"ऋग्वेदः सूक्तं ९.७४" इत्यस्य संस्करणे भेदः
No edit summary |
(लघु) ७ अवतरण: rigveda and other pages |
(भेदः नास्ति)
|
०८:४४, २० मार्च् २०११ इत्यस्य संस्करणं
ऋग्वेदः सूक्तं ९.७४
शिशुर्न जातोऽव चक्रदद्वने स्वर्यद्वाज्यरुषः सिषासति । दिवो रेतसा सचते पयोवृधा तमीमहे सुमती शर्म सप्रथः ॥१॥ दिवो य स्कम्भो धरुणः स्वातत आपूर्णो अंशुः पर्येति विश्वतः । सेमे मही रोदसी यक्षदावृता समीचीने दाधार समिषः कविः ॥२॥ महि प्सरः सुकृतं सोम्यं मधूर्वी गव्यूतिरदितेरृतं यते । ईशे यो वृष्टेरित उस्रियो वृषापां नेता य इतऊतिरृग्मियः ॥३॥ आत्मन्वन्नभो दुह्यते घृतं पय ऋतस्य नाभिरमृतं वि जायते । समीचीनाः सुदानवः प्रीणन्ति तं नरो हितमव मेहन्ति पेरवः ॥४॥ अरावीदंशुः सचमान ऊर्मिणा देवाव्यं मनुषे पिन्वति त्वचम् । दधाति गर्भमदितेरुपस्थ आ येन तोकं च तनयं च धामहे ॥५॥ सहस्रधारेऽव ता असश्चतस्तृतीये सन्तु रजसि प्रजावतीः । चतस्रो नाभो निहिता अवो दिवो हविर्भरन्त्यमृतं घृतश्चुतः ॥६॥ श्वेतं रूपं कृणुते यत्सिषासति सोमो मीढ्वाँ असुरो वेद भूमनः । धिया शमी सचते सेमभि प्रवद्दिवस्कवन्धमव दर्षदुद्रिणम् ॥७॥ अध श्वेतं कलशं गोभिरक्तं कार्ष्मन्ना वाज्यक्रमीत्ससवान् । आ हिन्विरे मनसा देवयन्तः कक्षीवते शतहिमाय गोनाम् ॥८॥ अद्भिः सोम पपृचानस्य ते रसोऽव्यो वारं वि पवमान धावति । स मृज्यमानः कविभिर्मदिन्तम स्वदस्वेन्द्राय पवमान पीतये ॥९॥