सामग्री पर जाएँ

विश्वम्भरोपनिषद्

विकिस्रोतः तः

॥ विश्वम्भरोपनिषद् ॥

मूल - अथ हैनं शाण्डिल्यो महाशम्भु प्रपच्छ यतो वाचो निवर्तन्ते अप्राप्य मनसा सहेत्युक्तं ब्रह्म किमस्ति कोवा सर्वेश्वराधिपतिः निर्गुणसगुणाभ्यां परः कोवा मूर्त्तामूर्त्ताभ्याम्परः कर्त्ताकारयिताच कीदृश इति । अथ कैर्मन्त्रैः संसाराद्विमुच्यजीवः सद्यो मुक्तो भवति कोवा मन्त्राणामधिकारं समन्वेतीति ॥ १ ॥


मूल - सहोवाच महाशम्भुः यत्पृष्ट वांस्तस्य च नामरूपं लीलाऽथ धामानितु चिन्मयानि मनोवचो गोचराण्येवं तानि स्वयं कृपातः स्फुरणं प्रयान्ति अतो रूपमनामेति प्रोक्तोयं राघवः स्वराट् तन प्रकाश भूतञ्च यस्य ब्रह्म सनातनम् ॥ २ ॥


मूल - स ईश्वराणां परमो महेश्वरः पतिः पतीनां परमं च दैवतं । अमूर्त मूर्त्तादिशरीरकोऽसौ कर्त्ताऽप्यकर्त्ता च न संग युक्तः । प्राप्नोति सर्वं निजतेजसा यो अणोरणीयान्महतः परस्तात्। मूर्तेन सर्वं निर्माय विश्वं स्वयं तु लीलां वितनोति नित्याम्।। द्वयोः शरीरयोरैक्यमतोऽद्वैतं बुधा जगुः। निस्सामाभ्यधिकत्वाच्च तदद्वैतं वभाषिरे ।।


मूल- सर्वावतारलीलाञ्च करोति सगुणेन यः। अयोध्यायां स्वयं रामो रास एव करोति सः॥ सगुण निर्गुणाभ्यां परस्य परमपुरुषस्य दाशरथेर्मन्त्रस्य नाद बिन्दु वाम्मनसोरगोचरौ तस्यमन्त्राश्चानन्तास्तेषु षट्शतं वरीयां सस्तेषु च त्रयों मन्त्रा अतिश्रेष्ठा ॥ ४ ॥


मूल - षडक्षरो द्वयाख्यं मन्त्र रत्नं युग्म मन्त्रशचेति बिन्दु पूर्वको दीर्घाग्निस्ततः केवलं दीर्घाग्निः ततो मायेति अथ नमैति प्रथमं श्रीमदिति ततोरामचन्द्र चरणौ विति ब्रूयादनन्तरं शरणमिति पदं पश्चात्प्रपद्ये इति वदेत् पुनश्च श्रीमते इति अथ रामचन्द्रयेति तद्ग्रे नम इति यो दाशरथेर्द्वयाख्यं मन्त्राणां प्रवरं मन्त्र रत्नमधीते स सर्वान् कामानश्नुते तेन सह मोदते इति अथ प्रणवादनन्तरं न द्वितीयाक्षरमस्तृतीयाक्षरं सी चतुर्थाक्षरं ता पञ्चमाक्षरं र षष्ठातरं म सप्तमाक्षरं भ्यामष्टमाक्षरमिति इममष्टाक्षरं विद्वान् मुक्तो भवति एतन्मन्त्रत्रयं सर्व मन्त्र वरं जप्त्वा सद्यो मुच्यते कर्म बन्धनात् यः श्रीरामेऽति भक्तिमान् स एवैतन्मन्त्राधिकारीति ॥ ५ ॥


मूल - श्रीराम एव सर्व्व कारणं तस्य रूपद्वयं परिछिन्नमपरिछिन्नं परिछिन्न स्वरूपेण साकेत प्रमोदवने तिष्ठन् रासमेव करोति द्वितीयं स्वरूपं जगदुपत्यादेः कारणं तद्दक्षिणाङ्गारात्क्षीराब्धिशायी वामाङ्गाद्रमावैकुण्ठवासीति हृदयात्परनारायणो वभूव चरणाभ्यां वदरिकोवनस्थायी श‍ृङ्गारान्नन्दनन्दन इति ॥ ६ ॥


मूल - एवं सर्वेऽवताराः श्रीरामचन्द्रचरण रेखाभ्यः समुद्भवन्ति तथाऽनन्त कोटि विष्ण्वश्च चतुर्व्यूहश्च समुद्भवन्ति एवमपराजितेश्वरमपरिमिताः परनारायणादयः अष्टभुजा नारायणायश्चानन्तकोटि सङ्ख्यकाः वद्धाञ्जलि पुटाः सर्व कालं समुपासते यदाविष्ण्वादीन यदाऽज्ञापयति तदा तद् ब्रह्माण्डे सर्व कार्यं कुर्वन्ति ते सर्वे देवाद्विविधाः भिन्नांशा अभिन्नांशाश्च श्रीरघुवरमुभये सेवन्ते भिन्नांशा ब्रह्मादयः अभिन्नांशा नाराणादयः ॥ ७ ॥


मूल - सहस्रं समाः जीवात्मनः पञ्चाङ्गोपासनां कुर्वन्ति तत आनन्दरूपा भवन्ति ततः सदेव सौम्येदमग्र आसीदेकमेवाद्वितीयं स एक्षत बहुस्यां प्रजायेय पूर्वं पञ्चाङ्गोपासकाः सृष्टि समये श्रीकृष्णोपासनां समनुष्ठाय गोलोकं प्राप्नुवन्ति तत्र केचित्तत्रैव तिष्ठन्ति केचिद्रामोपासनाऽधिकारिणो भवन्तीति विष्णवाद्युत्तमदेहे प्रविष्टो देवताऽभवत् मर्त्यादधम देहेषु स्थितो भजति देवताः ॥ ८ ॥


मूल - परात्परस्य श्रीरामनाम्नः सर्वेषां नारायणादीनां नामानि भवन्ति तस्य धाम्नस्तेषां धामान्युत्पद्यन्ते तल्लीलातः सर्वेषां लीला प्रादुर्भवन्ति तत्स्वरूपात्सर्वेषां रूपाण्याविर्भवन्ति स एवायोध्याधिपतिः सर्वकारणानामादिकारणं न तस्मात्किञ्चित्परं तत्वमस्तीति ॥ ९ ॥


मूल - अथ यन्त्रं सं लिख्यते । राम प्राप्तै मुमुक्षुभिः यन्त्रं विना न संसिद्धिर्मन्त्राणां देवतात्मनाम् । काम क्रोधादि दोषाणां यन्त्रणां ये न वैभवेत् । ततो यन्त्रमिति प्रोक्तं यमनाद्यन्त्रमित्यपि । षट् कोणं प्रथमं लेख्यं वृत्तं संविलिखेत्ततः । अष्टौ दलानि लेख्यानि ततस्याच्च तुरस्रकम् । सर्वैश्च लक्षणैर्युक्तं दिव्यं सर्व सुख प्रदम् । सर्वावतार वीजैश्च वेष्टयेद्यन्त्रमुतमम् । ततश्च पूजनं कुर्याद्यन्त्रस्यैतस्य सर्वदा । तन्मध्ये व्यक्तमालेख्यं साध्य कर्म विधानतः । वीजम्पुनस्तद्विलिखेत्तत् क्रोडी कृत्यमान् मथम् ॥ १० ॥


मूल - अथ तत्पञ्च वीजानामावृत्तिं विदधीतवै । भूयो दशाक्षरेणतद्वेष्टयेच्छुद्ध बुद्धिमान् अग्निकोणादि कोणेषु षडङ्गानि क्रमाल्लिखेत् । पुनः कोणकपोलेषु ह्रीं श्रीं च विलिखेत्सुधीः । प्रतिकोणाग्रमालेख्यं हुं बीजं केशरेष्वच । वर्णमाला मनोख्याता चत्वारिंशच सप्तच । वर्णा सप्त दलेष्वेवं षट् षट् पञ्चाष्टमे दले । पूर्वस्याद्धेष्टयेत्कादि वर्णैसर्वंञ्चतत्ववित् । लिखेद्वीजद्वयं सम्यक् नरसिंह वाराहयोः । दिग्विदुक्षुचपूर्वस्यां भूगृहेचतुरस्त्रकैः । यन्त्रमेतत्समाराध्य भुक्तिं मुक्तिंलभेन्नरः ॥ ११ ॥


मूल - मध्येऽथवा लिखेत्तारं षट् कोणेद्यपि च क्रमात् । वर्णा श्रीराम मन्त्रस्य सन्धिष्वगं च मान्मथम् । गण्डेषु च तथा मायां किञ्जल्के चाविलेखनम् । पूर्ववत्तत्रपर्णेषु माला मन्त्रं क्रमाल्लिखेत् । दशाक्षरेण संवेष्द्यकादीनि विलिखेत्ततः । दिग्विदुक्षु तथा वीजे नरसिंहवाराहयोः यन्त्रान्तरमिदं साङ्गम्मावरणं विधिनार्चयेत् राजते वाथ सौवर्णे भूर्जे संलेख्य पूजयेत् ॥ १२ ॥


मूल - हुं जानकी वल्लभाय स्वाहा क्ष्रौम् । हुं पठेत्पुनः । दशाक्षरो वाराहस्य नरसिंहस्य मनुःस्मृतः ह्रीं श्रीं क्लीं तथोन्नमो वदेत्तदनन्तरं भगवतेपदं ब्रूयात्-इति रघुनन्दनायेति पदं वदेत् ततो रक्षोघ्न विशदायेतिच मधुरे न पदं पश्चात् प्रसन्नेति ततो वदेत् वदनायेति पदं ब्रूयात्पश्चादमिततेजसेइति ततोबलाय निगदेत् रामाय विष्णवे नमः ह्रीं श्रीं क्लीञ्चों नमोभगवते रघुनन्दनाय रक्षोघ्न विशदाय मधुर प्रसन्न वदनाय अमित तेजसे बलाय रामाय विष्णवे नमः । एषमाला मनुः प्रोक्तो नगणां चिन्ततार्थदः ॥ १३ ॥


मूल - ॐ सीं सीतायै वदन् नमोन्तः सीता मन्त्र उदाहृतः । मन्त्रेऽस्मिन् राममाराध्य साङ्गं सावरणं तथा । आराध्य गुटिकी कृत्य धारयेद्यन्त्रमन्वहम् । सर्व दुःख प्रशमनं पुत्र पौत्र प्रदं नृणाम् । सर्व विद्या प्रदं शश्वत् सर्व सौख्य करं सदा । अन्याभिचार कृत्येषु वज्र पञ्जरमेवहि । किं बहू क्त्या नृणाम सर्व सिद्धिदं शोकनाशकमिति ॥ यन्त्र सम्यक् विधानेन धारयेत्साधकोत्तमः । श्रीरामद्वार पीठाग्रे परिवारतयास्थितान् । गणेशादि सुरान् क्षेत्र पालान्सर्वान्समर्चयेत् । स्वां तनुं शोधयित्वातः परं पूजनमाचरेत् । उपचारैः षोडशभिस्तथैकादशभिः सुधीः । पञ्चभिर्वा यजेद्देवान स्व स्व शक्त्यनुकूलतः । सर्व शक्ति युतं रामं साङ्गं सावरणं जपेत् । स्तूयात्सर्वान् परिवारान् राम प्रीत्यर्थमादरात् । एवं यः कुरुते पूजां यन्त्र राजस्य मानवः इह काम्यं सुखं लब्ध्वा प्रेत्य साकेतमृच्छति ॥ १४ ॥


मूल - अस्य श्रीराम शरणागत मन्त्रस्य श्री रामचन्द्रो ऋषिदेवी गायत्री छन्दः परमात्मा श्रीरामचन्द्रो देवता रां बीजं नमः शक्तिः सर्वाभिष्टार्थ सिद्धये जपे विनियोगः मूले न कर शोधनं कृत्वा प्रथमं वीजं करतल करयोर्न्यसेत् । शेषाक्षराण्यङ्गुलि पर्वसु विन्यसेत् ॥ १५ ॥


मूल - श्रीमद्रामचन्द्र चरणौ अङ्गुष्ठाभ्यां नमः शरणं तर्जनीभ्यां नमः प्रपद्ये मध्यमाभ्यां नमः श्रीमते अनामिकाभ्यां नमः रामचन्द्राय कनिष्ठिकाभ्यां नमः नमः करतलकर पृष्ठाभ्यां नमः श्रीरामचन्द्र चरणौ ज्ञानायहृदयाय नमः शरणमैश्वर्य्याय शिरसे स्वाहा प्रपद्ये शक्तये शिषायै वषट् श्रीमते बलाय कवचायहुं रामचन्द्राय तेजसे नेत्राभ्यां वौषट् नमो बीजाय अस्त्राय फट् श्रीरामचन्द्रचरणौ ज्ञानाय उदराय नमः शरणमैश्वर्य्याय पृष्ठाय नमः प्रपद्ये शक्तये बाहुभ्यां नमः श्रीमते बलाय ऊरूभ्यां नमः रामचन्द्राय तेजसे जानुभ्यां नमः नमोवीर्य्याय पादाभ्यां नमः अथदेहन्यासः श्रीं नमः मन्नमः रां नमः मन्नमः चन्नमः द्रन्नमः चन्नमः रन्नमः णौं नमः शन्नमः रन्नमः णन्नमः प्रन्नमः पन्नमः द्यन्नमः श्रीनमः मन्नमः तेन्नमः रान्नमः मन्नमः चन्नमः द्रान्नमः यन्नमः नन्नमः मोन्नमः एवमुपर्य्यविन्यसेत् श्रीम्मूद्धिनमतेभालेरामनेत्रे चन्द्रनासिका यां चरश्रोत्रे णौ मुखेशरभुजयोः णंहृदिप्रपस्तनयोः द्येनाभौ श्रीपृष्ठेमतेजङ्घयोः रामकट्यां चन्द्रा ऊर्वोः य जानुनि नमः पादयेः अथध्यानम् ॥ १६ ॥


जानकी सहितं राममिन्द्रनील मणिप्रभम् । ज्ञान मुद्राधरं सर्व भूषाभिः समलङ्कृतम् ॥ १७ ॥


पार्श्वन्यस्त धनुर्वाणं सर्वावयव सुन्दरम् । राजीवलोचनं ध्यायेत्सर्वाभिष्टार्थ सिद्धये ॥ १८ ॥


मूल - ॐ अङ्गुष्ठाभ्यां नमः नमः तर्जनीभ्यां नमः सीता रामाभ्यां मध्यमाभ्यां नमः ॐ अनामिकाभ्यां नमः नमः कनिष्ठिकाभ्यां नमः सीतारामाभ्यां करतलकरपृष्ठाभ्यां नमः ॐ ज्ञानायहृदयाय नमः नमः ऐश्वर्याय शिरसे स्वाहा सीतारामाभ्यां शक्तये शिखायै वौषट् ॐ बलाय कवचाय हुं नमस्तेजसे नेत्राभ्यां सीतारामाभ्यां वीर्य्याय अस्त्राय फट् ध्यानं पूर्ववत् ॥ १९ ॥


मूल - अस्य रामषडक्षर मन्त्रराजस्य ब्रह्मा ऋषिः गायत्री छन्दः श्री रामो देवता राम्बीजं नमः शक्तिः रामायेति कीलकं श्री राम प्रीत्यर्थे जपे विनियोगः ॥ २० ॥


मूल - ॐ ब्रह्मणे ऋषयेनमः शिरशि ॐ गायत्री छन्दसे नमो मुखे ॐ रां देवतायै नमो हृदि ॐ रां बीजायनमोगुह्ये ॐ नमः शक्तये नमः पादयोः ॐ रामाय कीलकाय नमः सर्वाङ्गे ॐ रां अङ्गुष्ठाभ्यां नमः ॐ रीं तर्जनीभ्यांस्वाहा ॐ रूं मध्यमाभ्यां वषट् ॐ रैं अनामिकाभ्यां हुं ॐ रौं कनिष्ठिकाभ्यां वौषट् ॐ रः करतलकरपृष्ठाभ्यां फट् ॐ रां हृदयाय नमः ॐ रीं शिरसे स्वाहा ॐ रूं शिखायै वषट् ॐ रैं कवचाय हुं ॐ रौं नेत्राभ्यां वौषट् ॐ रः अस्त्राय फट् रां नमः ब्रह्मरन्ध्रेरां नमः भ्रुवोर्मध्ये मां नमः हृदि यं नमः नाभौ नं नमः लिङ्गे मन्नमः पादयोः रां नमः शिरसि रां नमो मुखे मां नमः हृदयेय नमः नाभौ नं नमः गुह्ये मं नमः पादयोः रां नमः नाभौ रां नमः गुह्ये मां नमः पादयोः रां नमः शिरसि नं नमः मुखे मं नमः हृदये रां नमः पादयोः रां नमः गुह्ये मां नमः । नाभौ यं नमः हृदये नं नमः मुखे मं नमः शिरसि रां नमः शिरसि रां नमः मुखे मां नमः हृदये यं नमः नाभौ नं नमः गुह्ये मं नमः पादयोः रां नमः नाभौ रां नमः गुह्ये मां नमः पादयोः यं नमः शिरसि नं नमः मुखे मं नमः हृदये रां नमः शिरसि रामाय नमः नाभौ नमो नमः पादयोः ॥ २१ ॥


मूल - देह शुद्धिं विधायादौ पूजयेद्रघुनन्दनम् । पूजा द्रव्याणि संशोध्य पूजापात्राणिशोधयेत् ॥ द्रव्यै सुप्रोक्षतैः सम्यक् पूजयेत् पुरुषोत्तमम् । विधिनाराधितो रामः सम्यगाराधितोभवेत् । मन्दिरं मार्जयित्वाथ देवमावाहयेद्विभुम् । आवाहयित्वा देवेशं मध्ये पाद्यं तथाऽर्पयेत् ॥ मधुपर्कं ततो दद्यात्ततस्त्वाचमयेद्विभुम् । सरय्वादि सलिलैर्देवं स्नापयेत्सीतयामह ॥ २२ ॥


मूल - वस्त्राणि धापयेत्सम्यक् यज्ञ सूत्रञ्चधापयेत् । अङ्ग रागं समर्प्याथ तुलसी पुष्पमालिका । समर्पयेत्ततः सर्व भूषणैर्भुषयेद्विभुम् । अङ्गाणि पूजयेत्सम्यक् ततो रामः प्रसीदति ॥ धूपं दीपञ्च नैवेद्यमारार्तिकमथार्प्ययेत् । पुष्पाञ्जलिमथो दद्यात्परिक्रमणमेवच ॥ प्रणमेत् शास्त्र विधिना स्तूयास्तोत्रै परात्परम् । एवं सम्पूजयेद्यस्तु सोऽमृतत्वञ्च गच्छति ॥ इदं तु परमं गुह्यं रहस्यं सर्व दुर्लभम् । रामभक्ताय दातव्यं न देयम्प्राकृतायेचेति ॥ २३ ॥


॥ इत्यथर्वणे विश्वम्भरोपनिषद् समाप्तः ॥

"https://sa.wikisource.org/w/index.php?title=विश्वम्भरोपनिषद्&oldid=404771" इत्यस्माद् प्रतिप्राप्तम्