विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०३४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०३३ विष्णुधर्मोत्तरपुराणम्
अध्यायः ०३४
वेदव्यासः
अध्यायः ०३५ →

ऋचीक उवाच ।।
ब्रह्मणोऽत्रिः सुतः सौम्यः सुतस्तस्याऽपि चन्द्रमाः ।।
सोमस्य तु बुधः पुत्रो बुधपुत्रः पुरूरवाः ।। १ ।।
श्रुतायुस्तनयस्तस्य पुत्रस्तस्यापि नग्नजित् ।।
तस्याऽपि काञ्चनः पुत्रः सुहोत्रस्तस्य चाऽऽत्मजः ।। २ ।।
तस्य जह्नुः स्मृतः श्रीमान्येन गङ्गा तु जाह्नवी ।।
सुव्रतस्तनयस्तस्य चालर्कस्तस्य चात्मजः ।। ३ ।।
तस्य पुत्रो बलाकश्च कुशिकस्तस्य चाऽऽत्मजः ।।
महोदयपुरवरे स तु नित्यं कृतालयः ।। ४ ।।
एतस्मिन्नेव काले तु श्वसुरः च्यवनस्तव ।।
स्ववंशसंकरं बुद्ध्वा कुशिकेभ्यो महायशाः ।।५।।
कुशिकानां समुच्छित्यै कुशिकं नृपतिं ययौ ।।
पूजितः कुशिकेनापि कुशिकं वाक्यमब्रवीत्।।६।।
राजन्वक्ष्यामि कार्यं ते यदि शुश्रूषसेनघ ।।
सभार्येण च कर्तव्यं राजञ्छुश्रूषणं त्वया ।।७।।
कुशिक उवाच ।।
स्वमेवेदं तव गृहं यथेष्टं वस भार्गव।।
शक्तितस्तव शुश्रूषां करिष्ये भार्यया सह।।८।।
ऋचीक उवाच।।
गृहोषितं तं च्यवनं शुश्रूषुरनहंकृतः ।।
पूजयामास सततं सर्वकामसमृद्धिभिः।।९।।
बहुसंख्यान्दिनगणांश्च्यवनो नावबुद्ध्यति ।।
निराहारः सभार्यस्तं पर्युपास्ते महीपतिः ।। 1.34.१० ।।
अकाले प्राशयत्यन्नं कदाचिदपि दुलर्भम् ।।
कृतमित्येव तद्राजा निवेदयति सत्वरम् ।।११।।
कदाचिद्बहु भुङ्क्तेन्नं न भुङ्क्ते दिवसान्बहून् ।।
धनेन च तदीयेन तर्पयामास वै द्विजान् ।। १२ ।।
कदाचिद्दीपयत्येव वह्निं तातगृहोद्भवम् ।।
कदाचिच्च रथे युक्तं सभार्यो राजपुङ्गवम् ।। १३ ।।
राजमार्गे प्रतोदेन तुदन्यति यथेच्छया।।
तस्याऽसौ हितमेवेदं कर्मणा मनसा गिरा ।। १४ ।।
समाचरति यत्नेन भार्गवप्रियकाम्यया ।।
यदा न वृजिनं किंचिद्दृष्टवांस्तस्य भार्गव ।। १५ ।।
तदा तस्य वरं प्रादाद्वरं यन्मनसेप्सितम् ।। १६ ।।
च्यवन उवाच ।।
वर वरय भद्रं ते प्रसन्नोऽहं तवानघ ।।
निर्व्याजं तेऽनया राजस्सेवयाऽनघया सदा ।। १७ ।।
कुशिक उवाच ।।
यदि मे त्वं प्रसन्नोऽसि भृगूणां वंशवर्धन ।।
वंशो ब्राह्मणतां यातु वरमेतद्वृणोम्यहम् ।। १८ ।।
च्यवन उवाच ।।
एतदेव ध्रुवं भावी नन्मां वरयसे नृप ।।
अस्मद्वंशानुवंशस्य ब्राह्मण्यं ते भविष्यति।।१९।।
तव वंशकृतोऽस्माकं क्षत्रधर्म्मो द्विजोत्तमः।।
भविष्यति नरेन्द्रेन्द्र चैतत्सुविदितं मम ।। 1.34.२० ।।
एतज्ज्ञात्वा समुत्सेधं चिकीर्षुः स्वकुलस्य ते ।।
विकारैः क्रोधनार्थं ते गृहेऽहमवसं चिरम् ।। २१।।
विकारं न ततो दृष्टं मया भाव्यर्थचोदितम् ।।
तस्मान्मातुस्वया प्राप्तं वरमेतत्सुदुर्लभम् ।।२२।।
कुशास्यनामा पुत्रस्तु भविताऽति स्वधार्मिकः ।।
तस्यापि भविता पुत्रो गाधिरित्येव विश्रुतः ।। २३ ।।
विश्वामित्रः सुतस्तस्य ब्राह्मण्यमुपलप्स्यति ।।
कृत्वा वैरं वसिष्ठेन तपसा महता नृप ।। २४ ।।
स्त्रीणां चरुविपर्यासाद्विश्वामित्रस्य संभवः ।।
अस्मद्वंशानुभविता निर्वृत्तो भव पार्थिव ।। २५।।
यत्ते विनाशितं दग्धं भविता तद्विशेषवत् ।।
भार्यया सहितश्चैव जराहीनो भविष्यसि ।।२६।।
एवमुक्त्वा गते विप्रे राजा पूर्णमनोरथः ।।
उवाच सुमुखीं भद्रे जराशोक विवर्जिताम् ।।२७ ।।
एतत्सुनेत्रे च्यवस्य वाक्यं कस्याऽस्ति शक्तिर्भुवि मानवस्य ।।
कर्तुं मृषा तेन वरोरुमध्ये पौत्रस्तवोग्रो भविता नृलोके ।। ।। २८ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे कुशिकवरप्रदानं नाम चतुस्त्रिंशत्तमोऽध्यायः ।। ३४ ।।