फलसंवत्सराधिपग्रहादिवर्णनम् ...

८३ सदेवताकाऽयनमासग्रहनक्षत्रतिथिकरणानि, करणानयनप्रकारविष्टिहोराकुलिकादिवेलामुहूर्ततत्स्वामिवर्णनं यथासमयकृतार्चाया: फलाधिक्यञ्च

८४ लग्नतद्देवताहोराद्रेष्काणनवांशराशीश्वरत्रिंशांशकथनम् .........

८५ ग्रहनक्षत्रादिवशाच्छुभाशुभपरिज्ञानम् .

८६ पीडितग्रहनक्षत्राणां तत्तद्दिक्पीडाकरत्वं युद्धे विध्वस्तपराजितनीचपितृगृहस्थानामपि स्वस्वदिक्पीडनम् .........

८७ जन्माद्याश्रितचन्द्रादिनक्षत्रनवषट्त्रिनक्षत्रादिशुभाशुभकथनम्

८८ अश्विन्यादिनक्षत्रतारासंख्याग्रहनक्षत्रमण्डलादिवर्णनम् ।

८९ जन्मकर्मसाङ्घातिकसामुदायिकवैनाशिकाभिषेकर्क्षदेशनक्षत्रेषु पीडितेषु गोमूत्राद्यभिषेकपुरस्सरं तत्तद्ग्रहपूजादि

९० ग्रहर्क्षपूजाविधिवर्णनम्

९१ तत्तद्द्रव्यैर्ग्रहर्क्षस्नानविधिवर्णनम्

९२ भूम्युद्धारवेदिनिर्माणतत्संस्काराद्यग्निकार्ये प्राक्तनकथनपुरस्सरं होमांते महाकल्पादिदेयाधिपतीनां वैदिकमन्त्रैर्हवनकर्मसमाप्तिरूपोत्तरतन्त्रकथनम्

९३ पञ्चगव्येन मण्डलशौचादि विधाय जीवावाहनग्रहपूजादिकथनम्

९४ सर्वग्रहयजने मण्डलविधिं विधाय मध्ये सध्रुवकोष्ठकद्वादशकोष्ठभगणे प्राच्यादितो मेषादिकल्पत्वाऽऽकाशध्रुवदिग्भागादिमण्डलेषु तत्तद्देवतामण्डलेषु च तत्तन्न्यासकरणम्

९५ ध्रुवाकाशानन्तग्रहनक्षत्राद्यावाहनम्

९६ तत्तद्देवतानुलेपनवर्णनम् ... . . . .

९७ ग्रहर्क्षदिग्देवतादीनां तत्तद्वर्णवस्त्रपताकाभूषणरत्नपुष्पादिदानम्

९८ तत्तद्देवानां तत्तद्द्रव्यधूपदीपादि

९९ धुवस्थाननिविष्टदेवानां नैवेद्यपदार्थाः ...

१०० तथा पानपदार्था:

१०१ तत्तद्देवताहोमपदार्थकथनम्

१०२ ध्रुवदिग्ब्रह्मग्रहर्क्षाणां होममन्त्राः

१०३ तत्तद्देवतादक्षिणानिर्देशः

१०४ शान्त्यवसाने याजककर्तृकयजमानकरे प्रतिसरबन्धनमाशीर्वादश्च

१०५ ग्रहशान्तिफलाभिधानम्

१०६ ग्रहर्क्षमेढीभूतधुवस्थितचतुर्दशतारकानामनिर्देशपूर्वकं शिशुमारचक्रनिबद्धतारकाज्ञानतद्दर्शनादिमाहात्म्यकथनमू, औत्तानपादिध्रुवस्य विष्णुरूपता तन्निबद्धमरुज्ज्योतिर्गणस्य भ्रमणम्, तदधः क्रमेणसप्तर्षिमण्डल-भचक्र-शनैश्चर-कुज-सूर्य-शुक-बुध-चन्द्राणां स्थितिः, प्राग्दक्षिणगतिज्योतिश्चक्रञ्च । नवग्रहाणाञ्जन्मवृत्तम्, तत्र सूर्यतेजोऽसहमानायाः संज्ञाया मनुयमयमुनोत्पत्त्यनुच्छायातः सावर्णशनैश्चरोत्पत्तिः, उत्तरकुरुषु वडवारूपेण चरन्त्याः संज्ञाया खेः सकाशादाश्विनेयरैवन्तोत्पत्तिः,रैवन्तपूजयाऽश्वसम्पत्कथनञ्च

१०७ असुरसुरपितृद्विजादिशब्दार्थसन्ध्योपासनहेतु मनुष्यराक्षसगन्धर्वादिविविधसृष्टिकथनपुरस्सरं स्वधर्मस्थितद्विजानां स्वर्गाद्युत्तमलोकवासः प्रजापत्यंगुष्ठाभ्यां दक्षतत्पत्नीप्रादुर्भावतत्प्रसूतिविस्तारदक्षयज्ञेऽनाहूतसत्यनादरप्रयुक्ततनुत्यागेन मनुष्यो भवेति दक्षाय शिवशापाद्याख्यानम्

१०८ धुववंश्यकथने वेनस्यातिकान्तमर्यादत्वादधर्मनिवारकहितोपदेष्टृमुनिवचस्स्वनादराच्च देवदत्तप्रज्ञया मन्त्रपूतजलेन तैस्तस्यासुभिर्विरहीकरणम्, पुनर्मन्त्रपूतकुशोदकेन तदूरुमन्थनान्निषादपृथू उत्पेदाते

१०९ ब्रह्मविष्णादिदेवकृतपृथुराज्याभिषेके देवदत्तहयगजच्छत्रचामरादिभि स्तत्प्रभावर्धनान्ते सूतमागधस्तवनहृष्टस्य तस्य ताभ्यामनूपमागधग्रामदानम्, वृत्त्यर्थिप्रजाप्रार्थनया पृथ्वीतः सस्याद्यानयनं स्वायम्भुव मनुसोमादिवत्सदोहनात्सस्यसुधापयोविषाषाद्युत्पत्तिः,पितृविरक्तप्रजानां तेनानुरञ्जनम्

११० पृथुपुत्रप्राचीनबर्हितनुजानां दशप्राचीनबर्हिषां दशवर्षपर्यन्तं तपश्चरणेन वृक्षवृद्धया प्रजाक्षये सति सम्मिलितप्रचेतोमुखसमुत्थाग्निना द्रुमक्षये सोमराजप्रार्थनया वृक्षराजकन्याया मारिषया वृक्षाणां पत्नीत्वेन ग्रहणे दक्षप्रजापतिजन्म, ततश्च हरशापात्तन्मानसीसृष्ट्युपरोधे वीरणप्रजापतिकन्यायां वीरिण्यां पुत्रसहस्रोत्पत्तिः, नारदोपदेशनष्टेषु पुत्रेषु दक्षशापान्नारदस्य कश्यपसुतत्वेन जन्म, हरद्वारा दक्षस्याश्धमेधभङ्गो दक्षेणापि यज्ञे शिवं न यक्ष्यन्तीति शापदानं दक्षप्रसूतिवर्णनञ्च

१११ स्वायम्भुवेऽन्तरे शिवशप्तमुनीनां वैवस्वतेऽन्तरे सम्भवः, भृग्वङ्गिरःप्रभृतिमुनीनामुत्पत्तिप्रवरसंख्याऽवैवाह्यता

११२ अङ्गिरसो वंशानुवर्णनं तद्वंश्यानां मिथोऽवैवाह्यता । .... ....

११३ अत्रिवंश्यगोत्रकारमुनिशाखानिर्देशपुरस्सरमत्रिपुत्रिकापुत्रवर्णनं मिथोऽवैवाह्यता च

११४ अत्रेरपरवंशवर्णने तपसा विश्वामित्रस्य ब्राह्मण्यमाप्तिस्त्रिप्रवराणां तद्वंश्यानां मिथोऽविवाह्यता च ..

११५ मारीचकश्यपकुले गोत्रकारमुनिनामप्रवरसंख्याद्व्यामुष्यायणगोत्रआदि वर्णनम् ११६ वशिष्ठवंशीयैकर्षिप्रवरादिवर्णनम्....

११७ निमिपूर्वपुरोहितवशिष्ठे तस्यानवरतयाजनश्रान्ते किञ्चिद्विश्रम्य याजयिष्य इत्युत्तवत्यपि धर्माचरणे कालयापनं न श्रेय इति द्वितीयपुरोहितद्वारा यियक्षमाणं विदेहो भवेति निर्मि शशाप वशिष्ठः; निमिरप्यनुचितकारिणं तं विदेहो भवेति शशाप, ब्रह्मवरदानान्मनुष्यपक्ष्मसु निमेर्वासः, वशिष्ठजीवस्य मित्रावरुणपुत्रता, नारदभगिन्याऽरुन्धत्या वशिष्ठस्योद्वाहः, तस्यां शक्तेर्जन्म, तत्सुतः पराशरः; तत्पुत्रो द्वैपायनः, तस्य कृष्णनीलरक्तश्वेतगौरधूम्रपराशरास्तेषां सर्वेषां त्र्यार्षेया: प्रवराः ( पराशरशक्तिवशिष्ठाः ) तेषां मिथोऽवैवाह्यम् ....

११८ अगस्त्यवंशप्रवरकथनप्रसङ्गे पुलस्त्यपुलहक्रत्वगस्त्यानामेकवंशता

११९ अरुन्धतीप्रसूतिवर्णनम्

१२० कश्यपवंशवर्णनं, आदित्योत्पत्तिः . . . .

१२१ हिरण्याक्षादीन्नृवराहदिरूपेण हत्वा बलिञ्च छलयित्वा बाणासुरयुद्धे सकार्तिकेयरुद्रं कृष्णो विजिग्ये ।

१२२ मयतारप्रमुखदैत्यपराजितदेवानां देवाचार्यसंनिधिगमने तत्कृताग्निस्तुतिप्रीतवह्निना तदूरीकरणम् ।

१२३ अग्रिसाहाय्यार्थं देवाचार्यकृतवायुस्तवनम् ।

१२४ अग्निवायुपराजितदैत्यानां पाताले गमनमू, कालनेमिनो देवान्पराजित्य त्रैलोक्येश्वरत्वं वैष्णवपदेच्छया विष्णुदर्शनञ्च ...

१२५ कालनेमिं निपात्य ब्रह्मस्तुतो विष्णुर्लोकपालान्यथापुरा तत्तत्स्थानेषु योजयित्वा देवान्यज्ञभुजश्चकार ।

१२६ बलिबन्धनक्रुद्धदैत्यताडितभूसुरत्यक्तयज्ञे भूतले बुभुक्षितदेवप्रेरितब्रह्मप्रार्थितवराहुरूपिविष्णुना ध्वस्तदुष्टदैत्ये पाताले कृते सति स हरि: स्वभक्तप्रह्लादायाभूतसंप्लवमायुर्दैत्यराजतां तत्पुत्रविरोचनाय कल्पायुष्ट्वं प्रदाय बले: सावर्णिकमन्वन्तरे शक्रत्वं स्वीकृत्य तत्पुत्रं बाणं स्वविप्रियकारिणमपि नासुभिर्वियोक्ष्य इत्यनुचकम्पे

१२७ शक्रहन्तारं पुत्रं मे प्रयच्छेति दितिप्रार्थितः कश्यपो रजनीं तया सहोषित्वा शुचितया वर्षसहस्रं स्थास्यसि चेदेवं भविष्यतीत्युक्त्वा तपसे जगाम, शक्रस्तु तां छलयित्वा सेवितुमाजगाम, अब्दशेषे काले दिवा सुप्तायास्तस्या उदरं प्रविश्य वज्रेण सप्तधा गर्भं विदार्य पुनः सप्तधा कृत्वोनपंचाशन्मरुतो निर्मितवान्, दितिप्रार्थनया तेषां स्थानानि नामानि च चक्रे

१२८ दनुसिंहिकाप्रजोत्पत्तिप्रसंगे गन्धर्वाप्सरसां नामानि तज्जन्म कद्रू सन्ततिः, अहल्यानिर्माणं तत्कामुकशक्रस्य निर्वृषणतादि च

१२९ बदर्याँ तपस्यन्तौ नरनारायणौ प्रलोभयितुमागता दश मौनेयाप्सरसो लज्जयितुं नारायणेन स्वोर्वोरद्भुतरूपसौन्दर्यशालिनन्युर्वशी निर्ममे

१३० वैवस्वतस्य मनोर्द्वापरे युगे देवासुरयुद्धप्रसंगेन स्वर्गतपुरूरवनृपासक्तोर्वश्या रंभया सख्या सह संवादः

१३१ रम्भया सहोर्वेश्या आकाशमार्गेण प्रतिष्ठानपुरार्थगमने नारददर्शनं, तेन च पुरूरवसो गृहे वासे उर्वशीपुत्रीकृतमेषद्वयस्य सदा शयनागारे स्थापनं, घृतमात्राहारेण वर्तनं, कदाचिदपि नग्नस्य राज्ञोऽनवलोकनमकामायास्तस्याः पुरूरवसा रत्यकरणम्, समयेष्वेषु कस्यापि भंगे उर्वश्याः शिलाभावः, सर्वप्रतिज्ञाहानिश्चेति, प्रतिष्ठानपुरसमृद्धिवर्णनम् १३२ किञ्चिदवशिष्टदिवसभागं यापयितुं रम्भोर्वशीं पुरूरवस आक्रीडशोभावर्णनमिषेण विनोदयामास

१३३ चन्द्रोदये चन्द्रकान्तगृहे सखिसहाये पुरूरवस्यागते रम्भया नृपसाक्षात्कारानन्तरं नारदप्रतिज्ञाश्रावणं पुत्रीकृतमेषयोरर्पणञ्च, रम्भाश्रावितनारदसमयस्य राज्ञांगीकरणे प्रसन्नरम्भायै राज्ञो रत्नार्पणं तस्याश्च लंकायां धनदात्मजस्य नलकूबरस्य स्वभर्तुः सविधं गमनं पुरूरवसश्चोर्वश्या सह रमणम्

१३४ उर्वशीपुरूरवसोर्विचित्रप्रासादरत्नवेशमनदीपुलिनादिरम्यप्रदेशेषु क्रीडावर्णनमाय्वादिपञ्चपुत्रोत्पत्तिर्गन्धर्व्वाणामुर्वश्यानयनार्थं मन्त्रणा च

१३५ उग्रसेनगन्धर्वेण रात्रावुर्वशीमेषयोर्हरणे तदन्वेषणाय नग्ने पुरूरवसि च निर्गते राज्ञः प्रतिज्ञाभङ्गादुर्वशीतिरोधाने राज्ञः प्रलापः

१३६ पुरूरवोविरहसन्तप्ताया उर्वश्या नारदोपदेशादेकरात्रं सहवासः, गमनसमये च गन्धर्वोपासनया मत्सङ्गमो भविष्यतीत्युर्वश्युपदेशाद्राज्ञ एकवत्सरपर्यन्तं घोरतपश्चरणं नारदं पुरस्कृत्य गन्धर्वाणां तत्र गत्वा वरदानान्ते गन्धर्वत्वकारकयावन्मन्वन्तरं तया सह क्रीडाकरणस्य तदनु च चन्द्रमःप्रवेशपितृलोकप्राप्तेश्च वरे प्राप्य सबालस्य पुरूरवस उर्वशीदत्तसस्थालीकविश्वायुनामकबालकस्य स्वपुरे नयनम्, मार्गे गन्धर्वैः स्थाल्याहरणं पश्चाच्छमीगर्भादग्न्युत्पादनाद्युपदेशं कृत्वा राज्ञो गन्धर्वत्वकारकोपदेशः १३७ अश्वमेधवाजपेयाग्निष्टोमातिरात्रादियज्ञकरणपूर्वकं राज्ञो धरित्र्यामेकराष्ट्रत्वं प्रजानामतीव सौख्यं राज्ये धर्मप्राधान्यताद्युपभुज्य राज्ञो देहसहितं त्रिदिवगमनम्

१३८ सदेहादेहपितृगणानामसंख्या श्राद्धदातुपितृतृप्त्यभ्युदयादि

१३९ हिरण्याक्षवधानन्तरं सौकरवपुषा रसातलाद्वसुधामानीय दंष्ट्राग्रलग्नं मृत्पिण्डं दक्षिणे करे कृत्वा स्वप्रस्वेदरोमभ्यां तिलदर्भौ निर्माय विष्णो: पिण्डदान (श्राद्ध ) मर्यादाप्रकटनम्

१४० श्राद्धदिनेनुवराहं विष्णुं सम्पूज्याहिताग्न्यनाहिताग्न्योर्यथाधिकारं योग्यद्विजपित्रावाहनपूजनपिण्डनिर्वपणपूजनक्षीरान्नादिनिवेदनाक्षय्यदानप्रार्थनादिपुरस्सरं श्राद्धकर्त्रधिकारसप्तर्षिमन्त्रकथनम्

१४१ श्राद्धदेशस्तत्र देयादेयादिविचारश्च

१४२ श्राद्धभेदाः साधारणविशेषकालेषु तेषां फलानि च

१४३ श्राद्धे पात्रापात्रविचारः

१४४ गङ्गायमुनासन्निहत्यापुण्यारण्यादिश्राद्धदेशानुकीर्तनम्

१४५ अशून्यशयनद्वितीयायां व्रतश्राद्धकरणफलम्

१४६ अविद्याविहितकर्मणा संसारं विद्याविहितस्य च तस्य मोक्षसाधनतामुक्त्वा पाण्डवानां कृष्णसाचिव्याद्भाग्यवत्तरतादिकथनपुरस्सरं धर्मरूपवृषलक्षणवर्णनम्

१४७ वृषोत्सर्गकालफलकर्तव्यतादि ....

१४८ पुरूरवसः पूर्वजन्मचरित्रवर्णनम् ... .

१४९ हिमवद्गिरिस्थेरावतीशोभावर्णनम्

१५० हिमवद्वर्णनम्

१५१ सुरम्यप्रसूनफलसम्पत्तिसनाथानेकवृक्षवीरुद्राजिविराजितविविधपक्षिगणकलकलकलमुखरितत्यक्तसाहजिकवैरबहुविधश्वापदविराजिते, अत्रेराश्रमे दधिक्षीरक्षरच्छिलावलोकनसञ्जातहर्षस्य राज्ञः प्रवेशः

१५२ अञ्याश्रमसरसि तत्सिद्धिसञ्जातसौवर्णराजतवैद्रुमादिविटपिशोभितवेदिकायां पद्मरागच्छदवत्पद्मशोभादियुतायां विविधरत्नसनाथभूम्यां तादृशे च प्रासादे भगवतो जनार्दनस्य भोगिभोगावल्यां शयानस्य राज्ञा वन्दनम्, तस्यैवाश्रमस्यैकदेशे तपश्चरणञ्च

१५३ तत्राश्रमे गन्धर्वाणामप्सरोभिर्विविधविहारान्पश्यन्नप्यलोलो राजा महत्तपश्चकार तत्कर्मतुष्टगन्धर्वेभ्यो मधुसूदनप्रसादं ययाचे

१५४ मद्रराजस्य ( भाविपुरूरवसः ) स्वप्नेऽत्रिसमागमः कृतकृत्यता च भविष्यतीति दर्शनं प्रभाते जाग्रदवस्थायामत्रिदर्शनं, पूर्वजन्मनि द्वादशीव्रतकरणाद्भगवति विष्णौ प्रसन्ने तव मदाश्रमप्राप्तिरत्र च क्षौद्रयुक्तशिलाप्राये माक्षिकादिफलयुक्तप्रदेशे निरशनपूर्वकतपसा प्रसन्नेन विष्णुना भवदिच्छाऽमोघीक्रियत इत्युत्तमरूपप्राप्तये रूपसत्रोपदेशः

१५५ ज्योतिःशास्त्रेतिहासादिविज्ञब्रह्मणः गुरूपदेशाद्रूपसत्रकरणं तत्फलानि च . . .

१५६ भगवतात्रिणा मद्रराजस्य रूपसत्रे गुरुत्वमुररीकृत्य यथाविधि तत्सत्रसम्पादनं तदवसाने च राज्ञोऽपूर्वरूपसम्पत्या पौरजानपदेष्वधिकपूज्यता, भूयश्च देहावसाने बुधपुत्रता, सदेहस्य तस्य स्वर्लोके गमनञ्च

१५७ मार्गशीर्षशुक्लद्वादश्यां राज्यकामस्य व्रतविधिः

१५८ कामद्वादशीवर्णनम्

१५९ मार्गशीर्षादिशुक्लपक्षद्वादशीषु केशवार्चनादग्निष्टोमादियज्ञफलानि ....

१६० प्रतिकृष्णपक्षद्वादशीविधिस्तत्करणफलञ्च ....

१६१ सर्वद्वादश्युपवासासमर्थानां भाद्रपदमासीयशुक्लपक्षस्थश्रवणनक्षत्रोपेतद्वादश्युपवासफलं, तस्या एव बुधश्रवणयुक्तत्वेऽत्यन्तमहत्त्वम्

१६२ श्रवणद्वादशीप्रसंगेन पुण्यनदीसंगमस्नानतज्जलपूर्णवारिधान्या दध्योदनसहिताया दानस्य प्राशस्त्यम् । पूर्वजन्मनि मरुप्रान्तस्थशाकलनगरवास्तव्यस्य कस्यचिद्वैश्यस्य श्रवणद्वादश्यां तौषीचन्द्रभागयोर्नद्योः संगमे सदध्योदनवारिधानीदानाज्जन्मान्तरे प्रेताधिपतायामपि नित्यं भोजनसमये दध्योदनयुक्तवारिधान्युपस्थितिवर्णनम्

१६३ तिलद्वादश्यां स्नानहोमनैवेद्यदीपोदकदानेषु तिलप्राशस्त्यम्

१६४ मागधेषु चण्डवेगराजमहिषी नयनसुन्दरी पूर्वजन्मनि श्रवणद्वादश्यां तिलहेमदानादिकारणाद्राज्ञीत्वमाप, तत्सखीमतल्लिकया वासन्तिकया तत्कारणे पृष्टे पूर्वजन्मनि ब्राह्मण्यै तस्यैतद्देशस्थदधिवाहनस्य राज्ञो भार्यया कमलाख्यया सख्यवशादुमारूपवितस्तानद्यां स्नात्वोपवासपूर्वकविष्णुपूजाहवनकर्मणि वह्निमुखभ्रष्टतिलपुण्यफलदानात्स्वस्या राजमहिषीत्वादि निजगाद...

१६५ गायत्रीदेवताशक्तिप्रवचनं तस्या गायत्रीसावित्र्याद्यन्वर्थनामनिर्वचन ञ्चाभिधाय तज्जापस्य सर्वार्थसाधकतोङ्कारसहितायास्तयाः परमपुरुषसहितचतुर्विंशतितत्त्वात्मकतादिवर्णनम् ...

१६६ द्वादश्यमावास्यादिषु केशवादिस्थानेषु दीपदानस्य तथा कार्तिकमास आकाशदीपदानस्य फलम्

१६७ विदर्भाधिपचित्ररथतनया ललिता त्रिशतभार्यस्यापि काशिराजस्य प्रियराज्ञीत्वं विष्ण्वायतनादिषु दीपदानादवाप, सौवीरराजपुरोहितमैत्रेयेणोमारूपदेविकासरित्तीर्थे निर्मितविष्ण्वालये कार्तिकमासि द्यूतस्य दीपस्य वर्तिप्रेरणेन मृताया मूषिकाया जन्मान्तरे विदर्भराजकन्यात्वं काशिराजप्रियमहिषीत्वञ्च

१६८ उपवासाशक्तधनहीनानामपि सर्वसुलभेषु पुण्यारण्येष्वयत्नसाध्यासु च पुष्पफलतोयादिसामग्रीषु केशवार्चिया सर्वकामसमृद्धिः स्वायत्ता

१६९ विष्ण्वालयादौ मार्जनादिकर्तुः फलानि

१७० कस्मिश्रिद्धतदैवे शूद्रे वाणिज्यकृषिनष्टधने गंगातटस्थवराहमंदिरलेपनाद्यशक्ते काकतालीयवद्धराहार्चादिदृक्षार्थं सौवीरराज आगतः तत्सम्पत्तिलुब्धचित्तः शूद्रः पञ्चताञ्जगाम, तद्भार्या तेन सहैकचित्या भस्मसादभवत्, तत्पुण्यवशात्स स्वर्गलोकङ्गतः तदैव युवनाश्वो पुत्रीयव्रतेन विष्णुमानार्च, स्वप्ने भार्गवं च्यवनं गच्छेति विष्णवादिष्टः स नृपस्तं स्ववृत्तमवदत् च्यवनोऽपि तदज्ञातं पुत्रीयं जलं कृत्वा कलशे स्थापयामास, निशीथे राज्ञा तृषार्तेन तज्जले पीते मुन्यनुग्रहाद्राज्ञः कुक्षौ गर्भः सञ्जातः मान्धातेति तन्नाम शूद्रात्मा तं विवेश, शूद्रभार्या काशिराजदुहितृतां याता मान्धात्रोढ़ा उद्वाहानन्तरं युवनाश्वस्तमयोध्यायामभिषिच्य वनस्थो नाकमगमत्

१७१ मान्धातरि विष्ण्वंशस्य विद्यमानेऽपि लवणेन माहेश्वरशूलेन स कथं हत इति संशयोद्भावनपुरस्सरं शिवविष्ण्वभेदस्य पुरुषस्वरूपस्य वर्णनम्

१७२ हरेः प्रादुर्भावेषु सुरनरतियक्त्वमनास्थायैव जगत्पालनम् ॥ मायालेशमन्तरेण यथारुचि धर्मरक्षापुरस्सरममानवीयकर्माचरणम् .

१७३ मार्गशीर्षमासमारभ्य मासनक्षत्रेषूपवासपूर्वकं हरेर्वामजान्वाद्येकैकमङ्गं पूजयित्वा गोमूत्रेण स्नानं रक्तपुष्पैः पूजनं ताम्रस्य दानमित्यादि क्रमेण पुत्रीयानन्तव्रतकथनम्

१७४ कार्तिकमासादारभ्य मासनक्षत्रपूजनविधानम्

१७५ शाम्बरायण्युक्तानेकशक्रचारितं विष्णुकृततद्विद्वेषिहननश्च , ....

१७६ ब्रह्ममानसपुत्रप्रथममनुतत्पुत्रमरीच्यादिसप्तर्षिजयादिसोमपीथिविश्वभुगिन्द्रतद्विद्वेषिदैत्यप्रवर बाष्कलादेर्नामकीर्तनम्

१७७ शक्रं प्रति शाम्बरायण्युपाख्याने द्वितीयमनुस्वारोचिषान्तरे तद्वंश्यादिनामकीर्तनम्

१७८ तृतीयस्यौत्तमस्य मनोरजादिसप्तपुत्त्राणां रजोबाह्वादिसप्तर्च्यादीनाश्च कीर्तनम् १७९ चतुर्थस्य तामसाख्यमनोर्जानुजंघादिपुत्त्राणां वनादिनामकसप्तर्षीणां सत्यादिदेवगणानाञ्च वर्णनम्

१८० पंचमस्य रैवतस्य मनोर्महापुराणादिपुत्राणां वेदश्रुत्यादिसप्तर्षीणामाभूतराजसादिदेवगणानां विभोरिन्द्रस्य शम्ब्वाख्यदैत्यपत्यादीनाञ्च वर्णनम्

१८१ षष्ठस्य मनोश्चाक्षुषस्योर्वादिपुत्राणामाढ्यादिसप्तर्षीणां दिवौकसामष्टकादिपंचगणानां मनोजवाख्यस्येन्द्रस्य च कीर्तनम्, दैत्यराजस्य महामालस्य वर्णनम्

१८२ सप्तमस्य वैवस्वतस्य मनोरिक्ष्वाक्वादिपुत्त्राणाम् अत्र्यादिसप्तर्षीणाम् एकोनपंचाशदसुरदेवानामाश्विनादिदशानामपरदेवानामोजम्बिनामकस्य शक्रस्य कीर्तनं हिरण्याक्षस्य देवारातेर्नवराहरूपेण विष्णुना या वधादिकथनञ्च

१८३ अष्टमस्य भविष्यस्य सावर्णस्य मनोर्विजयादिपुत्राणामश्वत्थामादिसप्तर्षीणां सुतपसादिदेवगणानां बलेरिन्द्रस्य निःसपत्नस्य कीर्तनम्र, तस्मिन्मन्वन्तरे हिमाचलस्थं नानोलं विष्णुर्हनिष्यतीति कथनञ्च

१८४ ब्रह्मपुत्रस्य नवमस्य मनोर्घृतिकेत्वादिपुत्राणां मेधातिथ्यादिसप्तषीणां परादिदेवगणानां विभुनाम्नो भविष्यदिन्द्रस्य कालकक्षादिदेवदायादराज्ञो वसुनाभस्य धार्मिकत्वाद्भविष्यद्विष्णुपुत्रतया भाविकालकालकाक्षवधः

१८५ धर्मपुत्रस्य दशमस्य मनोः सुक्षेत्रादिपुत्राणामापोमूर्त्यादिसप्तर्षीणां प्राणाख्यादिदेवगणानामिन्द्रस्य शान्त्याख्यस्य तद्विद्विषा प्रबलस्य वालिनो विष्णुकर्तृकं हननम्

१८६ रुद्रपुत्रस्र्यकादशस्य मनोः सर्वर्तुगादिपुत्राणां हविष्मदादिसप्तर्षीणां निर्मथ्यादिदेवगणानामिन्द्रस्य वृषाभिधेयस्य द्विषन्तं दशग्रीवं विष्णुः स्त्रैणं रूपमाश्रितो वधिष्यति ॥

१८७ द्वादशस्य मनोर्दक्षपुत्रस्य देववदादिपुत्राणां सत्तमादिसप्तर्षीणां सुशर्मादिदेवगणानामिन्द्रस्यारातिं नरक नपुंसकरूपेण विष्णुर्हन्ता

१८८ त्रयोदशस्य रौच्यस्य मनोश्चित्रसेनादिपुत्राणां धृतिमदादिसप्तर्षीणां सुत्रामादिदेवगणानामिन्द्रस्य बृहस्पतेरसुरदायादस्य टिट्टिभस्य मायूररूपिविष्णुना विनाशः

१८९ चतुर्दशस्य भौत्यस्य मनोस्तरंगभेदाभिदादिपुत्राणामग्नीध्रादिसप्तर्षीणां चाक्षुषादिदेवगणानां शुचेरिन्द्रस्य शत्रूणां राज्ञो महासुखस्य समये दिव्यवर्षसहस्रपर्यन्तं देवासुरयुद्धे जाते तामसीमायया मधुसूदनो रीन्वधिष्यति ।|

१९० प्रतियुगं यथाकार्यं विष्णोरनेकावतारधारणम्

१९१ शक्रप्रश्नानुरोधेन शाम्बरायण्या यावज्जीवं मासनक्षत्रपूजनेन स्वस्या अतीतानागतमन्वन्तरेषु तद्वृत्तज्ञानम्

१९२ श्रीविष्णोः स्तुतिमाहात्म्यवर्णनम्

१९३ देवलमुन्यवज्ञया हाहाहूह्वोर्गजनक्रीभवनम्

१९४ जम्बूद्वीपे श्रृङ्गवति कुलाचले हाहागन्धर्वस्य हस्तित्वेन हुह्वो नक्रत्वेन च निवसतोर्मध्याह्ने जलं पातुमन्तःसरसि प्रविष्टे गजराजे रौद्रेण ग्राहेण तस्य ग्रहणं मिथो युद्धे गजराजेन पुष्कराग्रधूतकमलपुष्पेण विष्णोर्मानसिकसपर्या व्यधायि तद्भावाकृष्टो विष्णु: सरसि तत्सान्निध्यं कल्पयित्वोभावपि गन्धर्वतामनयत एतदध्यायपठनफलम्

१९५ सर्वदुष्टोपशमनं विष्णुपञ्जरस्तोत्रम्

१९६ ब्रह्मणा त्रिपुरं जिघांसोः शङ्करस्य रक्षायै, , वागीशेन च बलं जिघांसोः शक्रस्य रक्षायै निरूपितस्य विष्णुपञ्जरस्तोत्रस्य कथनम्...

१९७ कश्यपस्य खशाख्यायां पत्न्यां यक्षोत्पतिः

१९८ कपिषासुतयोरजषण्ढयोर्ब्रह्मधानयातुधानाख्ये तनये बभूवतुः, तौ ते कन्यके क्षुधिताकारं राक्षसं ददतुः, तस्य ब्रह्मधानान्वये ब्रह्मधाना निशाचराः, यातुधानान्वये यातुधानाः प्रसिद्धाः । श्लेष्मातकवनस्थानेषु दशब्रह्मराक्षसेषु सूर्यानुचरेषु हेतिप्रहेतिवंश्येषु मालिसुमालि माल्यवत्सु सुमालिदौहित्रस्त्रिलोकविजयी रावणः, मालिनो धरेण वसुना निधनं माल्यवांश्च वर्षत्मा सुखं जीवति

१९९ पुलोमदानवेन्द्रेण स्वज्येष्ठतनया पुलोमजा भृगवे दत्ता, एकदाऽन्तर्वत्नीमग्निहोत्रगतां तां पुलोमा राक्षसोऽभ्येत्य हेऽग्ने मत्पूर्वेयं नवेत्युक्तवान्, नेयं त्वत्पूर्वेति श्रुत्वाऽपि स तां जहार, पथि गर्भच्युतेश्च्यवन इति गर्भजातस्य संज्ञा, तेन दृष्टमात्रस्य रक्षसो नाशः पुलोमाश्रुनिपातेन वधूवरानदीप्रार्दुभावो भृगोः सकाशादग्नेः सर्वभक्षकत्वशापः, ब्रह्मणाग्नेरनुग्रहश्च .

२०० स्वतपसा हरं प्रसाद्य लब्धशूलो मधुदैत्यो रावणस्वासारं कुम्भीलसीं हृत्वा तस्यां लवणं सुतमुत्पादयामास, मान्धातारञ्च युद्धे जघान

२०१ शैलूषवंशवर्णनम्

२०२ दुष्टशैलूष ( गन्धर्व ) जयाय भरतप्रस्थानवर्णनम्

२०३ भरतयुद्धयात्रायां त्रिलक्षसंख्याकानामश्वानां दशसहस्राणां दन्तिनां षष्टिसहस्राणां रथानां पञ्चकोटिपदातॄनां वस्त्रसुवर्णमण्यादीनां निचयैः सह बहुपण्ययुक्तवणिगादिविषवैद्यकामवैद्यकर्मन्तिकस्थपतिमार्गिकादीनां प्रेषणम्

२०४ भरतमाशीर्वादैरभिवर्द्ध्य गन्धर्वान्हत्वा. सिन्धोरुभयपार्श्वयोर्नगरे निर्माप्योभौ पुत्रौ तत्राभिषिच्य युधाजितं सम्मान्य च शीघमागच्छेत्यादि श्रीरामेण समन्त्रणम्, स क्रोशमात्रे स्थाने निर्मितं शिविरं प्रविश्य पौरजानपदं च विसर्ज्योतरदैनिककर्मसूचनार्थं डिण्डिमध्वनिकरणादिकं लक्ष्मणमुपदिदेश

२०५ प्रायाणिकवाद्यघोषबृंहितहेषितादितुमुले प्रयान्तीनां भरतावरोधरामाणां दीनान्धकृपणादिभ्यो दानदयादिवर्णनपुरस्सरं प्रायाणिककृत्यनिर्देशः

२०६ गंगायां स्नानश्राद्धदानादिधार्मिकक्रियानन्तरमपरपारगमनाय कूटागारदीपवृक्षादिनिर्माणाय च भरतस्य निदेशानन्तरं निशायामेव नौकादिभिस्तरणम्

२०७ मार्गे भरतस्य दमनकिरातेन संगम:, यमुनायां स्नानदानश्राद्धादेरनन्तरं मत्स्यसाल्वादिनृपैः संगत्य भरतेन कुरुक्षेत्रस्य तीर्थसन्नीतिनामधेयकारणे पृष्टे घटोदरब्राह्मणेन च्यावनदधीच्यस्थिनिर्मितवज्रेण दैत्यनाशस्य तथा मासपर्यंतं सर्वतीर्थानां कुरुक्षेत्रे सन्निधानस्य कारणमवोचि, ततोऽमरकण्टकादितीर्थेषु स्नानादिकं कृत्वा देविकानद्यां भरते गते कुमारादिपञ्चपर्वतीयराज्ञां तदभ्याशे आगमनं तत्र त्रिरात्रमुषित्वा भरतश्चन्द्रभागां ययौ। पुनश्च वितस्तामुत्तीर्य कैकयानाप्य स युधाजिता तन्मातुलेन सत्कृतः

२०८ प्रद्युम्नांशसमुत्पन्नेतिदर्शनीये भरते युधाजित्पुरं प्रविष्टे पौरस्त्रियो विस्मृतसकलव्यापारा निश्चेष्टास्तं ददृशुः, भरतश्च मातुलगृहं प्राप्य परार्ध्यभोजनपानादिसत्कारं लेभे

२०९ भरतो बन्दिनां विचित्रा नव्या भव्याश्च रचनाः शृण्वन्नुत्थाय कृतसन्ध्याहवनतर्पणादिनित्यक्रियो ब्राह्मणान्धनदानेन तुतोष, पुनश्व सभां गतो तपोधनैर्द्विजवरैः कृताशीर्वादो बलमुख्यान्महीपतींश्च ददर्श, स्वदत्तताम्बूलेन सप्रश्रयं तान्विससर्ज च ततो युद्धाय मंत्रणे जाते गार्ग्यं दौत्यकर्मणि नियुज्य श्वे योद्धव्यमिति आज्ञापयामास, सन्ध्यामुपास्य गूढभाषितमाकर्ण्य च प्रासादात्सैनिकानां पवनानय नाक्ष्वेडाशब्दादिवृतान्तदर्शनश्रवणाभ्यां मुदमाप

२१० भरताह्वानदुन्दुभि श्रुत्वा शलूषतनयाः शैलूषं राजानमुपतस्थुः भरतसंदिष्टं गार्ग्यवाक्यं सरोषं मन्त्रयामासुश्च

२११ अपराजितादिसभ्यानां गन्धर्वराजमुद्दिश्य युद्धविषये सम्मतिदानम्

२१२ कृषिवाणिज्यादिकर्मोपयोगिनी भूर्मानुषाणामेवोपयुज्यते किन्तया देवजातीयानां गन्धर्वाणाम्, भरतश्च प्रद्युम्नांशः सुमालिनमप्यवधीत्तेन सार्धं विग्रहो न विद्वत्सम्मत इति नाडायनोऽमन्त्रयत

२१३ वृत्रे शक्रेण निहते दैत्याः समुद्रमब्दुर्गं विधाय रात्रौ प्रजा निजघ्नुः, सुरप्रार्थितोऽगस्त्यः समुद्रं पपौ तेन दुष्टदैत्यनाशः समजनि । रविनिशाकरमार्गं रोद्धुं प्रवृत्ते विन्ध्यगिरावगस्त्येन स्वप्रणामकरणाय नम्रे तस्मिन्मम प्रत्यागमनपर्यन्तमेवमेव नीचैस्तिष्ठेत्यद्यापि तस्य खर्वताकरणम्, इल्वलवातापिनोर्भक्षणेन शरदि त्वय्युदितेऽपाममलत्वं तव च लोके पूजा भविष्यतीत्याद्यगस्त्याय देवैर्वरदानम्

२१४ माल्यवता वार्य्यमाणावपि मालिसुमालिनौ लंकादुर्गमाश्रित्य देवान्पीडयाञ्चक्रतुः ततश्च ब्रह्मेशसहिता देवाः क्षीरपयोधौ सुप्तं विष्णुमुपतस्थिरे

२१५ सर्वे देवा मुनयो नदीनदादयश्च श्रीविष्णुमनुजग्मुः .... ....

२१६ देवानां रणसमुद्योगमाकर्ण्य मालिसुमालिनौ युद्धार्थं निर्ययतुः

२१७ देवासुरसंग्रामे विष्णुना मालिराक्षसशिरच्छेदः ... ....

२१८ मालिनिधनानन्तरं तार्क्ष्यपक्षवातताडितरक्षसां पातालगमनं लङ्काया वैश्रवणे दानम्

२१९ ब्रह्ममानसपुत्रपुलस्त्यस्य विश्रवसो बृहस्पतिपौत्री भरद्वाजसुता देववर्णिनी भार्याऽऽसीत् तत्पुत्राय वैश्रवणाय तत्तपस्तुष्टो ब्रह्मा यक्षेशधनेशलोकपालत्वं वितीर्य पुष्पकं विमानं विश्वकर्मनिर्मितां लंकां च ददौ ॥

२२० सुमालिनः पितुरादेशात्कैकस्या विश्रवसः रावणकुम्भकर्णयोः सुतयोः शूर्पणखायाः कन्यायाश्चोत्पत्तिः, कदाचिद्धनाध्यक्षवैभवं दर्शयन्ती कैकसी रावणमूचे त्वमप्येवं श्रीमान्भवेति, ततश्च ब्रह्मणः सकाशान्मानुषं विहाय देवादिभ्योऽवधं त्रैलोक्यविषयञ्च ययाचे, एवं विभीषणं नित्यं धर्ममतिममरत्वञ्च दत्त्वा ब्रह्मणि याते पातालाद्रक्षांस्यागत्य दशवक्त्रं लंकाराज्येऽभ्यषेचयन् । रावणवचनात्कुबेरो लंकां त्यक्त्वाऽलकायामवसत् पुनश्च त्रैलोक्यविजयं कृत्वा मयतनयां मन्दोदरीं रावण उपयेमे, तस्याश्च मेघनादं सूनुं जनयामास स रामेणावधि

२२१ ब्रह्मदत्तवरदृप्तो रावणस्त्रिदशरामाः कन्याश्च जहार, अयोध्यावास्यनरण्यं नृपं जघान स च मत्कुल्यात्तव निधनं भविष्यतीति तमशपत् । मरुत्तयज्ञे देवापराधं च कृतवान्, बृहस्पतिसुतकुशध्वजकन्या वेदवतीति ख्याता विष्णुपत्यर्थं तपस्यन्ती रावणेन प्रलोभितापि न तं चकमे, केशपाशे तेन स्पृष्टा सा ज्वलनं प्रविष्टाऽन्यजन्मनि सीता बभूव, संक्षिप्य रामसीताचरितमुक्त्वा तादृशविष्णुभ्रातृभरतेन युद्धं न श्रेय इति नाडायनसम्मतिः ।

२२२ मौद्धत्यं कृथाः सुरैस्त्वद्वधश्चिन्त्यत इति वक्तारं धनददूतं हत्वा तस्य पुष्पकविमानं च हृत्वा रावणः कैलाशं ययौ, वानराकृतिं नन्दिनं दृष्ट्वा प्रहसति रावणे पुलहप्रजापतिकुलसम्भूतवानरेभ्यस्तव विनाशः स्यादिति नन्दिकेश्वरशापे जाते सकैलासं हरं लङ्कां निनीषौ रावणे, अचलचलनसम्भ्रमजातस्वयंग्रहोमाऽऽश्लेषतुष्टो हरस्तं रावणनामानमकरोत्, ततश्च रावण: संयमिन्यां धर्मराजं कालपाशयागपितृगणांश्च विजित्य सूर्येण योद्धुमुपतस्थौ, ब्रह्मा सूर्यं न्यवारयद्रावणश्च सेन्द्रान्देवान्विजिग्ये ।

२२३ रावणः पाताले कालखञ्जादिदैत्यान्विजित्य ब्रह्मानुरोधेन निवातकवचैः सह सख्यञ्चकार, नागान्ससुतं वरुणञ्च जित्वा किष्किन्धायां युद्धार्थं वालिनं पप्रच्छ, तारेण दुन्दुभिघातनं सुग्रीवस्य निष्कासनं हनूमत्पौरुषञ्च वर्णितम् ॥

( इतःपरं पाठः खण्डितः, एतदऽध्यायशेषश्तुर्विंशत्युत्तरद्विशततमाध्यायश्ध नोपलब्ध:)

२२५ त्रिपुरदाहान्ते शंकरानुष्ठितगणेशस्तुतिः ॥

२२६ अन्धकासुरसमरे तदस्त्रसञ्जातानेकान्धकखिन्नेन शम्भुना माहेश्वर्यादिमातॄः सृष्ट्वापि यदा नान्धकासृक्क्षयस्तदा तत्तुष्टवासुदेवसृष्टशुष्करेवतीपीतरुधिरा अन्धकाः क्षयं प्रापुः मूलान्धकं तत्प्रार्थनया शिवो गणेशत्वं स्वसामीप्यञ्च ददौ ततो मातॄणामुपद्रवे वृद्धे रुद्रस्मृतनृहरिर्वागीश्वर्यादीः ससर्ज, तत्तेजोभीताः पूर्वमातरः नृसिंहं शरणं जग्मुः स च तत्पूजकानामभीष्टसिद्धिं स्वीकृत्य ताः पूज्या व्यधत्त

२२७ मातृदोषविनाशनस्नानानुलेपनधूपबलिपञ्चगव्यादिकथनम्

२२८ परस्परस्पर्धमानहरगौर्यो रहस्यक्रीडायामन्यतरस्याविरततया वह्नेस्तत्र कपोतरूपेण प्रवेशे शङ्कररेतश्च्युतं वह्नेरास्यमविशच्छशाप च गिरिजादेवान्स्वस्वभार्यासु नैव पुत्रांल्लभध्वमिति, अत्युग्रं हि शिवरेतो बहिरुज्जगार गङ्गा च तद्दधार, गङ्गाप्यसह्यं तत्तेजः श्वेते गिरौ तत्याज, षट्कृत्तिकाश्च तद्दधुः शङ्करसूनुः षडाननो भूत्वा तासां स्तनान्पपौ तत्पयोवृद्धश्च कृत्तिकाचन्द्रयोगे वह्निगुहकृत्तिकावरुणपूजाकर्त्तरभिमतेष्टसिद्धिं वरं ददौ

२२९ त्वत्तेजोऽसहन्त्या मया श्वेतगिरौ त्वं त्यक्त इति कथयन्तीं गङ्गां कार्तिकेयोऽक्षयतृतीयायां कुत्रापि स्नानकर्तुर्गङ्गास्नानफलप्राप्तिं दानादेश्चाक्षयफलताञ्चकार

२३० श्वेतगिरावपूर्वसत्त्वं श्रुत्वा देवदैत्यादिभिरामन्त्र्य शक्रस्तन्नाशाय मतिं चक्रे, स्कन्दस्त्वपरान्ग्रहान्निर्माय सर्वास्तान्निर्वीर्याँञ्चक्रे, नास्तिकादिभ्यस्तद्वृत्तिमपि स्वीचक्रे

२३१ ग्रहगृहीतलक्षणानि

२३२ अभ्यङ्गादिनवग्रहदोषहराः क्रिया गोद्विजदेवार्चकस्य सदानुकूला ग्रहाः

२३३ शक्रकृतकार्त्तिकेयस्तुतिः कार्त्तिकेयकृतमहिषासुरवधश्च ...

२३४ देवैर्यज्ञे शङ्करभागेऽकल्पिते शिवस्तान्वित्रासयामास पुरोडाशमत्त्वा पूष्णो दन्तान्भगस्य वामनयनञ्चानाशयत्, यज्ञो नरनारायणाश्रममद्रवद्विष्णुशरणमगमद्धरस्तमनुजग्राह च

२३५ गङ्गाद्वारे दक्षयज्ञे शङ्करानाह्वानाद्वीरभद्रभद्रकालीभ्यां दक्षयज्ञविध्वंसः, वीरभद्रोपदेशात्स्तुतभद्रकर्णेश्वरो दक्षोऽश्वमेधसहस्रफलं लेभे । हरद्वारे कुशावर्तादितीर्थपञ्चकप्राशस्त्यम्

२३६ शम्भुं पूजयति श्वेतर्षौ मूर्तिमान् कालस्तस्यायुषः पूर्णत्वात्तमानेतुं तद्देशमागतः, कृतवैष्णवकवचरक्षः शम्भुः कालं भस्मसादकरोत् ....

२३७ नारायणवर्म्मकथनम्

२३८ स्वप्रतिभटजिज्ञासया बलिसद्मनि गते रावणे सौहार्दात्त्वद्बद्धारं विष्णुं जेष्यामीति ब्रुवाणे तत्रस्थमत्कटकमानीयात्रोपविशेति बलिनोक्तः स सर्वयत्नादपि न शशाक कुण्डलमानेतुम्, एताभ्यां च कुण्डलाभ्यां हिरण्यकशिपुर्मत्प्रपितामहोऽशोभत यमयं मत्कुणप्रायममर्दयत् मृषा तज्जये तवाशेति

२३९ रावणस्य विष्णुविराड्रूपदर्शनम्

२४० अयोध्यायां वसन्तवर्णनम् ॥

२४१ अयोध्यायां ग्रीष्मवर्णनम्

२४२ साधुकण्टकं मधुदैत्यं जहति च्यवनपुरःसरयमुनातीर्थस्थमुनिवृन्द आगते ससैन्यस्य शत्रुघ्नस्य रामाज्ञया तद्वधाय गमनम्

२४३ प्रावृड्वर्णनम्

२४४ शत्रुघ्नं प्रति रामानुशासने शरद्वर्णनम् . . . . . .

२४५ शत्रुघ्नं प्रति रामकर्तृक हेमन्तकर्तव्योपदेशे हेमन्तवर्णनम्

२४६ शत्रुघ्नाय रामोपदेशे शिशिरवर्णनम्

२४७ श्रीवशिष्ठरामादिपादावभिवाद्य शत्रुघ्नो मधुराजिगमिषया प्रथमं वाल्मीक्याश्रमं प्राप, शत्रुघ्नकृतलवणवधानन्तरं सुप्रीतदेवेच्छया शत्रुघ्नेन मथुरानिर्माणम्

२४८ पुलहवंशवर्णनप्रसङ्गे मृगामृगमन्दादिकन्यानां पुलहद्वारा मृगादिसृष्टिवर्णनम्।

२४९ ओषधिद्विजातिनक्षत्रयज्ञतपसां चन्द्रं, सर्वप्रजापतीनां दक्षं, सर्वेन्द्रियाणां मनसं, सुरस्त्रीणां मन्मथमित्यादि प्रतिसमूहे राजकीर्तनम्

२५० ब्रह्मा देवराज्ये काश्यपं शक्रमभिषिषेच

२५१ मतंगजानां कुलाष्टकानि वनाष्टकञ्च

२५२ बानरोत्पत्तिवर्णनं तत्कर्तृकहस्तिपराजयश्च ॥

२५३ गजवानरयुद्धवर्णनम् । . . . .

२५४ श्वो भरतेन सह योद्धव्यमद्य सर्वेर्विश्रामसुखमनुभूयावश्यकं कृत्वा श्व आगन्तव्यमिति शैलूषनिर्देशः

२५५ अयोध्यायां विरहिणीवर्णनम्

२५६ अयोध्यायां प्रोषितभर्तृकावर्णनम् .

२५७ भरतचम्वां सैनिकानां निशाविहारवर्णनम्

२५८ युद्धोद्योगिगन्धर्वसैन्यवर्णनम्।

२५९ भरतसैन्यनिर्याणम्

२६० भरतगन्धर्वसैन्ययोः संकुलसमरवर्णनम्

२६१ भरतशैलूषराजयोर्घोरयुद्धवर्णनम्

२६२ भरतस्य गन्धर्वैस्तृतीयदिवसयुद्धवर्णनम्

२६३ चतुर्थदिवसयुद्धवृत्तान्तः

२६४ पञ्चमदिवसयुद्धोदन्तः

२६५ शैलूषे हतरथे भरते च तथाविधे भीषणयुद्धानन्तरं षष्ठदिवसयुद्धविरतिः

२६६ नानामायायुद्धे भरतविहितशैलूषवधे सञ्जाते शैलूषपुत्राधिष्ठितत्रिकोटिगन्धर्वसैन्यानामपि नाशे शक्रस्य भरतसमीपं वरदानार्थं गमनम्, सिन्धुकूलयोः पुरद्धये त्वत्पुत्रयो राज्ये स्त इत्यभिधाय स्वर्गगमनञ्च, भरतं सभाजायित्वा चित्ररथस्यापि नाकप्रयाणम्

२६७ भरतयुधाजितोः स्वशिबिरं गच्छतोर्युधाजित्कृतसमरभूमिवर्णनम्

२६८ रणभूमौ गतासून्गन्धर्वान्विलोक्य हृदयद्रावकं गन्धर्वीविलपनम्

२६९ रणात्प्रतिनिवृत्तस्य भरतस्य रामसाक्षात्कारविजितगन्धर्वरत्नानां रामाय निवेदनम् ॥ इति प्रथमखण्डः ॥