विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०१६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०१५ विष्णुधर्मोत्तरपुराणम्
अध्यायः ०१६
वेदव्यासः
अध्यायः ०१७ →

।। मार्कण्डेय उवाच ।।
भारतस्यास्य वर्षस्य भागेऽस्मिन्नवमे नृप! ।।
समुद्रो वालुकापूर्ण उज्जानक इति श्रुतिः ।। १ ।।
तस्य मध्ये समुद्रस्य धुन्धुप्रस्थपतेः सदा ।।
संवत्सरस्य सोन्ते तु महोच्छ्वासं प्रमुञ्चति ।।२।।
यदा तदा भूः स्खलति सशैलवनकानना।
प्राणिनो येऽल्पसत्त्वाश्च ते यान्ति यमसादनम् ।। ३ ।।
यदा विबुद्धो भवति किञ्चिच्छेषा मही तदा ।।
आहारार्थं करोत्युग्रः पापात्मा जलराक्षसः ।। ४ ।।
एतस्मिन्नेव काले तु चोत्तङ्कस्तप्यते तपः ।।
तपसोन्ते महात्मानं ददर्श मधुसूदनम् ।। ५ ।।
तमुवाच हरिर्देवो वरं वरय भार्गव । ।।
उत्तंकः प्राञ्जलिर्भूत्वा तुष्टाव मधुसूदनम् ।। ६ ।।
उवाच वरदं देवमेष एव वरो मम ।।
यदहं देवदेवस्य दृष्टवांश्चरणाम्बुजौ ।। ७ ।।
श्रीभगवानुवाच ।।
अवश्यं ते वरो देयो मया भृगुकुलोद्वह ।।
अजरश्चामरश्चैव मत्प्रसादाद्भविष्यसि ।। ८ ।।
यत्रेच्छसि जलं तत्र भविष्यति तथा तव ।।
देवतानां महत्कार्यं तथैव च करिष्यसि ।। ९ ।।
आश्रमस्यास्य ते बाधां यः करोति सदानघ ।।
कुवलाश्वेन तं गत्वा धुंधु घातय मा चिरम् ।। 1.16.१० ।।
अहं चास्य प्रवेक्ष्यामि कुवलाश्वस्य विग्रहम् ।।
तेजसा स मदीयेन धुंधुमाजौ हनिष्यति ।। ११ ।।
न ह्यल्पतेजसा हन्तुं धुंधुः शक्यो भृगूत्तम ।।
मार्कण्डेय उवाच ।।
एतावदुक्त्वा भगवान् गतोऽन्तर्धानमीश्वरः ।। १२ ।।
जगाम च तथायोध्यामुत्तंकोऽपि महातपाः ।।
पूजितो बृहदश्वेन बृहदश्वमभाषत ।। १३ ।।
उतङ्क उवाच ।।
कथं निद्रासि राजेन्द्र सुखं पर्यङ्कमास्थितः ।।
धुन्धोश्चरितमालोक्य बद्धकक्षो भवाधुना ।। १४ ।।
वचनान्मम राजेन्द्र धुंधुं हन्तुं तवास्ति भोः ।।
शक्तिः किमुद्यमाद्राज्ञां दुष्करं ते पुनः कथम् ।। १५ ।।
जहि धुंधुं महाकायं नृपते द्विजबाधकम् ।।
श्रुत्वा मुनिवचो राजा कुवलाश्वमभाषत ।। १६ ।।
अहं वनप्रवृत्तस्तु त्यक्तदण्डस्तथैव च ।।
जहि तं दानवश्रेष्ठं त्वमुत्तङ्केन पालितः ।। १७ ।।
एवमुक्तः परिष्वक्तः पित्रा प्रकृतिवत्सलः ।।
उत्तङ्कसहितो गत्वा युद्धायोदकराक्षसम् ।। १८ ।।
युयुधे तं च धर्मात्मा धुंधुं तेनैव केशवः ।।
उतङ्कानुमते पश्चाद्ब्रह्मास्त्रेण जघान तम् ।। १९ ।।
हत्वा तं राक्षसं लेभे त्रिदशेभ्यस्तदा वरान् ।।
कृष्णे भक्तिं स्थितिं धर्मे वासं स्वर्गे तथाक्षयम् ।। 1.16.२० ।।
मधुकैटभयोः पुत्रं घातयित्वा नराधिप ।।
धुन्धुमारत्वमगमदशोभत तथा पुरीम् ।। २१ ।।
तस्मिन्हते दैत्यवरे प्रसन्ना दिशो बभूवुर्मुदिताश्च देवाः ।।
विनष्टविघ्नं च जगत्तदास राजा च कीर्तिं परमामवाप ।। २२ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे धुंधुमारोपाख्यानं नाम षोडशोऽध्यायः ।। १६ ।।