विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः ०६६-०७०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः ६१-६५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः ६६-७०
वेदव्यासः
अध्यायाः ७१-७५ →

3.66
मार्कंडेय उवाच ।।
कर्तव्यस्तुम्बुरुर्देवो मातृमध्यगतः प्रभुः ।।
उपविष्टो वृषे कार्यः शर्ववत्स चतुर्मुखः ।। १ ।।
उपविष्टस्तु कर्तव्यः स तु पार्थिवसत्तम ।।
महादेवेन तस्योक्तं रूपं ते सकलं मया ।। २ ।।
कपालं तस्य कर्तव्यं मातुलुङ्गधरे करे ।।
मातुलुङ्गं च कर्तव्यं त्र्यम्बकेण तदीरितम् ।। ३ ।।
तस्य दक्षिणतः कार्यं तथा मातृद्वयं भवेत् ।।
वामतस्तस्य कर्तव्यं मातृद्वितयमेव च ।। ४ ।।
जया च विजया चैव कर्तव्या दक्षिणेन तु ।।
जयन्ती वामतः कार्या तथा चैवापराजिता ।। ५ ।।
सर्वाश्च द्विभुजाः कार्याश्चतुर्वक्त्रास्तथैव च ।।
सर्वासां वामहस्तेषु कपालानि तु कारयेत् ।। ६ ।।
दण्डः कार्यो महाराज दक्षिणे तु जया करे ।।
विजयायाः करे खड्गः कार्यो भिन्नाञ्जनप्रभः ।। ७ ।।
अक्षमालाधरकरां जयन्तीं नृप कारयेत ।।
भिन्दिपालकरा कार्या तथा देव्यपराजिता ।। ८ ।।
पादपीठगतं पादं सर्वासामेव कारयेत् ।।
दक्षिणं यानगं वामं कर्तव्यं नृप कुञ्चितम् ।। ९ ।।
जया पुरुषगा कार्या विजया कौशिकोपमा ।।
जयन्ती तुरगारूढा मेघगा चापराजिता ।। ।। 3.66.१० ।।
चन्द्रांशुगौरः कर्तव्यो महादेवस्तु तुम्बुरुः ।। ११ ।।
देवीप्रियार्थं भुवनस्य गोप्ता तासां स मध्ये भगवानथेशः ।।
भक्तेषु कामान्विभधन्नथास्ते स पूजनीयस्त्रिदशारिहन्ता ।। १२ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे देवीचतुष्टयसहि ततुंबुरूपनिर्माणन्नाम षट्षष्टितमोऽध्यायः ।। ६६ ।।

3.67
वज्र उवाच ।।
प्रागुक्तं रूपनिर्माणं त्वया चन्द्राम्बुनाथयोः ।।
तयोरेवापरं ब्रूहि रूपमकेन्दुरूपयोः ।। १ ।।
मार्कण्डेय उवाच ।।
रविः कार्यः शुभश्मश्रुः सिन्दूराभरणप्रभः ।।
सुदीप्तवेशः स्वाकारः सर्वाभरणसंयुतः ।। २ ।।
चतुर्बाहुर्महातेजाः कवचेनाभिसंवृतः ।।
कर्तव्या रशना चास्य यावियाङ्गेति संज्ञिता ।। ३ ।।
रश्मयस्तस्य कर्तव्या वामदक्षिणहस्तयोः ।।
ऊर्ध्वस्रग्दामसंस्थानाः सर्वपुष्पाञ्चिताः शुभाः।।४।।
सुरूपरूपः स्वाकारो दण्डी कार्योस्य वामतः।।
दक्षिणे पिङ्गलो भागे कर्तव्यश्चातिपिङ्गलः ।।५।।
उद्दीप्तवेशौ कर्तव्यौ तावुभावपि यादव ।।
तयोर्मूर्धनि विन्यस्तौ करौ कार्यौ विभावसोः ।। ६ ।।
लेखनीपत्रककरः कार्यो भवति पिङ्गलः ।।
चर्मशूलधरोदेवस्तथा यत्नाद्विधीयते ।। ७ ।।
सिंहो ध्वजश्च कर्तव्यस्तथा सूर्यस्य वामतः ।।
चत्वारश्चास्य कर्तव्यास्तनयास्तस्य पाश्वर्योः ।।८।।
रेवन्तश्च यमश्चैव मनुद्वितयमेव च ।।
ग्रहराजो रविः कार्यो ग्रहैर्वा परिवारितः ।। ९ ।।
राज्ञी च रिक्षुभा च्छाया तथा देवी सुवर्चसा ।।
चतस्रश्चास्य कर्तव्या पत्न्यश्च परिपार्श्वयोः ।। 3.67.१० ।।
एकचक्रेऽथ सप्ताश्वे षड्रेखाङ्के रथोत्तमे ।।
उपविष्टस्तु कर्तव्यो देवो वारुणसारथिः।।११।।
गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च ।।
त्रिष्टुप् च जगती सप्त छन्दांस्यर्करथे हयाः ।। १२ ।।
रश्मिभिः करसंस्थैस्तु धारयत्यखिलं जगत् ।।
सिंहो ध्वजगतश्चास्य साक्षाद्धर्मः प्रकीर्तितः ।। १३ ।।
रशनास्थं जगत्सर्वं देवो धारयते तथा ।।
राज्ञी भूरिक्षुभा द्यौश्च च्छाया छाया प्रकीर्तिता ।।१४।।
प्रभा सुवर्चसा प्रोक्तास्तस्य देवस्य पत्नयः ।।
रक्तवर्णः स भगवांस्तेजसा धाम कारणात्।।१५।।
असह्यतेजोधारित्वाद् गूढगात्रस्तथैव च ।।
एवं सर्वमयं धाम सूर्य एव प्रकीर्तितः ।। १६ ।।
रूपं तथैतद्दिवसस्य भर्तुर्मयेरितं सर्वजगन्मयस्य ।।
तेजोनिधानस्य परोज्ज्वलस्य सर्वाधिनाथस्य सनातनस्य ।। १७ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० आदित्यरूपवर्णनं नाम सप्तषष्टितमोऽध्यायः ।।६७ ।।
3.68
मार्कंडेय उवाच।।
चन्द्रः श्वेतवपुः कार्यस्तथा श्वेताम्बरः प्रभुः ।।
चतुर्बाहुर्महातेजाः सर्वाभरणवांस्तथा ।। १ ।।
कुमुदौ च सितौ कार्यौ तस्य देवस्य हस्तयोः ।।
कान्तिर्मूर्तिमती कार्या तस्य पार्श्वे तु दक्षिणे ।। २ ।।
वामे शोभा तथा कार्या रूपेणाप्रतिमा भुवि ।।
चिह्नं तथास्य सिंहांकं वामपार्श्वैकवद्भवेत् ।। ३ ।।
दशाश्वो वा रथः कार्यो द्विचक्रोम्बरसारथी ।।
स्रजश्च त्रिमनाश्चैव वृषो वादी नरो हयः ।। ४ ।।
अथो वाक्सप्तधातुश्च हंसो व्योमो मृग स्तथा ।।
एते ते वामतः सर्वे दश चन्द्रमसो हयाः ।।५।।
अथ वैवास्य कर्तव्या अष्टविंशतिसङ्ख्यकाः।
अत्यर्थं रूपसंयुक्ताः पत्न्यो नक्षत्रसंज्ञिताः ।। ६ ।।
अशीतिद्व्यधिकाः कार्या भावा वा देहभेदयोः ।।
पुरा देवासुरे युद्धे प्राकाम्येन नृपोडुभिः ।। ७ ।।
कृतानि स्वशरीराणि बहूनि यदुन न्दन ।।
स्वनाथदेवरूपाणि ततस्ते दानवा हताः ।। ८ ।।
नक्षत्रेण कृतं रूपं यस्य यस्य सुरस्य तु ।।
सा चैव देवता तस्य नक्षत्रस्य प्रकीर्तिता ।। ९ ।।
देवासुरे ततो वृत्ते प्राकाम्येनैव यादव ।।
स्त्रीरूपधारिणो देवास्तावन्तस्तु ततः कृताः ।। 3.68.१० ।।
सर्वलोकस्य धर्मज्ञ चन्द्रमा वै पिता स्मृतः ।।
तन्मिन्सृष्टे जगत्सर्वं परं हर्षमुपैति च ।। ११।।
सौम्यमूर्तिः परा ज्ञेया सा च विष्णोर्महात्मनः ।।
हर्षप्रसादौ विज्ञेयौ कुमुदौ चन्द्रहस्तयोः ।। १२ ।।
शोभाकान्ती विनिर्दिष्टे स्वरूपं भृगुनन्दन ।।
अपां सारमयत्वाद्धि शुक्लवर्णस्तु चन्द्रमाः ।। १३ ।।
अपां हि धामामृतमाहुराद्या मवास्तु तच्चन्द्रसमः प्रदिष्टम् ।।
सिंहध्वजं धर्ममुशन्ति राजन्दिशस्तुरङ्गाः शशिनः प्रदिष्टाः ।। १४ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे शशिरूपनिरूपणो नामाष्टषष्टितमोऽध्यायः ।। ६८ ।।
3.69
वज्र उवाच ।।
ग्रहाणां रूपनिर्माणं समाचक्ष्व महाभुज ।।
अनेनैव प्रसङ्गेन सर्वज्ञस्त्वं मतो मम ।। १ ।।
मार्कण्डेय उवाच ।।
भौमोऽग्नितल्पः कर्तव्यश्चाष्टाश्वे काञ्चने रथे ।।
विष्णुतल्पो बुधः कार्यो भौमतल्पे तथा रथे ।। २ ।।
तप्तजाम्बूनदः कार्यो द्विभुजश्च बृहस्पतिः ।।
पुस्तकं चाक्षमालां च करयोस्तस्य कारयेत् ।। ३ ।।
सर्वाभरणयुक्तश्च तथा पीताम्बरो गुरुः ।।
अष्टाश्वे काञ्चने दिव्ये रथे दृष्टिमनोहरे ।। ४ ।।
शुक्रः श्वेतवपुः कार्यः श्वेताम्बरधरस्तथा ।।
द्वौ करौ कथितौ तस्य निधिपुस्तकसंयुतौ ।। ५ ।।
दशाश्वे च रथे कार्यो राजते भृगुनन्दन ।।
कृष्णवासास्तथा कृष्णः शनिः कार्यस्सिराततः ।।६।।
दण्डाक्षमालासंयुक्तः करद्वितयभूषितः।।
कार्ष्णायसे रथे कार्यस्तथैवाष्टभुजङ्गमे ।। ७ ।।
रौप्यै रथे तथाष्टाश्वो राहुः कार्यो विचक्षणः ।।
केवलं मस्तकं कार्यं भुजेनैकेन संयुतम् ।। ८ ।।
करमेकं तु कर्तव्यं तस्य शून्यं तु दक्षिणम् ।।
भौमस्य च तथा कार्यं केतो रूपं विजानता ।। ९ ।।
केवलं चास्य कर्तव्या दशराजंस्तुरङ्गमाः ।।3.69.१०।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे भौमादिग्रहरूपनिर्माणो नामैकोनसप्ततितमोऽध्यायः ।। ६९ ।।
3.70
वज्र उवाच ।।
मनुद्वयस्य मे रूपं कथयस्वामितद्युते ।।
देवेन्द्रस्य च धर्मज्ञ यमस्याभिहितं त्वया ।।१।।
मार्कंडेय उवाच ।।
वर्तमानो मनुः कार्यो राजलक्षणसंयुतः ।।
भविष्यन्तु तथा कार्यः सर्वाभरणवर्जितः ।। २ ।।
जटाधरोऽक्षमाली च कमण्डलुधरस्तथा ।।
कृशोऽपि तेजसा युक्तस्तपस्यभिरतस्तथा ।। ३ ।।
कार्या योगेन चान्येऽपि भविष्या मनवश्च ये ।।
सावर्णमनुतुल्येन कार्यो रूपेण यादव ।। ४ ।।
अतीता मनवः कार्या राजलक्षणलक्षिताः ।।
पृष्ठेश्वे सूर्यवत्कार्यो रेवन्तश्च तथा प्रभुः ।। ५ ।।
इति श्रीवि० तृ० ख० मा० सं० मनुरूपनिरूपणो नाम सप्ततितमोऽध्यायः ।। ७० ।।