विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०३६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०३५ विष्णुधर्मोत्तरपुराणम्
अध्यायः ०३६
वेदव्यासः
अध्यायः ०३७ →

मार्कंडेय उवाच ।। ।।
अथ बाल्यं समुत्तीर्णो रामो भृगुकुलोद्वहः ।।
शुश्रूषमाणः पितरं नित्यमास्ते महायशाः ।। १ ।।
एतस्मिन्नेव काले तु रामे वनगते तदा ।।
आजगाम महातेजा राजा चित्राङ्गदो वनम् ।। २ ।।
विहर्तुं सह रामाभिर्देवराजसमद्युतिः ।।
तं दृष्ट्वा रेणुका चक्रे स्पृहां भोगेषु भामिनी ।। ३ ।।
जगाम मनसा तं सा राजानं कामसन्निभम् ।।
तस्मिन्नेव क्षणे सा तु भ्रष्टा ब्राह्मणतेजसा ।। ४ ।।
गतश्रियं तु तां दृष्ट्वा जमदग्निर्महातपाः ।।
पुत्रानुवाच तान्क्रोधाद्धन्यतां जननीं स्वकां ।। ५ ।।
ते विचार्य ततः सर्वे मातुर्गौरवमुत्तमम् ।।
नैव चक्रुः पितुर्वाक्यं ताञ्छशाप स भार्गवः ।। ६ ।।
यूयं तिर्यक्सधर्माणो नष्टसंज्ञा भविष्यथ ।।
इध्मभारमुपादाय रामो रतिकरः पितुः ।। ।। ७ ।।
अथाऽऽश्रममनुप्राप्तः पिता तं समचोदयत् ।।
जहीमां मातरं क्षुद्रां राम मा त्वं चिरं कृथाः ।। ८ ।।
एवमुक्तः स पित्रा तु तद्वाक्य समनन्तरम् ।।
शिरश्चिच्छेद तीक्ष्णेन रामः परशुना तदा ।। ९ ।।
तुतोषाथ पिता तस्य ततो धर्मभृतां वरः ।। । १० ।।
जमदग्निरुवाच ।।
स्वच्छन्दमरणं पुत्र तुष्टे त्वं मयि लप्स्यसे ।।
यावच्च वैष्णवं तेजस्त्वयि तिष्ठति पुत्रक।।११।।
तावदैव न ते युद्धे कश्चिज्जेता भविष्यति।।
भविष्यति च धर्मात्मा रामो दशरथात्मजः ।।
रघुवंशे समुत्पन्नो विष्णुर्मानुषरूपधृक् ।। १२ ।।
यदा समेष्यते तेन तदा वैष्णवतेजसा ।।
कृतकर्मा विमुक्तस्त्वं स च युक्तो भविष्यति ।। १३ ।।
ततः परं त्वया पुत्र न कार्यं शस्त्रधारणम् ।।
आर्तत्राणमृते वीर स्त्रीब्राह्मणकृतेऽथ वा ।।
यथेप्सितं चाऽप्यपरं वरं वरय पुत्रक ।। १४ ।।
राम उवाच ।।
गुरुश्रेष्ठ समुत्थानं जनन्याः कथयाम्यहम् ।।
अस्मृतिञ्च तथा तस्यां भ्रातॄणाञ्च तथा ऽस्मृतिम् ।।१५।।
जमदग्निरुवाच ।।
एवमस्तु महाभाग तपसा महता तथा ।।
समाराधय देवेशं शङ्करं नीललोहितम्।।१६ ।।
मार्कण्डेय उवाच ।।
एवमुक्ते समुत्तस्थौ रेणुका चारुहासिनी ।।
रामस्य भ्रातरः सर्वे मुक्तशापास्तथैव ते ।।१७।।
पित्रा रामस्तथोक्तस्तु हिमवत्यचलोत्तमे ।।
तपस्तेपे महातेजा रुद्राराधनकाम्यया ।। १८ ।।
एतस्मिन्नेव काले तु देवाः सेन्द्रपुरोगमाः ।।
सैंहिकेयभयत्रस्ताः शङ्करं शरणं गताः ।। १९ ।।
।। देवा ऊचुः ।। ।।
भगवन् देवदेवेश प्रणतार्तिविनाशन ।।
सैंहिकेयैर्वयं सर्वैः स्थानेभ्यस्त्ववरोपिताः ।। २० ।।
सैंहिकेयानथाऽऽश्रित्य दैत्याः शतसहस्रशः ।।
सर्वे वसन्ति सततं तेषां यत्नं वधे कुरु ।। २१ ।।
।। महादेव उवाच ।। ।।
शृण्वन्तु देवताः सर्वा दानवा देवकण्टकाः ।।
रामेणाऽऽहं वधिष्यामि नरबुद्ध्या यतस्तु तान् ।। २२ ।।
मार्कण्डेय उवाच ।।
गतेषु देवसंघेषु देवदेवः पिनाकभृत् ।।
आहूय भार्गवं राममिदं वचनमब्रवीत् ।। २३ ।।
महादेव उवाच ।।
सैंहिकेयान्दुराचारानसुराञ्जहि पुत्रक ।।
समर्थस्तान्भवान्हन्तुं नाऽन्यः कश्चन विद्यते ।। २४ ।।
राम उवाच ।।
अस्त्रग्रामं समग्रं मे प्रयच्छ भगसूदन ।।
येन तान्सुदुराचारान्घातयिष्यामि दानवान् ।। २५ ।।
महादेव उवाच ।।
किं तवास्त्रैर्भूगुश्रेष्ठ विष्णुस्त्वं नासि मानुषः ।।
व्यस्त्रस्याऽपि न ते शक्ता योद्धुं प्रमुखतस्तव ।।२६।।
राम उवाच ।।
घातयिष्याम्यहं सर्वान्सैंहिकेयान्दुरासदान् ।।
त्रिपुरारे महाभाग त्वदाज्ञापरिबृंहितः ।। २७ ।।
मार्कण्डेय उवाच ।।
इत्येवमुक्तस्त्रिपुरान्तकेन रामस्त्रिनेत्रप्रतिम प्रभावः ।।
आदाय तीक्ष्णं परशुं जगाम यत्र स्थितास्ते च रिपुप्रधानाः ।। २८ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे रामस्य महेश्वरादेशो नाम षट्त्रिंशत्तमोऽध्यायः ।। ३६ ।।