विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०८९

विकिस्रोतः तः
← अध्यायः ०८८ विष्णुधर्मोत्तरपुराणम्
अध्यायः ८९
वेदव्यासः
अध्यायः ०९० →

मार्कण्डेय उवाच ।।
शकृन्मूत्रं तु संगृह्य श्वेतस्य वृषभस्य च ।।
श्वेतगोः पयसा सार्धं स्नातव्यं कुशवारिणा ।।१ ।।
जन्मनक्षत्रपीडायां तस्माद्दोषा द्विमुच्यते ।।
शिरीषचन्दनाश्वत्थताटनागाम्बुभिर्नरः ।। २ ।।
स्नानश्चेन्मानसे तप्ते तस्माद्दोषो विमुच्यते ।।
सिद्धार्थकान्प्रियङ्गुं च शतपुष्पां शतावरीम् ।। ३ ।।
स्नातव्यमम्भसि क्षिप्त्वा कर्मर्क्षे नृप पीडिते ।।
प्रियङ्गुबिल्वसिद्धार्थयवाश्वत्थसुराह्वयान् ।। ४ ।।।
चन्दनोदकसंयुक्ते स्नाने सांघातिके हते ।।
सर्वगन्धोदकैः स्नानं तथा सिद्धार्थकैः शुभैः ।। ५ ।।
पीडिते सामुदायर्क्षे पुंसां कल्मषनाशनम् ।।
वृषशृङ्गोद्धृतमृदा तथा बिल्वोदकैश्शुभैः ।। ६।।
शतपुष्पाससोमाह्वैः स्नानं वैनाशिके भवेत् ।।
पीडिते चाभिषेकर्क्षे सर्वरत्नोदकैस्तथा ।। ७ ।।।
पीडिते देशनक्षत्रे मृद्भिस्स्नानं विधीयते ।।
मृत्तिकाश्च प्रवक्ष्यामि गदतः शृणु मे नृप ।। ८ ।।
नदीकूलद्वयान्मध्यात्संगमात्सरसस्तटात् ।।
अश्व स्थानाद्गजस्थानाद्गोस्थानाद्गिरिमस्तकात् ।। ९ ।।
सर्पस्थानात्सवल्मीकाद्राजस्थानाद्वरालयात् ।।
गजशृङ्गोद्धृतां चैव वृषशृङ्गोद्धृतां तथा।।1.89.१०।।।
सर्वबीजोदकस्नातो जातिनक्षत्रपीडने ।।
मुच्यते किल्बिषाद्राजन्नात्र कार्या विचारणा ।। ११ ।।
इदमापः प्रवहतः स्नानमन्त्राः प्रकीर्तिताः ।।१२।।)
स्नातस्तथैवं नृपचन्द्र पश्चात्स्नानं प्रकुर्वीत ग्रहोपदिष्टम् ।।
पीडाकरस्याथ ततस्तु कार्यं नक्षत्रयागाभिहितं यथावत् ।। १३ ।।
पूजा ग्रहेन्द्रस्य नरेन्द्रचन्द्र पीडाकरस्याथ ततस्तु कार्या ।।
तं पूजयेच्चाप्यथ चन्द्रयुक्तं ततः स दोषान्सकलाञ्जहाति । । १४ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा ० सं० नक्षत्रस्नानं नामैकोननवतितमोऽध्यायः ।। ८९ ।।