विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०२४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०२३ विष्णुधर्मोत्तरपुराणम्
अध्यायः ०२४
वेदव्यासः
अध्यायः ०२५ →

वज्र उवाच ।।
देवकार्यं विना विष्णुर्नोत्पत्स्यति महीतले ।।
कस्मिन्कार्ये बभूवासौ दत्तात्रेय इति श्रुतः ।। १ ।।
मार्कण्डेय उवाच ।।
शक्रेण च यदा वृत्रो हतो वीर्योपबृंहितः ।। २ ।।
तस्मिन्हतेऽसुरे त्वष्टा विश्वरूपमवासृजत् ।।
तपस्यन्तं च तं गत्वा जघान च शचीपतिः ।। ३ ।।
तस्मिन्हते ब्रह्महत्या जगाम बलसूदनम् ।।
ब्रह्महत्याभिभूतस्तु राज्यं त्यक्त्वा त्रिविष्टपे ।। ४ ।।
मानसे बिसतन्तुस्थो बभूव स पुरन्दरः ।।
राजा कृतः शक्रहीनैर्देवैस्तु नहुषस्तदा ।। ५ ।।
सोऽकामयत पौलोमीं शक्रस्य महिषीं प्रियाम् ।।
कालालाभपरा प्राह शक्रं देवी तथा शची ।। ६ ।।
अपूर्वेण हि यानेन समीपं मे सुरेश्वर ।।
ऋषिभिः शिबिकां युक्त्वा स जगाम तदन्तिकम् ।। ७।।
शिबिकां वहमानं तु मन्दंमन्दं द्विजोत्तमम् ।।
पादेन ताडयामास सोऽगस्त्यं पापनिश्चयः ।। ८ ।।
अगस्त्येन तथा शप्तो भव सर्पो महीपते ।।
युधिष्ठिरेण संगम्य शापमोक्षमवाप्स्यसि ।। ९ ।।
एवमुक्ते तु मुनिना सर्पत्वं स जगाम वै ।।
नष्टे शक्रे च पतिते नहुषे पापनिश्चये ।। 1.24.१० ।।
रजस्तमोभ्यामाक्रान्ता बभूवुस्त्रिदशालयाः ।।
ततः प्रवृत्ता लोकेऽस्मिन्ननावृष्टिः सुदारुणा ।। ११ ।।
दुर्भिक्षमरकौ चोभौ विषण्णास्त्रिदशालयाः ।।
नष्टोत्सवमहायज्ञं निर्वषट्कारमङ्गलम् ।। १२ ।।
अनावृष्टिहतं सर्वं बभूव वसुधातलम् ।।
क्षुत्क्षाममानुषप्रायं विनष्टपशुसञ्चयम् ।। १३ ।।
कपालास्थिसमाकीर्णं केशशैवालसंकुलम् ।।
स्नायुभग्नद्विजगणैः क्रव्यादैरतिसंकुलम् ।। १४ ।।
निर्गन्धिकुणपाकीर्णं शून्यप्रायं विभीषणम् ।।
क्षुत्क्षामभूतसङ्घाभ्यां विनिवृत्तवणिक्पथम् ।। १५ ।।
प्रनष्टकृषिवार्तं च दातृभिश्च विवर्जितम् ।।
नरकेऽपि महाघोरे निराक्रन्दैर्जनैयुतैः ।। १६ ।।
दुर्लभान्नं निरानन्दं स्कन्धासक्तकुमारकैः ।।
इतश्चेतश्च यास्यद्भिर्दानवैरतिसंकुलम् ।। १७ ।।
शुष्कतोयाशयं भीमं नामशेषमहापगम् ।।
तस्मिन्काले महाघोरे चोत्सृष्टनियमा द्विजाः ।। १८ ।।
आर्यावर्तं परित्यज्य म्लेच्छदेशमुपाश्रिताः ।।
भक्ष्याभक्ष्यं परित्यज्य कुर्वाणाः प्राणधारणम् ।। १९ ।।
प्राणधारणसक्तानां क्षुधाव्याकुलचेतसाम् ।।
तेषां ब्रह्म तदा नष्टं धावतां च इतस्ततः ।। 1.24.२० ।।
तदा नष्टेषु देवेषु म्लेच्छीभूतमिदं जगत् ।।
म्लेच्छीभूते जगत्यस्मिन्स्वधास्वाहाविवर्जिताः ।। २१ ।।
यथा मर्त्यास्तथा जाताः सर्वे ते देवतागणाः ।।
क्षुत्क्षामकण्ठैस्त्रिदशैः प्रार्थितश्च जनार्दनः ।। २२ ।।
शक्रार्थं त्रिदशा गत्वा त्रैलोक्यहितकाम्यया ।। २३ ।।
तानुवाच हरिर्देवः सर्वे गच्छन्तु मानसम् ।।
बिसतंतुगतं शक्रं तस्माल्लप्स्यथ मा चिरम् ।। २४ ।।
यजतां सोऽश्वमेधेन मामेव सुरसत्तमाः! ।।
अहमेव करिष्यामि विपाप्मानं बिडौजसम् ।। २५ ।।
तत्कृता ब्रह्महत्यां तु चतुर्धा स करिष्यति ।। २६ ।।
अमेध्यक्षेपके वह्नौ पादेनैकेन यास्यति ।।
तथा चैकेन पादेन ह्यशुचिक्षेपके जले ।। २७ ।।
पादेनैकेन च तथा सर्वकाले द्रुमच्छिदम् ।।
रजस्वलांगं पादेन तथा चैकेन यास्यति।। २८ ।।
अहमंशेन यास्यामि भूतलं सुरकारणात् ।।
नष्टे च भूतले धर्मं स्थापयिष्याम्यहं पुनः ।। २९ ।।
एतत्सर्वं यथोद्दिष्टं देवदेवेन शार्ङ्गिणा ।।
चक्रुस्सुरगणाः सर्वे राज्यं चावाप वृत्रहा ।। 1.24.३० ।।
शक्रेण नित्यं बिसतन्तुगेन ध्यातो महात्मा हरिरप्रमेयः ।।
हत्वापि कामेन स विप्रमुख्यं लेभे त्रिलोकीं पुनरेव तस्मात् ।। ३१ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे वृत्रवधोपाख्यानं नाम चतुर्विंशतितमोऽध्यायः ।। २४ ।।