विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०८७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०८६ विष्णुधर्मोत्तरपुराणम्
अध्यायः ८७
वेदव्यासः
अध्यायः ०८८ →

।। वज्र उवाच ।।
शुभाशुभपरिज्ञानं भगवन्पुरुषं प्रति ।।
त्वत्तोहं श्रोतुमिच्छामि तन्ममाचक्ष्व पृच्छतः ।। १ ।।
मार्कण्डेय उवाच।।
जन्माश्रितस्त्रिषष्ठश्च सप्तमो दशमस्तथा ।।
एकादशः शशी येषां तदा तेषां शुभं भवेत्।।२।।
जन्मन्यथ चतुर्थे च साष्टमे दशमे तथा ।।
एकादेशे बुधो येषां तेषामपि शुभं वदेत् ।। ३ ।।
द्विपञ्चमगतो जीवस्सप्तमो नवमस्तथा ।।
एकादशस्तथा ह्येषां तेषामपि शुभं वदेत्।। ।। ४ ।।
षष्ठसप्तमगः शुक्रो दशमे न च शोभनः ।।
द्वादशश्च तथा ह्येषां तेषां पीडां विनिर्दिशेत् ।। ५ ।।
तृतीये दशमे षष्ठे तथा चैकादशे शुभा ।।
सौरारतीक्ष्णकिरणा येषां तेषां शुभं वदेत् ।। ६ ।।
यस्मिन्हि जननं यस्य जन्मर्क्षं तस्य तत्स्मृतम् ।।
चतुर्थं मानसं तस्माद्दशमं कर्मसंज्ञितम् ।। ७ ।।
संगातकं षोडशं स्याद्विंशं स्यात्सामुदायिकम् ।।
वैनाशकं तु नक्षत्रं कर्मर्क्षं यत्त्रयोदशम् ।। ८ ।।।
षण्णक्षत्रस्तु पुरुषस्सर्वः प्रोक्तो महीपते ।।
राजा च नवनक्षत्रो नक्षत्रत्रितयं शृणु ।। ९ ।।
नित्यमभ्यधिकं षड्भ्यः पार्थिवस्य नृपोत्तम ।।।
देशाभिषेकनक्षत्रौ जातिनक्षत्रमेव च ।। 1.87.१० ।।
जात्याश्रितानि वक्ष्यामि नक्षत्राणि तवानघ ।।
पूर्वात्रयमथाग्नेयं ब्राह्मणानां प्रकीर्तितम् ।। ११ ।।।
उत्तरात्रितयं पुष्यं क्षत्त्रियाणां प्रकीर्त्तितम् ।।
पौष्णं मैत्रं तथा पित्र्यं प्राजापत्यं विशां स्मृतम् ।। १२ ।।
आदित्यमाश्विनं हस्तः शूद्राणामभिजित्तथा ।।
सार्पं विशाखा याम्यं च वैष्णवं च नराधिप ।। १३ ।।
प्रतिलोमभवानां च सर्वेषां परिकीर्तितम् ।।
ईहादे ह्यर्थहानिस्स्याज्जन्मर्क्षे चोपतापिते ।। १४ ।।
कर्मर्क्षे कर्मणां हानिः पीडा मनसि मानसे ।।
मूर्त्तिद्रविणबन्धूनां हानिस्संघातिके हते ।। १५ ।।
संतप्ते सामुदायर्क्षे मित्रभृत्यार्थसंक्षयः ।।
वैनाशिके विनाशस्स्याद्देहद्रविणसंपदाम् ।। १६ ।।
पीडिते चाभिषेकर्क्षे राज्यभ्रंशं विनिर्दिशेत् ।।
देशर्क्षे पीडिते पीडां देशस्य च पुरस्य च ।। १७ ।।
पीडिते जातिनक्षत्रे राज्ञो व्याधिं विनिर्दिशेत् ।। १८ ।।
ग्रहर्क्षजाता समवाप्य पीडां पूजा तु कार्या विधिना स्वकेन ।।
ततश्शुभं विन्दति राजसिंह विधूतपापः पुरुषस्सदैव ।।१५
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं०प्रतिपुरुषशुभाशुभनिर्देशोनाम सप्ताशीतितमोऽध्यायः ।। ८७ ।।