विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १०१
← अध्यायः १०० | विष्णुधर्मोत्तरपुराणम् अध्यायः १०१ वेदव्यासः |
अध्यायः १०२ → |
।। मार्कण्डेय उवाच ।।
धुवस्थाननिविष्टानां देवतानां महीपते ।।
घृताक्तैरक्षतैर्होमः कार्य्यश्च सतिलैर्भवेत् ।।१।।
अर्कः पलाशः खदिरश्चापामार्गो ऽथ पिप्पलः ।।
उदुम्बरश्शमीदूर्वाः कुशाश्चेति यथाक्रमम् ।। २ ।।
समिदर्थं प्रशस्यन्ते सूर्यादीनां नराधिप ।।
होतव्यास्समिधश्चैव घृताक्ता मनुजेश्वर ।। ३ ।।
तथा प्रादेशमात्राश्च प्रागग्रा नित्यमेव च ।।
ऊर्ध्वशुष्काः सपत्राश्च वित्वचश्च विवर्जयेत् ।। ४ ।।
कृत्तिकानां घृतेनाक्तो होमः पार्थिवसत्तम ।।
रोहिणीनां तथा बीजैरिल्विलानां च पायसैः ।। ५ ।।
माक्षिकैश्च तथार्द्रायामादित्यस्य च तण्डुलैः ।।
पुष्यस्य पायसेनापि सार्प स्य च तथौषधैः ।।६।।
तिलैः सतण्डुलैर्होमः तथा पैत्र्यस्य कीर्तितः ।।
प्रियङ्गुभिश्च भाग्यस्य चार्य्यम्णस्य तथाक्षतैः ।। ७ ।।
सावित्रस्य तथा दध्ना चित्राया पायसेन च ।।
वायव्यस्याक्षतैः कार्य्या सघृतैर्मनुजेश्वर ।।८।।
ऐन्द्राग्नस्य सदा कार्य्यो यावकेन तथैव च ।।
मसूरैश्चैव मैत्रस्य शाक्रस्य चणकेन तु ।। ९ ।।
मूलस्यौषधिभिः कार्य्यस्तथैवाप्यस्य शालिभिः ।।
वैश्वदेवस्य पयसा तथा ब्राह्मस्य पायसैः ।। 1.101.१० ।।
मणिभिस्तण्डुलोपेतैः श्रवणस्य विधीयते ।।
न्यग्रोधोदुम्बरफलैर्वासवस्य विधीयते ।। ११ ।।
वारुणस्योदकैः पुष्पैस्तथा चैवाक्षतैश्शुभैः ।।
आजस्याज्येन मधुना दध्ना च नृपसत्तम ।। १२ ।।
व्रीहीभिश्च तथा कार्य्याश्चाहिर्बुध्न्यस्य पार्थिव ।।
फलैश्च साक्षतैः कार्य्यस्तथा पौष्णस्य पार्थिव।।१३।।
क्षीरवृक्षसमिद्भिश्च आश्विनस्य विधीयते ।।
याम्यस्य मधुसंयुक्तैस्तिलैः पार्थिवसत्तम ।। १४ ।।
आज्य तिलाश्च तैलं च कृशरं मधु पायसम् ।।
दधि क्षीरं घृतं क्षौद्रं प्राच्यादीनां यथाक्रमम् ।। १५ ।।
सागराणां च पयसा होमः कार्यः पृथक्पृथक् ।।
उक्तालाभे च सर्वेषां होमः कार्य्यस्ति लाक्षतैः ।। १६ ।।
सघृतैः पार्थिवश्रेष्ठ द्रव्यशाठ्यं विवर्जयेत् ।।
प्रभोः प्रथमकल्पस्य योऽनुकल्पेन वर्तते ।। १७ ।।
न साम्परायिकं तस्य भवतीह सुदुर्मतेः ।।१८।।
यद्यदग्रहस्याभिहितं मयात्र ऋक्षस्य वा भूमिपतिप्रधान ।।
तद्देवतायाश्च तथैव देयं दिशस्तथा नात्र विचारणास्ति ।। १९ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे होमद्रव्यविभागो नामैकोत्तरशततमोऽध्यायः ।। १०१