विवेकचूडामणिः (समूलम्)

विकिस्रोतः तः
विवेकचूडामणिः (समूलम्)
शङ्कराचार्यः
१९१०
२१९
विवेकचूडामणिः ।

सर्ववेदातसिद्धांतगोचर तमगोचरम् ।
गोविंद परमानदं सद्गुरुं प्रणतोऽस्म्यहम् ॥. १ ।।
जतूना नरजन्म दुर्लभमतः पुस्त्व ततो विप्रता
 तस्माद्वैदिकधर्ममार्गपरता विद्वत्त्वमस्मात्परम् ।
आत्मानात्मविवेचनं स्वनुभवो ब्रह्मात्मना सस्थिति-
 मुक्तिों शतजन्मकोटिसुकृतैः पुण्यैर्विना लभ्यते ॥ २ ॥
दुर्लभ त्रयमेवैतद्देवानुग्रहहेतुकम् ।
मनुष्यत्व मुमुक्षुत्व महापुरुपसश्रयः ॥ ३॥
लब्ध्वा कथचिन्नरजन्म दुर्लभ तत्रापि पुस्त्वं श्रुतिपारदर्शनम् ।
 यस्त्वात्ममुक्तो न यतेत मूढधी
स ह्यात्महा स्त्र विनिहन्त्यसदग्रहात् ॥ ४ ॥
इत कोऽन्वरित मूढात्मा यस्तु स्वार्थे प्रमाद्यति ।
दुर्लभ मानुष देह प्राप्य तत्रापि पौरुषम् ॥ ५ ॥
वदन्तु शास्त्राणि यजन्तु देवान्कुर्वन्तु कर्माणि भजन्तु देवता'.
आत्मैक्यवोधन विनापि मुक्तिर्न सिध्यति ब्रह्मशतान्तरेऽपि ॥६॥
अमृतत्वस्य नाशास्ति वित्तेनेत्येव हि श्रुतिः ।
ब्रवीति कर्मणो मुक्तेरहेतुत्व स्कुट यत. ॥ ७ ॥
अतो विमुक्त्यै प्रयतेत विद्वान्सन्यस्तबाह्यार्थसुखस्पृह' सन् ।
सत महात समुपेत्य देशिक तेनोपदिष्टार्थसमाहितात्मा ॥ ८॥
उद्धरेदात्मनात्मान मन ससारवारिधौ ।
योगारूढत्वमासाद्य सम्यदर्शननिष्टया ॥ ९॥
सन्यस्य सर्वकर्माणि भवबंधविमुक्तये ।
यत्यता पडितधीरैरात्माभ्यास उपस्थितैः ॥ १० ॥

चित्तस्य शुद्धये कर्म न तु वस्तूपलब्धये ।
वस्तुसिद्धिर्विचारेण न किंचित्कर्मकोटिमिः ॥११॥
सम्यग्विचारतः सिद्धा रज्जुतत्त्वावधारणा ।
भ्रांतोदितमहासर्प-भयदुःखविनाशिनी ॥१२॥
अर्थस्य निश्चयो दृष्ट विचारेण हितोक्तितः ।
न लानेन न दानेन प्राणायामशतेन वा ॥१३॥
आधिकारिणमाशास्ते फलसिद्भिर्विशेषतः ।
उपाया देशकालाद्याः सत्यस्मिन्सहकारिणः ॥१४॥
अतो विचार कर्तव्यो जिज्ञासोरात्मवस्तुतः ।
समासाद्य दयासिंधु गुरु ब्रह्मविदुत्तमम् ॥१५॥
मेधावी पुरुषो विद्वानूहापोहविचक्षणः ।
आधिकार्यात्माविद्यायामुक्तलक्षणलक्षितः ॥१६॥
विवेकिनो विरक्तस्य शमादिगुणशालिनः ।
मुमुक्षोरेव हि ब्रह्मजिज्ञासायोग्यता मता ॥१७॥
साधनान्यत्र चत्वारि कथितानि मनीषिभिः ।
•येषु यत्स्वेव सन्निष्ठा यदभावे न सिध्यति ॥१८॥
आदौ नित्यानित्यवस्तुविवेकः परिगण्यते ।
इहामुत्रफलभोगविरागस्तदनंतरम् ॥१९॥
शमादिषदकसपत्तिर्मुमुक्षुत्वमिति स्फुटम् ।
ब्रह्म सत्यं जगन्मिथ्येत्येवंरूपो विनिश्चयः ॥२०॥
सोऽय नित्यानित्यवस्तुविवेकः समुदाहृतः ।
तद्वैराग्य जिहासा या दर्शनश्रवणादिभिः ॥२१॥
देहादिब्रह्मपर्यंते ह्यनित्ये भोगवस्तुनि ।
विरज्य विषयवातादोषदृष्ट्या मुहुर्मुहुः ॥२२॥
स्वलक्ष्ये नियतावस्था मनसः शम उच्यते ।

विषयेभ्यः परावर्त्य स्थापन स्वस्वगोलके ॥२३॥
उभयेषामिद्रियाणां स दम परिकीर्तितः ।
बाह्यानालवन वृत्तेरेवोपरतिरुत्तमा ॥२४||
सहन सर्वदुःखानामप्रतीकारपूर्वकम् |
चिंताविलापरहित सा तितिक्षा निगद्यते ॥२५॥
शास्त्रस्य गुरुवाक्यस्य सत्यबुद्धयवधारणम् ।
सा श्रद्धा कथिता सद्भिर्यया वस्तूपलभ्यते ॥२६॥
सर्वदा स्थापन बुद्धेः शुद्धे ब्रह्मणि सर्वदा ।
तत्समाधानमित्युक्त न तु चित्तस्य लालनम् ॥२७}
अहकारादिदेहांतान्बंधानज्ञानकल्पितान् ।
स्वस्वरूपावबोधेन मोक्तुमिच्छा मुर्मुक्षुता ॥२८॥
मढमध्यमरूपापि वैराग्येण शमादिना ।
प्रसादेन गुरो सेय प्रवृद्धा सूयते फलम् ॥२९॥
वैराग्य च मुमुक्षुत्व तीव यस्य तु विद्यते ।
तस्मिन्नेवार्थवन्तः स्युः फलवतः शमादयः ॥३०॥
एतयोमंढता यत्र विरक्तत्वमुमुक्षयोः ।
मरौ सलिलवत्तत्र शमादेर्भासमानता ||३१||
मोक्षकारणसामान्या भक्तिरेव गरीयसी ।
स्वस्वरूपानुसधान भक्तिरित्यभिधीयते ||३२||
स्वात्मतत्त्वानुसधानं भक्तिरित्यपरे जगुः ।
उक्तसाधनसपन्नस्तत्त्वजिज्ञासुरात्मनः ||३३||
उपसीदेद्गुरु प्राज्ञ यस्माद्वैधविमोक्षणम् ।
श्रोत्रियोऽवृजिनोऽकामहतो यो ब्रह्मवित्तमः ॥३४॥
ब्रह्मण्यपुरतः शांती निरिंधन इवानलः ।
अहेतुकदयासिंधुबंधुरानमता सताम् ॥३५॥

ब्रह्मात्मैकत्वबोधेन मोक्षः सिध्यति नान्यथा ॥५८||
वीणाया रूपसौदर्य तंत्रीवादनसौष्ठवम् ।
प्रजारंजनमात्र तन्न साम्राज्याय कल्पते ॥५९।।
वाग्वैखरी शब्दझरी शस्त्रव्याख्यातकौशलम् ।
वैदुध्यं विदुषां तद्भुक्तये न तु मुक्तये ॥६०||
अविज्ञाते परे तत्त्वे शास्त्राधीतिस्तु निष्फला ।
विज्ञातेऽपि परे तत्त्वे शास्त्राधीतिस्तु निष्फला ॥६॥
शब्दजालं महारण्यं चित्तभ्रमणकारणम् ।
अतः प्रयत्नाज्ञातव्यं तत्वज्ञात्तत्त्वमात्मनः ।।६२।।
अज्ञानसर्पदष्टस्य ब्रह्मज्ञानौपध विना ।
किमु वेदैश्च शास्त्रैश्च किमु मत्रैः किमौषधैः ॥६३॥
न गच्छति विना पान व्याधिरौषधशब्दतः ।
विनापरोक्षानुभवं ब्रह्मशब्दैन मुच्यते ।।६४||
अकृत्वा दृश्यचिलयमज्ञात्वा तत्त्वमात्मनः ।
बाह्यशब्दैः कुतो मुक्तिरुक्तिमात्रफलैर्नृणाम् ॥ ६५ ॥
अकृत्वा शत्रुसंहारमगत्वाखिलभूश्रियम् ।
राजाहमिति शब्दान्नो राजा भवितुमर्हति ॥६६॥
 आप्तोक्ति खननं तथोपरि शिलाद्युत्कर्षणं स्वीकृति
  निक्षेपः समपेक्षते नहि बहिः शब्दैस्तु निर्गच्छति ॥
 तद्वत् ब्रह्मविदोपदेशमननध्यानादिमिर्लभ्यते
  मायाकार्यतिरोहितं स्वममलं तत्त्व न दुर्युक्तिभिः ॥ ६७ ॥
तस्मात्सर्वप्रयत्नेन भवबंधविमुक्तये ।
स्वैरेव यत्नः कर्तव्यों रोगादाविव पंडितैः ॥ ६८॥-
यस्त्वयाद्य कृतः प्रश्नो वरीयाञ्छास्त्रविन्मतः ।
सूत्रप्रायो निगूढार्थो ज्ञातव्यश्च मुमुक्षुभिः ॥ ६९ ॥

 शृणुष्वावहितो विद्वन्यन्मया समुदीर्यते ।
 तदेतच्छ्रवणात्सत्य भवबधाद्विमोक्ष्यसे || ७०
मोक्षस्य हेतुः प्रथमो निगद्यते वैराग्यमत्यतमनित्यवस्तुषु ।
ततः शमश्चापि दमस्तितिक्षा न्यासः प्रसक्ताखिलकर्मणां भृशम् ॥७१॥
ततः श्रुतिस्तन्मनन सतत्त्वध्यानं चिर नित्यनिरतरं मुनेः ।
ततोऽविकल्प परमेत्य विद्वानिहैव निर्वाणसुख समृच्छति ॥ ७२ ॥
 यद्बोद्धव्यं तवेदानीमात्मानात्मविवेचनम् ।
 तदुन्यते मया सम्यक् श्रुत्वात्मन्यवधारय ॥ ७३ ।।
मजास्थिमेदापलरक्तचर्मत्वगाह्वयैर्धातुभिरेभिरन्वितम् ।
पादोरुवक्षोभुजपृष्ठमस्तकैरगैरुपांगैरुपयुक्तमेतत् ॥ ७४ ।।
अहममेति प्रथितं शरीर मोहास्पद स्थूलमितीर्यते बुधैः ।
नभोनभस्वदहनाबुभूमयः सूक्ष्माणि भूतानि भवति तानि ॥ ७५ ॥
परस्पराशैमिलितानि भूत्वा स्थूलानि च स्थूलशरीरहेतवः ।
मंत्रास्तदीया विषया भवन्ति शब्दादयः पच सुखाय भोक्तुः ॥७६]]
य एषु मूढा विषयेषु बद्धा रागोरुपाशेन सुदुर्दमैन ।
आयाति नियात्यध ऊर्ध्वमुचैः स्वकर्मदूतेन जवेन नीताः ॥ ७ ॥
शब्दादिभिः पंचभिरेव पच पंचत्वमापुः स्वगुणेन बद्धाः
कुरंगमातगपतगमीनभृगा नरः पंचभिरचितः किम् ॥ ७८ ॥
 दोषेण तीवो विषयः कृष्णसर्पविषादपि ।
 विष निहति भोक्तार द्रष्टारं चक्षुषाप्ययम् ॥ ७९ ॥
 विषयाशामहापाशाद्यो विमुक्तः सुदुस्त्यजात् ।
 स एव कल्पते मुक्त्यै नान्यः पदशास्त्रवेद्यपि ॥ ८० ॥
आपातवैराग्यवतो मुमुक्षून् भवान्धिपारं प्रतियातुमुद्यतान् ।
आशाग्रहो मज्जयतेऽन्तराले निगृह्य केठे विनिवर्त्य वेगात् ॥ ८१ ।।
 विषयाशाग्रहो येन सुविरक्त्यसिना हतः ।

 स गच्छति भवांभोधेः पारं प्रत्यूहवर्जितः ॥ ८२ ॥
 विषमविषयमार्गन्छतोऽनन्छबुद्धेः
  प्रतिपदमभियातो मृत्युरप्येप विद्धि ।
 हितसुजनगुरूक्त्या गच्छतः स्वस्य युक्या
  प्रभवति फलसिद्धिः सत्यमित्येव विद्धि ।। ८३ ॥
मोक्षस्य कांक्षा यदि वै तवारित त्यजातिदूराद्विषयान्विषं यथा ।
पीयूपवत्तोषदयाक्षमार्जवप्रशांतिदान्तीभेज नित्यमादरात् ।। ८४ ॥
अनुक्षण यत्परिहत्य कृत्यमनाद्यविद्याकृतबधमोक्षणम् ।
देहः परार्थोऽयममुष्य पोपणे यः सध्यते स स्वमनेन हति ॥ ८५ ॥
 शरीरपोषणार्थी सन् य आत्मान दिदृक्षति ।
 ग्राहं दारुधिया धृत्वा नदी ततुं स गच्छति ॥ ८६ ॥
 मोह एव महामृत्युर्मुमुक्षोपुरादिषु ।
 मोहो विनिर्जितो येन स मुक्तिपदमर्हति ॥ ८७ ॥
 मोह जहि महामृत्यु देहदारसुतादिषु |
 य जित्वा मुनयो यांति तद्विष्णोः परमं पदम् ॥ ८८ ॥
 त्वङ्मांसरुधिरस्नायुमेदोमजास्थिसंकुलम् ।
 पूर्ण मूत्रपुरीपाभ्या स्थूलं निंद्यमिद वपुः ॥ ८९ ॥
 पचीकृतेभ्यो भूतेभ्यः स्थूलेभ्यः पूर्वकर्मणा ।
 समुत्पन्नमिदं स्थूलं भोगायतनमात्मनः ।
 अवस्था जागरतस्य स्थूलार्थानुभवो यतः ॥ ९० ॥
बाह्येद्रियैः स्थूलपदार्थसेवा स्त्रक्वदनस्त्रयादिविचित्ररूपाम् ।
करोति जीवः स्वयमेतदात्मना तस्मात्प्रशस्तिर्वपुपोऽस्य जागरे ॥९॥
 सर्वोऽपि बाह्यर्ससारः पुरुषस्य यदाश्रयः ।
 विद्धि देहमिद स्थूल गृहबद् गृहमेधिनः ।। ९२ ।।
 स्थूलस्य सभवजरामरणानि धर्माः

  स्थौल्यादयो बहुविधाः शिशुताद्यवस्थाः।
 वर्णाश्रमादिनियमा बहुधामयाः स्युः
  पूजावमानबहुमानमुखा विशेषाः ॥ ९३ ॥
बुद्धींद्रियाणि श्रवण त्वगक्षि घ्राण च जिह्वा विपयावबोधनात् ।
वाक्पाणिपाद गुदमप्युपस्थः कर्मेंद्रियाणि प्रवणेन कर्मसु ॥ ९४ ॥
निगद्यतेऽन्तःकरण मनोधीरहकृतिश्चित्तमिति स्ववृत्तिभिः ।
अत्राभिमानादहमित्यहकति. स्वार्थानुसधानगुणेन चित्तम् ॥ १६ ॥
 प्राणापानव्यानोदानसमाना भवत्यसौ प्राणः ।
 स्वयमेव वृत्तिभेदाद्विकृतिर्भेदात्सुवर्णसलिलबत् ॥ ९७ ॥
वागादि पच श्रवणादि पच प्राणादि पचानमुखानि पच ।
बुद्धयाद्यविद्यापि च कामकर्मणी पुर्यष्टक सूक्ष्मशरीरमाहुः ॥ ९८ ॥
इट शरीर शृणु सूक्ष्मसाजत लिंग त्वपचीकृतभृतसभवम् ।
सवासन कर्मफलानुभावक स्वाज्ञानतोऽनादिरुपाधिरात्मनः ॥ ९९ ।।
स्वमो भवत्यस्य विभक्त्यवस्था स्वामानशेषण विभाति यत्र ।
स्वप्ने तु बुद्धिः स्वयमेव जाग्रत्कालीननानाविधवासनाभिः ॥ १०॥
कादिभाव प्रतिपद्य राजते यत्र स्वय भाति ह्यय परात्मा ।
धीमात्रकोपाधिरशेषसाक्षी न लिप्यते तत्कृतकर्मलेशैः ।
यस्मादसगस्तत एव कर्मभिर्न लिप्यते किंचिदुपाधिना कृतैः ॥१०१॥
 सर्वव्यापृतिकरण लिंगमिद स्यान्चिदात्मनः पुसः ।
 वास्यादिकमिव तक्ष्णरंतनैवात्मा भवत्यसगोऽयम् ॥ १०२ ॥
अधत्वमदत्वपटुत्वधर्मा. सौगुण्यवैगुण्यवशाद्धि चक्षुषः ।
वाधिर्यमूकत्वमुखास्तथैव श्रोत्रादिधर्मा न तु वेतुरात्मनः ॥ १०३ ।।
उच्छ्वासनि श्वासबिजभणात्प्रस्यन्दनायुत्क्रमणादिकाः क्रियाः ।।
प्राणादिकर्माणि वदन्ति तज्ञाः प्राणस्य धर्मावशनापिपासे || १०४||
 अतःकरपामतेषु चक्षरादिषु वमणि ।

 अहमित्यभिमानेन तिष्ठत्याभासतेजसा ॥ १०५ ॥
 अहकारः स विज्ञेयः कर्ता भोक्ताभिमान्ययम् ।
 सत्त्वादिगुणयोगेन चावस्थात्रयमश्नुते ॥ १०६ ॥
 विषयाणामानुकूल्ये सुखी दुःखी विपर्यये ।
 सुखं दुःखं च तद्धर्मः सदानदस्य नात्मनः ॥ १०७ ॥
 आत्मार्थत्वेन हि प्रेयान्विषयो न स्वतः प्रियः ।
 स्वत एव हि सर्वेपामात्मा प्रियतमो यतः ।। १०८ ।।
 तत आत्मा सदानदो नास्य दुःखं कदाचन ।
 यत्सुपुप्तौ निर्विषय आत्मानंदोऽनुभूयते ।
 श्रुतिः प्रत्यक्षमैतिह्यमनुमान च जाग्रति ।। १०९ ॥
अव्यक्तनाम्नी परमेशशक्तिरनाद्यविद्या त्रिगुणात्मका परा ।
कार्यानुमेया सुधियैव माया यया जगत्सर्वमिद प्रसूयते ॥ ११० ॥
सन्नाप्यसन्नाप्युभयात्मिका नो भिन्नाप्यभिन्नाप्युभयाल्मिका नो ।
सागाप्यनंगा [भयामिका नो महाभुताऽनिर्वचनीयरूपा ॥१११॥
शुद्धद्वयब्रह्मविवोधनाश्या सर्पभ्रमो रज्जुविवेकतो यथा ।
रजस्तमःसत्त्वमिति प्रसिद्धा गुणास्तदीयाः प्रथितैः स्वकार्यैः ||११२
विक्षेपशक्ती रजसः क्रियात्मिका यतः प्रवृत्तिः प्रसूता पुराणी ।
रागादयोऽस्याः प्रभवन्ति नित्य दुःखादयो ये मनसो विकाराः ११
कामः क्रोधो लोभदभायसूयाहंकारामत्सराद्यास्तु धोराः ।
धर्मा एते राजसाः पुंप्रवृत्तिर्यस्मादेषा तद्रजो बंधहेतुः ॥ ११४ ।।
एषावृत्तिर्नाम तमोगुणस्य शक्तिर्ययाधस्त्ववभासतेऽन्यथा |
सैषा निदानं पुरुषस्य ससृतेर्विक्षेपशक्तेः प्रणवस्य हेतुः ॥ ११५ ।।
 प्रज्ञावानपि पंडितोऽपि चतुरोऽप्यत्यंतसूक्ष्मात्महम्
  व्यालीढस्तमसा न वेत्ति बहुधा संबोधितोऽपि स्फुटम् ।
 भ्रान्त्यारोपितमेव साधु कलयत्यालबते तद्गुणान् ।

हतासौ प्रबला दुरंततमस' शक्तिर्महत्यावृतिः ॥ ११६ ॥
अभावना वा विपरीतभावना सभावना विप्रतिपत्तिरस्याः ।
संसर्गयुक्त न विमुचति ध्रुव विक्षेपशक्तिः क्षपयत्यजस्रम् ॥ ११७ ॥
अज्ञानमालस्यजडत्वनिद्राप्रमादमूढत्वमुखास्तमोगुणाः ।
एतैः प्रयुक्तो नहि वेत्ति किंचिन्निद्रालुवस्तभवदेव तिष्ठति ।। ११८॥
सत्त्व विशुद्ध जलवत्तथापि ताभ्यां मिलित्वा शरणाय कल्पते ।
यत्रात्मबिंबः प्रतिबिंबितः सन्प्रकाशयत्यर्क इवाखिलं जडम् ॥११९॥
मिश्रस्य सत्त्वस्य भवति धर्मास्वमानिताद्या नियमा यमाद्याः ।
श्रद्धा च भक्तिश्च मुमुक्षुता च दैवी च सपत्तिरसन्निवृत्तिः ॥ १२० ॥
विशुद्धसत्त्वस्य गुणाः प्रसादः स्वात्मानुभूतिः परमा प्रशातिः ।
तृप्तिः महर्पः परमात्मनिष्ठा यया सदानंदरस समृच्छति ॥ १२१ ॥
अव्यक्तमेतत्रिगुणैनियुक्त तत्कारण नाम शरीरमात्मनः ।
सुषुप्तिरेतस्य विभक्त्यवस्था प्रलीनसर्वेद्रियबुद्धिवृत्तिः ॥ १२२ ।।
सर्वप्रकारप्रमितिप्रशान्तिवीजात्मनावस्थितिरेव बुद्रेः ।
सुषुप्तिरेतस्य किल प्रतीतिः किंचिन्न वेनीति जगत्प्रसिद्धः ॥१२३॥
देहेंद्रियप्राणमनोऽहमादयः सर्वे विकारा विषयाः सुखादयः ।
व्योमादिभूतान्यखिल च विश्वमव्यक्तपर्यतमिद ह्यनाल्मा ॥ १२४ ॥
 माया मायाकार्य सर्वं महदादि देहपर्यंतम् ।
 असदिदमनात्मकं त्वं विद्धि मरुमरीचिकाकल्पम् ॥ १२५ ॥
 अथ ते संप्रवक्ष्यामि स्वरूप परमात्मनः ।
 यद्विज्ञाय नरो बधान्मुक्तः कैवल्यमश्नुते ॥ १२६ ॥
 अस्ति कश्चित्स्वय नित्यमहप्रत्ययलबनः ।
 अवस्थात्रयसाक्षी स पचकोशविलक्षणः ॥ १२७ ।।
 यो विजानाति सकल जाग्ररस्वप्नसुषुप्तिषु !
 बुद्धितवृत्तिसद्भावमभावमहामित्ययम् ॥ १२८ ॥

 यः पश्यति स्वयं सर्व य न पश्यति कश्चन ।
 यश्चेतयति बुद्धयादि न तद्य चेतयत्ययम् ॥ १२९ ॥
 येन विश्वमिदं व्याप्त यन्न व्यामोत किंचन ।
 आभारूपमिदं सर्वं यं भातमनुभात्ययम् ॥ १३० ॥
 यस्य संनिधिमात्रेण देहेद्रियमनोधियः ।
 विषयेषु स्वकीयेपु वर्तते प्रेरिता इव ॥ १३१ ॥
 अहंकारादिदेहांता विषयाश्च सुखादयः ।
 वचंते घटवद्येन नित्यबोधस्वरूपिणा ॥ १३२ ॥
एषोऽतरात्मा पुरुपः पुराणो निरंतराखंडसुखानुभूतिः ।
सदैकरूपः प्रतिबोधमात्रो येनेषिता वागसवश्चरंति ॥ १३३ ॥
अत्रैव सत्त्वात्मनि धीगुहायामव्याकृताकाश उशत्प्रकाशः ।
आकाश उच्चै रविवत्प्रकाशते स्वतेजसा विश्वमिदं प्रकाशयन् १३४
ज्ञाता मनोऽहकृतिविक्रियाणां देहेद्रियप्राणकृतक्रियाणाम् |
अयोऽग्निवत्ताननुवर्तमानो न चेष्टते नो विकरोति किंचन ॥ १३५ ॥
न जायते नो म्रियते न वर्धते न क्षीयते नो विकरोति नित्यः ।
विलीयमानेऽपि वपुष्यमुष्मिन्न लीयते कुम इवांबर स्वयम् ॥ १३६ ॥
 प्रकृतिविकृतिभिन्नः शुद्धबोधस्वभावः
  सदसदिदमशेनं भासयन्निर्विशेपः ।
 विलसति परमात्मा जाग्रदादिष्ववस्था-
  स्वहमहमिति साक्षात्साक्षिरूपेण बुद्धेः ॥ १३७ ॥
 नियमितमनसामुंत्व स्वमात्मानमात्म-
  न्ययमहमिति साक्षाद्विद्धि बुद्धिप्रसादात् ।
 जनिमरणतरगापारसंसारसिंधु
  प्रतर भव कृतार्थों ब्रह्मरूपेण संस्थः ॥ १३८ ॥
अत्रानात्मन्यहमिति मतिबंध एषोऽस्य पुंसः

 प्राप्तोऽज्ञानाञ्जननमरणक्लेशसंपातहेतुः ।
येनैवाय वपुरिदमसत्सत्यमित्यात्मबुद्धया
 पुष्यत्युक्षत्यवति विषयैस्ततुभिः कोशकृद्धत् ॥ १३९ ।।
अतस्मिंस्तबुद्धि. प्रभवति विमूढस्य तमसा
 विवेकाभावाद्वै सुरति भुजगे रजुधिषणा ।
ततोऽनर्थवातो निपतति समादातुरधिक-
 स्ततो योऽसद्ग्राह' स हि भवति बंधः शृणु सखे ॥ १४० ॥
अखडनित्याद्वयबोधशक्त्या सुरंतमात्मानमनतवैभवम् ।
समावृणोत्यावृतिशक्तिरेपा तमोमयी राहरिवार्कविंवम् ।। १४१॥
तिरोभूते स्वात्मन्यमलतरतेजोवति पुमा-
 ननात्मान मोहादहमिति शरीरं कलयति ।
ततः कामक्रोधप्रभृतिमिरमु बधनगुणैः
 पर विक्षेपाख्या रजम उरुशक्तिर्व्यथयति ॥ १४२ ॥
महामोहगाहप्रसनगलितात्मावगमनो ।
 धियो नानावस्था स्वयमभिनयस्तहणतया ॥
अपारे ससारे विषयविषपूरे जलनिधौ ।
 निमज्योन्मज्याय भ्रमति कुमतिः कुत्सितगतिः ॥ १४३ ॥
भानुप्रभासजनिताम्रपक्तिर्भानु तिरोधाय विजृभते यथा ।
आत्मोदिताहंकृतिरात्मतत्त्व तथा तिरोधाय विजुभते स्वयम् ॥१४४॥
 कवलितदिननाथे दुर्दिने सादमेधै-
  यथयति हिमझझावायुरुप्रो यथैतान् ।
 अविरततमसात्मन्यावृते मूढबुद्धि
  क्षपयति बहुदुःखैस्तीवविक्षेपशक्तिः ॥ १४५ ॥
 एताभ्यामेव शक्तिभ्या बंधः पुसः समागतः ।
  याभ्या विमोहितो देहं मत्वात्मान भवत्ययम् ॥ १४६ ॥

 बीजं संसृतिभूमिजस्य तु तमो देहात्मधीरंकुरो
  रागः पल्लवमंबु कर्म तु वपुः रकंधोऽसवः शाखिकाः ।
 अग्राणींद्रियसंहतिश्च विपयाः पुष्पाणि दुःख फल
  नानाकर्मसमुद्भव बहुविध भोक्तात्र जीवः खगः ॥ १४७ ॥
अज्ञानमूलोऽयमनात्मबंधो नैसर्गिकोऽनादिरनंत ईरितः ।
जन्माप्ययव्याधिजरादिदुःखप्रवाहपात जनयत्यमुष्य ॥ १४८ ॥
नास्त्रैर्न शस्त्रैरनिलेन वहिना छेत्तु न शक्यो न च कर्मकोटिभिः ।
विवेकविज्ञानमहासिना विना धातुः प्रसादेन सितेन मंजुना ॥ १४९}}}
श्रुतिप्रमाणैकमतेः स्वधर्मनिष्ठा तयैवात्मविशुद्धिरस्य ।
विशुद्धबुद्धेः परमात्मवेदन तेनैव संसारसमूलनाशः ॥ १५० ॥
 कोशैरन्नमयाः पचभिरात्मा न संवृतो भाति ।
 निजशक्तिसमुत्पन्नैः शैवलपटलैरिवांबु वापिरथम् || १५१ ॥
 तच्छेवालापनये सम्यक् सलिल प्रतीयते शुद्धम्
 तृष्णासतापहर सद्यः सौख्यप्रद पर पुसः ॥ १५२ ॥
 पंचानामपि कोशानामपवादे विभात्यय शुद्धः ।
 नित्यानदैकरसः प्रत्ययूपः पर स्वय ज्योतिः ।। १५३ ॥
 आत्मानात्मविवेकः कर्तव्यो बधमुक्त्ये विदुपा ।
 तेनैवानदी भवति व विज्ञाय सच्चिदानदम् ।। १५४ ॥
मुजादिषीकामिव दृझ्यवर्गात्प्रत्यंचमात्मानमसगमक्रियम् ।
विविच्य तत्र प्रविलाप्य सर्व तदात्मना तिष्ठति यः स मुक्तः||१५५//
 देहोऽयमनभवनोऽन्नमयरतु कोश-
  श्वान्नेन जीवति विनश्यति तद्विहीनः ।
 त्वचर्ममांसरुधिरास्थिपुरीषराशि-
  यं स्वयं भवितुमर्हति नित्यशुद्धः ॥ १५६ ॥
 पूर्व जनेरपि मृतेरपि नायमस्ति

  जातः क्षण क्षणगुणोऽनियतस्वभाव. ।
 नैको जडश्च घटवत्परिदृश्यमानः
  स्वात्मा कथ भवति भावविकारवेत्ता ॥ १५७ ।।
 पाणिपादादिमान्देहो नात्मा व्यगेऽपि जीवनात् ।
 तत्तन्छक्तेरनाशाच्च न नियम्यो नियामक' ।। १५८ ।।
 देहतद्धर्मतत्कर्मतदवस्थादिसाक्षिणः ।
 स्वत एव स्वतः सिद्ध तद्वैलक्षण्यमात्मनः ।। १५९ ॥
 कुल्यराशिमांसलिप्तो मलपूर्णोऽतिकश्मल' !
 कथ भवेदय वेत्ता स्वयमेतद्विलक्षणः ॥ १६० ॥
स्वङ्मासमेदोऽस्थिपुरीषराशावहमतिं मूढजनः करोति ।
विलक्षण वेत्ति विचारशीलो निजस्वरूप परमार्थभूतम् ॥१६१॥
देहोऽहमित्येव जडस्य बुद्धिर्देहे च जीवे विदुषस्त्वहधीः ।
विवेकविज्ञानवतो महात्मनो ब्रह्माहमित्येव मतिः सदात्मनि ॥ १६२ ।।
अत्रात्मबुद्धिं त्यज मूढबुद्धे त्वङ्मासमेदोऽस्थिपुरीषराशौ ।
सर्वात्मनि ब्रह्मणि निर्विकल्पे कुरुष्व शातिं परमा भजस्व ॥ १६३ ॥
देहेंद्रियादावसति भ्रमोदिता विद्वानहता न जहाति यावत् ।
तावन्न तस्यास्ति विमुक्तिवार्ताप्यरत्वेष वेदातनयातदर्शी ॥ १६४ ।।
छायाशरीरे प्रतिबिंबगाने यरवानदेहे हृदि कल्पितागे ।
यथात्मबुद्धिस्तव नास्ति काचिज्जीवच्छरीरे च तथैव मास्तु ॥ १६५ ।।
- देहात्मधीरेव नृणामसद्धिया जन्मादिदुःखप्रभवस्य बीजम् ।
यतस्ततरत्व जहि ता प्रयत्नात्त्यक्ते तु चित्ते न पुनर्भवाश ।। १६६ ।।
कर्मेंद्रियैः पंचभिरचितोऽय प्राणो भवेत्प्राणमयस्तु कोशः ।
येनात्मवानन्नमयोऽन्नपूर्णः प्रवर्ततेऽसौ सकलक्रियासु ॥ १६७ ।।
 नैवात्मापि प्राणमयो वायुविकारो
  गतागता वायुचदतर्बहिरेपः ।
 यस्माकिंचित्कापि न वेत्तीष्टमनिष्टं

  स्व वान्य वा किंचन नित्य परतत्रः ।। १६८ ॥
 ज्ञानेंद्रियाणि च मनश्च मनोमयः स्या-
  कोशो ममाहमिति वस्तुविकल्पहेतुः ।
 सज्ञादिभेदकलनाकलितो बलीयां-
  स्तत्पूर्वकोशमभिपूर्य विजभते यः ॥ १६९ ॥
पंचेद्रियैः पंचभिरेव होतृभिः प्रचीयमानो विपयाज्यवारया ।
जाज्वल्यमानो बहुवासनेधनैर्मनोमयाग्निर्वहति प्रपंचम् ॥ १७० ॥
न ह्यस्त्यविद्या मनसोऽतिरिक्ता मनो ह्यविद्या भवबंधहेतुः ।
तस्मिन्विनष्टे सकल विनष्ट विजुभितेऽस्मिन्सकलं विज़ुभते ॥ १७१ ॥
स्वप्नेऽथ शून्ये सृजति स्वशक्त्या भोक्त्रादि विश्वं मन एव सर्वम् ।
तथैव जाग्रत्यपि नो विशेषस्तत्समेतन्मनसो विजभणम् ॥ १७२ ॥
सुषुप्तिकाले मनास प्रलीने नैवास्ति किंचित्सकलप्रसिद्धः ।
अतो मनःकल्पित एव पुसः ससार एतस्य न वस्तुनोऽस्ति ॥ १७३ ॥
 वायुना नीयते मेघः पुनस्तेनैव नीयते ।
  मनसा कल्प्यते बंधो मोक्षस्तेनैव कल्प्यते ॥ १७४ ॥
 देहादिसर्वविषये परिकल्प्य राग
  बध्नाति तेन पुरुप पशुवद्गुणेन ।
 वैरस्यमत्र विषवत्सु विधाय पश्चा-
  देनं विमोचयति तन्मन एव बंधात् ॥ १७४ ॥
 तस्मान्मनः कारणमस्य जतो-
  बंधस्य मोक्षस्य च वा विधाने ।
 बधस्य हेतुर्मलिन रजोगुणै-
  मोक्षस्य शुद्ध विरजस्तमस्कम् ॥ १७६ ॥
विवेकवैराग्यगुणातिरेकान्छुद्धत्वमासाद्य मनो विमुक्त्यै ।
भवत्यतो बुद्धिमतो मुमुक्षोरताभ्यां दृढाभ्यां भवितव्यमने ॥ १७७ ॥

 मनो नाम महाव्याघ्रो विषयारण्यभूमिषु ।
 चरत्यत्र न गन्छंतु साधवो ये मुमुक्षवः ॥ १७८ ॥
मनः प्रसूते विषयान पान्थूलात्मना सूक्ष्मतया च भोक्तुः ।
शरीरवर्णाश्रमजातिभेदान्गुणक्रियाहेतुफलानि नित्यम् ॥ १७९ ॥
असगचिद्रूपममु विमोह्य देहेंद्रियप्राणगुणैविध्य !
अहममेति भ्रमयत्यजतं मनः स्वकृत्येपु फलोपभुक्तिषु ॥ १८० ॥
अध्यासदोषात्पुरुषस्य संसृतिरध्यासबधस्त्वमुनेत्र कल्पितः।
रजस्तमोदोषवतो विवेकिनो जन्मादिदुःखस्य निदानमेतत् ॥ १८१ ॥
 अतः प्राहुर्मनोऽविद्या पडितास्तत्त्वदर्शिनः ।
 येनैव भ्राम्यते विश्व वायुनेवाभ्रमडलम् ॥ १८२ ।।
 तन्मन-शोधन कार्य प्रयत्नेन मुमुक्षुणा ।
 विशुद्धे सति चैतस्मिन्मुक्तिः फरफलायते ॥ १८३ ॥
मोक्षकसक्त्या विषयेषु राग निमूल्य सन्यस्य च सर्वकर्म ।
सच्छूदया य' श्रवणादिनिष्ठो रजःस्वभाव स धुनोति बुद्धेः ॥ १८४ ॥
मनोमयो नापि भवेत्परात्मा ह्याद्यतवत्त्वात्परिणामिभावात् ।
दुःखात्मकत्वाद्विपयत्वहेतोष्टा हि दृश्यात्मतया न दृष्टः ।। १८५ ॥
 बुद्धिर्बुद्धींद्रियैः साधं सवृत्तिः कर्तृलक्षणः ।
 विज्ञानमयकोशः स्यात्पुंसः संसारकारणम् ॥ १८६ ।।
अनुवजच्चित्प्रतिविबशक्तिर्विज्ञानसज्ञः प्रकृतेर्विकारः ।
ज्ञानक्रियावानहमित्यजस्र देहद्रियादिष्वभिमन्यते भृशम् ।। १८७ ॥
अनादिकालोऽयमहरवभावो जीवः समरतव्यवहारवोढा ।
करोति कर्माण्यपि पूर्ववासनः पुण्यान्यपुण्यानि च तत्फलानि ॥ १८८ ॥
भुक्ते विचित्रास्वपि योनिषु व्रजन्नायाति निर्यात्यध ऊर्ध्वमेषः ।
अस्यैव विज्ञानमयस्य जाग्रत्वमाधवस्था सुखदुःखभोगः ॥ १८९ ॥
देहादिनिष्टाश्रमधर्मकर्मगुणाभिमानं सतत ममेति ।

विज्ञानकोशोऽयमतिप्रकाशः प्रकृष्टसांनिध्यवशात्परात्मनः ।
अतो भवत्येव उपाधिरस्य यदात्मधीः ससरति भ्रमेण ॥ १९० ॥
 योऽय विज्ञानमयः प्राणेषु हृदि स्फुरत्यय ज्योतिः ।
 कूटस्थः सन्नात्मा कर्ता भोक्ता भवत्युपाधिस्थः ॥ १९१ ॥
स्वयं परिच्छेदमुपेत्य बुद्धस्तादात्म्यदोपेण पर मृषात्मनः ।
सर्वात्मकः सन्नपि वीक्षते स्वय स्वतः पृथक्त्वेन मृदो घटानिव ॥१९२।
उपाधिसंबंधवशात्परात्मा झुपाधिधर्माननुभाति तद्गुणः ।
अयोविकारानविकारिवह्निवत्सदैकरूपोऽपि परः स्वभावात् || १९३ ॥
शिष्य उवाच-
 भ्रमेणाप्यन्यथा वास्तु जीवभावः परात्मनः ।
 तदुपाधेरनादित्वान्नानादेर्नाश इष्यते ॥ १९४ ॥
 अतोऽस्य जीवभावोऽपि नित्या भवति संसृतिः ।
 न निवर्तेत तन्माक्षः कथ मे श्रीगुरो वद ॥ १९५ ॥
श्रीगुरुरुवाच-
 सम्यक्पृष्टं त्वया विद्वन्सावधानेन तन्छृणु ।
 प्रामाणिकी न भवति भ्रात्या मोहितकल्पना ॥ १९६ ।।
 भ्रांतिं विना त्वसगस्य निष्क्रियस्य निराकृतेः ।
 न घटेतार्थसंबंधो नभसो नीलतादिवत् ॥ १९७ ॥
 स्वस्य द्रष्टुर्निगुणस्याक्रियस्य
  प्रत्यग्बोधानंदरूपस्य बुद्धेः ।
 भ्रांत्या प्राप्तो जीवभावो न सत्यो
  मोहापाये नारत्यवस्तु स्वभावात् १२८ ।
 यावद् भ्रांतिस्तावदेवास्य सत्ता
  मिथ्याज्ञानोबृंभितस्य प्रमादात् |
 रज्ज्वा सो भ्रांतिकालीन एव

  भ्राते श नैव सर्पोऽपि तद्वत् ॥ १९९ ॥
 अनादित्वमविद्यायाः कार्यस्यापि तथेष्यते ।
 उत्पन्नाया तु विद्यायामाविद्यकमनाद्यपि ॥ २० ॥
 प्रबोधे स्वमवत्सर्व सहमूल विनश्यति ।
 अनाद्यपीद नो नित्य प्रागभाव इव स्कुटम् ॥ २०१।।
 अनाटेरपि विध्वंस. प्रागभावस्य वीक्षितः |
 यद्बुद्धथुपाधिसबवात्परिकल्पितमात्मनि ॥ २०२ ॥
 जीवत्व न ततोऽन्यत्तु स्वरूपेण विलक्षणः ।
 संबंध' स्वात्मनो बुद्धया मिथ्याज्ञानपुरःसरः ॥ २०३ ।।
 विनिवृत्तिर्भवेत्तस्य सम्यग्ज्ञानेन नान्यथा ।
 ब्रात्मैकत्वविज्ञान सम्यग्ज्ञान श्रुतेर्मतम् ॥ २०४ ॥
 तदात्मानात्मनोः सम्यविवेकैनव सिध्यति ।
 ततो विवेकः कर्तव्यः प्रत्यगात्मासदात्मनोः ॥ २०५ ॥
 जल पकवदत्यत पकापाये जल स्फुटम् ।
 यथा भाति तथात्मापि दोपाभाचे स्फुटप्रभः ।। २०६ ॥
असन्निवृत्तौ तु सदात्मना स्फुट प्रतीतिरेतस्य भवेत्प्रतीचः ।
ततो निरास' करणीय एव सदात्मनः साध्वहमादिवस्तुनः ॥ २०७ ॥
 अतो नायं परात्मा स्याद्विज्ञानमयशब्दभाक् ।
 विकारित्वाज्जडत्वाच्च परिच्छिन्नत्वहेतुतः |
 दृश्यत्वाद्वयभिचारित्वान्नानित्यो नित्य इष्यते ॥ २०८ ॥
 आनंदप्रतिबिंवचुविततनुर्वृत्तिस्तमोज्जृमिता
  स्यादानदमयः प्रियादिगुणकः स्वेष्टार्थलाभोदये।
 पुण्यस्यानुभवे विभाति कृतिनामानदरूपः स्वयं
 भूत्वा नंदति यत्र साधु तनुभृन्मात्रः प्रयत्न विना ॥२०९॥
 आनंदमयकोशस्य सुषुप्तौ स्फूर्तिस्त्कटा ।

 स्वप्नजागरयोरीषदिष्टसंदर्शनादिना ॥ २१० ॥
नैवायमानंदमयः परात्मा सोपाधिकत्वात्प्रकृतेर्विकारात् ।
कार्यत्वहेतोः सुकृतक्रियाया विकारसंघातसमाहितत्वात् ॥२११॥
 पंचानामपि कोशानां निषेधे युक्तितः श्रुतेः ।
 तनिषेधावधिः साक्षी बोधलपोऽवशिष्यते ॥ २१२ ॥
 योऽयमात्मा स्वयज्योतिः पंचकोशविलक्षणः ।
 अवस्थात्रयसाक्षी सन्निर्विकारो निरजनः ।
 सदानदः स विज्ञेयः स्वात्मत्वेन विपश्चिता ॥ २१३ ।।

शिष्य उवाच--

 मिथ्यात्वेन निपिद्धेषु कोशेष्येतेषु पंचसु ।
 सर्वाभाव विना किंचिन्न पश्याम्यत्र हे गुरो ।
 विज्ञेय किमु वस्त्वस्ति स्वात्मनात्र विपश्चिता ॥ २१४ ॥

श्रीगुरुरुवाच-

 सत्यमुक्तं लया विद्वन्निमणोऽसि विचारणे ।
 अहमादिविकारास्ते तदभावोऽयमप्यनु ।। २१५ ।।
 सर्वे येनानुभूयते यः स्वय नानुभूयते ।
 तमात्मानं वेदितारं विद्धि बुद्धया सुसूक्ष्मया २१६ ॥
 तत्साक्षिक भवेत्तत्तद्याद्येनानुभूयते ।
 कस्याप्यननुभूतार्थे साक्षित्व नोपयुज्यते ॥ २१७ ।।
 असौ स्वसाक्षिगो भावो यतः स्वेनानुभूयते ।
 अतः पर स्वय साक्षात्प्रत्यगात्मा न चेतरः ।। २१८ ॥
जाग्रत्स्वप्नसुषुप्तिपु स्फुटतरं योऽसौ समुज्जृभते
 प्रत्यग्गूपतया सदाहमहमित्यतः स्फुरन्नेकधा ।
नानाकारविकारभागिन इमान्पश्यन्नहधीमुखान्
 नित्यानदचिदात्मना स्फुरति तं विद्धि रंवमेत हृदि ॥ २१९ ॥

घटोदके विवितमर्कबिवमालोक्य मूढो रविमेव मन्यते ।
तथा चिदाभासमुपाधिसस्थ भ्रात्याहमित्येव जडोऽभिमन्यते।।२२०
घट जल तद्गतमकविवं विहाय सर्व विनिरीक्ष्यतेऽर्कः ।
तटस्थ एतस्त्रितयावभासकः स्वयंप्रकाशो विदुषा यथा यथा २२१
देह धियं चित्प्रतिविवमेव विसृज्य बुद्धौ निहित गुहायाम् ।
द्रष्टारमात्मानमखंडवोध सर्वप्रकाश सदसद्विलक्षणम् ॥ २२२ ॥
नित्य विभुं सर्वगतं सुसूक्ष्ममंतर्वहिः शून्यमनन्यमात्मनः ।
विज्ञाय सम्पनिजरूपमेतत्पुमान्विपाप्मा विरजो विमृत्युः ।।२२३॥
विशोक आनंदघनो विपश्चित्स्वय कुतश्चिन्न बिभेति कश्चित् ।
नान्योऽस्ति पथा भवबंधमुक्तेविना स्वतत्त्वावगम मुमुक्षो ॥२२४||
 ब्रह्माभिन्नत्वविज्ञान भवमोक्षस्य कारणम् ।
 येनाद्वितीयमानद ब्रह्म संपद्यते बुधैः ।। २२५ ॥
 ब्रह्मभूतस्तु संसृत्यै विद्वान्नावर्तते पुनः ।
 विज्ञातव्यमत' सम्यम्ब्रह्मामिन्नत्वमात्मनः ।। २२६ ॥
 सत्य ज्ञानमनंतं ब्रह्म विशुद्ध पर स्वत. सिद्धम् ।
 नित्यानदैकरस प्रत्यगभिन्न निरतर जयति ॥ २२७ ॥
 सदिद परमाद्वैत स्वरमादन्यस्य वस्तुनोऽभावात् ।
 नधन्यदस्ति किंचित्सम्यक्परमार्थतत्त्वबोधे हि ॥ २२८ ॥
 यदिद सकल विश्वं नानारूप प्रतीतमज्ञानात् ।
 तत्सर्वं ब्रह्मैव प्रत्यस्ताशेषभावनादोषम् ॥ २२९ ॥
मृत्कार्यभूतोऽपि मृदो न भिन्नः कुभोऽस्ति सर्वत्र तु मृत्स्वरूपात् ।
न कुमरूप पृथगस्ति कुमः कुतो मृपा कल्पितनाममात्रः ।। २३०
केनापि मृद्भिन्नतया स्वरूप घटस्य सदर्शयितुं न शक्यते ।
भतो घटः कल्पित एव मोहान्मृदेव सत्य परमार्थभूतम् ॥२३१॥
सहाकार्य सकल सदैव तन्मात्रमेतन्न ततोऽन्यदस्ति ।

अस्तीति यो वक्ति न तस्य मोहो विनिर्गतो निद्रितवत्प्रजल्पः २३२
ब्रह्मैवेदं विश्वमित्येव वाणी श्रौती ब्रूतेऽथर्वनिष्टा वरिष्ठाम् ।
तस्मादेतद् ब्रह्ममात्रं हि विश्वं नाधिष्ठानाद्भिन्नतारोपितस्य।।२३३॥
सत्यं यदि स्याज्जगदेतदात्मनोऽनतत्वहानिर्निगमाप्रमाणता |
असत्यवादित्वमपीशितुः स्यान्नैतत्त्रयं साधु हितं महात्मनाम् २३४
 ईश्वरो वस्तुतत्त्वज्ञो न चाहं तेष्ववस्थितः ।
 नच मत्स्थानि भूतानीत्येवमेव व्यचिक्लपत् ॥ २३५ ॥
 यदि सत्य भवेद्विश्वं सुषुप्तावुपलभ्यताम् ।
 यन्नोपलभ्यते किंचिटतोऽसत्स्वप्नवन्मृषा ॥ २३६ ॥
अतः पृथड्नास्ति जगत्परात्मनः पृथक्प्रतीतिस्तु मृषा गुणादिवत्
आरोपितस्यास्ति किमर्थवत्ताधिष्ठानमाभाति तथा भ्रमेण ॥२३७॥
भ्रांतस्य यद्यद्रमतः प्रतीतं ब्रह्मैव तत्तद्रजतं हि शुक्तिः ।
इदंतया ब्रह्म सदैव रूप्यते त्वारोपितं ब्रह्माणि नाममात्रम् ॥२३८॥
अतः परं ब्रह्म सदद्वितीय विशुद्धविज्ञानघन निरजनम् ।
प्रशांतमातविहीनमक्रिय निरंतरानंदरसस्वरूपम् ॥ २३९ ॥
निरस्तमायाकृतसर्वभेदं नित्यं सुख निष्कलमप्रमेयम् ।
अरूपमव्यक्त्रमनाख्यमव्ययं व्योतिः स्वयं किंचिदिदं चकास्ति२४०
 ज्ञातृशेयज्ञानशून्यमनंतं निर्विकल्पकम् ।
 केवलाखंडचिन्मानं परं तत्त्व विदुर्बुधाः ॥ २४१ ॥
 अहेयमनुपादेयं मनोवाचामगोचरम् ।
 अप्रमेयमनाचंतं ब्रह्म पूर्णमहं महः ॥ २४२ ॥
तत्त्वं पदाभ्यामभिधीयमानयोर्ब्रह्मात्मयोः शोधितयोर्यदात्थम् ।
श्रुत्या तयोस्तत्त्वमसीति सम्यगेकत्वमेव प्रतिपाद्यते मुहुः ॥ २४३॥
 ऐक्यं तयोर्लक्षितयोर्न वाच्ययो-
  निगद्यतेऽन्योन्यविरुद्धधर्मिणोः ।

 खद्योतभान्वोरिव राजभृत्ययोः
 कूपाबुराश्योः परमाणुमेर्वोः ॥ २४४ ॥
तयोविरोधोऽयमुपाधिकल्पितो न वास्तवः कश्चिदुपाधिरेषः ।
शस्य मायामहदादि कारण जीवस्य कार्य शृणु पचकोशम् ॥२४५॥
तावुपाधी परजीवयोस्तयोः सम्यनिरासे न परो न जीवः |
ज्य नरेद्रस्य भटस्य खेटकस्तयोरपोहे न भटो न राजा ॥२४६॥
पथात आटेश इति श्रुतिः स्वयं निषेधति ब्रह्मणि कल्पित द्वयम् ।
तिप्रमाणानुगृहीतवोधात्तयोर्निरासः करणीय एवम् ॥ २४७ ॥
द नेद कल्पितत्वान्न सत्य रज्जौ दृष्टव्यालवत्स्वप्नवच्च ।
त्य दृश्य साधुयुक्त्या व्यपोह्य ज्ञेयः पश्चादेकमावस्तयोर्यः ॥२४८॥
तस्तु तौ लक्षणया सुलक्ष्यौ तयोरखंडैकरसत्वसिद्धये ।
ल जहत्या न तथाऽजहत्या किंतूभयात्मिकयैव भाव्यम् ॥२४९॥
देवदत्तोऽयमितीह चैकता विरुद्धधर्माशमपास्य कथ्यते ।
था तथा तत्त्वमसीति वाक्ये विरुद्धधर्मानुभयत्र हित्वा ॥२५० ॥
लक्ष्य चिन्मात्रतया सदात्मनोरखडभावः परिचीयते बुधैः ।
व महावाक्यशतेन कथ्यते ब्रह्मात्मनोरक्यमखंडभावः ॥ २५१ ॥
स्थूलमित्येतदसन्निरस्य सिद्ध स्वतो व्योमवदप्रतय॑म् ।
नतो मृषामात्रमिदं प्रतीतं जहीहि यत्त्वात्मतया गृहीतम् !,
साहमित्येव विशुद्धबुद्धया त्रिद्धि स्वमात्मानमखंडवोधम् ॥२५२॥
 मृत्कार्य सकल घटादि सततं मृन्मानमेवाभित-
  स्तद्वत्सज्जनित सदात्मकमिदं सन्मात्रमेवाखिलम् ।
 यस्मान्नास्ति सत. पर किमपि तत्सत्य स आत्मा स्वयं
  तस्मात्तत्त्वमसि प्रशातममल ब्रह्माद्वय यत्परम् ॥ २५३ ।।
 निद्राकल्पितदेशकालविषयज्ञात्रादि सर्वं यथा
  मिथ्या तद्वदिहापि जाग्रति जगस्वाजानकार्यत्वतः ।

 यस्मादेवमिदं शरीरकरणप्राणाहमाद्यप्यसत्
  तस्मात्तत्वमसि प्रशांतममलं ब्रह्माद्वयं यत्परम् ॥ २५४ ॥
जातिनीतिकुलगोत्रदूरंग नामरूपगुणदोषवर्जितम् ।
देशकालविषयातिवर्ति यब्रह्म तत्त्वमसि भावयात्मनि ।। २५५ ॥
यत्परं सकलवागगोचरं गोचर विमलबोधचक्षुपः ।
शुद्धचिद्घनमनादिवस्तु यद्ब्रह्म तत्त्वमसि भावयात्मनि ॥२५६ ॥
षभिरूमिभिरयोग योगिहद्भावित न करणैर्विभावितम् ।
बुद्धयवेद्यमनवद्यभूति यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥ २५७ ॥
भ्रांतिकल्पितजगत्कलाश्रय स्वाश्रयं च सदसद्विलक्षणम्
निष्कल निरुपमानमृद्धिमद् ब्रह्म तत्त्वमसि भावयात्मनि ॥ २५८ ॥
जन्मवृद्धिपरिणत्यपक्षयव्याधिनाशनविहीनमव्ययम् ।
'विश्वसृष्टयवनघातकारण ब्रह्म तत्त्वमसि भावयात्मनि ॥ २५९ ॥
अस्तभेदमनपास्तलक्षणं निस्तरगजलराशिनिश्चलम् ।
नित्यमुक्तमविभक्तमूर्ति यद् ब्रह्म तत्वमसि भावयात्मनि ॥ २६० ॥
एकमेव सदनेककारण कारणांतरनिरासकारणम् ।
कार्यकारणविलक्षणं स्वय ब्रह्म तत्त्वमसि भावयात्मनि ॥ २६१ ॥
निर्विकल्पकमनल्पमक्षर यत्क्षराक्षरविलक्षण परम् |
नित्यमव्ययसुख निरजन ब्रह्म तत्त्वमसि भावयात्मनि ।। २६२ ।।
यद्विभाति सदनेकधा भ्रमान्नामरूपगुणविक्रियात्मना |
हेमवत्स्वयमविक्रिय सदा ब्रह्म तत्त्वमसि भावयात्मनि ॥ २६३ ॥
यच्चकास्त्यनपर परात्पर प्रत्यगेकरसमात्मलक्षणम् ।
सत्यचित्सुखमनतमव्यय ब्रह्म तत्त्वमसि भावयात्मनि ॥ २६४ ॥
उक्तमर्थमिममात्मनि स्वय भाक्य प्रथितयुक्तिभिर्धिया।
संशयादिरहित करांबुवत्तेन तत्त्वनिगमो भविष्यति ॥ २६५॥
स्वबोधमात्र परिशुद्धतत्व, विज्ञाय सधे नृपवच्च सैन्ये |

तदात्मनैवात्मनि सर्वदा स्थितो विलापय ब्रह्माणि दृश्यजातम् ॥ २६६ ।
बुद्धौ गुहायां सदसद्विलक्षण ब्रह्मास्ति सत्य परमद्वितीयम् ।
तदात्मना योऽत्र वसेद्गृहायां पुनर्न तस्यागगुहाप्रवेशः ॥ २६७ ॥
 ज्ञाते वस्तुन्यदि बलवती वासनाऽनादिरेषा
  कर्ता भोक्ताम्यहमिति दृढा यास्य ससारहेतुः।
प्रत्यग्दृष्टयात्मनि निवसता सापनेया प्रयत्ना-
 न्मुक्तिं प्राहुस्तदिह मुनयो वासनातानव यत् ॥ २६८ ॥
 अह ममेति यो भावो देहाक्षादावनात्मनि ।
 अध्यासोऽय निरस्तव्यो विदुपा स्वात्मनिष्टया ॥ २६९ ॥
 ज्ञात्वा स्त्र प्रत्यगात्मान बुद्धितवृत्तिसाक्षिणम् ।
 सोऽहमित्येव सवृत्त्यानात्मन्यात्ममति जहि ॥ २७० ।।
 लोकानुवर्तन त्यक्त्वा त्यक्त्वा देहानुवर्लनम ।
 शास्त्रानुवर्तन त्यक्त्वा स्वाध्यासापनय कुरु ॥ २७१ ॥
 लोकवासनया जतोः शास्त्रवासनयापि च ।
 देहवासनया ज्ञान यथावनैव जायते ।। २७२ ।।
ससारकारागृहमोक्षमिन्छोरयोमय पाढनिबद्धशृंखलम् ।
वदति तज्ञाः पटुवासनात्रय योऽस्माद्विमुक्त. समुपैति-मुक्तिम् ॥ २७३ ।।
जलादिसपर्कवशात्प्रभूतदुर्गंधधूतागरुदिव्यवासना |
संघर्षणेनैव विभाति सम्यन्विव्यमाने सति बाह्यगधे ।। २७४ ॥
अताश्रितानतदुरतवासनाधूलीविलिप्ता परमात्मवासना ।
प्रज्ञातिसघर्षणतो विशुद्धा प्रतीयते चदनगधवत्स्फुटा ॥ २७५ ॥
 अनात्मवासनाजालैस्तिरोभूतात्मवासना ।
 नित्यात्मनिष्ठया तेषा नाशे भाति स्वय स्कुटा ॥ २७६ ॥
यथा यथा प्रत्यगवस्थित मनस्तथा तथा सुचति वाह्यवासनाः ।
निःशेषमोक्षे सति वासनानामात्मानुभूतिः प्रतिवधशून्या ॥ २७७ ॥

स्वात्मन्येव सदा स्थित्या मनो नश्यति योगिनः ।
वासनानां क्षयश्चातः स्वाध्यासापनय कुरु ॥ २७८ ॥
तमो द्वाभ्यां रजः सत्त्वात्सत्वं शुद्धेन नश्यति ।
तस्मात्सत्त्वमवष्टभ्य स्वाध्यासापनय कुरु ॥२७९ ।।
प्रारब्धं पुष्यति वपुरिति निश्चित्य निश्चलः ।
धैर्यमालब्य यत्नेन स्वाध्यासापनय कुरु ।। २८० ॥
नाह जीवः परं ब्रह्मेत्यतव्यावृत्तिपूर्वकम् ।
वासनावेगतः प्राप्तस्वाध्यासापनयं कुरु ॥ २८१ ॥
श्रुत्या युक्त्या स्वानुभूत्या ज्ञात्वा सार्वात्म्यमात्मनः ।
क्वचिदाभासतः प्राप्तस्वाध्यासापनय कुरु ।। २८२ ॥
अनादानविसर्गाभ्यामीपन्नास्ति क्रिया मुनेः ।
तदेकनिष्ठया नित्यं स्वाध्यासापनय कुरु ॥ २८३ ॥
तत्त्वमस्यादिवाक्योत्थब्रह्मात्मैकत्वबोधतः ।
ब्रह्मण्यात्मत्वदाढर्याय स्वाध्यासापनय कुरु ॥ २८४ ॥
अहभावस्य देहेऽस्मिन्निःशेपविलयावधि ।
सावधानेन युक्तात्मा स्वाध्यासापनय कुरु ॥ २८५ ॥
प्रतीतिर्जीवजगतोः स्वप्नवद्भाति यावती ।
तावन्निरंतर विद्वन्स्वाध्यासापनय कुरु ॥ -२८६ ॥
निद्राया लोकवार्तायाः शब्दादेरपि विस्मृतेः ।
क्वचिन्नावसर दत्वा चिंतयात्मानमात्मनि ॥ २८७ ॥
मातापित्रोमलोद्भूतं मलमासमयं वपुः ।
त्यक्त्वा चाडालवहूर ब्रझीभूय कृती भव || २८८ ॥
घटाकाश महाकाश इवारमान परात्मनि ।
विलाप्याखंडभावेन तृष्णी भव सदा मुने ॥ २८९ ॥2
स्वप्रकाशमधिष्टान स्वयभूय सदात्मना ।

 ब्रह्माडमपि पिंडांड त्यव्यता मलभाडवत् ।। २९० ।।
 चिदात्मनि सदानदे देहारूढामहधियम् ।
 निवेश्य लिंगमुत्सृत्य केवलो भव सर्वदा ॥ २९१ ॥
 यत्रैष जगदाभासो दर्पणातः पुर यथा ।
 तब्रह्माहमिति ज्ञात्वा कृतकृत्यो भविष्यसि ॥ २९२ ॥
यत्सत्यभूत निजरूपमाद्य चिढद्वयानदमरूपमक्रियम् ।
तदेत्य मिथ्यावपुरुत्सृजैतच्छैलूपवद्वेषमुपात्तमात्मनः ॥ २९३ ॥
सर्वात्मना दृश्यमिद मृपैव नैवाहमर्थः क्षणिकत्वदर्शनात् ।
जानाम्यह सर्वमिति प्रतीति' कुतोऽहमादेः क्षणिकस्य सिध्येत् ॥ २९४॥
अहपदार्थस्त्वहमादिसाक्षी नित्य सुषुप्तावपि भावदर्शनात् |
ब्रूते एजो नित्य इति श्रुतिः स्वय तत्प्रत्यगात्मा सदसद्विलक्षणः ॥२९५॥
विकारिणा सर्वविकारवेत्ता नित्योऽविकारो भवितुं समर्हति ।
मनोरथस्वमसुषुप्तिपु स्फुट पुनः पुनदृष्टमसत्त्वमेतयोः ॥ २९६ ॥
अतोऽभिमान त्यज मासपिंडे पिंडाभिमानिन्यपि बुद्धिकत्पिते ।
कालत्रयाबाध्यमखडबोध ज्ञात्वा स्वमात्मानमुपैहि शांतिम् ॥२९७॥
त्यजाभिमान कुलगोत्रनामरूपाश्रमेष्वाशवाश्रितेषु ।
लिंगस्य धर्मानपि कर्तृतादीस्त्यक्त्वा भवाखंडसुखस्वरूपः ॥ २९८ ॥
 संत्यन्ये प्रतिबधाः पुस. संसारहेतवो दृष्टाः ।
 तेषामेक मूल प्रथमविकारो भवत्यहंकार. ।। २९९ ॥
 यावत्स्यात्स्वस्य संबधोऽहंकारेण दुरात्मना ।
 तावन्न लेशमात्रापि मुक्तिवार्ता विलक्षणा || ३०० ॥
 अहंकारग्रहान्मुक्त' स्वरूपमुपपद्यते !
 चद्रवद्विमलः पूर्ण सदानंदः स्वयप्रभः ॥ ३०१ ॥
यो वा पुरे सोऽहमिति प्रतीतो बुद्ध्या विक्लप्तस्तमसातिमूढया।
तस्यैव निःशेषतया विनाशे ब्रह्मात्मभावः प्रतिबंधशून्यः || ३०२ ॥

 ब्रह्मानंदनिधिर्महाबलवताहंकारपोराहिना
  सवेष्टयात्मनि रक्ष्यते गुणमयैश्चडैस्त्रिभिर्मस्तकैः ।
 विज्ञानाख्यमहासिना द्युतिमता विन्छिद्य शीर्षत्रय
  निर्मूल्याहिमिमं निधिं सुखकर धीरोऽनुभोक्तुं क्षमः ॥ ३०.
 यावद्वा यत्किंचिद्विषदोपस्फूतिरस्ति चेद्देहे ।
 कथमाराग्याय भवेत्तद्वदहतापि योगिनो मुक्त्यै ।। ३०४ ॥
 अहमोऽत्यतनिवृत्त्या तत्कृतनानाविकल्पसंहृत्या ।
 प्रत्यक्तत्त्वविवेकादयमहमस्मीति विंदते तत्त्वम् || ३०५ ॥
 अहंकर्तर्यस्मिन्नहमिलि मति मुंच सहसा
  विकारात्मन्यात्मप्रतिफलजुषि स्वस्थितिमुषि ।
 यदध्यासात्प्राप्ता जनिमृतिजरादुःखबहुलाः
  प्रतीचश्चिन्मूर्तेस्तव सुखतनोः ससृतिरियम् ॥ ३०६ ।।
सदैकरूपस्य चिदात्मनो विभोरानदमूर्तेरनवद्यकीर्तेः ।
नैवान्यथा काप्यविकारिणस्ते विनाहमध्यासममुष्य संसृतिः ॥ ३०७ ।।
तस्मादहकारमिमं स्वशत्रु भोक्र्गले कटकवत्प्रतीतम् ।
विच्छिद्य विज्ञानमहासिना स्फुटं भुक्ष्वात्मसाम्राज्यसुखं यथेष्टम् ॥ ३०८
ततोऽहमादेविनिवर्त्य वृत्तिं सत्यक्तरागः परमार्थलाभात् ।
तूष्णी समारस्वात्मसुखानुभूत्या पूर्णात्मना ब्रह्मणि निर्विकल्पः ॥ ३०९
समूलकृत्तोऽपि महानहं पुनर्ग्युल्लेखितः स्याद्यदि चेतसा क्षणम् ।
संजीव्य विक्षेपशतं करोति नभस्वता प्रावृषि वारिदो यथा ।। ३१० ॥
निगृह्य शत्रोरहमोऽवकाशः क्वचिन्न देयो विषयानुचिंतया ।
स एव सजीवनहेतुरस्य प्रक्षीणजंबीरतरोरिवांबु ।। ३११ ।।
देहात्मना संस्थित एव कामी विलक्षणः कामयिता कथं स्यात '.
अतोऽर्थसधानपरत्वमेव भेदप्रसक्त्या भवबंधहेतुः ॥ ३१२ ।
 कार्यप्रवर्धनाबीजप्रवृद्धिः परिदृश्यते ।

 कार्यनाशाद्वीजनाशस्तस्मात्कार्य निरोधयेत् ।। ३१३ ॥
 वासनावृद्धितः कार्य कार्यवृद्धया च वासना ।
 वर्धते सर्वथा पुस. ससारो न निवर्तते ॥ ३१४ ॥
 ससारबधविच्छित्त्यै तद्वय प्रदहेद्यतिः ।
 वासनावृद्धिरेताभ्यां चिंतया लियया बहिः ।। ३१५ ॥
 ताभ्यां प्रवर्धमाना सा सूते समृतिमात्मनः ।
 त्रयाणा च क्षयोपायः सर्वावस्थासु सर्वदा ॥ ३१६ ॥
 सर्वत्र सर्वत. सर्व ब्रह्ममात्रावलोकनम् ।
 सद्भाववासनादाढर्यात्तात्रय लयमश्नुते ॥ ३१७ ।।
 क्रियानाशे भवेचितानाशोऽस्माद्वासनाक्षयः ।
 वासनाप्रक्षयो मोक्ष' सा जीवन्मुक्तिरिष्यते ॥ ३१८ ॥
द्विासनास्फूर्तिविजृभणे सति ह्यसौ विलीना वहमादिवासना ।
अतिप्रकृष्टाप्यरुणप्रभाया विलीयते साधु यथा तमिस्रा ॥ ३१९ ।।
तमस्तम.कार्यमनर्थजाल न दृश्यते सत्युदिते दिनेशे ।
तथाऽद्वयानदरसानुभूतौ नैवास्ति बधो न च दुःखगध. ।। ३२० ॥
दृश्यं प्रतीत प्रविलापयन्वय सन्मात्रमानंदधन विभावयन् ।
समाहित सन्बहिरतर वा काल नयेथाः सति कर्मबधे ॥ ३२१ ।।
प्रमादो ब्रह्मनिष्ठाया न कर्तव्य' कदाचन ।
 प्रमादो मृत्युरित्याह भगवान्ब्रह्मण. सुत' ।। ३२२ ॥
 न प्रमादादनर्थोऽन्यो ज्ञानिन· स्वस्वरूपत' |
 ततो मोहस्ततोऽहधीस्ततो बधस्ततो व्यथा ॥ ३२३ ॥
 विषयामिमुख दृष्ट्वा विद्वांसमपि विस्मृतिः ।
 विक्षेपयति धीदोषैर्योषा जारमिव प्रियम् ।। ३२४ ॥
 यथा प्रकृष्ट शैवालं क्षणमात्र न तिष्ठति ।
 आवृणोति तथा माया प्राज्ञ वापि परामुखम् ॥ ३२५ ॥

लक्ष्यच्युतं चेद्यदि चित्तमीपद्वहिर्मुख संनिपतेत्ततरततः ।
प्रमादतः प्रच्युतकेलिकदुकः सोपानपत्तौ पतितो यथा तथा ॥ ३२६ ॥
 विषयेष्वाविशचेत' सकल्पयति तद्गुणान् ।
 सम्यक्सकल्पनात्कामः कामात्पुसः प्रवर्तनम् || ३२७ ।।
 ततः वरूपविभ्रशो विभ्रष्टस्तु पतत्यधः ।
 पतितस्य विना नाश पुनर्नारोह ईक्ष्यते ।
 सकल्प वर्जयेत्तस्मात्सर्वानर्थस्य कारणम् ।। ३२८ ॥
अतः प्रमादान्न परोऽस्ति मृत्युर्विवेकिनो ब्रह्माविदः समाधौ ।
समाहितः सिद्धि सम्यक आत्मा भव सावधानः ३२९॥
 जीवतो यस्य कैवल्य विदेहे च स केवल ।
 यत्किंचित्पश्यतो भेद भयं ब्रूते यजुःश्रुतिः ।। ३३० ॥
यदा कदा वापि विपश्चिदेष ब्रह्मण्यनतेऽप्यणुमात्रभेदम् ।
पश्यत्यथामुष्य भय तदैव यद्वीक्षित भिन्नतया प्रमादात् ।। ३३१ ॥
श्रुतिस्मृतिन्यायशतैर्निषिद्धे दृश्येऽत्र यः स्वात्ममतिं करोति ।
उपैति दुःखोपरि दुःखजात निपिद्धकर्ता स मलिग्लुचो यथा ॥ ३३२ ।
सत्याभिसधानरतो विमुक्तो महत्त्वमात्मीयमुपैति नित्यम् ।
मिथ्याभिसधानरतस्तु नश्येद् दृष्ट तदेतद्यढचोरचौरयोः ॥ ३३३ ॥
 यतिरसदनुसाध बधहेतु विहाय
  स्वयमयमहमस्मीत्यात्मदृष्टयैव तिष्ठेत् ।
 सुखयति ननु निष्ठा ब्रह्मणि स्वानुभूत्या
  हरति परमविद्याकार्यदुःख प्रतीतम् ॥ ३३४ ॥
बाह्यानुसंधिः परिवर्धयेत्फल दुर्वासनामेव ततस्ततोऽधिकाम् ।
ज्ञात्वा विवेकैः परिहृत्य बाह्य स्वात्मानुसधि-विधीत नित्यम् ॥ ३३५ ॥
बाह्ये निरुद्धे मनसः प्रसन्नता मनःप्रसाद परमात्मदर्शनम् |
तस्मिन्सुदृष्टे भवबंधनाशो बहिनिरोधः पदवी विमुक्तेः ॥ ३३६ ।।

कः पडितः सन्सदसद्विवेकी श्रुतिप्रमाण' परमार्थदी ।
जानन्हि कुर्यादसतोऽवलवं स्वपातहेतोः शिशुवन्मुमुक्षुः ।। ३३७ ॥
देहादिससक्तिमतो न मुक्तिर्मुक्तस्य देहाद्यभिमत्यभाव ।
सुप्तस्य नो जागरण न जाग्रतः स्वप्नस्तयोभिन्नगुणाश्रयत्वात् ।। ३३८ ।
अतर्वहिः स्व स्थिरजगमेषु ज्ञानात्मनाधारतया विलोक्य ।
त्यक्ताखिलोपाधिरखडरूपः पूर्णात्मना या स्थित एप मुक्त' || ३३९ ॥
सर्वात्मना वधविमुक्तिहेतुः सर्वात्मभावान परोऽस्ति कश्चित् ।
दृश्याग्रहे सत्युपपद्यतेऽसौ सर्वात्मभावोऽस्य सदात्मनिष्टया ॥ ३४० ॥
 दृश्यस्याग्रहण कथ नु घटते देहात्मना तिष्टतो
  बाह्यार्थानुभवप्रसक्तमनसस्तत्तक्रिया कुर्वत ।
 सन्यस्ताखिलधर्मकर्मविषयनित्यात्मनिष्ठापरै-
  स्तत्त्वज्ञैः करणीयमात्मनि सदानटेन्छुभिर्यत्नतः ॥ ३४१ ॥
  सार्वात्म्यसिद्धये भिक्षोः कृतश्रवणकर्मणः ।
  समाधि विधात्यपा शांतो दांत इति श्रुतिः ॥ ३४२ ।।
  आरुढशक्तेरहमो विनाशः
   कर्तुं न शक्यः सहसापि पडितैः ॥
  ये निर्विकल्पाख्यसमाधिनिश्चला-
   स्तानतरानतभवा हि वासनाः || ३४३ ॥
  अहबुद्ध्यैव मोहिन्या योजयित्वावृतेर्वलात् ।
  विक्षेपशक्तिः पुरुष विक्षेपयति तद्गुणैः ।। ३४४ ॥
  विक्षेपशक्तिविजयो विषमो विधातु
   निःशेषमावरणशक्तिनिवृत्यभावे ।
  दृग्दृश्ययो' स्फुटपयोजलवद्विभागे
   नश्येत्तदावरणमात्मनि च स्वभावात् ।
  निःसशयेन भवति प्रतिबंधशून्यो

  निक्षेपण नहि तदा यदि चेन्मृपार्थे ॥ ३४५ ॥
सम्यग्विवेकः फुटबोधजन्यो विभय दृग्दृश्यपदार्थतत्त्वम् ।
छिनत्ति मायाकृतमोहबध यस्माद्विमुक्तस्य पुनर्न संसृतिः ॥ ३४६ ॥
परावरैकत्वविवेकवह्निर्दहत्यविद्यागहन हशेषम् ।
किं स्यात्पुनः ससरणस्य बीजमद्वैतभाव समपेयुषोऽस्य ।। ३४७ ॥
 आवरणस्य निवृत्तिर्भवति च सम्यक्पदार्थदर्शनतः ।
 मिथ्याज्ञानविनाशस्तद्वद्विक्षेपजनितदुखनिवृत्तिः ॥ ३४८ ॥
 एतत्रितय दृष्ट सम्यग्रस्जुस्वरूपविज्ञानात् ।
 तस्माद्वस्तुसतत्त्वं ज्ञातव्य बधमुक्तये विदुषा ॥ ३४९ ।।
अयोऽग्नियोगादिव सत्समन्वयान्मात्रादिरूपेण विजभते धीः ।
तत्कार्यमेतत्रितय यतो मृषा दृष्टं भ्रमस्वप्नमनोरथेषु ।। ३५० ॥
ततो विकाराः प्रकृतेरहमुखा देहावसाना विषयाश्च सर्वे ।
क्षणेऽन्यथाभावितया ह्यमीषामसत्त्वमात्मा तु कदापि नान्यथा || ३५१ ।।
नित्याहयाखडचिदेकरूपो बुद्धयादिसाक्षी सदसद्विलक्षणः ।
अहंपदप्रत्ययलक्षितार्थः प्रत्यक्सदानदधनः परात्मा ॥ ३५२ ॥
इत्थ विपश्चित्सदसद्विभज्य निश्चित्य तत्त्व निजबोधदृष्टया ।
ज्ञात्वा स्वमात्मानमखडबोधं तेभ्यो विमुक्तः स्वयमेव शाम्यति ॥ ३५३ ।
 अज्ञानहृदयग्रथनिःशेषविलयस्तदा ।
 समाधिनाऽविकल्पेन यदाद्वैतात्मदर्शनम् ॥ ३५४ ॥
 त्वमहमिदमितीयं कल्पना बुद्धिदोपात्
  प्रभवति परमात्मन्यद्वये निर्विशेषे ।।
 प्रविलसति समाधावस्य सर्वो विकल्पो
  विलयनमुपगन्छेद्वस्तुतत्त्वावधृत्या ॥ ३५५ ॥
 शांतो दांतः परमुपरतः क्षातियुक्तः समाधि
  कुर्वन्नित्यं कलयति यति स्वस्य सर्वात्मभावम् ।

 तनाविद्यातिमिरजनितान्साधु दावा विकल्पान
  ब्रह्माकृत्या निवसति सुख निष्क्रियो निर्विकल्प ॥ ३५६ ।।
समाहिता ये प्रविलाप्य वाह्य श्रोत्रादि चेतः स्वमह चिदात्मनि
त एव मुक्ता भवपाशवधैर्नान्ये तु पारोक्ष्यकथाभिवायिनः ॥ ३५७ ॥
उपाधिभेदारवयमेव भिद्यते चौपाध्यपोहे स्वयमेव केवलः ।
तस्मादुपापिलयाय विद्वान्वसेत्सदा कल्पसमाधिनिष्ठया ॥ ३५८ ॥
  सति सत्तो नरो याति सद्भाव होकनिष्टया ।
  कीटको भ्रमर ध्यायन्भ्रमरत्वाय कल्पते ॥ ३५९ ॥
क्रियातरासक्तिमपारय कीटको ध्यायन्यथालिं ह्यलिभावमृच्छति ।
तथैव योगी परमात्मतत्त्व ध्यात्वा समायाति नटेकनिष्टया ॥ ३६० ॥
अतीव सूक्ष्म परमात्मतत्व न स्थूलदृष्ट्या प्रतिपत्तुमर्हति ।
माधिनात्यतसुसूक्ष्मवृत्या ज्ञातव्यमारतिशुद्धबुद्धिमि ॥३६१।।
यथा सुवर्ण पुटपाकशोधितं त्यक्त्वा मल स्वात्मगुण समृच्छति ।
तथा मन' सत्त्वरजस्तमोमल ध्यानेन सत्यज्य समेति तत्त्वम् ॥३६२।।
निरतराभ्यासवशात्तदित्य पक्क मनो ब्रह्मणि लीयते यदा ।
तदा समाधिः स विकल्पवर्जितः स्वतोऽद्वयानंढरसानुभावकः ॥३६३।।
समाधिमाऽनेन समस्तवासनाग्रंथीवनाशोऽखिलकर्मनाशः ।
अतर्वहिः सर्वत एव सर्वदा स्वरूपविस्फूतिरयत्नतः स्यात् ॥३६४॥
  श्रुतेः शतगुण विद्यान्मनन मननादपि ।
  निदिध्यास लक्षगुणमनत निर्विकल्पकम् ॥ ३६५ ॥
निर्विकल्पकसमाधिना स्फुट ब्रह्मतत्त्वमवगम्यते ध्रुवम् ।
नान्यथा चलतया मनोगतेः प्रत्ययातरविमिश्रित भवेत् ॥३६६॥
अतः समाधत्स्त्र यतेंद्रियः सदा निरतर शांतमनाः प्रतीचि ।
विध्वसय ध्वातमनाद्यविद्यया कृत संदेकत्वविलोकनेन ॥ ३६७ ॥
  योगस्य प्रथम द्वारं वानिरोधोऽपरिग्रहः ।

  निराशा च निरीहा च नित्यमेकांतशीलता ॥३६८!
 एकातस्थितिरिद्रियोपरमणे हेतुर्दमचेतसः
  संरोधे करण शमेन विलय यायादहवासना ।
 तेनानदरसानुभूतिरचला ब्राह्मी सदा योगिन-
  स्तस्माच्चित्तनिरोध एव सतत कार्यः प्रयत्नान्मुनेः॥३६९॥
चाच नियच्छात्मनि त नियच्छ बुद्धौ धिय यच्छ च बुद्धिसाक्षिणि ।
तं चापि पूर्णात्मनि निर्विकल्पे विलाप्य शाति परमा भजस्व ॥३७०॥
  देहप्राणेद्रियमनोबुद्वयादिभिरुपाधिभिः ।
  यैर्यवृत्तः समायोगस्तत्तद्भावोऽस्य योगिनः || ३७१ ॥
  तन्निवृत्त्या मुनेः सम्यक्सर्वोपरमण सुखम् ।
  सदृश्यते सदानदरसानुभवाविप्लवः ॥ ३७२ ।।
  अंतस्त्यागो बहिस्त्यागो विरक्तस्यैव युज्यते ।
  त्यजत्यंतर्बहिःसग विरक्तस्तु मुमुक्षया ॥ ३७३ ।।
  बहिस्तु विषयैः संग तथांतरहमादिभिः ।
  विरक्त एव शक्नोति त्यक्तु ब्रह्मणि निष्ठितः ॥ ३७४ ॥
वैराग्यबोधौ पुरुषस्य पक्षिवत्पक्षौ विजानीहि विचक्षण त्वम् ।
विमुक्तिसौधाग्रतलाधिरोहण ताभ्यां विना नान्यतरेण सिध्यति ॥३७५||
अत्यंतवैराग्यवतः समाधिः समाहितस्यैव दृढप्रबोधः ।
प्रबुद्धतत्त्वस्य हि बधमक्तिमुक्तात्मनो नित्यसुखानुभूतिः ॥ ३७६ ॥
 वैराग्यान पर सुखस्य जनक पश्यामि वश्यात्मन-
  स्तच्चेच्छुद्धतरात्मबोधसहितं स्वाराज्यसाम्राज्यधुक् ।
 एतद् द्वारमजनमुक्तियुवतेयस्मात्त्वमस्मात्परं
  सर्वत्रास्पृहया सदात्मनि सदा प्रज्ञां कुरु श्रेयसे ।। ३७७ ॥
 आशां छिंधि विषोपमेषु विषयेष्वेषैव मृत्योः सृति-
  स्त्यक्त्वा जातिकुलाश्रमेष्वमिमति मुंचातिदूराक्रियाः ।

 देहाटावसति त्यजात्मधिपा प्रज्ञां कुरुष्वात्मनि
  त्व द्रष्टास्यमलोऽसि निर्द्वयपर ब्रह्मासि यद्वस्तुतः ॥ ३७८ ॥
 लध्ये ब्राणि मानस दृढतर सस्थाप्य बाह्येद्रिय
  स्वस्थाने विनिवेश्य निश्चलतनुश्ोपेक्ष्य देहस्थितिम् ।
 ब्रह्मात्मैक्यमुपेत्य तन्मयतया चाखंडवृत्यानिश
  ब्रह्मानंदरस पिबात्मनि मुदा शून्यैः किमन्यभ्रमैः ॥ ३७९ ।।
  अनात्मचिंतन त्यक्त्वा कदमल दुःखकारणम् ।
  चिंतयात्मानमानंदरूप यन्मुक्तिकारणम् ।। ३८० ॥
एष स्वयंज्योतिरशेषसाक्षी विज्ञानकोशे विलसत्यजस्त्रम् ।
लक्ष्य विधायैनमसद्विलक्षणमखडवृत्यात्मतयानुभावय ॥ ३८१ ॥
  एतमन्छिन्नया वृत्या प्रत्ययांतरशून्यया ।
  उल्लेखयन्विजानीयात्स्वस्वरूपतया स्फुटम् ।। ३८२ ॥
  अत्रात्मत्व दृढीकुर्वनहमादिषु संत्यजन् ।
  उदासीनतया तेषु तिष्टेवटपटादिवत् ॥ ३८३ ॥
विशुद्धमतःकरण स्वरूपे निवेश्य साक्षिण्यवबोधमात्रे ।
शनैः शनैनिश्चलतामुपानयन्पूर्ण स्वमेवानुविलोकयेत्ततः ।।३८४॥
देहेद्रियप्राणमनोऽहमादिभिः स्वाज्ञानक्लप्तैरखिलरुपाधिभिः ।
विमुक्तमात्मानमखडरूप पूर्ण महाकामिवावलोकयेत् ॥ ३८५
घटकलशकुसूलसूचिमुख्यैर्गगनमुपाधिशतैविमुक्तमेकम् ।
भवति न विविध तथैव शुद्ध परमहमादिविमुक्तमेकमेव ॥३८६॥
  ब्रह्मादिस्तंबपर्यंता मृपामात्रा उपाधय' ।
  तत पूर्ण स्वमात्मान पश्येदेकात्मना स्थितम् ॥ ३८७ ।।
यत्र भ्रात्या कल्पित यद्विवेक तत्तन्मात्र नैव तस्माद्विभिन्नम् ।
भ्राते शे भ्रातिदृष्टाहितत्व रजस्तद्वद्विश्वमात्मस्वरूपम ||३८८
  स्वय ब्रह्मा स्वय विष्णु. स्वयमिंद्र स्वय शिवः ।

  स्वय विश्वमिद सर्व स्वस्मादन्यन्न किंचन।।३८९॥
अंतः स्वयं चापि बहिः स्वयं च स्वयं पुरस्तात्स्वयमेव पश्चात् ।
स्वयं हवाच्या स्वयमप्युदीन्यां तथोपरिष्टात्स्वयमप्यधस्तात् ॥ ३९० ॥
तरंगफेनभ्रमबुद्बुदादि सर्वं स्वरूपेण जल यथा तथा ।
चिदेव देहाद्यहमंतमेतत्सर्व चिदेवैकरस विशुद्धम् ॥ ३९१ ॥
 सदेवेदं सर्व जगढक्गत वाड्मनसयोः
  सतोऽन्यन्नारत्येव प्रकृतिपरसीम्नि स्थितवतः।
 पृथक् किं मृत्स्नायाः कलशघटकुभाधवगत
  वदत्येष भ्रांतस्त्वमा मायामदिरया ॥ ३९२ ॥
 क्रियासमभिहारेण यत्र नान्यदिति श्रुतिः ।
 ब्रवीति द्वैतराहित्यं मिथ्याध्यासनिवृत्तये || ३९३ ॥
आकाशवन्निर्मलनिर्विकल्पनिःसीमनिष्पंदननिर्विकारम् ।
अंतर्बहिःशून्यमनन्यमद्वय स्वय पर ब्रह्म किमस्ति बोध्यम् ॥ ३९४ ।।
 वक्तव्य किमु विद्यतेऽत्र बहुधा ब्रह्मैव जीवः स्वय
  ब्रह्मेतज्जगढातत नु सकलं ब्रह्माद्वितीय श्रुतेः ।
 ब्रह्मैवाहमिति प्रबुद्धमतयः सत्यक्तबाह्या• स्कुट
  ब्रह्मीभूय वसति सततीचदानदात्मनैव ववम् ।। ३९५ ॥
 जहि मलमयकोशेऽहधियोत्थापिताशा
  प्रसभमनिलकल्पे लिंगदेहेऽपि पश्चात् ।
 निगमगदितकीर्ति नित्यमानदमूर्ति
  स्वयमिति परिचीय ब्रह्मरूपेण तिष्ठ !! ३९६ ॥
 शवाकार यावद्भजति मनुजस्तावदशुचिः
  परेभ्यः स्यात्लेगो जननमरणव्याधिनिलयः ।
 यदात्मानं शुद्ध कलयति शिवाकारमचल
  तदा तेभ्यो मुक्तो भवति हि तदाह श्रुतिरपि ॥ ३९७ ॥

 लामन्यारोपिताशेषाभासवस्तुनिरासतः ।
 स्वयमेव पर ब्रह्म पूर्णमद्वयमक्रियम् ॥ ३९८ ॥
समाहिताया सति चित्तवृत्तौ परात्मनि ब्रह्माणि निर्विकल्पे ।
न दृश्यते कश्चिदय विकल्पः प्रजल्पमात्र. परिशिष्यते ततः ॥ ३९९ ॥
 असत्कल्पो विकल्पोऽय विश्वमित्येकवस्तुनि ।
 निर्विकारे निराकारे निर्विशेष भिदा कुतः ॥ ४०० ॥
 द्रष्ट्रदर्शनदृश्यादिभावशून्यैकवस्तुनि ।
 निर्विकारे निराकारे निर्विशेपे मिदा कुतः ॥ ४०१ ।।
 कल्पार्णव इवात्यतपरिपूर्णेकवस्तुनि !
 निर्विकारे निराकारे निर्विशेषे मिदा कुतः ॥ ४०२ ॥
 तेजसीव तमो यत्र प्रलीन भ्रांतिकारणम् ।
 अद्वितीये परे तत्त्वे निर्विशेपे भिदा कुतः ॥ ४०३ ॥
 एकात्मके परे तत्त्वे भेदवार्ता कथ वसेत् ।
 सुषुप्तौ सुखमात्राया भेदः केनावलोकित ।। ४०४ ॥
नास्ति विश्व परतत्त्वबोधात्सदात्मनि ब्रह्मणि निर्विकल्पे ।
कालत्रये नाप्यहिरीक्षितो गुणे नाबुबिंदुर्मृगतृष्णिकायाम् ॥ ४०५ ॥
 मायामात्रमिद द्वैतमद्वैत परमार्थतः।
 इति ब्रूते श्रुतिः साक्षात्सुषुप्तावनुभूयते ।। ४०६ ।।
 अनन्यत्वमधिष्ठानादारोप्यस्य निरीक्षितम् ।
 पंडितै रज्जुसादौ विकल्पो भ्रातिजीवन' ॥ ४०७ ॥
 चित्तमूलो विकल्पोऽय चित्ताभावे न कश्चन ।
 अतश्चित्त समाधेहि प्रत्ययूपे परात्मनि ॥ ४०८ ॥
 किमपि सततबोध केवलानदरूप
  निरुपममतिवेल नित्यमुक्त निरीहम् ।
 निरवधि गगनाम निष्कल निर्विकल्प

 हृदि कलयति विद्वान्ब्रह्म पूर्ण समाधौ ॥ ४०९ ॥
प्रकृतिविकृतिशून्यं भावनातीतभावं
 समरसमसमानं मानसंबधदूरम् ।
निगमवचनसिद्ध नित्यमस्मत्प्रसिद्ध
 हृदि कलयति विद्वान्ब्रह्म पूर्ण समाधौ ॥ ४१० ॥
अजरममरमस्ताभासवस्तुस्वरूपं
 स्तिमितसलिलराशिप्रख्यमाख्याविहीनम् ।
शमितगुणविकार शाश्वतं शांतमेक
 हृदि कलयति विद्वान्ब्रह्म पूर्ण समाधौ ॥ ४११ ॥
समाहितांतःकरणः स्वरूपे विलोकयात्मानमखंडवैभवम् ।
विच्छिधि बंध भवगंधगंधितं यत्नेन पुस्त्व सफलीकुरुष्व ॥४१२॥
 सर्वोपाधिविनिर्मुक्तं सच्चिदानंदमद्वयम् ।
 भावयात्मानमात्मस्थं न भूयः कल्पसेऽध्वने ॥ ४१३ ॥
छायेव पुंसः परिदृश्यमानमाभासरूपेण फलानुभूत्या ।
शरीरमाराच्छववन्निरस्त पुनर्न सधत्त इदं महात्मा ॥ ४१४ ॥
 सततविमलबोधानंदरूप समेत्य
  त्यज जडमलरूपोपाधिमेत सुदूरे ।
 अथ पुनरपि नैष स्मर्यतां वातवस्तु
  स्मरणविषयभूतं कल्पते कुत्सनाय ॥ ४१५ ॥
समूलमेतत्परिदह्य वह्नौ सदात्मनि ब्रह्मणि निर्विकल्पे ।
तत. स्वयं नित्यविशुद्धबोधानंदात्मना तिष्ठति विद्वरिष्ठः ।। ४१६ ॥
प्रारब्धसूत्रप्रथितं शरीरं प्रयातु वा तिष्ठतु गोरिव स्रक् ।
न तत्पुनः पश्यति तत्त्ववेत्ताऽऽनंदात्मनि ब्रह्मणि लीनवृत्तिः ॥ ४१७ ॥
 अखंडानंदमात्मान विज्ञाय स्वस्वरूपतः ।
 किमिच्छन्कस्य वा हेतो पुष्णाति तत्त्ववित् ॥ ४१८ ॥

विवेकचूडामणिः।

२५७ ससिद्धस्य फलं लेतज्जीवन्मुक्तस्य योगिनः । वहिरत सदानढरसास्वादनमात्मनि ॥ ४१९ ॥ वैरान्यस्य फल वोधो वोधस्योपरतिः फलम् । स्वानदानुभवाच्छातिरपैवोपरतेः फलम् ।। ४२० ।। यद्युत्तरोत्तराभावः पूर्वपूर्व तु निष्फलम् । निवृत्ति परमा तृतिरानदोऽनुपमः स्वतः ॥ ४२१ ।। दुष्टदुःखेष्वनुद्वेगो विद्यायाः प्रस्तुत फलम् । यत्कृत भ्रातिवेलाया नानाकर्म जुगुप्सितम् । पश्चान्नरो विवेकेन तत्कथ कर्तुमर्हति ॥ ४२२ ।। विद्याफलं स्यादसतो निवृत्ति प्रवृत्तिरंज्ञानफल तटीक्षितम् । तज्ज्ञाज्ञयोर्यन्मृगतृष्णिकादौ नो चेद्विदो दृष्टफल किमस्मात् ।। ४२३ ॥ अज्ञानहृदयग्रंथनिनाशो यद्यशेषतः।। अनिच्छोर्विवयः किं प्रवृत्तेः कारणं स्वतः ।। ४२४ ॥ वासनानुदयो भोग्ये वैराग्यस्य परोऽवधिः । अहंभावोदयाभावो बोधस्य परमोऽवधिः । लीनवृत्तेरनुत्पत्तिमर्यादापरतेस्तु सा ॥ ४२५ ॥ ब्रह्माकारतया सदा स्थिततया निर्मुक्तवाह्यार्थी- रन्यावेदितभोग्यभोगकलनो निद्रालवद्वालवत् । स्वमालोकितलोफवजगदिदं पश्यन्कचिल्लब्धधी- रास्ते कश्चिदनंतपुण्यफलभुग्धन्यः स मान्यो भुवि ।। ४२६ ।। स्थितप्रज्ञो यतिरय यः सदानदमश्नुते । ब्रह्मण्येव विलीनामा निर्विकारो विनिष्क्रियः ॥ ४२७ ॥ ब्रह्मात्मनोः शोधितयोरेकमावावगाहिनी । -निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते । सा सर्वदा भवेद्यस्य स्थितप्रज्ञः स उच्यते ॥ ४२८ ॥ १७

यस्य स्थिता भवेत्प्रज्ञा यस्यानंदो निरंतरः ।
अपंचों विस्मृतप्रायः स जीवन्मुक्त इष्यते ४२९ ।।
लीनधीरपि जागर्ति यो जाबद्धर्मवर्जितः ।
'बोधो निर्वासनो यस्य स जीवन्मुक्त इष्यते ।। ४३० ॥
शांतसंसारकलनः कलावानपि निष्कलः ।
'यस्य चित्तं विनिश्चितं स जीवन्मुक्त इष्यते ॥४३१॥
वर्तमानेऽपि देहेऽस्मिन्छायावदनुवर्तिनि ।
अहताममताभावो जीवन्मुक्तस्य लक्षणम् ॥४३२॥
अतीताननुसंधानं भविष्यदविचारणम् ।
औदासीन्यमपि प्राप्ते जीवन्मुक्तस्य लक्षणम् ॥४३३॥
गुणदोषविशिष्टेऽस्मिन्वभावेन विलक्षणे।
सर्वत्र समदर्शित्वं जीवन्मुक्तस्य लक्षणम् ॥४३४॥
इष्टानिष्टार्थसंप्राप्तौ समदर्शितयाऽऽत्मनि ।
उभयत्राविकारित्वं जीवन्मुक्तस्य लक्षणम् ॥४३५॥
ब्रह्मानंदरसास्वादासक्तचित्ततया यतेः।
अंतर्बहिरविज्ञानं जीवन्मुक्तस्य लक्षणम् ।।४३६।।
देहेद्रियादौ कर्तव्ये ममाहंभाववर्जितः ।
औदासीन्येन यस्तिष्ठेत्स जीवन्मुक्तलक्षणः ॥४३७॥
विज्ञात आत्मनो यस्य ब्रह्मभावः श्रुतेर्वलात् ।
'भवबंधविनिर्मुक्तः स जीवन्मुक्तलक्षणः ॥४३८||
देहेद्रियेष्वहंभाव इदंभावस्तदन्यके ।
यस्य नो भवतः कापि स जीवन्मुक्त इप्यते ॥४३९॥
न प्रत्यबह्मणोर्मेदं कदापि नदासर्गयोः ।
प्रज्ञया यो विजानाति स जीवन्मुक्तलक्षणः ||४४०॥
साधुभिः पूज्यमानेऽस्मिन्पीडयमानेऽपि दुर्जने ।

 समभावो भवेद्यस्य स जीवन्मुक्तलक्षणः ॥४४१॥
यत्र प्रविष्टा विषयाः परेरिता नदीप्रवाहा इवं वारिराशौ ।
लिनंति सन्मात्रतया न विक्रियामुत्पादयत्येप यतिविमुक्तः॥४४२।।
 विज्ञातब्रह्मतत्त्वस्य यथापूर्व न संसृतिः ।
 अस्ति चेन्न स विज्ञातब्रह्मभावो वहिर्मुखः ॥४४३॥
 प्राचीनवासनावेगादसौ संसरतीति चेत् ।
 न सदेकत्वविज्ञानान्मंदीभवति वासना ||४४४॥
 अत्यंतकामुकस्यापि वृत्तिः कुठति मातरि ।
 तथैव ब्रह्मणि होते पूर्णानंदे मनीपिणः ॥४४५॥
 निदिध्यासनशीलस्य बाह्यप्रत्यय ईक्ष्यते ।
 ब्रवीति श्रुतिरेतस्य प्रारब्ध फलदर्शनात् ॥४४६॥
 सुखायनुभवो यावत्तावत्प्रारब्धमिष्यते ।
 फलोढय. क्रियापूर्वो निस्कियो न हि कुत्रचित् ।।४४७।।
 अह ब्रह्मेति विज्ञानात्कल्पकोटिशतार्जितम् ।
 संचित विलयं याति प्रबोधात्स्वनकर्मवत् ।।४४८॥
 यत्कृतं स्वप्नवेलाया पुण्य का पापमुल्बणम् ।
 सुप्तोत्थितस्य किं तत्स्यात्स्वर्गाय नरकाय वा ।।४४९॥
 स्वमसंगमुदासीनं परिज्ञाय नमोः यथा ।
 न लिष्यते यतिः किंचित्कदाचिद्भाविकर्मभिः ॥४५०॥
 न नभो घटयोगेन सुरागंधेन लिप्यते ।
 तथात्मोपाधियोगेन तद्धमै व लिप्यते ।।४५१।।. .
 ज्ञानोदयात्पुरारब्ध कर्म ज्ञानान नश्यति-1-.-.
 अदत्वा स्वफलं लक्ष्यमुद्दिश्योत्सृष्टवाणवत. ॥४५२॥
 व्याघ्रबुद्ध्या विनिर्मुक्तो वाणाः पश्चात्तु गोमतौ।
 न तिष्ठति छिनत्त्येव लक्ष्य वेगेन निर्मरम् ।।४५३१॥

:

 प्रारब्धं बलवत्तरं खलु विदां भोगेन तस्य क्षयः
  सम्यग्ज्ञानहुताशनेन विलयः प्राक्सचितागामिनार
 ब्रह्मात्मैक्यमवेक्ष्य तन्मयतया ये सर्वदा संस्थिता-
  स्तेषां तत्त्रतयं नहि क्वचिदपि ब्रह्मैव ते निर्गुणम||४५४||
उपाधितादात्म्यविहीनकेवलब्रह्मात्मनैवात्मनि तिष्ठतो मुनेः ।
प्रारब्धसद्भावकथा न युक्ता स्वमार्थसंबंधकथेव जाग्रतः ।। ४५५ ॥
नहि प्रबुद्धः प्रतिभासदेहे देहोपयोगिन्यपि च प्रपंचे।
करोत्यहंतां ममतामिदंतां किंतु स्वयं तिष्ठति जागरेण ।। ४५६ ।।
न तस्य मिथ्यार्थसमर्थनच्छा न संग्रहस्तजगतोऽपि दृष्टः ।
तत्रानुवृत्तिर्यदि चेन्मृषार्थे न निद्रया मुक्त इतीष्यते ध्वम् ।। ४५७ ॥
तद्वत्परे ब्रह्मणि वर्तमानः सदात्मना तिष्ठति नान्यदीक्षते ।
स्मृतियथा स्वप्नविलोकितार्थे तथा विदः प्राशनमोचनादौ ॥ ४५८ ।।
 कर्मणा निर्मितो देहः प्रारब्धं तस्य कल्प्यताम् ।
 नानादेरात्मनो युक्तं नैवात्मा कर्मनिर्मितः ॥४५९ ।।
 अजो नित्यः शाश्वत इति ब्रूते श्रुतिरमोधवार ।
 तदात्मना तिष्ठतोऽस्य कुतः प्रारब्धकल्पना || ४६० ।।
 प्रारब्ध सिध्यति सदा यदा देहात्मना स्थितिः ।
 देहात्मभावो नैवेष्टः प्रारब्ध त्यव्यतामतः ।
 शरीरस्यापि प्रारब्धकल्पना भ्रांतिरेव हि ॥ ४६१ ॥
 अध्यस्तस्य कुतः सत्त्वमसत्त्वस्य कुतो जनिः ।
 अजीतस्य कुतो नाशः प्रारब्धमसतः कुतः ॥ ४६२ ।।
 ज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि ।
 तिष्ठत्ययं कथं देह इति शंकावतो जडान् ।
 समाधातु बाह्यदृष्टया प्रारब्ध चदति श्रुतिः ॥ ४६३ ॥
 नातु देहादिसपत्वबोधनाय विपश्चिताम् ।

 यतः श्रुतेरभिप्राय परमार्थंकगोचरः ॥ ४६४ ॥
 परिपूर्णमनाद्यतमप्रमेयमविक्रियम् ।
 एकमेवाद्वय ब्रह्म नेह नानास्ति किंचन ॥ ४६५ ॥
 सद्घनं चिद्घन नित्यमानदधनमक्रियम् ।
 एकमेवाद्वय ब्रह्म नेह नानास्ति किंचन ।। ४६६ ॥
 प्रत्यगेकरस पूर्णमनत सर्वतोमुखम् ।
 एकमेवाद्वय ब्रह्म नेह नानास्ति किंचन ।। ४६७ ।।
 अहेयमनुपादेयमनादेयमनाश्रयम् ।
 एकमेवाद्वय ब्रह्म नेह नानास्ति किंचन ॥ ४६८ ॥
 निगुण निष्कल सूक्ष्म निर्विकल्प निरंजनम् ।
 एकमेवाद्वय ब्रह्म नेह नानास्ति किंचन ॥ ४६९ ॥
 अनिरूप्यस्वरूप यन्मनोवाचामगोचरम् ।
 एकमेवाद्वय ब्रह्म नेह नानास्ति किंचन-1॥ ४७० ॥
 सत्समृद्ध स्वत'सिद्ध शुद्ध बुद्धमनीदृशम् ।
 एकमेवाद्वय ब्रह्म नेह नानास्ति किंचन ॥ ४७१ ॥
निरस्तरागा विनिरस्तभोगाः शाताः सुदाता यतयो महांतः ।
विज्ञाय तत्त्व परमेतदते प्राप्ताः परां निवृतिमात्मयोगात् ॥ ४७२ ॥
भवानपीद परतत्त्वमात्मनः स्वरूपमानधन विचार्य ।
विधूय मोह स्वमन प्रकल्पित मुक्तः कृतार्थो भवतु प्रबुद्धः ॥ ४७३ ।।
समाधिना साधु विनिश्चलात्मना पक्ष्यात्मतत्त्व स्फुटबोधचक्षुषा ।
ििनःसंशय सम्यगवेक्षितश्चेच्छुतः पदार्थो न पुनर्विकल्पते ॥ ४७४ ॥
स्वस्याविद्याबधसबधमोक्षात्सत्यज्ञानानंदरूपामलब्धौ ।
शास्त्रं युक्तिर्देशिकोक्ति प्रमाण चात:सिद्धा स्वानुभूति प्रमाणम् ||४७५ ॥
 बंधो मोक्षश्च तृप्तिश्च चितारोग्यक्षुधादयः 1
 खेनैव वेद्या यज्ञान परेषामानुमानिकम् । ४७६ ॥” :

तटस्थिता बोधयंति गुरवः श्रुतयो यथा ।
प्रज्ञयैव तरेद्विद्वानीश्वरानुगृहीतया ॥.४७७ ॥
स्वानुभूत्या स्वयं ज्ञात्वा स्वमात्मानमखडितम् |
संसिद्धः संमुखं तिष्ठेन्निर्विकल्पात्मनात्मनि ॥ ४७८ ॥ .
वेदांतसिद्धांतनिरुक्तिरेपा ब्रह्मैव जीवः सकलं जगच्च ।
अखंडरूपस्थितिरेव मोक्षो ब्रह्माद्वितीयं श्रुतयः प्रमाणम् ॥ ४७९ ॥
इति गुरुवचनान्मृतिप्रमाणात्परमवगम्य सतत्त्वमात्मयुक्या।
प्रशमितकरणः समाहितात्मा कचिदचलाकृतिरात्मनिष्ठितोऽभूत् ॥४८०॥
कचित्काल समाधाय परे ब्रह्मणि मानसम् ।
उत्थाय परमानंदादिदं वचनमब्रवीत् ॥ ४८१ ॥
बुद्धिविनष्टा गलिता प्रवृत्तिर्बह्मात्मनोरेकतयाधिगत्या ।
इदं न जानेऽप्यनिदं न जाने किंवा कियद्वा सुखमस्त्यपारम् ४८२
वाचा वक्तुमशक्यमेव मनसा मंतुं न वा शक्यते
स्वानंदामृतपूरपूरितपरब्रह्मांबुधेवैभवम् ।
अंभोराशिविशीर्णवार्षिकशिलाभावं भजन्मे मनो
यस्यांशांशलवे विलीनमधुनानंदात्मना निर्वृतम् ।। ४८३ ।।
क गतं केन वा नीतं कुत्र लीनमिद जगत् । -
अधुनैव मया दृष्ट नास्ति कि महदद्भुतम् ॥ ४८४ ।।
किं हेयं किमुपादेय किमन्यत्किं विलक्षणम् ।
अखडानंदपीयूषपूर्णे ब्रह्ममहार्णवे ॥ ४८५ ।।
न किंचिदत्रं पश्यामि न शृणोमि न वेदम्यहम् ।
स्वात्मनैव सदानंदरूपेणास्मि विलक्षणः ॥ ४८६ ॥
नमो नमस्ते गुरवे महात्मने विमुक्तसंगाय सदुत्तमाय ।
नित्याद्वयानदरसस्वरूपिणे भूम्ने सदापारदयांबुधाम्ने ॥ ४८७ ।
यत्कटाक्षशशिसांद्रचंद्रिकापोतधूतभवतापजश्रमः ।

प्राप्तवानहमखंडवैभवानंदभात्मपदमक्षयं क्षणात् ॥ ४८८ ॥
 धन्योऽहं कृतकृत्योऽह विमुक्तोऽहं भवग्रहात् ।
 नित्यानदस्वरूपोऽहं पूर्णोऽह तदनुग्रहात् ।। ४८९ ॥
 असंगोऽहमनमोऽहमलिंगोऽहमभंगुरः ।
 प्रशातोऽहमनतोऽहममलोऽहं चिरंतनः ॥ ४९० ॥ .
 अकर्ताहमभोक्ताहमविकारोऽहमकिया।
 शुद्धबोधस्वरूपोऽह केवलोऽह सदाशिवः ॥ ४९१,।।
 द्रष्टुः श्रोतुर्वक्तुः कर्तुर्भोक्तुविभिन्न, एवाहम् ।
 नित्यनिरतरनिष्किायनिःसीमासंगपूर्णबोधात्मा ॥ ४९२ ।।
 नाहमिदं नाहसदोऽप्युभयोरवभासकं पर शुद्धम् ।
 बाह्याभ्यतरशून्य पूर्ण ब्रह्माद्वितीयमेवाहम् ॥ ४९३ ॥
 निरुपममनादितत्त्वं त्वमहमिदमद इति कल्पनादूरम् ।
 नित्यानदैकरस सत्यं ब्रह्माद्वितीयमेवाहम् ॥ ४९४ ॥
नारायणोऽह नरकातकोऽह पुरांतकोऽह, पुरुषोऽहमीशः ।
अखडबोधोऽहमोषसाक्षी निरीश्वरोऽह निरह च निर्ममः । १४९५ ।
सर्वेषु भूतेष्वहमेव सस्थितो ज्ञानात्मनांतर्बहिराश्रयः सन् . .
भोक्ता च भोग्य स्वयमेव सर्वं यद्यत्पृथग्दृष्टमिदतया पुरा ॥ ४९६॥ .
 मय्यखडसुखाभौधौ बहुधा विश्ववीचयः ।
 उत्पद्यते विलीयते मायामारुतविभ्रमात् ॥ ४९७ ॥
स्थूलादिभावा मयि कल्पिता भ्रमादारोपिता नु स्फुरणेन लोकैः।
काले यथा कल्पकवत्सरायनवादयो निष्कलनिर्विकल्पे ॥४९८॥
आरोपित नाश्रयदूपक भवेत्कदापि मूढैमतिदोषदूपितैः ।
नार्दीकरोत्यूपरभूमिभाग मरीचिकावारिमहाप्रवाहः ॥ ४९९ ॥
आकाशवल्लेपविदूरगोऽहमादित्यवद्भास्यविलक्षणोऽहम् ।
अहार्यवन्नित्यविनिश्चलोऽहमभोधिवत्पारविवर्जितोऽहम् || ५०१।।

 न मे देहेन संबंधो मेधेनेव विहायसः ।
 अतः कुतो मे तद्धर्मा जाग्रत्त्वप्नसुषुप्तयः ।। ५०१ ॥
उपाधिरायाति स एव गच्छति स एव 'कर्माणि करोति भुक्ते ।
स एव जीर्यन्मियते सदाह कुलाद्रिवन्निश्चल एव सस्थितः ॥ ५०२ ॥
न मे प्रवृत्तिन च मे निवृत्तिः सदैकरूपरय निरशकस्य ।
एकात्मको यो निबिडो निरतरो व्योमेव पूर्णः स कथ नु चेष्टते ॥ ५०३
पुण्यानि पापानि निरिंद्रियस्य निश्चेतसो निर्विकृतेनिराकृतेः ।
कुतो ममाखंडसुखानुभूते—ते ह्यनन्वागतमित्यषि श्श्रुतिः ॥ ५०४ ॥
 छायया स्पृष्टमुष्णं वा शीतं वा सुष्ठ दुष्ठु वा ।
 न स्पृशत्येव यत्किंचित्पुरुषं तद्विलक्षणम् ॥ ५०५ ॥
 न साक्षिण साक्ष्यधर्मा. सस्पृशति विलक्षणम् ।
 अविकारमुदासीन गृहधर्माः प्रदीपवत् ।
 देहेंद्रियमनोधर्मा नैवात्मानं स्पृशन्त्यहो ॥ ५०६ ॥
वेर्यथा कर्मणि साक्षिभावो वह्वेर्यथा दाहनियामकत्वम् ।
रजोर्यथारोपितवस्तुसगस्तथैव कूटस्थचिदात्मनो मे || ५०७ ॥
कर्तापि वा कारयितापि नाह भोक्तापि वा भोजयितापि नाहम् ।
द्रष्टापि वा दर्शयितापि नाह सोऽह स्वयज्योतिरनीडगात्मा !! ५०८ ॥
चलत्युपाधौ प्रतिबिंबलौल्यमौपाधिक मूढधियो नयति ।
स्वबिंबभूतं रविवद्विनिष्क्रिय कर्तास्मि भोक्तास्मि हतोऽस्मि हेति ॥ ५०५
जले वापि स्थले वापि लुठत्येप जडात्मकः ।
नाहं विलिप्ये तद्धमैर्घटधर्नभो यथा ॥ ५१०॥
कर्तृत्वभोक्तृत्वखलत्वमत्तताजडत्वबद्धत्वविमुक्तादयः ।
बुद्धेर्विकल्पा न तु सति वस्तुतः स्वस्मिन्परे ब्रह्माणि केवलेऽद्वये ॥५११॥
सतु विहाराः प्रकृतेर्दशधा शतधा सहस्रधा वापि ।
कि मेऽसंगचितेस्तैन धनः कचिदंबरं स्पृशत ॥ ५१२ ॥

अव्यक्तादि स्थूलपर्यंतमेतद्विश्वं यत्रामासमात्रं प्रतीतम् ।।
व्योमप्रख्यं सूक्ष्ममाघतहीनं ब्रह्माद्वैत यत्तदेवाहमास्मि ।। ५१३।।
सर्वाधार-सर्ववस्तुप्रकाशं सर्वाकार सर्वगं सर्वशून्यम् । -
नित्यं शुद्ध निश्चल निर्विकल्प ब्रह्माद्वैतं वत्तदेवाहमस्मि ।। ५१४ ॥
यत्पत्यस्ताशेषमायाविशेषं प्रत्यग्रूपं प्रत्ययागम्यमानम् ।
सत्यज्ञानानतमानंदरूप ब्रह्माद्वैत यत्तदेवाहमस्मि ॥ ५१५ ॥
निष्कियोऽस्म्यविकारोऽस्मि निष्कलोऽस्मि निराकृतिः ।
निर्विकल्पोऽस्मि नित्योऽस्मि निरालंबोऽस्मि निर्द्वयः ॥ ५१६ ॥ .
 सर्वात्मकोऽहं सर्वोऽहं सर्वातीतोऽहमद्वयः ।
 केवलाखडबोधोऽहमानदोऽहं निरंतरः ।। ५१७ ॥
स्वाराज्यसाम्राप्यविभूतिरेषा भवत्कृपाश्रीमहिमप्रसादात् ।
समाप्ता मया श्रीगुरवे महात्मने नमो नमस्तेऽस्तु पुनर्नमोऽस्तु । ५१८ ॥
 महास्वप्ने मायाकृतजानिजरामृत्युगहने
  भ्रमंत क्लिश्यत बहुलतरतापरेनुदिनम् ।
 अहकारव्याघ्रव्याथितमिममत्यतकृपया
  प्रबोध्य प्रस्वापात्परमवितवान्मामसि गुरो || ५१९ ॥
  नमस्तस्मै सदेकस्मै कस्मैचिन्महसे नमः ।
  यदेतद्विश्वरूपेण राजते गुरुराज ते ॥ ५२०॥
इति नतमवलोक्य शिष्यवयं समधिगतात्मसुख प्रबुद्धतत्त्वम् ।
रामुदितहृदयः स देशिकेंद्रः पुनरिदमाह वचः परं महात्मा ॥ ५२१ ॥
 ब्रह्मप्रत्ययसंततिर्जगदतो ब्रह्मैव सत्सर्वतः
  पश्याध्यात्मशा प्रशातमनसा सर्वास्ववस्थावपि ।
 रूपादन्यदवेक्षितं किमभितश्चक्षुष्मतां दृश्यते
  तद्ब्रह्मविदः सतः किमपरं बुद्धेविहारास्पदम् ॥ ५२२ ॥
 कस्तां परानंदरसानुभूतिमुत्सृज्य शून्येषु रमेत विद्वान् ।

चंद्रे महाह्लादिनिः दीप्यमाने चित्रंदुमालोकयितुं क इच्छेत् ५२३,.
असत्पदार्थानुभवे न किंचिन्न ह्यास्ति तृप्तिन च दुःखहानिः ।
तदद्वयानंदरसानुभूत्या तृप्तः सुखं तिष्ठ सदात्मनिष्ठया ।। ५२४ ॥
 स्वमेव सर्वथा पश्यन्मन्यमानः स्वमद्वयम् ।।
 स्वानंदमनुभुजानः काल नय महामते ॥५२५ ॥
अखंडवोधात्मनि निर्विकल्प विकल्पनं व्योग्नि पुर प्रकल्पनम् ।
तदद्वयानंदमयात्मना सदा शांति परामेत्य भेजस्व मौनम् ॥ ५२६
तूष्णीमवस्था परमोपशांतिर्बुद्धेरसत्कल्पविकल्पहेतोः ।
ब्रह्मात्मना ब्रह्मविदो महात्मनो यत्राद्वयानदसुखं निरंतरम् ।। ५२७
 नास्ति निर्वासनान्मौनात्परं सुखकृदुत्तमम् ।
 विज्ञातात्मस्वरूपस्य स्वानंदरसपायिनः ॥५२८॥
 गच्छंस्तिष्ठन्नुपविशछयानो वान्यथापि वा !
 यथेच्छं च वसेद्विद्वानात्मारामः सदा मुनिः ॥५२९।। .
न देशकालासनदिग्यमादिलक्ष्याद्यपेक्षा प्रतिबद्धवृत्तः ।
संसिद्धतत्त्वस्य महात्मनोऽस्ति स्ववेदने का नियमाद्यपेक्षा ॥५३०॥
 घटोऽयमिति विज्ञातुं नियमः कोऽन्वपेक्ष्यते ।
 विना प्रमाणसुष्टुत्वं यस्मिन्सति पदार्थधीः ॥ ५३१ ॥
 अयमात्मा नित्यसिद्धः प्रमाणे सति भासते ।
 न देशं नापि वा कालं न शुद्धिं वाप्यप्रेक्षते ॥ ५३२ ॥
 देवदत्तोऽहमित्येतद्विज्ञानं निरपेक्षकम् ।
 तद्वब्रह्मविदोऽप्यस्य ब्रह्माहमिति वेदनम् ॥ ५३३ ॥
 भानुनेव जगत्सर्व भासते यस्य तेजसा ।
 अनात्मकमसत्तुच्छं किं नु तस्यावभासकम् ।। ५३४ ॥
 चेदशास्त्रपुराणानि भूतानि सकलान्यपि ।
 येनार्थवंति तं किं नु विज्ञातारं प्रकाशयेत् ॥ ५३५ 11.7

एष स्वयज्योतिरनंतशक्तिरात्माऽप्रमेय. सकलानुभूतिः ।
यमेव विज्ञाय विमुक्तबधो जयत्यय ब्रह्मविदुत्तमोत्तमः ॥ ५३६ ॥
न खिद्यते नो विषयैः प्रमोदते न सत्यते नापि विरज्यते च ।
स्वस्मिन्सदा क्रीडति नंदति स्वयं निरतरानदरसेन तृप्तः ॥ ५३७ ॥
  क्षुधा देहव्यथा त्यक्त्वा बाल क्रीडति वस्तुनि ।
  तथैव विद्वान् रमते निर्ममो निरहं सुखी ॥ ५३८ ॥
 चिंताशून्यमदैन्यभैक्षमशनं पान सरिद्वारिषु
  स्वातत्र्येण निरकुशा स्थितिरभीनिद्रा ३मशने वने । ।
 वस्त्र क्षालनशोषणादिरहित दिग्वास्तु शय्या मही
  सचारो निगमांतवीथिषु विदां क्रीडा परे ब्रह्मणि ॥ ५३९ ।।
विमानमालव्य शरीरमेतद्भुनक्त्यशेषान्विषयानुपस्थितान् ।
समरेच्छया बालवदात्मवेत्ता योऽव्यक्तलिंगोऽननुषक्तवाह. ॥ ५४० ॥
दिगवरो वापि च साबरो वा त्वगंबरो वापि चिदबरस्थः ।
उन्मत्तवद्वापि च बालवद्वा पिशाचवद्वापि चरत्यवन्याम् ॥ ५४१ ।।
 कामानाष्कामरूपी सश्चरत्येकचरो मुनिः ।
 स्वात्मनैव सदा तुष्टः स्वयं सर्वात्मना,स्थितः ॥ ५४२ ।।
 कचिन्मूढो विद्वान्कचिदपि महाराजविभवः ।
  क्वचिद्भातः सौम्य कचिदजगराचारकलितः !
 कचित्पात्रीभूतः क्रचिदवमतः काप्यविदित-
  श्चरत्येव प्राज्ञः सततपरमानदसुखित ॥ ५४३ -1,
  निर्धनोऽपि सदा तुष्टोऽप्यसहायो.महाबलः ।
  नित्यतृप्तोऽप्यमुंजानोऽप्यसम. समदर्शन ॥ ५४४ ॥
  अपि कुर्वन्नकुर्वाणश्चाभोक्ता फलभोग्यपि । '
  शरीर्यप्यशरीर्येप परिच्छन्नोऽपि सर्वमः ।। ५४५ ॥
  अशरीर सदा सतमिम ब्रहाविद कचित् ।

 प्रियाप्रिये न स्पृशतरतथैव च शुभाशुभे ।। ५४६ ॥
स्थूलादिसंबंधवतोऽमिमानिनः सुखं च दुःख च शुभाशुभे च ।
विध्वस्तबंधस्य सदात्मनो मुनेः कुतः शुभं वाप्यशुभ फलं वा ।। ५४७ ।।
 तमसा प्रस्तबद्भानादप्रस्तोऽपि रविर्जनैः ।
 ग्रस्त इत्युच्यते भ्रांत्या ह्यज्ञात्वा वस्तुलक्षणम् ।। ५४८ ॥
 तदेहादिबंधेभ्यो विमुक्तं ब्रह्मवित्तमम् ।
 पश्यति देहिवन्मूढाः शरीराभासदर्शनात् ।। ५४९ ।।
 अहिनिर्बयनी वाऽयं मुक्त्वा देह तु तिष्ठति ।
 इतस्ततश्चाल्यमानो यत्किचित्प्राणवायुना ।। ५५० ।।
 स्रोतसा नीयते दारु यथा निम्नोन्नतस्थलम् |
 देवेन नीयते देहो यथाकालोपभुक्तिषु ।। ५५१ ॥
 प्रारब्धकर्मपरिकल्पितवासनाभिः
  संसारिवञ्चरति मुक्तिषु मुक्तदेहः ।
 सिद्धः स्वय वसति साक्षिवदत्र तूष्णी
  चक्रस्य मूलमिव कल्पविकल्पशून्यः ।। ५५२ ।।
 नैवेद्रियाणि विषयेषु नियुक्त एप
  नैवाणयुक्त उपदर्शनलक्षणस्थः ।
 नैव क्रियाफलमपीषवेक्षतेस
  स्वानंदसांद्ररसपानसुमत्तचित्तः ।। ५५३ ॥
लक्ष्यालक्ष्यगतिं त्यक्त्वा यस्तिष्ठत्केवलात्मना ।
शिव एव स्वयं साक्षादयं ब्रह्मविदुत्तमः ॥ ५५४ ॥
'जीवन्नेव सदा मुक्तः कृतार्थो ब्रह्मवित्तमः ।
उपाधिनाशाद्रौव सब्रह्माप्योति निर्द्वयम् ॥ ५५५॥
शैलूषो वेषसद्भावाभावयोश्च यथा पुमान् ।
तथैव ब्रह्मविच्छेष्ठः सदा ब्रह्मैव नापरः ।। ५५६ ।।

 यत्र कापि विशीण सत्पर्णमिव तरोर्वपुः पतनात् ।
 ब्रह्मीभूतस्य यतेः प्रागेव हि तच्चिदग्निना दग्धम् ॥ ५५७ ॥
सदात्मनि ब्रह्मणि तिष्ठतो सुनेः पूर्णाद्वयानंदमयात्मना सदा ।
न देशकालाधुचितप्रतीक्षा त्वङ्मांसविदीपंडविसर्जनाय ।। ५५८ ॥
 देहस्य मोक्षो नो मोक्षो न दंडस्य कमडलोः ।
 अविद्याहृदयग्रंथिमोक्षों मोक्षो यतस्ततः॥ ५५९ ॥
 कुल्यायामथ नद्यां का शिवक्षेत्रेऽपि चत्वरे ।
 पर्ण पतति चेत्तेन तरोः किं नु शुभाशुभम् ॥ ५६० ॥
पत्रस्य पुष्पस्य फलस्य नाशवदेहेंद्रियप्राणधिया विनाशः ।
नैवात्मनः स्वस्य सदात्मकस्यानदाकृतेर्वृक्षवदास्त चैषः ।। ५६१ ॥
 प्रज्ञानधन इत्यात्मलक्षण सत्यसूचकम् ।
 अनूद्यौपाधिकस्यैव कथयति विनाशनम् ॥ ५६२॥
 अविनाशी वा अरेऽयमात्मेति श्रुतिरात्मनः।-
 प्रब्रवीत्यविनाशित्वं विनश्यत्सु विकारिषु ॥ ५६३ ।।
 पाषाणवृक्षतृणधान्यकटाबराद्या
  दग्धा भवति हि मृदेव यथा तथैव ।
 देहोंद्रियासुमनआदि समस्तदृश्य
  ज्ञानाग्निदग्धमुपयाति परात्मभावम् ॥ ५६४ ॥
 विलक्षण यथा घात लीयते भानुतेजसि ।
 तथैव सकलं दृश्य ब्रह्मणि प्रविलीयते ॥ ५६५ ॥
 घटे नष्टे यथा व्योम.व्योमैव भवति स्फुटम् ।
 तथैवोपानिविलये ब्रह्मैव ब्रह्मवित्स्वयम् ।। ५६६ ॥
 क्षीर क्षीरे यथा क्षिप्त तैल तैले जलं जले ।
 सयुक्तमेकतां याति तथात्मन्यात्मविन्मुनिः ॥ ५६..
 एवं विदेहकैवल्यं सन्मात्रत्वमखंडितम् ।

ब्रह्मभावं प्रपद्यैष यति वर्तते पुनः ॥ ५६८ ॥
सदात्मकत्वविज्ञानदग्धाविद्यादिवर्मणः ।
अमुष्य ब्रह्मभूतत्वाद्रह्मणः कुत उद्भवः ॥ ५६९ ॥
मायाक्लप्तौ वधमोक्षौ न स्तः स्वात्मनि वस्तुतः ।
यथा रज्जो निष्क्रियायां साभासविनिर्गमौ ।। ५७० ॥
नावृतेः सदसत्त्वाभ्यां वक्तव्ये बंधमोक्षणे ।
नावृतिब्रह्मणः काचिदन्याभावादनावृतम् ।
यद्यस्त्यद्वैतहानिः स्याद्वैतं. नो सहते श्रुतिः ॥ ५७१॥
बंध च मोक्षं च मृषैव मूढा बुद्धेर्गुणं वस्तुनि कल्पयति ।
हगावृति मेधकृतां यथा रचौ यतोऽद्वयासंगचिदेकमक्षरम् ॥ ५७२ |
अस्तीति प्रत्ययो यश्च यश्च नास्तीति वस्तुनि ।
बुद्धरेव गुणावेतौ न तु नित्यस्य वस्तुनः ||-५७३ ॥
अतस्तो मायथा क्लप्तौ बंधमोक्षौ न चात्मनि ।
निष्कले निष्क्रिये शांते निरवये निरंजने ॥
अद्वितीये परे तत्त्वे व्योमवत्कल्पना कुतः ॥ ५७४ ॥
न निरोधो न चोत्पत्तिर्न बंधो न च साधकः ।
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ ५७५ में
सकलनिगमचूडास्वांतसिद्धांतरूपं
 परमिदमतिगुह्यं दर्शितं ते मयाद्य ।
अपगतकलिदोष कामनिर्मुक्तबुद्धिं
 स्वसुतघदसकृत्वा भावयित्वों मुमुक्षुम् ॥ ५७६ ।।
इति श्रुत्वा गुरोर्वाक्यं प्रश्रयेण कृतानतिः ।
स तेन-समनुज्ञातो ययौं निर्मुक्तबधनः ॥ ५७७ ॥
गुरुरेव सदानंदसिंधी निर्मग्नमानसः ।
पावयन्वसुधा सा विचचार निरंतरम् ।। ५७८ ॥

इत्याचार्यस्य शिष्यस्य संवादेनात्मलक्षणम् ।
निरूपित मुमुक्षूणा सुखबोधोपपत्तये ॥ ५७९ ॥
हितमिममुपदेशमाद्रियतां विहितनिरस्तसमस्तचित्तदोषाः ।
भवसुखविरताः प्रशातचित्ताः श्रुतिरसिका यतयो मुमुक्षवो ये ॥ ८० ॥
ससाराध्वनि तापभानुकिरणप्रोद्भूतदाहव्यथा-
 खिन्नाना जलकाक्षया मरुभुवि श्रात्या परिभ्राम्यताम् ।
अत्यासन्नसुधाबुधि सुखकर ब्रह्माद्वय दर्शय-
 न्त्येषा शंकरभारती विजयते निर्वाणसंदायिनी ॥ ५८१ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छकरभगवतः कृतौ विवेकचूडामणिः समाप्तः ।