"तां विद्यामिह लभेमहि।" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
 
पङ्क्तिः २०: पङ्क्तिः २०:
वर्ग:[[स्वरूपानन्दस्वामिकृतय:]]
वर्ग:[[स्वरूपानन्दस्वामिकृतय:]]


[[वर्गः:अनिर्दिष्टानि पुटानि]]
[[वर्गः:लघुपद्यानि]]

१०:१४, २३ अक्टोबर् २०१५ समयस्य संस्करणम्

. . . तां विद्यामिह लभेमहि।

या दर्शयेद् ज्ञानसूर्यम्,अज्ञानतिमिरापहा। या दद्यात् शाश्वतं सौख्यं, तां विद्यामिह लभेमहि॥१॥

दैन्यं दु:खं लोपयेद् या, पापं तापं च वारयेत्। चित्तं शान्तं च या कुर्यात् ,तां विद्यामिह लभेमहि॥२॥

मोक्षकारणभूता या, नानात्वे चैक्यदर्शिनी। अन्त: प्रसन्नतां दद्यात्, तां विद्यामिह लभेमहि॥३॥

अहंभावं लोपयेद् या,हितं विश्वस्य साधयेत्। अनाथाय करं दद्यात्, तां विद्यामिह लभेमहि॥४॥

धर्मादिपुरुषार्थानां यत्र सार्थकता भवेत्। सार्था साक्षरता यत्र, तां विद्यामिह लभेमहि॥५॥

आनन्दजा, तथा विश्वं यानन्देन प्रपूरयेत्। आनन्दे या भवेल्लीना तां विद्यामिह लभेमहि॥६॥

वर्ग:स्वरूपानन्दस्वामिकृतय: