विश्वगर्भस्तवः (रामभद्रदीक्षितविरचितः)

विकिस्रोतः तः
विश्वगर्भस्तवः
रामभद्रदीक्षितः
१९३८

काव्यमाला श्रीमद्रामभद्रदीक्षितविरचितो विश्वगर्भस्तवः (जानकीजानिस्तोत्रमित्यपरनामकः ।) वेधोविष्णुमहेशवासवमरुद्हन्यर्कचन्द्रादयो यस्याज्ञां परिपालयन्ति चिरसा देवा नमोवाकिनः । सत्यानन्दचिदुज्ज्वल्प्रकृतये सर्वाधिपत्यम्पृशे तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥१ यं सर्वाण्यनुभान्ति भान्तमखिलं यद्भाभिरुद्भासते जाग्रत्वप्नसुषुप्तिषु स्फुरति यः साक्षी चिदात्मा परः । यं ज्ञात्वा व्यसनं तरन्ति जगदित्यास्ते यदज्ञानत- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ २ ॥ दृष्टे यत्र परावरे च हृदयग्रन्थिः स्वयं भिद्यते छिद्यन्ते चिरवासनापरिणताः सर्वे पुनः संशयाः । क्षीयन्ते खलु तत्क्षणं तनुभृतः सर्वाणि कर्माणि बा तसै प्राञ्जलिरसि दाशरथये श्रीजानकीजानये ॥ ३ ॥ येनालम्ब्य चतुर्मुखी नवजपापुष्पारुणां राजसीं “ मूर्ति कामपि सृज्यते महदहंकारादिचित्रं जगत् । १. 'पुस्तकचतुष्काधारेण लिखितोऽयमा विश्वगर्भस्तवः, तत्र पुस्तकत्रय मसन्मातुलस्य महाराजपुराप्रहारवास्तव्यस्य श्रीमतो नागवाभ्यार्थस्य अन्य: लिप्या तालपत्रे लिखितम्. तुरीयं तु कवेर्वासभूमेः तिरुवलराम्यस्थलादल सातपादैः संपादितं प्रेषितं । तच्च तालपत्रलिखितं अन्थाक्षरः' इति श्री. कुप्पूखामी शास्त्री तौरनिवासी. विश्वगर्भस्तवः । तिर्यग्देवमनुष्यनाकनरकग्रावाब्धिमेधादिभि- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।।४।। ताक्ष्र्येण प्रणतः फणीन्द्रशयनः श्रीभूमिनीडान्वितो वैकुण्ठे निवसन्नवाम्बुदरुचिर्यः शुद्धसत्त्वात्मिकः । शङ्खं चक्रमसिं गदामपि वहन्विश्वत्रयं त्रायते तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ५ ॥ संवर्तव्यतिषङ्गभङ्गुरकृपां चण्डाट्टहासस्फुर- द्विध्यण्डां निटिलाक्षिपावकशिखानिर्दग्धविश्वत्रयाम् । शूलोद्भासिकरां पुरा बहति यः शुभ्रां तनुं तामसीं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ६ ॥ शक्राय ज्वलनाय धर्मपतये रक्षोधिपायाम्भसा- भीशाय श्वसनाय शर्वसखये रुद्राय धात्र्यै दिवे । अर्यम्णे शशिने हराय हरये स्रष्ट्रे परब्रह्मणे तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ७ ॥ सूर्याचन्द्रमसोर्महीन्दुसुतयोर्देवासुराचार्ययो- श्छायानन्दनसिंहिकातनययोर्मूर्त्या च केत्वात्मना । मेषादिष्ववतीर्य राशिषु नृणां प्राय्याणि यः प्रापये- तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ८॥ सालग्रामशिलासु चण्डकिरणे हृत्पुण्डरीके नृणा- माविर्भूय यथोचित दिशति यः स्वेष्टं फलं भावितः । सत्तामात्रतया स्थितोऽपि सकलेष्वर्थेष्वमेयाकृति- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ २॥ गाढोन्नद्धजटाय पङ्कजदृशे कालाम्बुवात्विषे सव्यासव्यकरात्तचापविशिखायांसस्फुरत्तृणये । भ्रात्रा च प्रियया च संभवदलंकाराय पार्श्वद्वये तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १० ॥ नोपासे कमलासनं न कलये नव्येन्दुवृद्धामणिं नालोके नमुचिद्विषं न गणये देवानथान्यानपि । मौलौ केवलमार्यदेशिकपदाम्भोजद्वयं भावयं- स्तस्सै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ११ ॥ नामान्यष्टशतं च यस्य भगवानाचष्ट पत्यै शिवो धाता यच्चरितं मृकण्डुतनयादद्यापि शृण्वन्स्थितः । आ बालादवकर्ण्यते भुवि कृता वाल्मीकिना यत्कथा तस्सै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १२ ॥ मन्त्रामेडनमेव न प्रथमतो यत्रार्चने का कथा शङ्कैवास्ति न दैवतैक्यमनने चर्या ममैनादृशी । किं कुर्यामलसः परंतु करुणामव्याजमातन्वते तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। १३ ।। नाधीतं विधिवन्न वा गुरुकुलावासादि चीर्णं व्रतं श्रौतस्मार्तविधिप्वनाचरणमाचारो निषिद्धेष्वपि । धर्मापेतधनेन जीवनमिति प्राप्तान्यधान्युज्झितुं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १४ ॥ संमूर्च्छत्कफरुद्धमार्गविलुठत्प्राणाभिघातत्रुट- न्नाडीविश्लथसंधिबन्धसुदृढारब्धाखिलाङ्गव्यथैः । द्रक्ष्यन्ते यमकिंकरा नृभिरिति श्रुत्वा तदप्राप्तये तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १५ ॥ शक्तः किं भिषगेष भेषजमिदं सिद्धयत्किमेषा रुजा किं वार्येत पुरेव किंन्वहमपि स्यामित्यदारस्पृहः । विश्वगर्भस्तवः । अप्राप्यैव मनोरथं निपतति प्राणीति निर्वेदत- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये॥ १६॥ सायं प्रातरहर्निशेति समये गच्छत्यनालोचिते प्रत्यासीदति जीवितावधिदिने काले कटाक्षोन्मुखे । किं धैर्यं क्व कुतूहलं तनुभृतामित्यन्तरालोचयं- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥१७॥ नेक्षन्ते गतिमायुषः स्वमुदरं पुष्णन्ति जाल्माः परं लोके पाणिपदं प्रसार्य रदनानुद्धाट्य मुञ्चन्त्यसून् । कस्तेषां पशुभिर्विशेष इति मा भूवं तथेति स्यंव तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १८ ॥ आसन्ने पतने तनोः क्व दयिता क्व भ्रातरः क्वात्मजाः क्व स्निग्धाः क्व महीपतिः क्व गुरवस्तापं तदापोहितुम् । तावद्योऽवतरन्हृदि क्षपयितुं शक्नोति सर्वां शुचं तसमै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १९ ॥ कत्यत्रामृषत क्षितौ कति मरिप्यन्ति म्रियन्ते कती- त्यालोच्यैवमिवात्मनोऽपि वपुषः पाते शुचं भाविनीम् । उद्वेगेन गरीयसा तरलितः स्वामिन्दयस्वेत्यहं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ २०॥ कत्यार्याः कति पण्डिताः कति महीपालाः कति श्रोत्रियाः कत्याचारजुषः क्षितौ कवलिताः कालेन घोरात्मना । संप्रत्येष गतः क्व विस्मरति किं भीतोऽस्मि तस्मादत- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ २१ ॥ भो गृह्णीत विनह्यत प्रहरत क्लि्श्नीत मा मुञ्चत द्वेधा दारयतेति घोरवचनैर्भ्रूभङ्गभीमाननैः । काव्यमाला। मा भूवं यमकिंकरैः कृतमयो देहान्त इत्याशया तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।॥ २२॥ पन्थाः शर्करिलः प्रतप्तसिकतस्तीक्ष्णोन्मिपत्कण्टको विद्यत्सूचिनिभास्यदंशमशकः कुप्यद्दशत्कुक्कुरः । यस्यास्तां नगरीं यमस्य मनुजैर्गभ्यां निशभ्याकुल- स्तस्सै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ २३ ॥ नान्नं नाम्बु न वाहनं न वसु न च्छाया न शीतानिलो यस्मिन्नास्ति घनातपोष्णसिकतोदन्याशनाध्याकुले । तं प्रेतेशपुरीपथं प्रविशतां बाधामलब्धुं नृणां तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ २४ ॥ याता येन जडाः प्रसन्नमतयो लुब्धा वदान्या भटा राजानः पिशुनाः परोपकृतयो मूकास्तथा वाग्मिनः । गन्तव्यं नियमेन तं यमपुरीमार्ग स्मरन्साध्वसा- तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ २५ ॥ यत्रास्ते मलमूत्रपूयरुधिरप्राया बिगाढुं नदी पर्यङ्कः शयितुं हुताशनमयस्तप्तायसस्त्रीसखः । करतामिच्छतु चेतसापि नगरीं याभ्यामतस्तद्भिया तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ २६ ॥ नीतानां नरकं नृणां यमभटैर्भीमैर्गृहीत्वा दृढं हा किं पापमकारि हा न विषहे हा घ्गन्ति हा का गतिः । इत्याक्रन्दितघोरमन्तकपुरं मे मास्तु पाहीत्यह तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। २७ ।। दृष्टेष्वन्तककिंकरेषु दलति वासेन हृन्मर्मणि प्राश्चे निष्क्रमणोन्मुखे कथयिता को मे तदानीं दशाम् । विश्वगर्भस्तवः । विज्ञाय स्वयमेव तावदभयं देहीति याचन्नहं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ २८ ॥ यावन्मे न स दुर्दशाविमनसः कर्णान्तमाक्रामति क्रूरः कालकरालकासरगलव्यालोलघण्टाध्वनिः । तावत्तूर्णमुपेत्य पाहि कृपयेत्यद्यैव विज्ञापयं- स्तस्मै प्राञ्जलिरसि दाशरथये श्रीजानकीजानये ।। २९ ।। मूर्धानं मुसलैस्तुदन्ति नयने विध्यन्ति सूचीशतैः सिञ्चन्ति द्रुतसीसकं श्रवणयोश्छिन्दन्ति खड्गैस्तनुम् । मर्त्यानां यमकिंकरा इति भियः का वा कथा मे यत- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ३० ॥ आशाधीशजिदाशरेन्द्रजयिनं रामं श्रितानां पुरो धूमोर्णारमणस्य किं भटगणो धूनोतु गुर्वीर्गदाः । तेन स्यामहमाश्रितो रघुपतिं लोकेशमिल्युल्लिखं- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ३१ ॥ कुर्वेऽहं सकृदेव च प्रपदनं याचे तवास्मीति च श्रीमानद्य घटेत दातुमभयं मे सर्वभूतादिति । पर्यालोच्य कथंचिदप्यनुगुणीकृत्यातिलोलं मन- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ३२ ॥ पर्याकृष्य परस्त्रियाः परधनादप्यन्तरङ्गं चलं पारुप्याद्विनिवृत्य वाचमनृतादन्यापवादादपि । ध्यातुं स्तोतुमलं भवन्ति कतिचिद्भूमावहं केवलं तस्मै प्राञ्जलिरस्सि दाशरथये श्रीजानकीजानये ।। ३३ ।। १. धूमोारमणस्य यमस्य. यमस्य श्री अमोणी. काव्यमाला। यावच्चित्तमघाद्विकृप्य सुकृते यत्नेन निक्षिप्यते तावत्तिष्ठदिवात्र धावति पुनस्तस्मिन्गते केवलम् । एवं दुर्वशमेव संप्रति वशीकर्तुं प्रयस्यन्निदं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकी जानये ॥ ३४ ॥ आत्मा श्रेयसि वर्तितोऽपि विषयानेवानुयाति द्रुतं यत्कीशश्चतुरन्तयाननिहितोऽप्यारोहति क्ष्मारूहान् । निग्राह्यं यदनुग्रहेण तमिमं शंसन्ति सन्तोऽधुना तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ३५ ॥ सुप्तं जागरितं स्थितं प्रचलितं भुक्तं तथोपोषित किं वक्ष्यामि यदात्मने हितमिहामुत्रापि तन्न स्मृतम् । हा हा किं करवाणि सांप्रतमिति त्यक्त्वा शुचं नन्दितुं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ३६॥ आजन्माहमिदं दिनावधि गता सा सा दशा स्वप्नव- त्पश्यामो यदि तत्र तत्र मनसा श्रेयो न किंचित्कृतम् । किं वा भावि तथाविधस्य भवतु त्रस्यन्नितो वा परं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ३७ ॥ श्रोतुं घ्रातुमवेक्षितुं रसयितुं स्प्रष्टुं च कौतूहला- दर्थेष्विन्द्रियपञ्चकं तत इतो मामेकमाकर्षति । दीनो दीनदयालवे तदधुना पाहीत्युदस्यन्भुजौ तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ३८ !! कस्मादस्तु वशे मनो यदरिभिः कामादिभिः कृप्यते जीयन्ते कथमिन्द्रियाणि विषयानन्दप्रवृत्तानि मे । प्राच्या वासनया ययैवमभवत्तामेव भङ्क्तुं बला- तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ३९॥ विश्वगर्भस्तवः। कामेन भ्रमति क्रुधा वितपते लोभेन संक्षिप्यते मोहेनान्ध्यमुपैति माद्यति मदेनेर्षत्यकाण्डे परान् । मात्सर्येण च मामकं हृदयमित्यस्यैव संशुद्धये तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ४० ॥ धम्मिल्लः शिखिबर्हभाररुचिरः पूर्णेन्दुकान्तं मुखं वृत्तोत्तुङ्गघनौ स्तनौ कृशतरो मध्यो नितम्बः पृथुः । इत्यासक्तमिदं बधूषु हृदयं मा भूदिति प्रार्थयं- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥४१॥ के भृत्याः क इवात्मजाः प्रणयिनी का नाम के भ्रातरः कौ मातापितरौ च के च गुरवः क्रुद्धस्य पुंसः पुरः । तत्क्रोधो न भवेद्यथा मम तथा कार्या दयेति ब्रुवं- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ४२ ।। अग्राह्यं वसु गृह्यते प्रभुरसंसेव्यश्च संसेव्यते प्राणाश्चेदपि यान्ति यान्त्वतिथये नान्नं पुनर्दीयते । कुक्षिः खोऽपि न पुष्यते यदुदयाल्लोभं तमेवोज्झितुं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ४३ ॥ भार्येत्यामिषभस्त्रिकां सुत इति प्राक्स्वाधमर्णागतं पिण्डं मांसमय स्पूवर्वसुकृतध्वंसं तथार्था इति । विद्याद्येन त चात्मतत्वमथ तं मोहं जिहासन्नहं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ४४ ॥ आचारे च विद्यया च विभवेश्चान्नप्रदानेन च स्फीतैबन्धुजनैश्च किंच यशसा को मेऽस्ति भूभौ समः । इत्याकस्मिकमुज्झितुं निखिलमप्युत्सेकमभ्युत्सुक- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ४५ ॥ काव्यमाला । दातारं कृपणोऽयमित्यकुटिलं जिह्मोऽयमित्युन्नतं नीचोऽसाविति सर्वशास्त्रकुशलं प्रज्ञाजडोऽसाविति । इत्थं यो मुखरीकरोति मनुजास्तं मत्सरं प्रोज्झितुं तस्सै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानय ॥ ४६॥ एतत्कृत्यमिदं त्वकृत्यमिति मे तावान्विवेकः कुतः कामक्रोधविमोहलोभमदमात्सर्योपरुद्धे हृदि । तेनाधानि समाचरन्नपि गतिं प्राप्तुं समीचीमहं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ४७ ॥ दिक्पालेषु दिवस्पतिप्रभृतिषु स्वाकारभेदेषु यो भूत्वा दण्डधरो ददाति जगतां स्वस्वानुरूपं फलम् । पापं नाशय मेऽथवा दिश दिवं पापात्मनोऽपीत्यहं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ४८ ।। उद्यानोपवनाटवीह्रदसरोवापीतडागापगा- कूपाराचलनीवृदम्बुदतडिन्नक्षत्रताराग्रहैः । आकीर्णं कृमिकीटपक्षिपशुभिः पश्यन्मृषेदं जग- चस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ४५ ॥ मातुर्गर्भजुषस्ततो निषततो जातस्य सर्वेष्वपि व्यापारेष्वपटोर्वयस्युपचिते तत्तत्प्रियाकाङ्क्षिणः । रुग्णस्यान्तगतस्य या व्यसनिता मर्त्यस्य तामुज्झितुं तस्सै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ५० ॥ विण्मूत्रामिषरक्तभाजि जठरे मातुर्यदालोचितं जातो दैवतपूजया जनिमृतिक्लेशं विजह्यामिति । ३. रणस्य.व्यथितस्येल्यर्थः विश्वगर्भस्तवः। हा तद्विस्मृतवानपि प्रहितधीः पुण्येन केनाप्यहं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजान्य ।। ५१ ।। स्थूलोऽहं प्रथमं कृशोऽहमधुनेत्येवं शरीरे भव- न्नात्मप्रत्यय एष शास्त्रविवृते भेदेऽपि देहात्मनोः । मामुन्मुञ्चति नेति संप्रति तमुन्मुञ्चेयमित्युत्सुक- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १२ ॥ न स्थूलो न कृशस्तथा न पुरुषो न स्त्री न पण्ढस्तथा नो बालो न युवा न चापि देशमीत्यात्मा यथा ज्ञाम्यते । कर्तव्या करुणा तथा रघुवरेत्यभ्यर्थनायल्पित- स्तस्मै प्राञ्जलिरसि दाशरथये श्रीजानकीजानये ॥ ५३॥ चेतः कर्म करोति गर्हितमसौ कर्तृत्वमेतद्गतं निक्षिप्यात्मनि मानवो जदृमतिर्भुङ्के कृतं तत्फलम् । भोक्तिृत्वा नाहमधुना कर्तेति बोद्धं तत-- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ५४ ।। पश्यो जाङ्गलिकस्य वानर इव स्वात्मापि यस्य स्थितः कस्तं शास्ति स तिष्ठतु नजतु वा निद्रातु जागर्तु वा । मां दुर्निग्रहमानसं शुभपथेऽवस्थाप्य शाधीत्यहं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये || पूर्वे यत्र जना ययुः क्षितितले निक्षिप्य देहान्निजां- स्तद्गन्तव्यमवश्यमन्तकपुरं स्वनेति धीरस्ति चेत् । कः कर्म प्रतिपिद्धमाचरतु सा नास्तीति तल्लिप्सया तस्मै प्राञ्जलिरमि दाशरथये श्रीजानकीजानये ।। ५६ ।। १. दशमी वृद्धः २. Sालिको विषयेद्यः काव्यमाला। कार्ये कार्यमिह त्वया पितृपते साहाच्यमार्य प्रभो मा भूवन्मम शोधनाय विधिभिः क्लेशा भटानां तव । आत्मानं परिवापयेयमिति यत्सर्वेश्वरायाधुना तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ५७ ॥ सप्ताष्टैः कवलैः सुपूरमुदरं प्रादेशमात्रं, वह- न्विप्वग्भ्राम्यति विश्वगर्भ इव यो वित्तार्जनाकाङ्क्षया । सोऽहं संप्रति देशिकस्य कृपया मोहं त्यजन्मुक्तये तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ५८ ॥ नद्यामस्ति विशुद्धमम्बु विपिने नानादलान्यासते सन्त्यङ्घ्री च करौ च किं न सुकरो देवस्य पूजाविधिः । प्राप्या तेन भवाव्धीतीर्णिरलसस्तन्त्राप्यहं श्रेयसे तस्सै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ५९॥ एकं नालंमिदं किमुन्नतपदप्राप्त्यै मम प्रायशो यजातोऽस्मि सतां कुले रघुपतौ भक्त्या विशुद्धात्मनाम् । दुग्धस्योपरि शर्करामिव फलं प्राप्तुं ततोऽप्युत्तमं तस्मै पाञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ६०॥ देहोऽयं पतितेति बान्धवजनोऽप्याक्रन्दितेति क्रिया सा सोर्ध्वं चलितेति वर्षशतमप्यैतापरस्तादिति । नाहं वेम्नी न किं तु नित्यवदिदं जानन्निवापि स्थित- स्तस्मै प्राञ्जलिरस्सि दाशरथये श्रीजानकीजानये ।। ६१ ॥ १. इह कार्य प्रालिवकरणे साहाय्यं कार्यमित्यर्थः. २, “पतिता' इत्यादि भविष्यति खुद. ३. 'ब्याकन्दिता' इति च पाठभेदो दृश्यते. ४. 'ऐता' इति आपूर्व इणु गतौ धातुः. ५. 'नाहं वेद न' इति पुस्तकान्तरे. विश्वगर्भस्तवः । काका मेचकिता बका धवलिताः पारावता धूमिलाः कीराः श्यामलिताः पयो मधुरितं निम्बद्रबस्तिक्तितः । तिन्तिण्याः फलमम्लितं च भुवने येनाखिलेशात्मने तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ६२ ॥ कर्णद्रोणरणमरूढयशसः पार्थस्य कृष्णे गते तन्नारीजनतस्करैः परिभवो येनाधिको लाम्भतः । कर्तोत्कर्षनिकर्षयोस्तनुभृतां कालोऽप्यसौ यन्मय- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये॥६३ ।। तत्काले निदधाति वारि मधुरं यों नालिकेरोदरे शृष्ट्वादर्दुरमश्मगर्भकुहरे वृत्तिं विधत्ते च यः । नीरक्षीरविवेचने च पटुतां हंसस्य पुष्णाति य- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ६४ ॥ बातः शोषयितुं पयः स्नपयितुं वह्निः प्रदग्धुं पयो- वाहो वर्षितुसुष्णदीधितिरभिव्यङ्क्तु पटुर्भाव्यते । शक्त्यावेशवशेन यस्य जगतामीशस्य विश्वात्मने तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ६५ ॥ तिष्ठत्यप्सु मही त्रिविष्टपमनालम्बेऽम्बरे नाम्बुधि- र्मर्यादामतिलङ्घते न सवितोदेति प्रतीचीमुखात् । स्यन्दन्ते सलिलानि धूमवपुषो मेघाच्च यस्येच्छया तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ६६ ॥ सृष्ट्वा यस्त्रिदिवं नृणां सुखमयं धर्मं च तस्याप्तये दुःखैकायतनं विधाय नरकं तस्याप्तये चाप्यघम् । यः पश्यन्द्विविधान्नरान्फलयुगं भोक्तन्परिक्रीडते तस्सै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥.६७॥ ३ चतुर्दशगु० TRA आयुष्यं तरलं हिमाम्बुकणिकां दूर्वादलाग्रच्युता- मवेत्येव तनुः पुनः कमलिनीपत्रोदबिन्दूपमा । संपत्तिश्च तडिल्लतेव चटुलेत्यालोच्य शान्तीच्छया तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ६८ शश्वत्कर्म चरन्भवन्भव भवेत्येवं म्रियस्व भ्रिय- स्येत्येवं म्रियमाण एष निरयान्हा भुङ्क्ष्व भुङ्क्ष्वेति च । भुञ्जानो व्यसनं प्रयाति विपुलं तन्मां दयखेत्यहं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ६९ ।। यमित्रावरजौ निशाचरपतेर्भ्रातुः स्वसुश्च श्रवो- नासच्छेदकृतौ दिगीशजयिनो नाथं श्रितांस्तं नरान् । नेक्षन्ते यमकिंकरा इति विदंस्तस्याश्रयाकाकाङ्क्षया तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ७० ॥ यत्पातादशुचिर्महीति जनने खात्या निधायानलं नीत्वा वत्समितः पुनन्ति मनुजा मेध्यं कथं तद्वपुः । कुर्वस्तस्य परिग्रहो मम पुनर्मा भूदिति प्रार्थनां तस्मै प्राञ्जलिरस्सि दाशरथये श्रीजानकीजानये ।। ७१ ।। यावन्तोपगतेषु जन्मसु पुरा देहाश्च्युतास्तावतां बुद्ध्या संकलने तु वेम्नि कुणपच्छन्नां समस्तां महीम् । एवं भावितनूगणग्रहणजं क्लेशं जिहासन्नहं तस्मै प्राञ्जलिरसि दाशरथये श्रीजानकीजानये ।। ७२ ॥ १. 'आयुष्य तरला इत्येकस्मिन्पुस्तके, विश्वगर्भस्तवः । संयोज्यास्थिचयं जुगुप्सितमिमं बद्ध्वा सिराभिर्मियो लिप्तवासृक्पिशितैस्त्वचा पिदधता धात्रा शरीरं कृतम् । एतस्मिन्नतिकुत्सिते चिरमहंकारं स्थितं प्रोज्झितुं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ७३ ॥ अन्तःस्थं वपुषो यदस्ति पिहितं तन्न त्वचा चेन्मुहु- र्दण्डेन श्वशृगालकङ्कबलिभुक्सङ्घं नरो वारयेत् । इत्याधाय मतिं वपुप्यहमिति ज्ञानं लुनीहीत्यहं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानवे ॥ ७४ ॥ बाल्यं तद्गतमेव यत्र मनसो मौग्ध्यं तथा यापितं तारुण्यं च वृथा न यत्र विषया भुक्ता न चीर्ण तपः । प्राप्तं वार्धकमक्रियाहमधुना कुर्यां किमन्यत्पुन- स्तमै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ७५ ॥ मौलिस्त्वत्प्रणतिं करोतु शृणुतां कर्णो त्वदीयां कथां वाणी स्तोतु भवद्गुणान्करयुगं स्वामर्चतु प्रत्यहम् । पादौ स्तां च भवत्प्रदक्षिणगती कुर्वन्निति प्रार्थनां तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ६ ।। पापान्निन्द्यधनप्रतिग्रहकृतादन्यस्वचौर्योत्थिता- द्विप्राद्याहतिसंभवात्परवधूगात्राभिमर्शोद्गतात् । १. "लिप्सामुक्पिमितेः' इति पुस्तकान्लरे. “लिप्या होत्यर्थः' चित्र पुस्तके लिखितम्. पुस्तकरये लिप्सास' इति वर्तते, अर्थश्र पूर्ववत, वृताने तु "लिवामुक्पिशितैः' इति. २. तथा च भागवते वाणी गुलानुरूपने अवणं कथायां हस्तौ च कर्मसु मनस्तव पादयोनः । स्मृत्यो शिरस- गत्प्रणामे दृष्टिः सदा दर्शनेऽस्तु भवसनूनाम् ॥' इति. अन्यत्संभवि यत्ततश्च करयोर्मोक्षाभिलाषादत-- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ७७ ।। केशाः काशनिमाः सिराविषमितं गात्रं गतिर्विकल्वा चक्षुःश्रोत्रमपाटवं युक्तयो नेच्छन्ति पश्चामिव । अस्त्वेवं विषयस्पृहा तु न गलत्यद्धेति तद्धानयै तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ७८ ।। बाधिर्येऽपि यथा नरः पटुनटीगानानि शुश्रूपते सत्यान्थ्येऽपि दिदृक्षते मृगदृशां तारुण्यलक्ष्मीमपि । शान्तावर्पितधीरहं क्षपयितुं तां तामसीं वासनां तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ७९ ।। दारापत्यसनाभिगोधनगृहग्रामोपवन्यापगा- कूपाराचलमेषचन्द्रदिनकृत्तारादि दृश्यं जगत् । न द्रष्टुं क्षणमुज्झितां तनुमिति ज्ञात्वा भयान्मृत्युत- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ८० | आरुढं चतुरन्तयानमवनीपालार्पितं किं ततो भृत्याः सन्ति च किं ततो बहु तथा लब्धं धनं किं ततः मर्तव्ये सति मानवस्य तदहं मृत्योर्भयान्निभरा- त्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ८१ ।। अस्त्यन्नं शुभमस्ति शीतजलमप्यस्ति प्रदाता जनः शक्या च क्षुदुदन्यया सह निराकर्तु शरीरे स्थिते । त्यक्तेऽप्यत्र तयोः शमाय सुकृते घीः स्यान्ममेतीच्छया तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ८२ ॥ तैलाभ्यङ्गशुभान्नभोजनदुकूलाच्छादनामोदव- द्गन्धालेपनपुष्पधारणतरुण्यालिङ्गनाद्यैः सुखैः । एतेनापि यदस्ति पातकमिदं दूरीचिकीर्षन्नहं तमै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ८९ ॥ इष्टं वार्य वितीर्य धासकवलानिष्टानदत्वा दृढं रज्ज्वाबद्ध्य शिरोधरां च निखिलं दुग्ध्वा पयश्चूषताम् । यो दोषोऽस्ति गवां नृणां स न भवेदस्माकमित्युत्सुक- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये !! ९०॥ यान्सर्वा अपि देवता इति जगत्याह श्रुतिः सूरयो येषामङ्घ्रिरजोभिरङ्घ्रिसलिलान्याहुः पवित्राणि च । भक्तिस्तेषु मम द्विजेषु भवता1दित्याशिषा प्रेषित- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ९१ ॥ यस्याचार्यकमस्ति यस्य गरिमा विद्याविशेषग्रहे साक्षादीश्वर एष 2इत्यविशयान्नोपासितव्यः स किम् । प्राप्तव्योऽयमुपासितव्य इति च 3प्रत्युद्भवं काझ्क्षया तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ९२ ॥ प्रत्युत्थानमथाभिवादनमुमे यत्रागते निर्यतां प्राणानां पुनरागमाय विदितं यूनां न यत्कोटिभिः । एको यस्तदवैति वृद्धमनिशं तं विश्वसानीत्यहं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ९३ ॥ वेश्यावर्तिनि च स्वभर्तरि शुभाचाराहमस्मिति त- द्धार्या वेत्ति यथा तथेन्द्रियगणेऽप्यर्थान्निषिद्धान्गते । १. आशिषा इच्छयेत्यर्थः, अङ्घ्रिरजोभिः सहेत्यर्थः. २. 'इत्यविशया' इत्येव पुस्तकत्रयेऽपि इत्यविशधा' इत्येकपुस्तके. ३. प्रत्युद्भवं प्रतिजननम्. विधगर्भस्तवः । 3.ke राजाप्युज्झति पोषितं वपुरिति ज्ञात्वा तनूमस्थिरां तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ८३ ॥ धर्मेणोद्भटमारुतेन पयसो वृष्ट्या हिमेनर्तुषु क्लिश्यन्तेऽह्नि बुभुक्षया निशि तथा स्वायेन कामेन च । मर्त्याः खल्विति मर्त्यता मम पुनर्मा भूदितीच्छन्नहं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ८४ ॥ कोऽहं प्राग्जननात्तनूपतनतः पश्चाद्भवेयं कथं कः प्राप्नोतु दिवं च्यवेत नरके को वेति चिन्तां बिना । आयुक्तः सततं निजोदरभृतावप्यात्मनः श्रेयसे तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ८५ ।। शास्त्राण्यप्यधिगत्य मत्सरभृतः कुत्सां मिथः कुर्वते वाञ्छन्तोऽन्यवधूर्वसन्ति विषयव्यावृत्तचित्ता इव । इत्थं चेत्सुधियोऽपि का मम कथा तदुर्गुणग्लानये तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ८६ ।। शुश्रूषा न पितुर्न मातुरपि नो गोब्राह्मणेष्वादरो नाचार्य न गुरौ न च स्थविरके विस्रम्भलेशोऽपि वा। येषां तेऽपि नरास्तरन्ति निरयं यत्र प्रपत्तिं गता- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ८७ ॥ स्वं गर्भे दधती न या सुखमगान्मासान्दशापि प्रसू- र्या स्तन्यार्पणदुग्धपायनमुखैर्यत्नैरपासीच्चिरम् । यत्तस्यै हितमेतदप्यकृतमित्यस्य क्षयायांहस- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ८८ ॥ सस्नेहं सदयं समस्कुरुत मां यो जातकर्मादिभि- र्व्यापारैः पितुरस्स किं कृतमभूत्पथ्यं परन्नोचितम् । विधगमलवः। बुद्धिः स्वं विमलं न वेत्तु मम किं त्वेनां पुनीहीत्यहं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ९४ ॥ मत्वा साधुरसाविति स्त्रियमपि ज्ञात्वा तदीयां सतीं स्त्रीपुंसानपि तद्गृहे सुचरितानिश्चित्य धूर्तानपि । भुक्त्वान्नान्यपि दाम्भिकस्य भवने प्राप्तान्यधान्युज्झितुं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ९५ ॥ वापीकूपतडागकर्मणि तथैवारोपणे भूरुहा- 1मन्धो-गो-वसु-वाससां वितरणे यज्ञक्रतूनां विधौ । मर्त्यानां हृदयं प्रवर्तयति यत्पादाजसंसेवनं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ९६ ॥ प्राज्ञादप्यधिको जडः सुकृतिनोऽप्युत्कर्षवान्यातकी पुत्रोऽर्हञ्जनकादपि स्तुतिपदं बालश्च वृद्धादपि । येनार्थेन स यत्पदाम्बुजसकृद्ध्यानेन लभ्या नृणां तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १७ ॥ मल्लीदामसुगन्धिचारुचिकुरा भाद्यञ्चकोरीदृशः पीनोत्तुङ्गपयोधराः पिकवधूसुस्निग्धकर्णस्वराः । हेमाङ्गयः स्मरगर्विता युवतयो लभ्या यमभ्यर्चतां तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ९८ ॥ यत्रानन्दमयं यदाप्य न पुनर्मर्त्यः समावर्तते यत्र ब्रह्मामहेन्द्रचन्द्रशकलोत्तंसा निनंसाभृतः । तद्विष्णोः परमं पदं नियतया लम्येत यस्यार्चया तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ९९ ॥ १. अन्धः शब्दः सकारान्तोऽन्नवाची. काव्यमाला। अप्राज्ञेष्वपि पण्डिता इति पुरो यः श्लाघया भ्राभ्यतो यस्मिन्त्रिद्वदविद्वदन्तरमतिर्नास्त्येव दातुः प्रभोः । प्रज्ञानामतिदुःसहं कलिमहं तं जेतुमेवाञ्जसा तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १० ॥ आपद्मासनमास्वमध्वरविधेरैषामनर्ह कुलं येषामर्हमभूच्च तुल्यमुभये ते यद्गृहीतैर्द्विजैः । याज्यन्ते किमिमं ब्रुवे कलिमतस्तस्य प्रहारेच्छया तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १०१।। किं त्वं मे नियतां ददासि न भृतिं यः सम्यगध्याप्यसे निर्णीतां भृतिमर्पये न भवते नाध्यापयस्येव यः । इत्थं यो गुरुशिष्ययोः कलहकृज्जेतुं कटुं तं कलिं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १०२ ।। ऊढा नालमिति 1प्रजासु जनितास्वप्युद्वहन्तीतरां नालं सेति च गूढमन्यगृहिणीं गृह्णन्ति भोक्तुं नराः । इत्युद्दीपयतः कलैः स्मरमपि प्राप्तुं जुगुप्सामहं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १०३ ॥ दौष्ट्यं साधुषु साधुतामपि तथा दुष्टेषु मूढेष्वपि प्राज्ञत्वं बत मूढतामपि पुनः प्राज्ञेषु यः शंसति । राज्ञोऽग्रे पिशुनः कलौ स नरकी मा भूवमित्युत्सुक- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। १०४॥ संमुह्यन्मनसो मम प्रतिदिनं संभावितानां पुनः पापानामपनोदनाय सुवचे यस्यैव नाम्नि स्थिते । १. 'प्रजा तु जनपुत्रयोः' इति वैजयन्ती. विश्वगर्भस्तवः । भीतिः का परलोकतस्तनुभृतां पीडाकरात्यापिनां तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। १०५ ॥ रामेत्युच्चरितव्यमक्षरयुगं तच्चापि भक्त्त्या सकृ- त्प्राप्या तेन विमुक्तिरेव यदि तज्जानात्यपि ग्लायसि । कि वक्ष्ये सुखमास्व देवि रसने स्निग्धौ1 मम स्त: करौ तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥१०६॥ सन्तः पातकतूलचण्डयवनं शंसन्ति यत्कीर्तनं यत्काश्यामुपदिश्य विश्वपतिना मुक्तिर्नृणां दीयते। यञ्च श्रीशसहस्रनामसदृशं यन्नाम तन्निश्चितं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १०७ ।। सत्यानन्दचिदात्मवस्तुनि रमन्तेऽस्मिन्यतो योगिन- स्तस्माद्राम इतीदमेव हि परं ब्रह्माभिधत्ते पदम् । इत्येवं विवृणोति यौगिकतया यन्नाम विद्वज्जन- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १०८॥ अध्यारुह्य कवित्वचूतविटपं वाल्मीकिपुंस्कोकिलो जल्पन्नाम यदीयमद्भुतसुधामाधुर्यधुर्याक्षरम् । शृण्वन्तं जनमाशु संघटयति श्रेयःसमृद्धिस्त्रिया तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ! १०९॥ यस्त्रय्यन्तविचारणैकसुलभो यः सर्वलोकेश्वरो यस्मिन्नायतते स्म राक्षसपतिक्षुभ्यज्जगद्रक्षणम् । २. श्रेयः १. 'स्निग्धौ' इत्यत्र 'वश्याविति वा' इति पुस्तकत्रयेऽपि दृश्यते. समृद्धिरेव स्त्री युवतिः तया इत्यर्थः. काव्यमाला। यश्चास्मत्कुलदेवता निरुपमा यस्यैव दीने दया तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ११० कस्माञ्चित्प्रथमोपकारमुदितात्कल्याणशीलान्मुने- र्यंक्त्यासोच्चरिते निशम्य गुणयन्पुण्ये यदाख्याक्षरे । कृत्स्नेऽधेऽपि गतेऽजनि द्विजकुले कश्चिकिरातः पुरा तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। १११ नित्या न क्रतवः कृता न नितरामास्तथोपार्जिता 1भुक्ता न प्रमदा यथोचितरसं का नाम मोक्षे स्पृहा । इत्थं जन्म निरर्थक परिणमन्नेतुं कथंचित्फलं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ११२ कौमारे विहृतं वृथा न किमपि ज्ञातं मदाद्यौवने दौर्बल्यैकपदे किमस्ति सुकरं प्राप्त पुनर्वार्धिके । आयुश्च स्रवति क्रमादिति विदन्दैवादहं सांप्रतं तस्मै प्राञ्जलिरसि दाशरथये श्रीजानकीजानये ।। ११३ । पूर्वेधुर्यमपश्यमद्य तु न तं पश्यामि यद्भूतले कालस्यैष न किं कठोरमनसः क्रूरो विहारक्रमः । इत्थं हन्त विनश्चरेषु मनुजेष्वन्यत्करिप्यामि किं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ११४ । कायो भ्रश्यति कस्यचित्तु तमनुक्रन्दन्त्यहो बान्धवा- स्तेषामप्यहह क्षणैः कतिपयैर्भ्रश्यन्ति काया न किम् । m १. तथा च भर्तृहरि:--'नारीपीनपयोधरोरुयुगली स्वोऽपि नालिङ्गित स्वर्गद्वारकवाटपाटनपटुर्धर्मोऽपि नोपार्जितः' इति. विश्वगर्भस्तवः । काले खेलति कः स्थिरोऽस्तु भुवने दिष्ट्याहमेतद्विदं- स्तस्मै प्राञ्जलिरस्मै दाशरथये श्रीजानकीजानये॥ ११५ ॥ यां पश्यन्त्यतिसुन्दरीमनशने तामेव शोच्याकृतिं भूतेन असने दुरीक्षवपुषं रोगे जुगुप्साकृतिम् । भीमाङ्गीं मरणे नरा इति विदन्दारैषणां निन्दित्तां तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ११६ ॥ कस्या धर्मपरा मतिर्भवतु का साध्वीं प्रसूतां प्रजां तस्या वा तनुरस्तु लक्षणवती काले कलौ दारुणे । तद्दारेषु वृथा परिग्रहरुचिर्यत्तत्फलप्राप्तये तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ११७ ॥ पुत्रश्चेजनितः स जीवति न वा जीवन्स कामो न वा कामो वंशकरो न वा स इति यन्मज्जन्ति चिन्तार्णवे। मां यत्तनयैषणा तत इयं व्यथेति मत्याप्तये तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ११८ ॥ विध्युक्तेन पथा कथापि न नृणां वित्तार्जनस्याधुना यद्विप्रा अपि धर्ममार्गविमुखा नैवाचरन्त्याश्रमान् । राजानश्च धनेप्सवोऽस्तविधयस्त्यक्तुं तदर्थेषणां तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ११९ ।। राजद्वारि निविश्य राजपुरुषानाश्रित्य रात्रिंदिवं शास्त्रेषु प्रकटय्य पाटवमपि प्राप्ते धनेऽप्यंहसः । दायादैरुपभुज्यते तदपि न त्वंहो विरक्तुं तत- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥१२०॥ काव्यमाला। कृच्छ्राच्चेद्धनमर्जितं जनयति 1ज्ञातिष्वसूयां परां दृष्टिं राजसु दण्डने वधकरं चोरेषु चौर्योधमम् । गुर्वीमार्जितवत्सु भीतिमसुखां हातु तदर्थस्पृहां तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १२१ ।। स्वामित्राम जगत्पते निरुपमत्रय्यन्तवेद्य प्रभो त्वत्प्रीतिं कुरुतामयं विरचितो मे विश्वगर्भस्तवः। एतेन स्तुवतां नृणामभिमतं देहीति याचन्नहं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १२२ ॥ तस्मै प्राञ्जलिरस्मि सर्वजगतां नाथाय पाथोनिधि- त्वङ्गतुङ्गतरङ्गभङ्गुरशरोदन्याय धन्यात्मने । पौलस्त्यश्रुतिमण्डलीलटहतालुण्टाकघण्टाकन- कोदण्डाटनये विनम्रमुनये श्रीजानकीजानये ॥ १२३ ॥ दिष्ट्या लब्ध्वापि कल्पद्रुममपचिनुते तस्य पत्राणि भोक्तुं लब्धायाः कामधेनोरपहरति सकृद्भुक्तभूमार्जनाय । सप्राप्तं हन्त चिन्तामणिमपि खनति व्रीहि विध्वंसहेतो. र्मूढोऽयं याचते यः किमपि फलमिह प्रीतमीशं रधूणाम् १२४ हुंकुर्वद्भिरुदञ्चितभृकुटिभिर्मृत्योर्भटैस्तर्जितं देवेन प्रहितस्य दाशरथिना मां त्रातुमाधावतः । आरोहेदपि किं मम श्रुतिपथं प्राणप्रयाणक्षणे दिक्कोणेषु विसृत्वरो हनुमतो लाङ्गूलघण्टारवः ॥ १२५ ॥ इति विश्वगर्भस्तवः समाप्तः । १. 'ज्ञातुं तदर्थस्पृहाम्' इति पुस्तकत्रये वर्तते; "हातुं तदर्थस्पृहाम्' इति चतुर्थे पुस्तके.