विवरणप्रमेयसंग्रहः

विकिस्रोतः तः

स्वमात्रयाऽऽनन्दयदत्र जन्तून् सर्वात्मभावेन तथा परत्र।
यच्छङ्करानन्दपदं हृदब्जे विभ्राजते तद्यतयो विशन्ति॥ 1॥
भाष्यटीकाविवरणं तन्निबन्धनसंग्रहः।
व्याख्यानव्याख्येयभावक्लेशहानाय रच्यते॥ 2॥
नित्यस्वाध्यायविधितोऽधीत्य वेदान्तमस्य ते।
संशेरतेऽर्थे ते सूत्रभाष्यादिष्वधिकारिणः॥ 3॥
नित्यो हि `स्वाध्यायोऽध्येतव्यः' इत्यध्ययनविधिः `ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्च' इति वचनात्। काम्यत्वे हि वेदाध्ययन्याऽन्योन्याश्रयता -- अर्थावबोधे सति कामना, कामनायां सत्यां षडङ्गोपेतवेदाध्यनप्रवृत्तस्याऽर्थावबोध इति। अतः सर्वोऽपि नित्यविधिबलादेव षडङ्गसहितं वेदमधीत्याऽर्थं जानाति।
कश्चित् पुण्यपुञ्जपरिपाकवशान्निरतिशयपुरुषार्थप्रेप्सायां तदुपायं वेदेऽन्विष्येदमवगच्छति -- `आत्मनस्तु कामाय सर्वं प्रियं भवति' इत्यात्मशेषतयैवाऽन्यस्य सर्वस्य प्रियत्वोक्तेरात्मव्यतिरिक्तान् सर्वस्माद् विरक्तोऽधिकारी, `आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विज्ञातम्' इत्युपक्रम्य `एतावदरे खल्वमृतत्वम्' इत्युपसंहारात् परमपुरुषार्थभूतस्याऽमृतत्वस्याऽऽत्मदर्शनोपायत्वं प्रतिपाद्य, दर्शनस्य चाऽपुरुषतन्त्रस्याऽविधेयत्वात् `आत्मा वा अरे द्रष्टव्यः' इत्यात्मदर्शनमनूद्य तदुपायत्वेन `श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इति मनननिदिध्यासनाभ्यां फलोपकार्यङ्गाभ्यां सह श्रवणं नामाऽङ्गि विधीयत इति।
ननु षडङ्गोपेतवेदाध्यायिनः सत्यपि वेदार्थवगमे विचारमन्तरेण तात्पर्यानवगमान्न तेनाऽवगतोऽर्थः श्रुत्यभिप्रेतो भवितुमर्हतीति चेद्, मैवम्; एतच्छ्रुतितात्पर्यस्यैव पुराणेषु प्रतिपादितत्वात्। तथा हि --
"श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः।
ज्ञात्वा च सततं ध्येय एते दर्शनहेतवः॥ 1॥
तत्र तावन्मुनिश्रेष्ठाः! श्रवणं नाम केवलम्।
उपक्रमादिभिर्लिङ्गैः शक्तितात्पर्यनिर्णयः॥ 2॥
सर्ववेदान्तवाक्यनामाचार्यमुखतः प्रियात्।
वाक्यानुग्राहकन्यायशीलनं मननं भवेत्॥ 3॥
निदिध्यासनमैकाग्र्यं श्रवणो मननेऽपि च।
निदिध्यासनसंज्ञं च मननं च द्वयं बुधाः !॥ 4॥
फलोपकारकाङ्गं स्यात् तेनाऽसम्भावना तथा।
विपरीता न निर्मूलं प्रविनश्यति सत्तमाः!॥ 5॥
प्राधान्यं मननादस्मिन्निदिध्यासनतोऽपि च।
उत्पत्तावन्तरङ्गं हि ज्ञानस्य श्रवणं बुधाः!॥ 6॥
तटस्थमन्यव्यावृत्त्या मननं चिन्तनं तथा।
इतिकर्तव्यकोटिस्थाः शान्तिदान्त्यादयः क्रमात्॥ 7॥
ततः सर्वाङ्गनिष्ठस्य प्रत्यग्ब्रह्मैक्यगोचरा।
या वृत्तिर्मानसी शुद्धा जायते वेदवाक्यतः॥ 8॥
तस्यां या चिदभिव्यक्तिः स्वतःसिद्धा च शाङ्करी।
तदेव ब्रह्मविज्ञानं तदेवाऽज्ञाननाशनम्॥ 9॥
प्रत्यग्ब्रह्मैक्यरूपा या वृत्तिः पूर्णाऽभिजायते।
शब्दलक्षणसामग्र्या मानसी सुदृढा भृशम्॥ 10॥
तस्याश्च द्रष्टृभूतश्च प्रत्यगात्मा स्वयंप्रभः।
स्वस्य स्वभावभूतेन ब्रह्मभूतेन केवलम्॥ 11॥
स्वयं तस्यामभिव्यक्तस्तद्रूपेण मुनीश्वराः!।
ब्रह्मविद्यासमाख्यस्तदज्ञानं चित्प्रकाशितम्॥ 12॥
प्रतीत्या केवलं सिद्धं दिवाभीतान्धकारवत्।
अभूतं वस्तुगत्यैव स्वात्मना ग्रसते स्वयम्॥ 13॥
स्वात्मनाऽज्ञानतत्कार्यं प्रसन्नात्मा स्वयं बुधाः!।
स्वपूर्णाब्रह्मरूपेण स्वयमेवाऽवशिष्यते॥ 14॥
एवंरूपावशेषस्तु स्वानुभूत्येकगोचरः।
येन सिध्यति विप्रेन्द्रास्तद्धि विज्ञानमैश्वरम्॥ " 15॥
नन्वेषमपि श्रवणस्य विधिर्नोपपद्यते। तथा हि -- स किं ज्योतिष्टोमादेरिवाऽपूर्वविधिः? उताऽवघातादिवन्नियमविधिः? किं वा `पञ्च पञ्चनखाभक्ष्याः' इत्यादिवत् परिसङ्ख्याविधिः? नाऽऽद्यः, वेदान्तश्रवणादीनां दृष्टफल ब्रह्मज्ञानं प्रति साधनत्वस्याऽन्वयव्यतिरेकाभ्यां सिद्धत्वात्; प्रसिद्धं हि लोके वैद्यशास्त्रश्रवणस्य तद्विषयावगमं प्रति साधनत्वम्। न द्वितीयः, नियमादृष्टस्य कल्पकाभावात्। अवघातादौ तु नियमादृष्टजन्यपरमापूर्वमेव एतत्कल्पकम्। न च ब्रह्मज्ञानमदृष्टजन्यम्, केवलव्यतिरेकाभावात्। नहि वेदान्तश्रवणादौ सत्यपि नियमादृष्टाभावापराधेन ब्रह्मज्ञानानुत्पत्तिर्दृष्टचरी। ज्ञानस्य कथंचिददृष्टजन्यत्वेऽप्ययं विधिर्भाष्यविरुद्धः; समन्वयसूत्रव्याख्याने महता प्रयत्नेन विधिनिराकरणात्। अन्यथा वेदान्तानां विधिपरत्वं ब्रह्मपरत्वं चेति वाक्यभेदप्रसङ्गः। नाऽपि तृतीयः, पञ्चनखापञ्चनखभक्षणयोरन्यतः प्राप्तावन्यपरिवर्जनवदात्मसाक्षात्कारस्योपनिषतिरिक्तात् प्राप्त्यसंभवात्। तस्मात् नास्ति श्रवणविधिरिति।
अत्रोच्यते -- दृष्टफलस्याऽपि धर्मज्ञानस्य साधनेऽध्ययने नियमविधिस्तावदङ्गीकृत एव। यदा त्वर्वाचीनपुरुषार्थे परोक्षे धर्मज्ञानेऽप्येवम्, तदा किमुवक्तव्यं परमपुरुषार्थब्रह्मसाक्षात्कारसाधने श्रवणे नियमविधिरिति? यद्यध्ययने नियमादृष्टजन्यं यागीयापूर्वं तत्कल्पकं स्यात्, तर्हि श्रवणेऽपि ब्रह्मज्ञानं तत्कल्पकमस्तु, ब्रह्मज्ञानस्य सर्वादृष्टजन्यत्वात्; `सर्वं कर्माऽखिलं पार्थ! ज्ञाने परिसमाप्यते' इति स्मरणात्। अत्र हि प्रसिद्धयागादीनेवाऽपेक्ष्य सर्वग्रहणमिति भ्रमं व्युदस्य श्रवणादेरपि संग्रहायैवाऽखिलमित्युक्तम्, अन्यथा पौनरुक्यात्।
"योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम्।
स जीवन्नेव शूद्रक्वमाशु गच्छति सान्वयः॥" (मनुस्मृ0 2।167)
इत्यकरणे प्रत्यवायमपेक्ष्य विध्यङ्गीकारे प्रकृतेऽपि तथाऽस्तु।
"नित्यं कर्म परित्यज्य वेदान्तश्रवणं विना।
वर्तमानस्तु संन्यासी पतत्येव न संशयः॥"
इति प्रत्यवायसस्मरणात्।
ननु ब्रह्मज्ञाने श्रवणादीनामन्वयव्यतिरेकादिना नास्ति साधनभावप्राप्तिः; निर्विशेषस्य ब्रह्मणो वेदान्तैकसमधिगम्यत्वात्, तत्कथं नियमसिद्धिः? मैवम्; `व्रीहीनवहन्ति' इत्यत्र शास्त्रैकगम्यापूर्वीयव्रीहिष्यन्यतोदलनाद्यप्राप्तावपि अवघाते यथा नियमः, तथा श्रवणेऽपि पाक्षिकत्वमन्तरेणैव नियमोऽस्तु। अथ व्रीहिमात्रसाधारणाकारेण प्राप्तिमपेक्ष्य तत्र नियमः? तदत्राऽपि समानम्, विषयज्ञानमात्रसाधारणाकारस्य सुवचत्वात्।

अथाऽवघातेऽपूर्वविधिरेव सन् फलतो नियम इति व्यवह्रियते,श्रवणोऽपि तथा भविष्यति। न च भाष्यविरोधः, दर्शनविधेरेव तत्र निराकरणात्। दर्शनविधाने हि `प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः प्राधान्येन' इति न्यायेन प्रत्ययार्थस्य नियोगस्यैव प्राधान्याद् दर्शनस्य प्रकृत्यर्थतया गुणभूतत्वेन तद्विशेषणस्य ब्रह्मणोऽपि सुतरां गुणभावः स्यात्; ततो न वेदान्तैर्बह्मसिध्येत्। फलत्वेन प्रधानं ब्रह्मदर्शनमुद्दिश्य श्रवणविधाने तु न कोऽपि दोषः।
वाक्यभेदश्च किमेकदेशिनाऽऽपाद्यते किं वा तान्त्रिकेण? नाऽऽद्यः वेदान्तेऽप्यवान्तरवाक्यभेदेन `विविदिषन्ति यज्ञेन' इत्यत्र ज्ञानसाधनत्वेन यज्ञादिविध्यङ्गीकारात्। न द्वितीयः, प्रेताग्निहोत्रप्रकरणे `अधस्तात् समिधं धारयन्ननुद्रवेत्' इत्यधोधारणं विधाय `उपरि हि देवेभ्यो धारयति' इति पठितम्। तत्र दैविकमुपरिधारणमन्यप्रकरणमध्ये श्रुतमपि विधेयमिति `विधिस्तु धारणेऽपूर्वत्वात्' इत्यधिकरणे निर्णीतत्वात्।
अथ कथञ्चिदेतधिकरणं प्रभाकरो नाऽङ्गीकुर्यात् तथापि दर्शपूर्णमासप्रकरणे `तिस्रो रात्रीर्व्रतं चरेत्' इति रजस्वलया व्रतकलापविधिमङ्गीकरोत्येव। तस्माद् ब्रह्मप्रकरणेऽपि श्रवणं विधीयतां का तव हानिः? अथ व्रतकलापस्य प्रकरणान्वयासम्भवादगत्या वाक्यभेदाश्रयणम्, इह तु तव्यप्रत्ययस्याऽर्हार्थऽत्वेनाऽप्यन्वयसंभवान्न तद्युक्तमिति तवाऽपरितोषः, तर्हि `तस्माद् ब्राह्मणः पाण्डित्यं निर्विद्य' इत्यादि वाक्यं श्रवणादिविधायमस्तु, तस्याऽनारम्भाऽधीतत्वेनोक्तविरोधाभावात्। आपाततः श्रवणाद्यप्रतीतावपि वाक्यपर्यालोचने वाक्यस्य श्रवणादिविधिरपरत्वात्। सूत्रकारेणैव `सहकार्यन्तरविधिः' इति सूत्रे पाण्डित्यबाल्ययोः श्रवणमननरूपत्वेन विधिं सिद्धवत्कृत्य `अथ मुनिः' इति वाक्यशेषे निदिध्यासनरूपत्वेन मौनस्य विधित्वप्रतिपपादनाद् असाम्प्रदायिकत्वं दूरापास्तम्। ननु एवमपि अधीत्य स्वाध्यायेनाऽवगतस्य `श्रोतव्यः' इत्यस्य श्रवणविधएरनुपपत्तिस्तदवस्थैवेति चेत्, न; तव्यप्रत्ययस्य विधावपि स्मरणात्। `तद्विजिज्ञासस्व' इत्यादिषु समानप्रकरणेषु श्रुत्यन्तरेषु श्रवणस्य अवश्यं वाक्यभेदेन विधेरङ्गीकर्तव्यतया त्वदपरितोषस्य निरवकाशत्वात्। न चैकस्यामेव शाखायां `श्रोतव्यः' `पाण्डित्यं निर्विद्य' इति श्रवणविधिद्वयं पुनरुक्तमिति वाच्यम्, एकत्र विधायाऽपरत्र निधिमनूद्य विशेषकथनात्। अथवा यथा द्विर्मैत्रेयीब्राह्मणमपुनरुक्तम्, एकस्योपसंहाररूपत्वात्; तथा द्विः श्रवणविधिर्भवतु। तस्मात् उपपद्यत एव श्रोतव्य इति विधिः॥ 1॥
तत्र श्रवणं नाम वेदान्तवाक्यानि विचार्य `उपक्रमादिभिर्लिङ्गैर्वाक्यतात्पर्यनिर्णयः' इति पुराणवचनेनोक्तम्। तथा च विरक्तेनाऽधइकारिणाऽमृतत्वसाधनभूतात्मदर्शनाय वेदान्तवाक्यविचारः कर्तव्य इति। एवं तावदधीतस्वाध्यायः पुमान् वेदादेवाऽवगत्य पश्चादेवं संदिग्धे- किं वैराग्यमात्रमधिकारिविशेषणम् उताऽन्यदप्यस्ति? नानाविशेषणेषु तद्विशिष्टाधिकारिणि च किं प्रमाणम्? वेदान्तवाक्यविचारश्च धर्मविचारेणैव गतो न वा? कथं वा वेदान्तवाक्यानि विचार्याणि? किलक्षणमात्मतत्त्वम्? तस्मिंश्च किं प्रमाणम्? तस्य च प्रमाणस्याऽस्ति केनचिद् विरोधो न वा? तत्त्वगोचरज्ञानं च किं कर्मभिः समुच्चित्याऽमृतत्वसाधनम् उत केवलमेव? केवलस्य साधनत्वे वा किं प्रमाणम्? कीदृशममृतत्वं किंप्रमाणकं चेति। त एते संदेहा अन्येऽप्येवंविधा नानाविधैर्न्यायैर्निर्णेतव्याः। तांश्च न्यायान् परमकृपालुर्भगवान् बादरायणः सूत्रयितुकामः प्रथमतः `श्रोतव्यः' इति वाक्ये प्रतिपन्नमधिकारिविषयफलाख्यानुबन्धत्रयोपेतं विधिं न्यायेन निर्णयंस्तदर्थभूतविचारकर्तव्यतां वक्ष्यमाणकृत्स्नशास्त्रप्रवृत्तिहेतुत्वेनोपोद्घातभूतां सूत्रयामास - `अथातो ब्रह्म जिज्ञासा' इति।
तत्र `आत्मनस्तु कामाय'इति वाक्ये विरक्त्युपलक्षितसाधनचतुष्टयसपन्नोय एवाऽधिकारी प्रतीयते स एव अथशब्दार्थः। `अमृतत्वस्य तु नाशास्तिवित्तेन'इति वाक्ते वित्तोपलक्षितलौकिकवैदिककर्मभिरमृतत्वं नास्तीति यदुक्तं तदेवाऽतःशब्देन हेतूक्रियते। `आत्मनि खलु' इत्यादिना वाक्येनाऽमृतत्वसाधनात्मदर्शनाय वेदान्तवाक्यविचाररूपं श्रवणं कर्तव्यमित्युक्तम्। तत्सर्वं ब्रह्मजिज्ञासापदेनाऽवगन्तव्यम्।
नन्वेतत् सूत्रं विधायकमनुवादकं वा? नाऽऽद्यः, लिङ्- लोट्- तव्यप्रत्ययानामदर्शनात्। नेतरः, अप्रवर्तकेनाऽनेन श्रवणविध्यसङ्ग्रहप्रसङ्गात्, मैवम्; `कर्तव्या' इत्यध्याहार्यत्वात्। ज्ञानेच्छयोर्वस्तुतन्त्रयोः कर्तुमशक्यत्वात् अध्याहृतेन जिज्ञासापदं नाऽन्वियादिति चेत्, तर्ह्यनयैवाऽनुपपत्त्या जिज्ञासापदेनाऽनुष्ठानयोग्यो विचारो लक्ष्यताम्। अविनाभावसम्बन्धश्च सन्दंशन्यायप्रसादात् सुसंपादः। संदष्टो हि ज्ञानेच्छाभ्यां विचारः। प्रथमत इच्छायां सत्यां विचारो सति पश्चादेव ज्ञानोत्पत्तेः। न च वाच्यं लक्षणायां विचाराख्यो विषयानुबन्ध एव सिध्येद् न ब्रह्मज्ञानाख्यः फलानुबन्ध इति, अजहल्लक्षणया स्वार्थस्याऽपि स्वीकृतत्वात्।
ब्रह्मज्ञानजनकत्वान्यथानुपपत्त्या विचारस्य वेदान्तवाक्यविषयत्वं लभ्यते। नह्यन्यविचारकाणां ब्रह्मज्ञानामुपलभामहे। फलत्वान्यथानुपपत्त्या ब्रह्मज्ञानस्य मोक्षसाधनत्वसिद्धिः। अधिकारिभिरिष्यमाणं हि फलम्। अत्र हि साधनचतुष्टयसंपन्ना अधिकारिणो निःशेषदुःखोच्छित्तिनिरतिशयानन्दावाप्ती तत्साधनं च विहाय नान्यदिच्छन्ति। तत्त्वज्ञानस्य दुःखोच्छेदानन्दावाप्तिरूपत्वासंभवेन परिशेषात्तत्साधनत्वम्।
तदेवं साधनचतुष्टयसंपन्नस्य कर्मभिर्मोक्षासिद्धेर्मोक्षसाधनब्रह्मज्ञानाय वेदान्तवाक्यविचारः कर्त्तव्य इति श्रुतार्थः समग्रोऽपि सूत्रे संगृहीतः।
एवं शास्त्रप्रवृत्तिहेतुत्वं च विचारकर्त्तव्यताया अन्वयव्यतिरेकसिद्धम्। सति ह्यनुबन्धत्रयोपेते विधौ पुरुषाः प्रवर्त्तन्ते, ज्योतिष्टोमादौ तथा दर्शनात्। असति तु न प्रवर्तन्ते, सप्तद्वीपा वसुमतीत्यादौ प्रवृत्त्यदर्शनात्।
सा च विचारकर्त्तव्यता वक्ष्यमाणशास्त्रप्रवृत्तिहेतुभूता प्रथमसूत्रेणाऽनेनेत्थं निर्णीयते--
विमतं शास्त्रमारम्भणीयम्, सम्भावितविषयप्रयोजनत्वात्, कृष्यादिवदिति। न च सूत्रे विषयप्रयोजनानुपादानान्नाऽयं विषयः सूत्रसिद्ध इति शङ्कनीयम्, मुखतोऽनुपादानेऽप्यर्थात् सूचितत्वात्। सूत्रस्य हि सूचनमलङ्कारः, न तु दोषाय। तत्र तावद् `जन्माद्यस्य यतः' इत्यादिशास्त्रेण विचार्याणां वेदान्तानां `स वा अयमात्मा ब्रह्म' इत्यादिश्रुतिप्रसिद्धं ब्रह्मात्मैकत्वं विषयः। तच्चैकचत्वमखण्डैकरसवस्तुप्रतिपादकेन ब्रह्मशब्देन सूत्रे सूत्रितम्। `तरति शोकमात्मवित्' `ब्रह्मविदाप्नोति परम्' इत्यादिश्रुतिप्रसिद्धं दुःखोच्छेदब्रह्मप्राप्ती प्रयोजनम्। ते च तत्साधनभूतब्रह्मज्ञाननिर्द्देशात् सूत्रिते एव। न केवलं सूत्रकारो विषयप्रयोजने सूत्रितवान्, किन्तु तयोरुपपादनं चैवमभिप्रेयाय -- विमतं शास्त्रं सम्भावितविषयप्रयोजनम्, अविद्यात्मकबन्धप्रत्यनीकत्वात्, जाग्रद्बोधवदिति।
न च बन्धस्याऽविद्यात्मकत्वमसूत्रसूचितमिति वाच्यम्, बन्धस्य ज्ञाननिवर्त्यत्वाङ्गीकारेणैव तत्‌सूचनात्। तथा हि - निःशेषदुःखनिवर्तकत्वं तावद् ब्रह्मज्ञानस्य फलत्वसिद्धये सूत्रकारेणाऽङ्गीकृतम्। प्रमातृत्वकर्तृत्वभोक्तृत्वादिबन्धश्च सर्वोऽपि दुःखबीजत्वाद् दुःखमेव। तत्र विचारणीयम्- किमयं बन्धः पारमार्थिकः स्यादपारमार्थिको वेति। आद्ये ब्रह्मज्ञानान्न निवर्तेत। ये त्वेकदेश्यादयः पारमार्थिकस्यैव ज्ञानान्निवृत्तिमङ्गीकुर्युस्ते प्रष्टव्याः -- ज्ञानं स्वविषये वा निवृत्त्याख्यमतिशयं जनयति स्वाश्रये वा? आद्येऽपि स्वविषयं संसारिणमात्मानमेव निवर्तयेद्, उत तद्गतं धर्ममात्रम्, अथवा स्वबोध्याखण्डैरसत्वविरोधिन एव कर्तृत्वादीन्, किं वा विषगतानवबोधमेव? न तावत् प्रथमद्वितीयतृतीयाः, नहि नानावर्णे चूतादि फले नीलभागज्ञानं स्वविषयं वा तत्समवेतरसादिकं वा विरोधिनं पीतिमादिगुणं वा निवर्तयति। चतुर्थे त्वस्मन्मतापत्तिः। आश्रयातिशयपक्षेऽपि किमाश्रयनिवृत्तिः, किं वा तद्गुणानाम् उतश्रयविषयोभयसंबन्धिधर्माणाम्? नाऽऽद्यः, प्रतिक्षणमात्मविनाशापत्तेः। न द्वितीयः, घटज्ञानेनाऽऽत्मगतधर्मादिगुणानिवृत्तेः। न तृतीयः, स्वदेहज्ञानेन देहात्मसंबन्धाद्यनिवृत्तेः। `तमेव विदित्वाऽतिमृत्युमेति' इति श्रुतत्वाद् वास्तवोऽपि बन्धो ज्ञानविवर्त्त्य इति चेद्, न; श्रुतेर्बन्धसत्यत्वासत्ययोस्याटस्थ्यात्। अस्माभिस्तु श्रुतोपपत्त्यर्थं बन्धस्याऽविद्यमात्वं कल्प्यते। यथा ज्योतिष्टोमादीनां श्रुतस्य स्वर्गसाधनत्वस्योपपत्त्यर्थमपूर्वं भवद्भिः कल्प्यते तद्वत्। अथ तत्र क्षणिकानां कर्मणां कालान्तरभाविफलसाधनत्वाभावव्याप्तिनियमः कल्पकोऽस्ति, तर्हीहाऽपि `ज्ञानमज्ञानस्यैव निवर्तकम्' इति व्याप्तिनियमः कल्पकोऽस्तु। अतोऽपारमार्थिकत्वमवशिष्यते बन्धस्य। तदेवं ब्रह्मज्ञाननिवर्त्यस्य बन्धस्याऽज्ञानात्मकत्वं सूत्रेणैव सूचितम्।
नन्वेवं तदविद्यात्मकत्वं सूत्रकारेण मुखत एव वर्णनीयम्, विषयप्रयोजन साधनद्वारा कृत्स्नशास्त्रारम्भसमर्पकत्वात्। मुखतोऽप्रतिपादनेऽतात्पर्यप्रसङ्ग इति चेत्, तर्हि वर्णितमेवैतन्मुखतो द्वितीयाध्याये `तद्गुणसारत्वात्' इत्यादि सूत्रे। सूत्रस्य चाऽयमर्थः -- आत्मनो देहोत्क्रान्तिपरलोकगत्येतलोलकागतीनां श्रुततत्वात् सर्वगतत्वं विरुद्धमिति चेद्, बुद्धिगुणसारत्वात्। बुद्ध्यात्मनोरितरेतरतादात्म्याध्यासेन बुद्धिगुणेष्वेवोत्क्रान्त्यादिषु सर्वगतस्याऽऽत्मनोऽभिमानमात्रं जायते। तच्च श्रुत्याऽनूद्यते -- निजस्वरूपबोधनायेति। तर्हि कृत्स्नशास्त्रारम्भं प्रत्युपोद्घातत्वात् प्रथममेवाऽध्यासविषयं सूत्रं प्रणेतव्यम्। उपोद्घातश्च प्रतिपाद्यमर्थं बुद्धौ संगृह्य प्रागेव तदर्थमर्थान्तरवर्णनमिति चेद्, न; प्रतिपादने प्रवृत्तेन सूत्रकारेण विरोधपरिहारसूत्रस्य प्रथमतो वक्तुमाशक्यत्वात्। प्रतिपाद्यं मुखतः प्रतिज्ञाय पश्चात् तत्सिद्धिहेतुप्रदर्शनं प्रतिपादनम्। तथा च प्रथमेनाऽध्यायेन ब्रह्मणि वेदान्तसमन्वयं प्रदर्श्य तदुपपादको विरोधपरिहारः पश्चात् कर्त्तव्यः। प्रथममप्रदर्शिते पुनः समन्वयविशेषे तद्विरोधाशङ्का तन्निराकरणं च निर्विषयं स्यात्।
नन्वेवमादावध्यासानुक्तौ विषयप्रयोजनासिद्ध्या शास्त्रप्रवृत्तिर्न स्याद्,मैवम्; प्रथमसूत्रेऽध्यासः साक्षादनुक्तोऽप्यर्थात् सूचित इत्युपपादितत्वात् सिध्यत्येव शास्त्रप्रवृत्तिः।
ननु सूत्रसूचितोऽप्यध्यासो न युक्तिसहः। तथा हि - आत्मानात्मनौ इतरेतरतादात्म्याध्यासरहितौ, क्वाऽपीतरेतरभावरहितत्वात्, तमःप्रकाशवत्। न च हेत्वसिद्धिः, विमतौ तादात्म्यशून्यौ, विरुद्धस्वभावत्वात्, तमःप्रकाशवत्। न चाऽसिद्धो हेतुः, विमतौ विरुद्धस्वभावौ, युष्मदस्मप्रत्ययगोचरत्वाद्, देवदत्तद्वैरिवत्। न च वाच्यं देवदत्तस्य स्वशरीरादिसंघातेऽस्मत्प्रत्ययस्तत्रैव तद्वैरिणो युष्मत्प्रत्ययः, न च तत्र विरोधोऽस्ति। एवं तद्वैरिण्यपि प्रत्ययव्यत्यासेन योजने दृष्टान्तः साध्यविकलः स्यादिति। नहि भिन्नाश्रययोः प्रत्यययोर्विषयौ दृष्टान्तत्वेन विवक्ष्येते; किं तर्हि समानाश्रययोरिति। नहि प्रत्येतकाकारौ दृष्टान्तत्वेन विवक्ष्येते; किं तर्हि देवदत्तप्रतीत्या तद्वैरिप्रतीत्या च सिद्धः समुदायाकारो दृष्टान्त इति नोक्तदोषः। स्यादेतत् - किमत्र लोकप्रसिद्धावात्मानात्मनौ पक्षीक्रियते? किं वा प्राभाकरादिसिद्धौ? उत वेदान्तिसिद्धौ? नाऽऽद्यः, द्वयोरनुमानयोः सिद्धसाधनत्वात्। तृतीयानुमानस्याऽनुभवविरोधात्। लोके हि देहादिचैतन्यान्तसंघात आत्मा पाषाणादिरनात्मा। न च तयोरैक्याध्यासैक्ये वेदान्त्यभिमते। नाऽपि तयोर्नियतो विरोधोऽनुभूयते। न द्वितीयः, प्राभाकरादयो हि प्रमातृत्वकर्तृत्वभोक्तृत्वाद्याश्रयं जडमात्मानमाहुः, इन्द्रियदेहाद्यखिलप्रपञ्चमनात्मानम्। तत्र वेदान्तिमते प्रमातृत्वाद्याश्रयोऽहङ्कारे जाड्यं च तत्कारणमज्ञानमित्युभयमप्यनात्मन्येवाऽन्यर्भवति। तथा चाऽनात्मन एककोटेरध्यासतादात्म्यविरोधानङ्गीकारात् पूर्वोक्तमेव दोषद्वयं स्यात्। न तृतीयः, वेदान्तिनो हि सर्वोपप्वरहितं विज्ञानघनमात्मानमाहुस्तद्व्यतिरिक्तं च सर्वमनात्मानम्। तत्र किमेकस्मिन् प्रत्ययद्वयगोचरत्वं हेतुत्वेन विवक्षितम् उताऽऽत्मन्यस्मत्प्रत्ययगोचरत्वम् अनात्मनि चेतरदिति। आद्ये स्वरूपासिद्धिः, द्वितीये भागासिद्धिः। देहेन्द्रियान्तःकरणप्राणादिष्वनात्मसु युष्मत्प्रत्ययाभावात्। व्यवहारदृष्
ट्या तदभावेऽपि शास्त्रदृष्ट्या `चिदवभास्यो युष्मदर्थः' इत्येतल्लक्षणानुसारेणाऽस्त्येव तत्र युष्मत्प्रत्यय इति चेद्, एवमपि स्वप्रकाशे चिदात्मनि वेदान्तिनामत्मत्प्रत्ययाभावात् स दोषस्तदवस्थः। तस्मात् नाऽनुमानसिद्धिरिति।
अत्रोच्यते -- वेदान्तिनं प्रत्यस्त्येवाऽनुमानसिद्धिः। न चाऽऽत्मनि भागासिद्धिः; स्वप्रकाशस्याऽप्यहङ्कारे स्फुटतरव्यवहारयोग्यत्वेनाऽस्मत्प्रत्ययगोचरत्वस्योपचरितुं शक्यत्वात्। न चैवं मन्तव्यं देहद्वयसाक्षिणोश्चैतन्ययोरन्योन्यं युष्मदस्मदर्थत्वेऽपि विरोधाभावादनैकान्तिक इति; चैतन्यस्य चिदवभास्यत्वलक्षणलक्षितयुष्मदर्थत्वाभावात्। तादृश एव चाऽत्राऽभिप्रेतो न तु लौकिक युष्मदर्थः। तथाऽप्येतेनाऽनुमानेन प्रत्ययद्वारा विरोधसिद्धिर्न तु स्वरूपेणेति चेत् तर्ह्येवमस्तु--
आत्मानात्मानौ विरुद्धस्वभावौ, विषयिविषयत्वात्, नेत्ररूपवदिति। ननु चिद्रूपस्याऽऽत्मनो जडरूपमनात्मानं प्रति साधकत्वेनाऽऽनुकूल्यमनुभूयते; अतो वध्यघातकभावलक्षणस्य सहावस्थानसामर्थ्याभावलक्षणस्य वा विरोधस्य च प्रातिकूल्यस्य प्रसाधनेऽनुभवविरोधः तथा दृष्टान्तस्य साध्यविकल इति चेद्, मैवम्; भावाभाववत् परस्परात्मतासामर्थ्याभावलक्षणस्य विरोधस्येह विवक्षितत्वात्। कथं तर्हि मध्याऽनुमाने तमःप्रकाशयोर्दृष्टान्तत्वम्, तयोः सहावस्थानसामर्थ्याभावलक्षणविरोधस्य प्रसिद्धत्वादिति चेद्, मैवम्; मन्दप्रदीपे वेश्मनि तमसो दीपेन सहावस्थानात्। अन्यथा स्फीतालोकप्रदेशवदत्राऽपि स्पष्टरूपदर्शनप्रसङ्गात्। तमःप्रकाशशब्दाभ्यां तदेकदेशभूतौ छायातपावुपलक्ष्येते इति चेत्, तथाऽपि छायायामेकविधायां तारतम्येनोपलभ्यमानमौष्ण्यं स्वधर्मिण आतपस्याऽपि अवश्यमवस्थानं सूचयतीति सहावस्थानं दुर्वारम्।
एवमेव तमःप्रकाशशब्दाभ्यां लक्षितलक्षणया छायातपस्थयोः शेत्यौष्ण्ययोः स्वीकारेऽपि सहावस्थानं सुसंपादम्। तस्मात् जातिव्यक्त्योर्यथातादात्म्यसामर्थ्यं नैवं तमःप्रकाशयोरित्ययमेव तयोर्विरोधः।
ननु तमःप्रकाशदृष्टान्ते भावभावरूपत्वमुपाधिः। आलोकाभावस्तम इति तार्किका रूपदर्शनाभावस्तम इति प्राभाकरा इति चेद्; मैवम्; उपचयापचयाद्यवस्थाभेदवत्त्वेनोपलक्ष्यमाणस्याऽभावत्वायोगात्। नीलरूपत्वेन द्रव्यत्वात्। ननु भावत्वबक्षे बहलालोकवति देशे निमीलितनयनस्य कथं तमःप्रतीतिः, बहलालोकेन निवृत्त्यङ्गीकारात्। सहावस्थानं तुमन्दलोकेनैव पूर्वमुक्तमिति चेद्; न, गोलकान्तर्वर्तितमसः प्रतीत्युपपत्तेः। न च नेत्रस्याऽन्तर्वर्त्तिवस्तुग्राहकत्वासम्भवः, पिहितकर्णस्याऽन्तरशब्दग्राहकत्वदर्शनात्। न चैवं गोलकान्तरस्थाञ्जनादेरपि निमीलितनयनेन ग्रहणप्रसङ्गः; तमोव्यतिरिक्तरूपिण आलोकसहकृतचक्षुर्ग्राह्यत्वनियमात्।
अथ मतम् - द्रव्यत्वे सति तमस आलोकविनाशितस्याऽऽलोकापगमे झटिति नोत्पत्तिः, कार्यद्रव्याणां द्व्यणुकादिक्रमेणैवाऽऽरम्भादिति, तन्नः; विवर्तवादिनां क्रमानपेक्षणात्, कारणं तु मूलाविद्यैव। अथाऽपि तमो न रूपवद्द्रव्यम्, स्पर्शशून्यत्वात्, आकाशवत् इति चेद्, न; वायुर्न स्पर्शनात्, रूपशून्यत्वात्, आकाशवदित्याभासेन समानत्वात् प्रत्यक्षविरोधस्य तुल्यत्वात्।
अथाऽऽलोकाभावे समारोपितं नीलरूपं गोचरयतीति तमःप्रत्यक्षस्याऽन्यथा गतिरुच्यते एवमपि हेतुरनैकान्तिकः -- रूपवद्द्रव्यस्यैव धूमस्य चक्षुःप्रदेशादन्यत्र स्पर्शशून्यत्वात्। तत्र विद्यमान एव धूमस्पर्शोऽनुद्भूत इति चेत्,तर्हि तमःस्पर्शोऽपि सन्नेव सकर्वत्रानुद्भूत इति हेत्वसिद्धिः स्यात्। न च सतः सर्वत्रानुद्भवोऽसम्भावितः, आकरजे सुवर्णादौ सत एव स्वपरप्रकाशकभास्वररूपस्योष्णस्पर्शस्य च सर्वत्रानुद्भवदर्शनात्। तदेवं भावरूपतमोवादे न कोऽपि दोषः।
नन्वभाववादेऽपि तथा। उपचयाद्यवस्थानां प्रतियोग्यालोकोपाधिकत्वाद् नीलरूपस्याऽऽरोपितत्वादिति चेद्, मैवम्; दुर्निरूपत्वात्। तथा हि -- किमालोकमात्राभावस्तमः, उतैकैकालोकाभावः, सर्वालोकाभावो वा। प्रथमद्वितीयपक्षयोः प्रागभाव इतरेतराभावः प्रध्वंसाभावो वा तम इति दुर्भणम्, सवितृकरसंतते देशे प्रदीपजन्मनः प्राग्वा जाते वा प्रदीपे दीपनाशे वा तमोबुद्ध्यभावात्। तृतीये सर्वालोकसंनिधानमन्तरेणन निवर्तेत।
रूपदर्शनाभावस्तम इत्यप्ययुक्तम्, बहलान्धकारसंवृतापवरकमध्यस्थितस्य बहीरूपदर्शनान्तत्समोदर्शनयोर्युगपदेव भावात्। तस्मात् नाभावस्तम इति दृष्टान्ते नाऽस्त्युक्तोपाधिः।
नन्वेवमप्यन्योन्यतादात्म्यसामर्थ्याभावाख्यो भवदीयो मूलहेतुरनैकान्तिकः। `इदं रजतम्' इत्यत्र भ्रान्तिस्थले पुरोवर्त्तिरजतयोर्विविक्तयोस्तादात्म्यसामर्थ्याभावेऽपि तादात्म्यसंदर्शनादिति चेद्, न; तत्र सामर्थ्यसद्भावेन हेत्ववृत्तेः। तत्सामर्थ्यं च सम्यग्रजस्थले पुरोवर्तिरजतयोर्वास्तवतादात्म्ये सति तत्सामर्थ्यसम्भवादसिद्धो हेतुरिति वाच्यम्, वास्तवतादात्म्यस्यतयोः क्वाऽपि दुःसंपादत्वात्। तथा हि -- किं द्रष्टुर्द्दृश्यतादात्म्यमुच्यते दृश्यस्य वा द्रष्टृतादात्म्यम्? आद्येऽपि न तावत् स्वाभाविकम्, चिदेकरसे द्रष्टरि दृश्यांशासम्भवात्; अन्यथा कर्मकर्तृभावेन तादात्म्यानुपपत्तेः। आगन्तुकत्वेऽपि किं द्रष्टा दृश्यांशाकारेण उत हेतुबलात्? उभयमप्यसङ्गतम्, द्रष्टुर्निरवयवत्वात्। नहि निरवयवमाकाशं स्वतो वा कारणान्तद्वारा सावयवाकारेण परिणममानं दृष्टम्। दृश्यस्य धर्मिणो द्रष्टा प्रतियोगिना तादात्म्यमित्यस्मिन् द्वितीयेऽपि पक्षे द्रष्टृत्वस्य स्वाभाविकत्वे दृश्यत्वं हीयेत। अंशतो दृश्यत्वमपि स्वस्याऽस्तीति चेत्, तर्हि कर्मकर्तृत्वविरोधः। आगन्तुकत्वेऽपि किं दृश्यं स्वयमेव तिद्रूपेण परिणमते उताऽऽत्मचैतन्यं स्वस्मिन् संक्रामयति। नाऽद्यः, जडजन्यस्य कार्यस्य चिद्रूपत्वासम्भवात्। नहि जडाया मृदः परिणामो घटः चिद्रूपो दृष्टः। न द्वितीयः; आत्मचैतन्यस्य सकर्वगतस्य वस्तुतः प्रवेशायोगात्। तदेवं क्वाऽप्यत्यन्तदुःसंपादवास्तवतादात्म्ययोश्चिदचितोस्तत्सामर्थ्यासम्भवेन हेतुसिद्धेर्मध्यानुमानं सुस्थम्। ततो मूलानुमानसिद्धेरध्यासाभावः सुस्थितः।
`मा भूद् धर्मिणोस्तादात्म्याध्यासः। तथाप्यात्मधर्माणामनात्मनि संसर्गाध्यासोऽस्तु। न च चिदेकरसस्याऽऽत्मनो धर्मासम्भवः; आनन्दविषयानुभवनित्यत्वादीनां सत्त्वात्। यद्यपि एते स्वरूपभूता एवाऽऽत्मनः, तथाप्यन्तः करणावृत्त्युपाधौ नानेवाऽवभासन्त इति तेषां धर्मत्वमुपचर्यते। न च धर्मिणं विहाय धर्माणां स्वातन्त्र्येणाऽध्यासासम्भवः, जपाकुसुमसंनिधौ लोहितः स्फटिक इत्यादौ धर्ममात्राध्यासदर्शनात्। नैतत् सारम्; धर्माणां स्वातन्त्र्यायोगात्। स्फटिकेऽपि प्रतिबिम्बितजपाकुसुमाश्रितमेव लौहित्यं प्रतीयते न तु स्वातन्त्र्येण। तस्मात् नाऽस्ति धर्माणामप्याश्रयव्यत्यासेन संसर्गाध्यासः। धर्मधर्मिणोरर्थयोरध्यासे निराकृते तदविनाभूतो ज्ञानाध्यासोऽपि निराकृत एव। तस्मात् न युक्तिसहोऽध्यास इति।
अत्रोच्यते- किं युक्तिविरोधादवस्तुत्वमध्यासस्याऽऽपाद्यते किं वा वस्तुस्वरूपमेवाऽपलप्यते? नाऽद्यः; अनिर्वचनीयवादिनामस्माकमध्यासस्याऽवस्तुत्वयुक्तिविरोधयोरिष्टत्वात्। विरुध्यतेस ह्यात्मानात्माध्यासो युक्तिभिरित्येवानिर्वाच्यत्वमङ्गीक्रियते। अन्यथा तस्य वस्तुत्वमेवाऽभ्युपेयं स्यात्।
ननु तर्हि अपलपाम एवाऽध्यासम् - नाऽस्त्येवात्मनात्मनोरध्यासः; तत्सामग्र्यभावात्; लोके हि `इदं रजतम्' `अयं सर्पः' इत्यादावधिष्ठाध्यस्यमानयोर्गुणावयवकृतं सादृश्यमध्याससमाग्री, न चाऽसावत्रास्ति; आत्मनो निर्गुणत्वान्निरवयवत्वाच्च। न च वाच्यम् -- `लोहितः स्फटिकः' इत्यत्राऽसत्येवोक्तसादृश्येऽस्त्यध्यास इति; तत्र सोपाधिकभ्रमत्वेन सादृश्यानपेक्षणात्। लौहित्याश्रयभूतं संनिहितं जपाकुसुममुपाधिस्तस्य स्फटिके लौहित्यावभासनिमित्तत्वात्। नन्वेवं कर्तृत्वाद्याश्रयं संनिहितमहङ्कारमुपाधिं कृत्वाऽऽत्मनि कर्तृत्वादिकमध्यसितुं शक्यमिति चेत्, तर्ह्यस्तु कथंचित् कर्तृत्वाद्यध्याससम्भवस्तथाप्यात्मन्यहङ्कारादिशरीरान्तधर्म्यध्यासो निरुपाधिको न सम्भवत्येव, सादृश्याभावादिति चेत्, तदेतदसारम्; गुणैरवयवैश्च शून्यस्याऽपि गन्धस्य `केतकीगन्धसदृशः सर्पगन्धः' इत्यादौ यथा सौगन्ध्यधर्मेण सादृश्यम्; तथाऽऽत्मनोऽपि पदार्थत्वधर्मेण सादृश्य सम्भवात्। चैतन्यैकरसे धर्मः कोऽपि वस्तुतो न सम्भवतीति चेत्; तर्हि मा भून्निरुपाधिकभ्रमं प्रति सादृश्यस्य सामग्रीत्वम्। सादृश्यमन्तरेणैव `पीतः शङ्खः' इति निरुपाधिकभ्रमदर्शनात्। अथ तत्र रागपित्तोद्रेककाचकामलादि सामग्र्यन्तरमस्ति; अस्त्येव तर्ह्यत्राऽप्यविद्याख्या सामग्री।
ननु ज्ञानाभावत्वेन भावरूपत्वेन च विप्रतिपन्नाया अविद्यायाः सामग्रीत्वाङ्कीकारात् वरमध्यासापलाप एवेति चेत्, मैवम्; प्रत्यगात्मसत्त्वमात्रमुपजीव्य तदीयचिदानन्दाच्छादकत्वेन व्यवस्थितस्याऽनादेः प्रत्यक्षस्याऽपलापायोगात्। अन्यथा प्रत्यगात्माप्यपलप्येत।
कार्यस्याऽध्यासस्याऽनादित्वमयुक्तमिति चेद्च मैवम्; आत्मनि तावत्कर्तृत्वभोक्तृत्वरागादिदोषसंयोग एवाऽध्यासः। तत्र भोक्तृत्वाध्यासः कर्तृत्वाध्यासमपेक्षते; अकर्तुर्भोगाभावात्। कर्तृत्वं च रागादिदोषसंयोगाध्यासमपेक्षते; रागादिरहितस्य कर्तृत्वाभावात्। दोषसंयोगश्च भोक्तृत्वमपेक्षते; अनुपभक्तेऽनुपभुक्तजातीये वा रागाद्यनुत्पत्तेः। तथा च बीजाङ्कुरवत् प्रवाहरूपेण कर्तृत्वादीनामनादित्वम्। एतेनैतदप्यपास्तम् -- प्रपञ्चस्य प्रतीतौ सत्यामारोपः, आरोपे च प्रतीतिरिति परस्पराश्रयत्वमिति। अनादित्वे सति पूर्वपूर्वाध्यासोपदर्शितस्य देहादेः संस्काररूपेण स्थितस्योत्तरोत्तराध्यास हेतुत्वात्।
न च देहादेरवस्तुत्वादनारोप इति वाच्यम्, प्रतीतिमात्रेणारोप्यत्वसिद्धौ वस्तुसत्ताया अप्रयोजकत्वात्। `इदं रजतम्' इत्यादौ हि सत्यानृतयोः शुक्तिरजतयोस्तादात्म्यमध्यस्यते। न च दूरस्थवनस्पत्योः सत्ययोरेव तादात्म्यमध्यस्यत इति वाच्यम्; तत्राऽपि सत्येव वृक्षद्वयेऽधिष्ठानेऽनृतस्यैवैकत्वधर्मस्याऽध्यासात्। अन्यथा वस्तुनोर्गुणगुणिनोरपि तादात्म्यस्याऽध्यस्तत्वप्रसङ्गात्।
यद्यप्यात्मानात्मनोरन्योन्यस्मिनन्नन्योन्यतादात्म्याध्यासः समानः; तथाप्यात्मनः संसृष्टरूरेणैवाऽध्यासो न स्वरूपेणेति सत्यत्वम्, अनात्मनस्तु स्वरूपेणाऽप्यध्यास इत्यनृतत्वम्।
न च तयोः सत्यानृतयोस्तादात्म्ये गुणगुण्यादाविव भेदाभेदावभासेन `शौक्ल्यवान् पटः' इतिवद् `देहेन्द्रियादिमान् आहम्' इति वा `ममेदं देहादि' इति वा प्रत्ययः; इतरेतरत्वमत्यन्तैकत्वमापाद्यैवाऽध्यासस्वीकारात्। तर्हि तादात्म्याध्यास इति न वक्तव्यं किं त्वेकत्वाध्यास इत्येव वाच्यमिति चेद्, न; `पटस्य शौक्ल्यम्' इतिवत् `मम देहः' इति भेदव्यवहारस्य दर्शनात्। न चैवं सति भेदग्रहेण भेदाग्रहेव्यापके निवृत्ते तद्व्याप्योऽध्यासोऽपि निवर्तेतेति वाच्यम्, भेदग्रहस्याऽनङ्गीकारात्। नहि लोकिकः `मद्देहः' इति भेदं व्यवहरन्तोऽपि शास्त्रसंस्कारमन्तरेण देहाद्भिन्नमात्मानं गृह्णन्ति।
तस्मादनुभवत एकत्वाध्यास एव, व्यवहारतस्तु तादात्म्याध्यास इत्यपि व्यपदेष्टुं शक्यते; देहात्मनोरहमित्यभेदव्यवहारस्य मद्देह इति भेदव्यवहारस्य च सद्भावात्। न चैकत्वमेव तादात्म्यमिति वाच्यम्; भेदाऽभेदसहमन्योन्याभावविरोधि तादात्म्यम्, भे्दविरोध्येकत्वमिति तयोर्विविक्तत्वात्। जीवब्रह्मणोरप्येकत्वमेव वस्तुतोऽविद्याकल्पितभेदमपेक्ष्य तादात्म्यमिति व्यपदिश्यत इत्यविरोधः। न च जीवब्रह्मैक्यवदात्मदेहैक्यमनुभूयमानमपि वास्तवं भवितुमर्हति। सत्यानृतरूपेणात्यन्तविविक्तयोर्वास्तवैक्यस्याऽयोगात्। तस्मा दध्यस्तमेवैकत्वम्।
तस्य चाऽध्यासस्याऽनाद्यनिर्वचनीयभावरूपाज्ञानमुपादानम्; तस्मिन् सत्यध्यासोदयादसति चाऽनुदयात्। नन्वेतावन्वयव्यतिरेकावध्यासप्रतिबन्धकतत्त्वज्ञानाभावविषयतयाऽप्युपपन्नाविति चेद्, न; तत्त्वज्ञानस्य प्रतिबन्धकलक्षणरहितत्वात्। तत्त्वज्ञानं त्वसत्येव काचकामलादिदोषाख्येऽध्यासपुष्कलकारणे जायत इति लक्षणरहितम्। तथाऽपि तत्त्वज्ञानस्याऽध्यासविरोधितया विरोधिसंसर्गाभावविषयत्वेनाऽपि तावुपपत्स्येते इति चेद्, न; कार्यस्य तावदुपादानापेक्षा प्रथममुत्पद्यते, पश्चाद्विरोधिसंसर्गाभावापेक्षा; तथा च `अन्तरङ्गबहिरङ्गयोरन्तरङ्गं बलवद्' इति न्यायेनाऽन्तरङ्गोपादान विषयत्वमेव तयोर्न्याय्यम्। प्रध्वंसवदुपादानापेक्षैव मा भूदिति चेद्; विमतं सोपादनम्, भावत्वे सति कार्यत्वाद्, घटवदित्यनुमानात्। ननु पटगुणे रूपेऽनैकान्तिको हेतुः, नहि तस्योपादानं संभवति। तस्य किं पट एवोपादानं द्रव्यान्तरं वा? नाऽऽद्यः, सव्येतरयोर्विषाणयोरिव युगपदुत्पन्नयोः कार्यकारणभावानुपपत्तेः। द्वितीये द्रव्यान्तरगतत्वेन पटगुणत्वहानिरिति, मैवम्; तार्किकमते तावद् `उत्पन्नं द्रव्यं क्षणमगुणं तिष्ठति' इति न्यायेन यौगपद्याभावात् पटस्यैवोपादानत्वसंभवः। वेदान्तिमते तु तन्तूनामुपादानत्वेऽपि कार्यकारणयोरभेदात् पटगुणत्वं न हीयते। न च काचादीदोषाणामुपादानत्वसंभवेऽपि किमनेनाऽज्ञानेनेति वाच्यम्, अध्यासतदुपादानयोरेकाश्रयत्वनियमात्। इह त्वध्यास आत्माश्रितो दोषाश्चेन्द्रियाद्याश्रिता इति नोपादानत्वं तोषाम्। ननु रजताध्यासः शुक्त्याश्रितः प्रतीयते तदुपादानं त्वज्ञानमात्माश्रितमिति त्वन्मतेऽपि नैकाश्रयत्वसिद्धिः, मैवम्; आत्माश्रितस्यैवाऽध्यासस्य शुक्तिसंसर्ग इत्युपपादयिष्यमाणत्वात्।
ननु तर्हि अर्थाध्यासस्याऽज्ञानमुपादानमस्तु ज्ञानाध्यासस्य त्वात्माऽन्तःकरणं चोपादानं भविष्यति, सम्यग्ज्ञानेषु मतभेदेन तयोरुपादानत्वादिति चेद्, मैवम्; आत्मनोऽपरिणामित्वात्। अन्तःकरणस्य चेन्द्रियसंयोगलिङ्गादिसापेक्षत्वात्। नह्यत्र संयोगादिः संभवति। मिथ्यापदार्थस्य प्रत्ययमात्रशरीरस्य प्रत्ययात् प्रागसिद्धेः केनेन्द्रियं संयुज्येत। इन्द्रियान्वयव्यतिरेकौ तु भ्रान्तिज्ञानस्याऽधिष्ठानज्ञानविषयतयाऽन्यथासिद्धौ।
न चाऽधिष्ठान (ज्ञान) संप्रयोगादेव भ्रान्तिज्ञानोत्पत्तिसिद्धिः, मिथ्यार्थसंप्रयोगाभावे तत्प्रतीत्यनुपपत्तेः। न च संस्कारोपनीततया `सोऽयं देवदत्तः'` इति प्रत्यभिज्ञायां तत्तांशवत् तत्प्रतीतिः; तद्वदेवाऽभ्रान्तत्वापत्तेः। न चाऽधिष्ठानसंसर्गांशस्याऽसत्त्वाद् भ्रान्तत्वम्; तर्हि तस्याऽसत्त्वेन संप्रयोगायोग्यस्याऽऽरोप्यस्याऽपरोक्षत्वाभावप्रसङ्गात्।
ननु मिथ्यार्थेऽन्तःकरणमिन्द्रियसंप्रयोगं नाऽपेक्षते; विनाऽपि तेन स्वाप्नज्ञानदर्शनादिति चेत्; तथाऽप्यन्तःकरणस्य ज्ञानाकारपरिणामे ज्ञातृत्वशून्यत्वाद् मिथ्यार्थव्यवहारो न सिध्येत। अथाऽन्तःकरणमेव जडमपि ज्ञानकर्तृत्वाकारेण परिणंस्यते, आत्मा वा ज्ञाता भविष्यतीति मन्येथा; एवमपि भ्रान्तिसम्यग्दर्शनबन्धनिवृत्तीनामेकाश्रयत्वनियमादन्तःकरणस्य भ्रान्तत्वे तस्यैव सम्यग्दर्शनबन्धनिवृत्ती प्रसज्येयाताम्। इष्यते त्वात्मन एव भ्रान्तत्वादिकम्, तच्चाऽऽत्माश्रिताज्ञानोपादानत्वपक्षे सिध्यति; नाऽन्यथा। तस्मादज्ञानमेवोपादानं परिशिष्यते।
च चाऽज्ञाने विवदितव्यम्; `अहमज्ञः' `मामन्यं च न जानामि' इति प्रत्यक्षेण जडात्मिकाया अविद्याशक्तेरात्मानमाश्रित्य बाह्याध्यात्मिकेषु व्याप्ताया अनुभूयमानत्वात्। ननु ज्ञानाभावविषयोऽयमनुभवः, तन्न; `अहं सुखी' इतिवदपोरक्षानुभवत्वात्। अभावस्य च षष्ठप्रमाणगम्यत्वात्। प्रत्याक्षाभाववादे तु धर्मिप्रतियोगिनोरात्मज्ञानयोः प्रतीतौ `मयि ज्ञानं नास्ति' इति एतादृशं ज्ञानाभावप्रत्यक्षं व्याहन्येत। तयोरप्रतीतौ च हेत्वभावादेव तत्प्रत्यक्षानुत्पादः। ननु सर्वचत्र व्यवहारो ज्ञानस्य फलत्वेन लिङ्गं भवति; तल्लिङ्गाभावेन ज्ञानाभावोऽनुमीयते इति चेद्, न; तदापि धर्म्यादिप्रतीत्यप्रतीत्योरुक्तदोषात्। षष्ठमानग्म्यो ज्ञानाभाव इति भट्टमतेऽपि अयमेव दोषः। अस्मन्मते तु साक्षिवेद्यो ज्ञानमात्राभावः। ज्ञानविशेषाभावस्तु `व्यवहारे भट्टनयः' इत्यभ्युपगमेन षष्ठनामगम्यः।
यदा तु `मही घटत्वं घटतः कपालिका कपालिकाचूर्णरजस्ततोऽणुः' इति पुराणमतमाश्रित्याऽभावपदार्थ एव नाऽङ्गीक्रियते, तदा न काऽपि चिन्ता।
ननु भावरूपाज्ञानस्यापि ज्ञाननिवर्त्त्यत्वाङ्गीकारादहमज्ञ इत्याद्याश्रयविषयप्रतीतिगर्भितमज्ञानप्रत्यक्षं व्याहतमेव। मैवम्, आश्रयविषयज्ञानानि त्रीण्यपि एकेनैव साक्षिणाऽवभास्यन्ते। तथा चाऽऽश्रयविषयौ साधयन्नयं साक्षी तद्वदेवाज्ञानमपि साधयत्येव न तु निवर्तयति। तन्निवर्तकं त्वन्तःकरणवृत्तिज्ञानमेव। तच्चात्र नास्तीति कथं व्याहतिः?
नन्वहं घटं न जानामीत्यत्राज्ञानव्यावर्त्तको घटो न तावत् संबन्धरहितेन साक्षिणा प्रत्येतुं योग्यः; बाह्यविषयसिद्धेः स्वसंबद्धप्रमाणायत्तत्वात्। नाऽपि प्रमाणेन; प्रमाणनिवर्त्यत्वादज्ञानस्येति चेत्, सत्यम्; केवलस्य घटस्य साक्षिवेद्यत्वाभावेऽपि अज्ञातत्वधर्मविशिष्टस्याऽज्ञानद्वारा संबन्धवता साक्षिणा प्रतीतिरुपपद्यत एव। न च वाच्यं केवलस्य साक्षिवेद्यत्वाभावे विशिष्टस्याऽपि तदनुपपन्नम्, रसादेश्चाक्षुषद्रव्यविशिष्यस्याऽपि चाक्षुषत्वादर्शनादिति, परमाणोः केवलस्य मानसप्रत्यक्षत्वभावेऽपि `परमाणुमहं जानामि' इति ज्ञानविशेषणतया मानसप्रत्यक्षविषयत्वस्य परैरङ्गीकारात्। लोकेऽपि राहोः केवलस्याऽप्रत्यक्षत्वेऽपि चन्द्राद्युपरक्तस्य प्रत्यक्षत्वदर्शनात्। परमतेऽपि `घटमहं न जानामि' इत्यत्र ज्ञानाभावविशेषणस्य घटस्य प्रतीत्यप्रतीत्योर्दूषणस्याऽभिहितत्वात्। तस्मात् सर्वं वस्तुज्ञाततयाऽज्ञाततया वा साक्षिचैतन्यस्य विषय एव। ननु तर्हि ज्ञाताज्ञातविषयभेदो न स्यात् तथा प्रमाणव्यापारवैयर्थ्यं तदन्वयव्यतिरेकविरोधश्चेति चेद्, मैवम्; यद्वदज्ञानमज्ञातत्वधर्मं स्वविषये संपाद्य तस्य साक्षिणा सम्बन्धं घटयति तद्वत् प्रमाणमपि ज्ञातत्वं धर्मं स्वविषये संपाद्य तस्य साक्षिणा सम्बन्धघटकमित्यङ्गीकारेणोक्तदोषनिवृत्तेः। तदेवमुक्तोपपत्तिसहितमहमज्ञ इति प्रत्यक्षं भावरूपाज्ञाने प्रमाणम्।
तथाप्यनुमानैकरुचिं प्रति तदप्युच्यते प्रत्यक्षवदुपपत्त्यपेक्षां विनासाक्षादेव भावरूपत्वसाधनाय। विमतं प्रमाणज्ञानम्, स्वप्रागभावव्यतिरिक्तस्वविषयावरणस्वनिवर्त्यदेशगतवस्त्वन्तरपूर्वकं भवितुमर्हति, अप्रकाशितार्थप्रकाशकत्वात्, अन्धकारे प्रथमोत्पन्नरप्रदीपप्रकाशवद्, इति। ज्ञानमात्रस्य पक्षत्वे त्वनुवादज्ञाने हेत्वसिद्धिः प्रमाणेत्युक्तम्। तथा धाराविहाकव्यावृत्तये विमतमिति। वस्तुपूर्वकामित्येवोक्ते स्वाश्रयेणाऽत्मादिना सिद्धसाधनता स्याद्, अतो वस्त्वन्तरेत्युक्तम्।
तथा स्वाश्रयातिरिक्तसामग्रीं धर्मादिकं पूर्वज्ञानं प्रागभावं चाऽवरोहक्रमेण स्वदेशेत्यादिविशेषणचतुष्टयेन निवर्तयति। एतावता च विवक्षितविशेषं भावरूपाज्ञानं सिध्यति। धारावाहिकज्ञानेषु व्यभिचारं वारयितुम् अप्रकाशितेति। धारावाहिकप्रभासूयवैकल्ययं वारयितुं प्रथमेति। आतपवति देशे समुत्पन्नदीपप्रभायां तद्वारयितुमन्धकारे इति।
अनिर्वचनीयस्य ज्ञानार्थरूपद्विविधाध्यासस्याऽन्यथानुपपत्त्या तदुपादानस्याऽज्ञानस्याऽनिर्वचनीयत्वम्। न चाऽन्यथाप्युपपत्तिस्तस्य सत्यत्वेतत्कार्यस्याऽपि सत्यत्वप्रसङ्गात्। तथा च मूलकारणत्वान्यथानुपपत्त्याऽनादित्वम्। सादित्वे चोपादानपरम्परापेक्षायां मूलकारणं न सिध्येत्। तदेवमनाद्यनिर्वाच्यभावरूपाज्ञानमाश्रितमात्मविषयमध्यासस्योपादानमिति। तदेवमनाद्यनिर्वाच्यभावरूपज्ञानमात्माश्रितमात्मविषयमध्यासस्योपादानमिति सिद्धम्।
ननु किमिदमज्ञानमात्मानमिवानात्मानमप्यावृणोति किं वा नावृणोति? नाऽऽद्यः; प्रमाणप्रयोजनयोरभावात्। तथा हि `इदं नीलम् अज्ञानेनावृतम्' इति प्रामाणेन ग्रहीतव्यम्, तच्च नीलप्रतीत्यप्रतीत्योर्न संभाव्यते। अथ मन्यसे नीलावगतिकाल एवाऽज्ञानावरणासंभवेऽपि नीलावगतेः पूर्वकालीनमावरणं गम्यत एवेति, तन्न; गमकानिरूपणात्। किमिदानीमवगतत्वं गमकं किं वा इदानीमेवेत्यवधारणम्, किं वा तदेवेदं नीलमिति प्रत्यभिज्ञान्यथानुपपत्तिः? आहोस्विदभिज्ञाप्रत्यभिज्ञयोर्मध्ये ज्ञानस्मृत्यभावान्यथानुपपत्तिः? नाऽऽद्यः, धारावाहिकज्ञानेषु पूर्वमवगतस्यैव पश्चादप्यवगमेन पूर्वकालीनावरणं विनैवेदानीमवगतत्वसंभवात्। न द्वितीयः, अन्योन्याश्रयत्वात् -- पूर्वावरणसिद्धाविदानीमेवेत्यवधारणसिद्धिस्तत्सिद्धावितरसिद्धिरिति। न तृतीयः, अभिज्ञाय कंचित्कालं विस्मृतस्यैव प्रत्यभिज्ञेति नियमाभावात्। सर्वदा स्फुरत्यप्यात्मनि सोऽहमिति प्रत्यभिज्ञानदर्शनात्। न चतुर्थः, अभिज्ञाप्रत्यभिज्ञयोर्मध्येऽप्यावरणविरहितत्वेनोत्पन्नानामेव ज्ञानानां स्मृत्यभाव इत्यपि सुवचत्वात्। नहि यद्यदनुभूतं तत्तत् स्मर्यत एवेति नियमोऽस्ति। न च वाच्यं `त्वदुक्तमर्थं न जानामि' इति विषयसंबन्धज्ञानमनुभूयते सम्बन्धश्चाज्ञानस्याऽऽवरणत्वेनात्मनि दृष्टस्तत्कथमपलप्यत इति। साक्षिचैतन्येन स्वस्मिन्नध्यस्तानामज्ञानविषयतत्सम्बन्धानामनुभवाङ्गीकारात्। सम्बन्धश्चाज्ञानविषययोः कार्यकारणाभावलक्षणो नावरकाव्रियमाणत्वलक्षणः, अध्यस्तस्याऽवरणयोगात्। प्रतीतिकाले तावदावरणं व्याहतम्। अप्रतीतिकाले तु स्वयमेव नास्ति, द्विचन्द्रादिवदध्यस्तस्य प्रतीतिमात्रशरीरत्वात्। यद्यध्यस्तमप्याव्रियेत तदा तत्प्रतिभासः कदाचिदपि न स्यात्; अध्यस्तस्य मानाऽगोचरत्वेन तदावरणानिवृत्तेः। प्रमाणगम्यं हि वस्तुपरमार्थत्वादप्रतीयमानमपि तिष्ठति तत्कथंचिदाव्रियेतापि, अध्यस्तं तु माननिवर्त्त्यं तत्कथं नामाऽऽव्रियेत। तस्मात् नाऽस्त्येवानात्मावरणे प्रमाणम्।
तथा प्रयोजनं च दुःसंपादम्, सर्वत्र ह्यावरणस्य प्रसक्तप्रकाशप्रतिबन्धः प्रयोजनम्। तदत्र किमनात्मनि स्वतःप्रकाशः प्रसक्तः? किं वा प्रमाणबलात्? चैतन्यबलात्? नाद्यः, जडत्वात्। न द्वितीयः, माननिवर्त्यस्यावरणस्य तत्प्रतिबन्धकत्वायोगात्। न तृतीयः, चैतन्यावरणादेव तत्सिद्धावनात्मनि पृथगावरणकल्पनावैयर्थ्यात्। नहि सूर्ये मेरुव्यवहिते सतिरात्रावातपप्रतिबन्धाय छत्रादिकमपेक्ष्यते। अथाऽभ्रच्छन्नेऽपि सवितर्यौष्ण्याख्यसूक्ष्मातपप्रतिबन्धाय छत्राद्यपेक्षावदत्राऽप्यज्ञानावृतचैतन्यकृतप्रकाशलेशमपि वारयितुं पृथगावरणमित्युच्येत; तदसत्; किमेकमेव अज्ञानमात्माश्रयमनात्मावरणं चेत्यङ्गीक्रियते, किं वा प्रतिविषयमज्ञानभेदः कल्प्यते? नाऽऽद्यः; आवरणविनाशमन्तरेण विषयावभासायोगात्। एकपदार्थज्ञानेनैवाऽज्ञाननिवृत्तौ सद्यो मुक्तिप्रसङ्गात्। न द्वितीयः, कल्पकाभावात्; अज्ञानावृतचैतन्यकृतप्रकाशलेशस्येष्टत्वात्। अन्यथेदमज्ञातमिति व्यवहारो न सिध्येत। अतः प्रमाणप्रयोजनशून्यत्वादावरणपक्षो दुर्भणः। नाऽपि द्वितीयः, आवरणाभावे सत्यनात्मनः सर्वदा प्रतीतिप्रसङ्गादिति।
अत्रोच्यते -- आद्योऽनङ्गीकृत एव। द्वितीये तु कथं सर्वदा प्रतीतिः? किं ज्ञाततया उताऽज्ञाततया अथवा कदाचिद् ज्ञाततया अन्यदा वा अज्ञाततया? नाऽऽद्यः, ज्ञाततापादकप्रमाणप्रवृत्तेः कादाचित्कत्वात्। न द्वितीयः, अज्ञाततायाः कञ्चित् कालं ज्ञाततया निवृत्तेः। न तृतीयः, इष्टत्वात्। उक्तं हि -- `सर्वं वस्तु ज्ञाततयाऽज्ञाततया वा साक्षिचैतन्यस्य विषय एव' इति।
नन्वज्ञातत्वं नामाऽज्ञानविषयत्वम्। विषयत्वं च विषयिकृतातिशयाधारत्वम्। न चाऽज्ञानकृतमावरणमनात्मन्यङ्गीक्रियते तत्कथं तस्याऽज्ञातत्वमिति? उच्यते-- शुक्तीदमंशावच्छिन्नचैतन्यगतमज्ञानं रजताध्यासमुत्पाद्य तदवभासाख्यमतिशयं शुक्तौ करोतीति शुक्तेरज्ञातत्वसिद्धिः। एवं सर्वत्राऽनात्मन्यावरणानङ्गीकारेऽप्यज्ञातव्यं वेदितव्यम्। ननु रजताख्यो विक्षेपे न तावच्छुक्तौ ज्ञातायामवभासते, तस्य शुक्तिज्ञाननिवर्त्त्यत्वात्। अज्ञातायां तु शुक्तौ कथं तदतिशयो विक्षेप इत्यवगम्येत? मैवम्, शुक्त्याकारो न ज्ञातः इदमाकारश्च ज्ञात इति दोषद्वयनिवृत्तेः।
नन्वात्माश्रयमज्ञानमेकमेव तच्च विक्षेपमात्रं करोति नावरणमित्यस्मिन् पक्षेऽपि किं मुसलेन घट इव शुक्तिज्ञानेन विक्षेप एवोपादाने प्रविलाप्यते उतोपादानमपि निवर्त्त्यते। आद्ये तथैव ब्रह्मज्ञानेनाऽपि विक्षेपमात्रप्रविलये सति अनिर्मोक्षापत्तिः। द्वितीये शुक्तिज्ञानेनैवाज्ञाननिवृत्तौ सद्यो मुक्ति प्रसङ्गः। सद्यो मुक्तिपरिजिहीर्षया प्रतिविषयमज्ञानभेदे वाऽध्यासस्याऽज्ञानानुपादानकत्वे चाऽङ्गीक्रियमाणे कल्पनागौरवाध्याससत्यत्वे प्रसज्येयातामिति, मैवम्; न तावत् प्रथमपक्षे दोषोऽस्ति। विमतं ब्रह्मज्ञानम्, विक्षेपोपादाननिवर्तकम्, तद्विरोधित्वे सति पश्चाद्भावित्वाद्; यथा शुक्तिज्ञानं स्वप्रागभावरजताध्यासयोर्निवर्तकमित्यनुमानात्। द्वितीयपक्षेऽपि नास्त्युक्तदोषः, मूलाज्ञानस्यैवाऽवस्थाभेदा रजताद्युपादानानि शुक्त्यादिज्ञानैर्निवर्त्त्यन्ते इत्यङ्गीकारात्। तदेवं जडेष्वावरणानङ्गीकारे न कोऽपि दोषः। यत्तु भावरूपाज्ञानसाधकानुमाने स्वविषयावरणेत्युक्तम्, तत्तथैवात्मविषये। शुक्त्यादिजडविषये तु रजताद्युपादानानामज्ञानावस्थाविशेषाणां चैतन्वव्यवधायकत्वेन फलत आवरणत्वं न तु साक्षादित्यविरोधः।
नन्वात्मन्यप्यावरणं नाम किं प्रकाशनाशः किं वा प्रकाशस्य विषयप्राकट्याख्यकार्योत्पादने प्रतिबन्ध उत तत्रैव सहकार्यन्तरप्रतीक्षा? नाऽऽद्यः, प्रकाशस्य नित्यात्मचैतन्यरूपत्वात्। नाऽपि द्वितीयतृतीयौ, अन्तःकरणवृत्तिव्यक्तचित्प्रकाशमन्तरेण विषये पृथक् प्राकट्यानङ्गीकारात्; ततो दुर्निरूपमावरणस्वरूपमिति चेत्, सत्यमेतत्; अत एवाऽऽवरणस्याऽनिर्वाच्याविद्यारूपत्वमङ्गीकर्त्त्यव्यम्, न तु दुर्निरूपत्वमात्रेण तदपलापो युक्तः, अनुमानसिद्धत्वात्। तथा हि -- अस्ति तावन्मूढानामेवं व्यवहारः -- अशनायाद्यतीतं विवेकिप्रसिद्धमात्मतत्त्वं `नाऽस्ति, न प्रकाशते च' इति। सोऽयं व्यवहार आत्मनि भावरूपावरणनिमित्तो भवितुमर्हति, `अस्ति, प्रकाशते' इत्यादिव्यवहार पुष्कलकारणे सति तद्विपरीतव्यवहारत्वाद्, यन्नैवं तन्नैवम्; यथास्ति प्रकाशते घट इति व्यवहारः। न च कारणपौष्कल्यमसिद्धम्, नित्यसिद्धस्वप्रकाषचैतन्यातिरेकेणात्राऽन्यापेक्षाभावात्। न चान्यथासिद्धिः; इतोऽतिरितक्तावरणस्य मूर्त्तद्रव्यस्याऽऽत्मनि निरवयवे सर्वगते दुःसंपादत्वात्। एवं चाऽऽत्मन्युक्तव्यवहारयोग्यत्वम् आवरणस्य स्वरूपमिति निरूपितं भवति।
नन्वज्ञानामित्यत्र नञो यद्यभावोऽर्थः तदा ज्ञानाभाव इति स्याद्, विरोध्यर्थत्वे च भ्रान्तिज्ञानम्, अन्यार्थत्वे च भ्रान्तिसंस्कारः, तथा च ज्ञानाभावभ्रान्तिज्ञानतत्संस्कारा एवाऽज्ञानाभिधानास्त एव ब्रह्मतत्त्वावभासं प्रतिबध्योक्तव्यवहारं जनयिष्यन्ति किमनेन भावरूपावरणकल्पनेनेति चेद्, मैवम्; सुषुप्तादौ ब्रह्मतत्त्वानवभासस्यानन्यथासिद्धत्वात्। तथा हि -- किं तत्र ब्रह्मतत्त्वस्य स्वत एवाऽनवभासः किं वा पुरुषान्तरसंवेदनवद् द्रष्टुर्जीवाद् ब्रह्मतत्त्वस्य भिन्नत्वेन उत प्रतिबन्धवशात्? नाऽऽद्यः, ब्रह्मणः स्वप्रकाशत्वात्। न द्वितीयः, तत्त्वमसीत्येकत्वश्रुतेः। तृतीये किं भ्रान्तिज्ञानात् प्रतिबन्ध उत तत्संस्काराद् अथवा ज्ञानाभावाद् आहोस्वित् कर्मवशात्? नाऽऽद्यः, सुषुप्त्यादौ मिथ्याज्ञानस्याऽपि लुप्तत्वात्। न द्वितीयः, रजतभ्रमसंस्कारस्य शुक्तितत्त्वावभासप्रतिबन्धकत्वादर्शनात्। तृतीये तु न तावत् स्वरूपज्ञानस्य नित्यस्याऽभावः संभवति। अन्यज्ञानाभावस्तु न स्वयंप्रकाशब्रह्मतत्त्वावभासप्रतिबन्धक्षमः। अन्यथा मुक्तावपि प्रतिबन्धप्रसङ्गात्। चतुर्थेऽपि किं कर्माणि चैतन्यमखिलमपि प्रतिबध्नन्ति उत स्वावभासकाशं विहाय। आद्ये साधकाभावात् कर्माणि नैव सिध्येयुः। न द्वितीयः, अप्रमाणिकार्द्धजरतीयत्वप्रसङ्गात्। न च भावरूपावरणेऽपि तुल्यौ विकल्पदोषाविति वाच्यम्, स्वावभासकांशपरित्यागस्याऽर्द्धजरतीयस्याऽप्यमहज्ञ इत्यपरोक्षानुभवान्यथानुपपत्त्या कल्प्यत्वात्। न च तथा कर्माण्यपरोक्षाण्यनुभूयन्ते। यद्यपि तत्र परोक्षानुभव एव कल्पकः स्यात्, तथाऽपि कर्माणि न प्रतिबन्थकानि, संस्काररूपत्वाद्, रजतभ्रान्तिसंस्कारवत्।
ननु `ज्ञानमावृत्त्यतु तमः प्रमादे सञ्जयत्युत' इति स्मरणात् तमोगुण एव प्रतिबन्धकः स्यादिति चेद्, न; तस्य ब्रह्मज्ञानादनिवृत्तावनिर्मोक्षप्रसङ्गात्। निवृत्तौ तु तस्यैव भावरूपावरणत्वान्नाममात्रे विवादः स्यात्। तस्माद्भेदाभेदवादिनाऽपि सुषुप्तौ ज्ञानाभाव एव ब्रह्मतत्त्वानवभासहेतुरित्यमुं दुराग्रहं परित्यज्य भावरूपाज्ञानमेवाऽङ्गीकर्त्तव्यम्।
यच्च तदीयं दुराग्रहान्तरं जाग्रत्स्वप्नयोरहं मनुष्य इति भ्रान्तिरेव ब्रह्मतत्त्वानवभासहेतुरिति, तदप्यसत्; तन्मते भ्रान्तेरस्या दुर्भणत्वात्। यथैव खण्डो गौर्मुण्डो गौरित्यत्रोभयसामानाधिकरण्येन गोत्वजातेरेकस्या एवोभाभ्यामपि व्यक्तिभ्यां सह भेदाभेदौ प्रमाणिकावेव स्वीक्रियते तथैवाऽहं मनुष्योऽहं ब्रह्मेति चैकस्य जीवस्य शरीरब्रह्मभ्यामुभाभ्यामपि सह भेदाभेदौ प्रामाणिकावेव किं नाऽङ्गीक्रियेते? तथा चाऽहं मनुष्य इति देहात्मनोरभेदप्रत्ययोऽपि प्रामाणिक एव स्यात्, न तु भ्रान्तिः।
`नाऽहं मनुष्यः, किन्तु ब्रह्म' इत्ययं शास्त्रीयनिषेधोऽपि `नाऽयं खण्डो गौः, किन्तु मुण्डः' इतिवदुपपद्यते। अथोच्येत प्रतिपन्नेदन्तोपाधौ यथा `नेदं रजतम्' इति निषेधः तथा प्रतिपन्नात्मोपाधौ `नाऽहं मनुष्यः' इति मनुष्यत्वस्य निषेधात् मनुष्यत्वप्रतीतिरात्मनि भ्रान्तिरिति, तन्न; तथा सति खण्डोगौरिति खण्डाकारेण प्रतिपन्ने गोत्वोपाधौ पश्चान्नायं खण्ड इति निषेधात् खण्डप्रतीतेरपि भ्रान्तित्वप्रसङ्गात्। न च वाच्यं खण्डो निषिध्यते, न तु गोत्वोपाधाविति; मुण्डे खण्डस्याऽप्रसक्तत्वात्। ननु खण्डव्यतक्त्यवच्छिन्नं गोत्वं प्रतिपन्नोपाधिः, न च तत्र खण्डो निषिध्यते, किन्तु मुण्डव्यक्त्यवच्छिन्ने गौत्व इति चेत्, तर्हि प्रकृतेऽपि मनुष्यत्वावच्छिन्न आत्मा प्रतिपन्नोपाधिः। न च तत्र मनुष्यत्वं निषिध्यते, किन्तु ब्रह्मत्वावच्छिन्न आत्मनि। एवं सत्यनुगतेन गोत्वेन खण्डमुण्डव्यक्ती इवाऽनुगतेनाऽऽत्मना शरीरब्रह्माणी संबद्धे, ततः खण्डो गोरिति प्रत्ययवदहं मनुष्य इति प्रत्ययस्य प्रामाणिकत्वं दुर्वारम्।
अथ अत्र व्यवहारानुच्छेदात् प्रामाण्यं तव, तत्प्रकृतेऽपि समानम्। त्वन्मते मोक्षावस्थायामपि सर्वोपादानकारणभूतेन ब्रह्मणा सर्वज्ञेनाऽभिन्नस्य जीवस्य सर्वात्मतया सर्वशरीरेन्द्रियाद्यभिमानव्यवहारानुच्छेदात्।
जातिव्यक्तिकार्यकारणगुणगुणिविशेषणविशेष्याऽवयवावयविसम्बन्धानां भेदाभेदप्रयोजकानां प्रञ्चानामपि संभूय प्रयोजकत्वं तावद्व्यभिचारदर्शनादयुक्तम्। एकैकस्य प्रयोजकत्वे तु प्रयोजकबाहुल्यगौरवस्य त्वयैवाङ्गीकृतत्वात् शरीरशरीरिसम्बन्धोऽपि प्रयोजकः किं न स्यात्। एतस्याऽप्रयोजकत्वे तथैवान्येषामपि तदापादयितुं शक्यमिति न क्वाऽपि भेदाभेदौ सिध्येताम्। अथाऽतिप्रसङ्गभिया पञ्चस्वेव निर्बन्धः, तर्हि शरीरात्मनोः कार्यकारणभावोऽस्तु। ब्रह्मगतकारणत्वस्यात्मनि चेतनत्वसाम्येनोपचरितुं शक्यत्वात्।
ननु मुख्यसम्बन्ध एव प्रयोजकः, तदभावादेवाहं मनुष्य इति प्रतीतिर्भ्रान्तिरिति चेत्, एवमपि भ्रान्तिर्नामाऽन्तःकरणपरिणामश्चेदात्माश्रयाऽविद्या न स्यात्। अन्तःकरणपरिणाय एवात्मन्यारोप्यत इति चेत्, तथाप्यन्यथाख्यातिवादिनस्तव मतेऽधिष्ठानारोप्ययोः संसर्गस्य शून्यत्वादात्माविद्यासम्बन्धो न स्यात्। अथात्मपरिणामो भ्रान्तिरिति चेद्, न; आत्मनोऽपरिणामित्वात्। आत्मनोऽपरिणामित्वमस्माकमसिद्धमिति चेत्, सत्यम्; तथापि नित्यज्ञानगुणस्त्वयाऽऽत्मा स्वीक्रियते, तथा च तस्मिंस्तिष्ठत्येव ज्ञाने भ्रान्तित्वाकारपरिणामो वक्तव्यः। तच्च न युक्तम्। एकजातीयविशेषगुणद्वयस्याऽविनश्यदवस्थस्यैकस्मिन् द्रव्ये युगपत्समवायायोगात्। नहि पटे शौक्ल्यद्वयं युगपत्समवेतं दृश्यते। तस्माज्जागरस्वप्नयोरप्यनाद्यनिर्वचनायाज्ञानमेव ब्रह्मावरणमभ्युपगन्तव्यम्।
नन्वज्ञानेन सम्बन्धे सत्यात्मनोऽसङ्गत्वं भज्येतेति चेद्, न; सम्बन्धस्याऽप्यनादेरज्ञानवत्कल्पितस्य स्वकार्यवदसङ्गत्वाभञ्जकत्वात्।
तदेवं भावरूपाज्ञानमनात्मानमनावृत्यैव तत्र विक्षेपमात्रं जनयति आत्मानं त्वावृत्य तत्र `आहमिदम्' `ममेदम्' इत्येवं व्यवहारयोग्यानध्यासानपि जनयति।
नन्वहमिति निरंशश्चिदात्मा प्रतीयते, न त्विदं रजतमितिवदंशद्वयानुविद्धं रूपम्, ततो नाऽयमध्यासः। तथेदमित्यपि शरीरं प्रतीयते। न च तस्याऽध्यस्तत्वं सम्भवति, प्रमाणभूतैरिन्द्रियैः गृह्यमाणत्वात्। अध्यस्तत्वेचाऽज्ञानवत् केवलसाक्षिप्रत्यक्षवेद्यता स्यात्। यद्यपीदं रजतमितिवदहं मनुष्य इत्यंशद्वयवत्त्वेनाधिष्ठानारोप्यभावः प्रतीयते, तथापि नाऽसौ नियतः। आत्मन्युत्क्रान्तौ पृथगपि शरीरस्योपलम्भात्। नह्यध्यस्तं रजतमधिष्ठानात् पृथगुपलभ्यते।
अथ शरीरोपलम्भकं मानं व्यावहारिकमेव न तत्त्वावेदकमिति मन्येथास्तथाप्यात्मन्यध्यस्तत्वे तत्रैव लयः स्यात्। न च तथा श्रूयते, किन्तु पृथिवीं शरीरमिति पृथिव्यामेव लयः श्रूयते, ततो नात्मन्येतदध्यस्तम्।
तथा ममेदमित्यपि शरीरव्यतिरिक्तम् अहंबुद्ध्ययोग्यमहंकर्तृसम्बन्धि वस्तुजातं प्रतीयते, न च तत्राऽध्यासशङ्कापीति। उच्यते - अहमित्यत्र तावज्जडांशान्तर्भावं प्रतिपादयिष्यामः, ततोऽसावध्यास एव। शरीरस्याप्यन्तःकरणेन्द्रियवद् दृश्यत्वादध्यस्तत्वं साधनीयम्। अन्तःकरणेन्द्रियाणां चात्मनः पृथक्सत्त्वोपलब्धभावादज्ञानवत् केवलसाक्ष्यपरोक्षतयाऽध्याससिद्धिः।
न च तेषां संसृष्टतयैवाध्यासो न स्वरूपेणेति शङ्कनीयम्, `न तस्य प्राणा उत्क्रामन्ति' अत्रैव `समवलीयन्त' इत्यात्मतत्त्वावबोधे सत्यात्मन्येव लयश्रणात्, स्वरूपतोऽप्यध्याससिद्धेः। शरीरस्याऽपि पृथिवीद्वारेणात्मन्येव लय इत्यवगन्तव्यम्। यदा देहेन्द्रियादिविशिष्टो भोक्ताऽध्यस्तस्तदा तदुपकरणं बाह्यभोग्यजातमध्यस्तमिति किमु वक्तव्यम्। नहि स्वप्नमाहेन्द्रजालकल्पितस्य राज्ञो राज्योपकरणं पारमार्थिकं भवति। तस्मादहमिदं ममेदमित्येते त्रयोऽप्यध्यासा एव।
न च केवलधर्माध्यासेऽपि विवदितव्यम्; `बधिरोऽहम्' इत्यत्रेन्द्रियधर्मस्य केवलबाधिर्यस्याऽऽत्मन्यध्यासदर्शनात्।
ज्ञानाध्यासस्त्वर्थाध्यासाविनाभातत्वान्न पृथक् साधनीयः। तदित्थमनुभवारूढोऽध्यासोऽपलपितुमशक्य इति सिद्धम्।
गुरुशिष्यौ वादिनौ वा शास्त्रे तत्त्वविचारकौ।
तत्र शिष्यं प्रति गुरुः पूर्वमध्यासमुक्तवान्॥ 1॥
विवदन्तेऽत्र येऽध्यासे तानुद्दिश्याथ लक्षणम्।
संभावनाप्रमाणं च कथ्यतेऽध्याससिद्धये॥ 2॥
ननु सर्वत्र लक्षणेन लक्ष्यमितरस्माद् व्यावर्त्त्यते संभावनया च तस्य स्वदेशकालोपाधावसंभावनाबुद्धिर्निरस्यते, प्रमाणेन च तत्सद्भावः साध्यते। तथा चात्राध्याससाधनायोपन्यसिष्यमाणानि प्रत्यक्षानुमानव्यवहारान्यथानुपपत्त्यागमाख्यानि प्रमाणान्येवाऽर्थादध्यासस्याऽन्यव्यावृत्तावसंभावानानिरसने च पर्यवस्यन्ति। अव्यावृत्तस्याऽसंभावितस्य चाऽध्यासस्य प्रमातुमशक्यत्वात्। अतो न लक्षणसंभावने प्रमाणात् पृथग्वर्णनीये इति चेद्, मैवम्; द्विविधो ह्यत्राध्यासाकारः। अन्यस्यान्यात्मता मिथ्यात्वं चेति। तत्राऽन्यस्यान्यात्मतायाः साधकत्वेनोपन्यसिष्यमाणैः प्रत्यक्षादिभिर्न मिथ्यात्वमनुभवितुं शक्यते, मिथ्यात्वस्येदं रजतमित्यत्र बाधानुपपत्तिगम्यत्वात्। इह च बाधाभावात्। नन्वत्राऽपि बाधनिमित्तमितरेतरविवेकमन्तरेणाऽन्यस्यान्यात्मतावभासोऽयमित्यवगन्तुमशक्यत्वादस्त्येव बाध इति चेद्, मैवम्; यौक्तिकबाधे सत्यपि भ्रान्तिप्रतिभासोच्छेदिनोऽपरोक्षबाधस्याभावेन मिथ्यात्वाध्यवसायस्यास्पष्टत्वात्। अतस्तस्य स्पष्टीकरणाय लक्षणमेव वक्तव्यम्।
तथा लोकेज्ञानेनाऽप्रामाण्यहेतुरहितेनाऽवगतेऽप्यौत्पातिकसवितृसुष्यादावसंभावानादर्शनादत्राप्यात्मन्यविषयत्वासङ्गत्वसादृश्याभावादीनामध्यासविरोधिधर्माणामुपलम्भागदसंभावनाबुद्धिर्जायते। न च वाच्यम् आत्मन्यविषयादिरूपेऽनवगते सति नासंभावनाबुद्धिः, अवगते तु नाध्यास एव तिष्ठतीति; परोक्षावभासस्यासंभावनाबुद्धिहेतुत्वात्, तावता चाऽपरोक्षाध्यासाऽनिवृत्तेः। तस्मादसंभावनानिरासाय प्रमाणात् पृथगेव संभावनाऽपि वक्तव्यैव।
तथा चान्यैरपि लक्षणसंभावनापूर्वरत्वं प्रमाणस्योक्तम्।
मानाधीना मेयसिद्धिर्मानसिद्धिश्च लक्षणात्।
तच्चाध्यक्षादिमानेषु गीर्वाणैरप्यवारणम्॥ 1॥
संभावितः प्रतिज्ञायां पक्षः साध्येत हेतुना।
न तस्य हेतुभिस्त्राणमुत्पतन्नेव यो हतः॥ 2॥
तत्राऽपि लक्षणपूर्विका संभावना। लक्षणेन हि व्यावृत्तस्वरूपे उपस्थापिते पश्चादिदं संभाव्यते न वेति विचारो युज्यते। अन्यथा निर्विषयो विचारः स्यात्। ततो लक्षणमेव प्रथमं वक्तव्यम्। तदुच्यते -- द्विविधोह्यध्यासो ज्ञानविशिष्टोऽर्थोऽर्थविशिष्टं ज्ञानं चेति। तत्राऽर्थस्य तावत् स्मर्यसाणसदृशोऽन्यात्मनाऽवभास्यमानोऽन्योऽर्थोऽध्यास इति लक्षणम्। ज्ञानस्य तु स्मृतिसमानोऽन्यस्यान्यात्मतावभासोऽध्यास इति।
ननु `इदं रजतम्' इत्यत्र चक्षुरादिप्रमाणाभावात् पारिशेष्यात् स्मर्यमाणमेव रजतं न पुनस्तत्सदृशमित्यख्यातिवादिन आहुरिति चेद्, मैवम्; पुरोवस्थितत्वेनावभासमानत्वाद्। न चेदमंशस्यैव तथाऽवभासो न रजतस्येति मन्यव्यम्; यथा सम्यक्‌स्थलेष्विदं रजतमयं घट इत्यादिष्वितरेतरसंसृष्टौ सामान्यविशेषावपरोक्षाववभासेते तथेहापि प्रतिभासात्। अथ मतं सामान्यविशेषयोर्नैरन्तर्येण प्रतिभासात्तथा व्यवहारः, न तु संसर्गसंवित्सद्भावादिति, तन्नः परमार्थस्थलादीषन्न्यूनताया अप्यदर्शनात्। पुरोवर्ति रजताभाव एव न्यूनतेति चेद्, नः; किमपरोक्षसंविदभावाद्रजताभावनिश्चयः, किं वा नेदं रजतमिति बाधकज्ञानात्? नाद्यः, संविदभावस्यैवाऽसंप्रतिपत्तेः। अर्थाभावेनैव संविदभावनिश्चये स्यादन्योन्याश्रयता। तस्मादपरोक्षसंवित्सद्भावादेव पुरोवर्तिरजतसत्ताऽभ्युपगन्तव्या। न च वैपरीत्येनार्थसत्तानिश्चयाधीनः संवित्सत्तानिश्चय इति वाच्यम्, तथा सत्यर्थनिश्चयोऽपि तथैव निश्चयान्तराधीन इत्यनवस्थाप्रसङ्गात्। तस्मात् संविन्निश्चयः स्वत एव तदधीना चार्थसत्ता। नापि द्वितीयः, `इदं रजतम्' इति पूर्वज्ञानेन विरुद्धस्योत्तरज्ञानस्य बाधासामर्थ्यात्। तर्ह्युत्तरज्ञानस्य का गतिरिति चेत्, पूर्वज्ञानस्य त्वन्मते या गतिः सैव भविष्यति। यथा त्वयेदं रजतमित्यत्रेदमाकाररजताकारयोरविवेकः कल्पितः तथा निषेधेऽप्यविवेके एव न तु संसर्गसंविदिति किं न कल्प्यते? व्यवहारसंवादज्ञानान्निषेधसंसर्गसंविदस्तीति निश्चीयत इति चेत्, तर्हि संविदः स्वप्रकाशत्वं हीयेत। विप्रतिपन्नं प्रत्येवैवं प्रसाधनान्न ममापसिद्धान्त इति चेत्, तथाप्यनवस्था दुष्परिहरा। न च पुरोवर्त्तिरजताभावः सर्वसम्प्रतिपन्न इति वाच्यम्, यथाप्रतिभासमेव मिथ्यारजतस्य शुक्तिज्ञानेन निरसनयोग्यस्याऽस्माभिरभ्युपगमात्। मिथ्यारजताभ्युपगमेऽपि नेदं रजतमिति त्रैकालिकनिषेधेन विरुध्यत इति चेत्, न; तस्य निषेधस्य लोकप्रसिद्धपरमार्थरजतविषयत्वात्। न चैवमप्रसक्त प्रतिषेधः शङ्कनीयः, मिथ्याभूते रजते परमार्थरजतार्थिप्रवृत्तिदर्शनेन परमार्थरजतत्वस्य सामान्योपाधौ प्रसक्तेरङ्गीकार्यत्वात्। अन्यथा भूतले घटनिषेधोऽपि दुर्भणः स्यात्। घटसत्त्वे निषेधो व्याहन्येत घटासत्त्वे चाऽप्रसक्तरप्रतिषेधः। ततो देशसामान्योपाधिना कालसामान्योपाधिना घटप्रसक्तिर्न तु साक्षात्। तथैव परमार्थरजतस्याप्यस्तु। एवं च सत्युत्तरकालीनो नाऽस्त्यत्र रजतमिति प्रत्ययः परमार्थरजतविषयो मिथ्यैव रजतमभादिति प्रत्ययश्च मिथ्यारजतविषय इत्युभयमप्युपपद्यते। अन्यथैकः प्रत्ययोऽपलप्येत।
ननु रजतापरोक्ष्यानुपपत्त्या तु संसृष्टावभासं परिकल्प्य तदुपपत्तये हि मिथ्यारजतकल्पनाक्लेशः क्रियते। रजतापरोक्ष्यं तु संसृष्टावभासमन्तरेणैवाऽपरोक्षशुक्तिज्ञानाविवेकादप्युपपद्यत इति चेद्, न; तथा सति विवेकज्ञानसमयेऽप्येतावन्तं कालं तद्रजतमनेनाऽविविक्तमित्यविवेक एव परामृश्येत, न च तथा परामृश्यते; किं त्वेतावन्तं कालमिदं रजतमित्यभादिति प्रत्यभिज्ञया संसृष्टावभास एव परामृश्यते। अतः पुरोवर्त्तिमिथ्यारजतमङ्गीकर्त्तव्यम्; अन्यथा शुक्तिं दृष्ट्वा रजते प्रवर्तत इति किं केन सङ्गच्छेत?
तस्मात् न स्मर्यमाणमिदं रजतम्, किन्तु स्मर्यमाणसदृश्यमेव। तत्सादृश्यं च पूर्वानुभवसापेक्षज्ञानगम्यत्वादुपपन्नम्। नह्यननुभूतरजतस्य रजतभ्रान्तिर्दृश्यते।
अत एव संस्कारजन्यत्वाद् ज्ञानाध्यासस्याऽपि स्मृतिसाम्यमवगन्तव्यम्। विमतं न संस्कारजम्, स्मृतिव्यतिरितिक्तज्ञानत्वात्, प्रत्यक्षवत्; इति चेद्, न; संप्रयोगमात्रजन्यत्वस्योपाधित्वात्। न चाऽनुमानागमादिज्ञानेषु साध्याव्याप्तिः शङ्कनीया, व्याप्यादिज्ञानसापेक्षत्वेन संस्कारजेषु तेषु साध्याभावात्। स्यादेतत् -- विमतः प्रत्यया यथार्थाः, प्रत्ययत्वात्, संमतवत्, इति न्यायेन प्रमाणं स्मृतिश्चेति द्वैराश्यमेव ज्ञानस्य। तथा च रजतज्ञानमपि नाऽध्यासः, किन्तु स्मृतिः, संस्कारमात्रजन्यत्वात्, संमतवच्। न च स्मृतित्वे सत्यतिसादृश्याच्छुक्त्यन्तरमेव किं न स्मर्यत इति वाच्यम्, कर्तृगतरागादिदोषाणामपि निमित्तत्वात्, शुक्त्यन्तरे तदभावात्। तैरेव दोषैः स्मरणाभिमानस्य प्रमुषितत्वान्न रजतस्मरणे तत्तांश उल्लिख्यते। तथाविशेषावभासकचत्वस्य तैरेव प्रतिबद्धत्वान्न शुक्तिग्रहणेऽपि नीलपृष्ठत्वादिकमवभासते। तथा च ग्रहणस्मरणे उभे अप्यविवक्ते संपद्येते, ततो रजतार्थी पुरोवर्त्तिनि प्रवर्त्तते।
ननु किं ग्रहणस्मरणे द्वे अपि प्रवर्त्तके? आहोस्विदेकैकम्। आद्येऽपि किं संभूय प्रवर्त्तके? किं वा क्रमेण? नाऽद्यः, स्मृतिग्रहणयोर्यौगपद्याभावात्। क्रमविशिष्टयोर्द्वयोः प्रवर्त्तकत्वमित्ययुक्तम्; पूर्वज्ञानस्य प्रवृत्तिं प्रति व्यवहितस्याऽकारणत्वात्। नाऽप्येकैकस्य प्रवर्त्तकत्वम्, व्यवहारस्य विशिष्यविषयत्वात्। ततो विशिष्यप्रवृत्तये संसृष्टप्रत्यय एष्टत्व इति चेद्, न; ग्रहणस्मरणनैरन्तर्योत्पत्तेः प्रवर्तकत्वात्। इदं रजतमित्यभादिति संसर्गप्रत्ययः प्रत्यभिज्ञायत इति चेद्, न; तादृशव्यवहारमात्रत्वात्। यस्तु जातमात्रस्य बालस्य मधुरे तिक्तत्वावभासस्थूत्काराद्यनुमेयः, सोऽपि जन्मान्तराद्यनुभूततिक्तत्वस्मृतिरेव, न तु भ्रान्तिरूपः संसर्गप्रत्ययः। माधुर्यविशेषतत्तांशौ तु ग्रहणस्मरणयोः पित्तदोषान्नोल्लिख्येते। `जन्मान्तरानुभूतं च न स्मर्यत' इति च भाष्यकारवचनं प्रायिकाभिप्रायम्। अन्यथा स्तनपानादावपीष्टसाधनतास्मृत्यभावेन प्रवृत्तिर्न स्यात्। भ्रान्तिपक्षेऽपि जन्मान्तरानुभवः कारणत्वेनैष्टव्यः। अन्यथाऽनुभूतत्वाविशेषेण सप्तमरसोऽपि भ्रान्तौ भासेत। अतत्त्वे तत्त्वज्ञानमिति वदता शास्त्रकारेणैव दर्शितः संसर्गावासो भ्रमत्वेनेति चेद्, न; तस्य व्यवहाराभिप्रायत्वात्। सम्यक्‌प्रदेशेषु संसर्गज्ञानस्य प्रवर्त्तकत्वं व्याप्तं तत्कुतोऽत्र त्यज्यत इति चेद्, गौरवादिति ब्रूमः। भ्रान्तिवादिनाऽपि तत्कारणत्वेनाऽवश्यं ग्रहणस्मरणयोरविवेक एष्टव्यः। तथा च तेनैवोभयसिद्धेन प्रवृत्तिसिद्धौ किमतिरिक्तसंसर्गज्ञानेन? तस्मादख्यातिरेव युक्तेति।
अत्रोच्यते -- केयमख्यातिर्नाम। किं ख्यात्यभावमात्रमुतान्यर्थिनोऽन्यत्र प्रवृत्तिहेतुविज्ञानम्? अथाविविक्तानेकपदार्थज्ञानम्? आद्ये, सुषुप्तौ भ्रमःस्यान्न जाग्रत्स्वप्नयोः। द्वितीये, झटिति बाधादालस्याद्वा यत्र न प्रवृत्तिस्तत्र भ्रान्तिर्न स्यात्। तृतीयेऽपि अविविक्तत्वप्रतियोगिविविक्तत्वं नाम किं भेदग्रहः? उताभेदाग्रहः? अहोस्वित् इतरेतराभावभेदद्वित्वादिसंख्याविशिष्टज्ञानम्? नाद्यः, इदमिति रजतमिति चाऽपुनरुक्तशब्दद्वयस्मृतिहेतुत्वेन सामान्यविशेषयोर्भेदग्रहे सत्यविवेकासंभवात्। न द्वितीयः, उक्तरीत्या भेदस्य गृहीतत्वादेव तद्विरुद्धस्याभेदस्याऽऽग्रहे सति तदग्रहनिषेधस्याऽविविक्तत्वस्य दुःसंपादत्वात्। तृतीयेऽपि किमाहत्यैव द्वित्वादिज्ञानमपेक्षितम्? उताऽऽनुषङ्गिकमपि पर्याप्तम्। आद्ये, `गामानय दण्डेन' इत्यत्र गोदण्डयोरपि साक्षाद् द्वित्वाद्यप्रतीतेरविवेकः प्रसज्येत। द्वितीये, पुरोवर्त्तिरजतयोरप्यानुषङ्गिकद्वित्वादि ज्ञानसद्भावादविवेको न स्यात्।
ननु प्रतियोगिनमुपजीव्याविवेकानिरूपणेऽपि धर्मिद्वारा निरूप्यतामिति चेत्? तदप्यसत्; न तावत् प्रतीयमानयोर्धर्मिणोरविवेकः संभवति, अपुनरुक्तत्वेन स्पष्टं प्रतिभासात्। अप्रतीयमानयोरविवेकश्चेत्? सुषुप्तावपि भ्रमः प्रसज्येत।
नन्वविवेको नामाऽसंसर्गाग्रहः। स च प्रतीयमानयोरिदंरजतयोः संभवति, `इदंरजते असंसृष्टे' इति प्रत्ययादर्शनादिति चेत्, तदाऽपि किं ग्रहणस्मरणयोरेवाऽसंसर्गाग्रहो विवक्षितः, उत ययोः कयोश्चिद्? आहोस्वित् संसर्गज्ञानरगहितयोः। आद्ये `अहं मनुष्यः' इति भ्रमो न स्यात्; उभयोरपि ग्रहणत्वात्। द्वितीये `खण्डो गौः, शुक्लः पटः' इत्यपि भ्रमः स्यात्; असंसर्गप्रतीत्यभावात्। तृतीयेऽपि स एव दोषः; नहि संसर्गज्ञानं संभवति। तद्विषयस्यैक्यस्याऽभावात्। ऐक्यस्य च तद्विषयत्वं प्रत्यभिज्ञायामवगतम्।
यदि गुणगुण्यादिसंबन्ध एव तद्विषयो नैक्यमित्युच्यते तर्हीदं रजतमित्यत्राऽपि सादृश्यसंबन्धस्तद्विषय इति वक्तुं शक्यत्वेन संसर्गप्रत्ययो दुर्वारः। अथ तत्र नेदं रजतमिति असंसर्गप्रत्ययेन बाधान्न संसर्गतत्प्रत्ययौ संभवतः; तर्हि त्वन्मते गुणगुण्यादावरपि इतरेतरभावज्ञानाख्योऽसंसर्गप्रत्ययोऽस्त्येवेति संसर्गतत्प्रत्यययोरसंभवाद् भ्रमत्वापत्तिस्तदवस्था। तस्माद् नाऽसंसर्गाग्रहोऽप्यविवेकः।
नन्वविवेकं दूषयताऽत्र विवेचकं किंचिन्निरूपणीयम्। न तावत् ग्रहणं स्मर्यमाणात् स्वार्थँ विविनक्ति; विशेषावभासकत्वस्य दोषैः प्रतिबद्धत्वात्। नाऽपि स्मरणं् गृह्यमाणात् स्वार्थं विवेक्तुमलम्, स्मरणाभिमानस्य प्रमुषितत्वादिति चेद्? मैवम्; उभयोरपि विवेचकत्वस्य सुसंपादत्वात्। तथा हि -- किमिदमाकाररजताकारयोस्तत्तज्जातिव्यक्तिविशिष्टयोरेव त्वया भेदोऽभ्युपेयते किं वा केवलयोरपि? नाऽद्यः, प्रकृतयोरिदमाकाररजताकारयोर्जात्याद्यविशिष्टयोर्भेदाभावेनैक्ये सति तद्गेचरसंसर्गज्ञानप्रसङ्गात्। द्वितीयेऽपि किं प्रथमज्ञानेन वस्तु गृहीत्वा द्वितीयज्ञानेन धर्मिप्रतियोगिभावमवगत्य पश्चात् तृतीयज्ञानेन भेदो गृह्यते? उत वस्तुना सहैव भेदग्रहणम्? आद्ये सर्वपदार्थज्ञानानां भेदग्रहणात् प्राग् अविविक्तविषयतया भ्रमत्वप्रसङ्गः। द्वितीये च इदन्ताग्रहणादेव भेदस्यापि गृहीतत्वेन भेदापेक्षितो विशेषोऽप्यवभासित एवेति ग्रहणस्य विवेचकत्वमङ्गीकार्यम्।
तथा स्मरणमपि विवेचकमेव। नहि स्मरणाभिमानो निरूपयितुं शक्यः, यत्प्रमोषात् स्मृतेरविवेचकत्वम्। तथा हि किं स्मृतिरेव स्मरणाभिमानः स्मृतेरन्यो वा स्मृतिगतधर्मो वा पूर्वानुभवविशिष्टत्वेनाऽर्थग्रहणं वा स्वगत एव कश्चित्स्मृतिविशेषो वा पूर्वानुभवगोचराद्विज्ञिष्टज्ञेयनिमित्तो विशेषे वा फलभेदकजनकत्वं वा स्मरामीत्यनुभवो वा। नाऽद्यः, स्मृतेः प्रमोषे रजतज्ञानस्यैवाऽभावप्रसङ्गात्। न द्वितीयः, अन्यस्य प्रमोषे स्मृतेरविवेचकत्वमिति वैयधिकरण्यापातात्। न तृतीयः, तादृशधर्मानुपलम्भात्। न चतुर्थः, पूर्वदृष्टः स एवाऽयं देवदत्त इति प्रत्यभिज्ञाभ्रमे पूर्वानुभवसंभेदग्रहे सत्येव विना तत्प्रमोषमविवेकदर्शनात्। अथ केवलस्मृतिमभिलक्ष्योक्तम् प्रत्यभिज्ञा तु न तथेति चेत्, तथापि नाऽयं पक्ष एव संभवति। तथा हि -- किं पूर्वानुभवः स्वात्मानमपि विषयीकरेति उतार्थमात्रम्? नाद्यः, वृत्तिविरोधात्। द्वितीये त्वर्थ ए स्मृत्याऽवभास्यो न तु पूर्वज्ञानं तस्याननुभूतत्वात्। ननु ज्ञातो घट इत्यत्र ज्ञानविशिष्टार्थस्मृतिर्दृश्यत इति चेत्, न; स्मृत्यन्तरत्वात्। अनुव्यवसायेन ज्ञानागोचरानुमानेन वा जन्येयं स्मृतिर्व्यवसायजन्याया घटमात्रगोचरायाः स्मृतेरन्या। न चाऽनयाऽपि स्वजनको (ऽनु) व्यवसायाख्यः पूर्वानुभवो विषयीक्रियते किं तर्ह्यनुव्यवसायेनानुभूतो व्यवसाय (विशिष्टो) घट एव। अत एतत्सिद्धम् -- विमता स्मृतिर्न स्वमूलज्ञानविशिष्टमर्थं गृह्णाति, स्मृतित्वात्, पदार्थस्मृतिवत्, इति। पदानि हि स्वसंबद्धेष्वर्थेषु स्मृतिं जनयन्ति।
नन्वेतद् बौद्धो न सहते। तथा हि -- पदानामर्थैः संयोगादिसंबन्धानामसंभवात् सम्बद्धार्थस्मारकत्वमित्येतदयुक्तम्। बोधनजननशक्तिः सम्बन्ध इति चेत्, किमनुभवजननशक्तिः? किं वा स्मृतिजननशक्तिः? नाऽद्यः, पदानां वाक्यरूपेण वाक्यार्थानुभवजनकत्वेऽपि स्वार्थेषु तदसंभवात्। व्युत्पत्तिकाले पदार्थानां मानान्तरगृहीतत्वेनाऽपूर्वार्थत्वाभावात्। तदुक्तम् -- `पदमभ्यधिकाभावात् स्मारकान्न विशिष्यते' इति।
द्वितीयेऽपि सा शक्तिर्न तावदाज्ञाता स्मृतिमुत्पादयति; ज्ञातकारणत्वात्। नाऽपि ज्ञाताः, शक्तेः कार्यैकसमधिगम्यत्वेन स्मृत्युत्पत्तिशक्तिज्ञानयोः परस्पराश्रयत्वात्। अथोच्यते -- मध्यमवृद्धप्रवृत्त्या प्रवृत्तिहेतुज्ञानमनुमाय शब्दानन्तर्यात्तज्जनकत्वं शब्दस्य निश्चित्यावापोद्धाराभ्यां व्युत्पत्तिकाल एव शक्तिनिश्चयान्नान्योऽन्याश्रयतेति। तदापि किं शब्दमात्रे शक्तिनिश्चयः अर्थविशेषसंबद्धे वा? नाद्यः, अस्य शब्दस्याऽयमर्थ इति नियमासिद्धिप्रसङ्गात्। द्वितीयेऽपि शक्तिसम्बन्धस्य व्यवस्थापकं संबन्धान्तरमेष्टव्यमित्यनवस्था स्यात्। शक्तिः स्वपरनिर्वाहिका इति चेत्, तथापि स्मृतिकाले किं शब्दमात्रदर्शनादर्थः स्मर्यते किं वाऽर्थगोचरशक्तिमच्छब्ददर्शनाद् उत शक्तिज्ञानजन्यसंस्काराच्छब्ददर्शनाच्च। नाद्यः, अनियमापत्तेः। न द्वितीयः, शब्ददर्शनसमय एवाऽर्थस्याऽपि दृष्टत्वेन शब्दजन्यस्मृतिवैयर्थ्यात्। न तृतीयः, तावता स्मृत्यसंभवात्। अन्यत्र स्मारकस्मार्ययोः सादृश्यविरोधिकार्यकारणभावादिसम्बन्धान्तरनियमात् शब्दार्थयोस्तदभावात्। तस्मात् पदानि स्मारकाणि, वाक्यं पुनः प्रमाणमित्येतद्वेदवादिनां प्रक्रियामात्रमिति।
अत्रोच्यते -- शब्ददर्शनात् शक्तिसंस्काराच्चाऽर्थस्मृतौ न कश्चिद्दोषः। यदुक्तमन्यत्रेत्यादिना तदसत्। किमन्यत्रेव शब्देऽपि सादृश्यादिकमभ्युपेयमित्युच्यते किं वा शब्दवदन्यत्रापि शक्तिरेवाऽस्तु मा भूत्सादृश्यादिकमिति किं वा शब्दे सादृश्यादिकमूलसम्बन्धाभावात् सत्यामपि शक्तौ न स्मृतिजनकत्वमिति। नाद्यः, शब्दे सादृश्यादर्शनाद्, अदृष्टस्य च कल्पने गोरवात्। अन्यत्र तु दृष्टत्वेनाऽकल्पनीयत्वात्। न द्वितीयः, अनुभूयमानस्याऽपलापायोगात्। न तृतीयः, शक्तस्य कार्याजनकत्वे व्याघातापत्तेः। तस्माच्छक्तिमन्ति पदानि अर्थेषु स्मृतिं जनयन्त्येव। नहि तत्रार्थैः सह पूर्वानुभवाः स्मर्यन्ते। अन्यथा घटादिवदनुभवानामपि तत्तच्छब्दार्थत्वं प्रसज्येत।
नाऽपि पञ्चमः, कारणविषयाद्युपाधिमन्तरेण ज्ञानानां स्वरूपेषु क्वापि विशेषानुपलम्भात्। नाऽपि षष्ठसप्तमौ, अनुभवगताभ्यां ज्ञेयफलाभ्यामतिरिक्तज्ञेयफलयोः स्मृतावभावात्। नाऽप्यष्टमः, स्मरामीत्यस्यानुभवस्याऽन्यत्र विवेचकत्वे सिद्धे सति अत्र कथंचित् प्रमोषादविवेचक इति वक्तुं शक्येतापि। तदेव तावसिद्धम्। ग्रहणवाचकाशब्दपरित्यागेन स्मरणवाचकशब्दानुविद्धो ह्ययमनुभवो जायते। स कथं प्रथमतो ग्रहणस्मरणयोरसति विवेके सम्भवेत्? तथा च विवेके सत्यनुभवः अनुभवे च सति विवेक इति स्यादन्योन्याश्रयता। तदित्थं प्रमोषणीयस्य स्मरणाभिमानस्य दुर्भणत्वात् स्मरणस्य विवेचकत्वं प्राप्नोत्येव।
ननु ग्रहणस्मरणयोरर्थमात्रविषयत्वे भेदाभावप्रसङ्गेनाऽवश्यं त्वयाऽपि स्मृतेः पूर्वानुभवविशिष्टार्थविषयत्वं स्वीकार्यं तदेव स्मरणाभिमानोऽस्त्विति चेद्, न; कारणविशेषादेव भेदसिद्धेः। अन्यथा त्वन्मतेऽपि पूर्वानुभवगोचरानुमामज्ञानात् स्मृतेः को भेदः स्याद्? विषयस्य समत्वात्। ननु स इत्याकारेण स्मृतिर्ज्ञानानुमानाद्भिद्यत इति चेत्, कोऽयं स इत्याकारः, तकिं परोक्षदेशकालादिविशिष्टता उत पूर्वानुभवसंभिन्नता किं वा संस्कारजन्यत्वम्? नाऽद्यः, अनुमानादिष्वपि स्मृतित्वरप्रसङ्गात्। न द्वितीयः, ज्ञानानुमानेऽपि प्रसङ्गात्। तृतीये तु कारणविशेष एव भेदहेतुः स्यात्।
अस्तु तर्हि प्रकृतेऽपि संस्कारजन्यैव रजतस्मृतिरिति चेद्, न; रजतस्य पुरोवस्थितत्वेन प्रतिभासादित्युक्तोत्तरत्वात्। न च पुरोवस्थितत्वमविवेककृतमिति वक्तुं शक्यम्, अविवेकस्य भ्रमं प्रति अप्रयोजकत्वात्। तथा हि -- किं गृह्यमाणयोरविवेकः किं वा गृह्यमाणस्मर्यमाणयोरुत द्वयोर्गृह्यमाणयोरभावे तदविवेकस्य भ्रमप्रयोजकस्याप्यभावेन भ्रमाभावप्रसङ्गात्। न द्वितीयः, स्वप्न एव गृह्यमाणेनात्मना स्मर्यमाणस्य नीलादेरविवेके सत्यहं नीलमिति प्रतिभासप्रसङ्गात्। तृतीये तु परोक्षमेव सर्वं भ्रान्तावभासेत, सर्वस्याऽपि स्मर्यमाणत्वात्। एवं च सति प्रकृतस्य पुरोवस्थितरजतज्ञानस्य स्मृतित्वानुमाने परोक्षावभासित्वोपाधिर्द्रष्टव्यः।
यथार्थानुमानस्य चाऽयं प्रतिप्रयोगः। विवादाध्यासिताः प्रत्यया न यथार्थाः, बाध्यामानत्वाद्, भ्रान्तिव्यवहारवत् इति। तस्माद् ज्ञानद्वैराश्यदुराग्रहं परित्यज्य तृतीयं भ्रान्तिज्ञानमङ्गीकर्तव्यम्।
ननु तर्हि मा भूदख्यातिः; अस्त्वन्यथाख्यातिः; देशकालान्तरगतं हि रजतं शुक्तिसंप्रयुक्तेन दोषोपहितेन्द्रियेण शुक्त्यात्मना गृह्यते। न चैवमननुभूतस्याऽपि ग्रहणप्रसङ्गः, सादृश्यादेर्नियामकत्वादिति; तदेतदसत्, किं ज्ञानेऽन्यथात्वं किं वा फले उत वस्तुनि? नाऽऽद्यः, रजताकारज्ञानं शुक्तिमालम्बत इति हि ज्ञानेऽन्यथात्वं वाच्यम्। तत्र शुक्तेरालम्बनत्वं नाम तकिं ज्ञानं प्रति स्वाकारसमर्पकत्वम्? उत ज्ञानप्रयुक्तव्यवहारविषयत्वम्? नाऽऽद्यः, रजताकारग्रस्तं ज्ञानं प्रति शुक्त्याकारसमर्पणासंभवात्। न द्वितीयः, व्याघ्रादिदर्शनप्रयुक्तव्यवहारविषयस्य खङ्गकुन्तधनुरादेर्व्याघ्रादिज्ञानालम्बनत्वरप्रसङ्गात्। नाऽपि फलेऽन्यथात्वम्, फलस्य स्फुरणस्य भ्रान्तौ सम्यग्‌ज्ञाने वा स्वरूपतो वैषम्यादर्शनात्। वस्तुन्यपि कथमन्यथात्वम्? किं शुक्तिकायारजततादात्म्यं किं वा रजताकारेण परिणामः? आद्येऽपि किं शुक्तिरजतयोरत्यन्तं भेदः किं वा भेदाभेदौ? नाऽऽद्यः, अत्यन्तभिन्नयोर्वास्तवतादात्म्यासम्भवात्; अनिर्वचनीयत्वस्य त्वयाऽनभ्युपगमात्। शून्यतादात्म्यप्रतीतौ गुणगुण्यादावपि तत्संभवेन भ्रान्तित्वं दुर्वारम्, समवायस्य प्रक्रियामात्रसिद्धस्य तादात्म्यानतिरेकात्। भेदाभेदपक्षे तु खण्डो गौरितिवदभ्रान्तिः स्यात्। परिणामपक्षेऽपि बाधो न स्यात् -- विमतं रजतज्ञानमबाध्यम्, परिणामज्ञानत्वात्, क्षीरपरिणामदधिज्ञानवत्। ततः क्षीरवदेव शुक्तिः पुनर्न दृश्येत। ननप कमलस्य विकाशरूपपरिणामहेतोः सूर्यतेजसोऽपगमे पुनर्मुकुलीभाववद्रजतपरिणामहेतोर्दोषस्याऽपगमे पुनः शुक्तिभावोऽस्तु, मैवम्; विकसितमेव मुकुलमासीदितिवद्रजतमेव शुक्तिरासीदिति प्रतीत्यभावात्। कथंचित्तद्भावेऽपि न परिणामपक्षो युक्तः, निर्दोषस्याऽपि रजतप्रतीतिप्रसङ्गात्। नह्येकमेव क्षीरं दधिरूपेण कंचित्पुरुषं प्रति परिणतमन्यं प्रति नेति दृष्टचरम्। तस्मान्नाऽन्यथाख्यातिः सुनिरूपा।
अस्तु तर्ह्यात्मख्यातिः -- विमतं रजतं बुद्धिरूपम्, संप्रयोगमन्तरेणाऽपरोक्षत्वाद्, बुद्धिवत्। ननु चतुर्विधान् हेतून् प्रतीत्य चित्तचैत्या उत्पद्यन्त इति हि सौगतानां मतम्। तत्र न तावत् सहकारिप्रत्ययाख्यादालोकादे रजताकारोदयः संभवति, तस्य स्पष्टतामात्रहेतुत्वात्। नाऽप्यधिपतिप्रत्ययाख्यात् चक्षुरादेः, तस्य विषयनियममात्रहेतुत्वात्। नाऽपि समनन्तरप्रत्ययाख्यात् पूर्वज्ञानात्; विजातीयघटज्ञानानन्तरं विजातीयरजतभ्रमोदयदर्शनात्। नाऽप्यालम्बनप्रत्ययाख्याद्बाह्यात्, विज्ञानवादिना तदनङ्गीकारात्। ततः कथं विज्ञानस्य रजतकार इति चेत्, संस्कारसामर्थ्यादिति ब्रूमः। ननु संस्कारस्याऽपि स्थायित्वे क्षणिकं सर्वमिति सिद्धान्तहानिः। क्षणिकत्वेऽपि तस्य ज्ञेयत्वेन विज्ञानमात्रवादहानिरिति चेद्, न; अनादिसिद्धज्ञानसन्ततौ यदा कदाचित्पूर्वं रजतज्ञानमुत्पन्नं तदेव संस्कार इत्यङ्गीकारात्। यद्यपि संस्कारो विजातीयनेकज्ञानव्यवहितस्तथापि कदाचित्सजातीयं रजतज्ञानान्तरमुत्पादयति। यथा व्रीहिबीजमनेकाङ्कुरादिकार्यंव्यवधाननेन पुनः सजातीयबीजान्तरमुत्पादयति तद्वत्। अथ न पूर्वबीजादुत्तरबीजोत्पत्तिः, किन्तु पूर्वबीजजन्याङ्कुरादिसन्तानादिति मन्यसे? तर्ह्यत्रापि पूर्वरजतज्ञानजन्यज्ञानसन्तान ए संस्कारोऽस्तु। एवं पूर्वरजतज्ञानमपि पूर्वरजतज्ञानमपि पूर्वरजतज्ञानादुत्पद्यते। ततोऽनादिवासनाप्रापितं रजतं बुद्धिरूपमेव सद् भ्रान्त्या बहिर्वदभासते इति।
अत्रोच्यते -- किं तद्रजमलौकिकत्वाज्जन्मरहितम् उत लौकिकरजतवदेव जायते? आद्ये जायमानज्ञानस्वरूपं न स्यात्। द्वितीयेऽपि किं बाह्यार्थाज्जायते उत ज्ञानम्? नाऽऽद्यः, त्वया बाह्यार्थस्याऽनङ्गीकारात्। ज्ञानमपि विशुद्धं तावन्न जनकम्; विशुद्धज्ञानस्य भोक्षरूपत्वात्। अथ दुष्टकारणजन्यज्ञानाद्रजतोत्पादः, तथाऽपि किं जनकप्रतीतिरेव रजतं गृह्णाति अन्यावा? नाऽऽद्यः, क्षणिकयोर्जन्यजनकयोर्भिन्नकालीनत्वेनाऽपरोक्षरजतप्रतीत्यभावप्रसङ्गात्। अन्यप्रतीतिरपि न तावददुष्टकारणजन्या रजतग्राहिणी, अतिप्रसङ्गात्। दुष्टकारणजन्या अपि यदि रजतजन्या तदा रजतस्याऽर्थक्रियाकारित्वेन सत्त्वे सति बाह्योऽर्थोऽङ्गीकार्यः स्यात्। रजताजन्यत्वे तु न रजतं तद्विषयः स्यात्; ज्ञानाकारार्पको हेतुर्विषय इत्यङ्गीकारात्। तस्मादात्मख्यातिपक्षे रजतमेव न प्रतीयेत।
ननु तवाऽपि रजतज्ञानस्य स्मृतित्वे स्यादख्यातिर्ग्रहणत्वे चाऽन्यथाख्यातिः आत्मख्यातिर्वा स्यात्, नहि ज्ञानस्य स्मृतिग्रहणाभ्यामन्यः प्रकारः संभवतीति चेद्, मैवम्; किं विलक्षणसामग्र्यनिरूपणात्तदसंभवः? किं वा विलक्षणज्ञानस्वकरूपवनिरूपणाद् उत विलक्षणविषयानिरूपणात्? नाऽऽद्यः, संप्रयोजकसंस्कारदोषाणां सामग्रीत्वात्। न च वाच्यं दोषः प्रतिबवन्धकत्वेन पूर्वप्राप्तकार्यानुदयस्यैव हेतुर्नत्वपूर्वकार्योदयस्येति; अनुदयस्य प्रागभावरूपस्याऽनादित्वेन दोषाजन्यत्वात्। वातपित्तादिदोषाणां चाऽपूर्वकार्योत्पादकत्वदर्शनात्। न च दोषस्य संस्कारोद्बोधकत्वेनाऽन्यथासिद्धिः, तदुद्बोधस्याऽवान्तरव्यापारत्वात्। नह्युद्यमननिपतने कुर्वन् कुठारः छिदिक्रियां प्रत्यहेतुर्भवति।
ननु संप्रयोगस्येदन्तामात्रज्ञानोपक्षीणत्वात् संस्कारस्य स्मृतिजनकत्वेऽपित्वयाऽत्र स्मृतेरनङ्गीकृतत्वाद्दोषस्य च स्वातन्त्र्येण ज्ञानहेतुत्वादर्शनाद् रजतावभासः कथमिति चेत्, उच्यते -- प्रथमं दोषसहितेनेन्द्रियेणेदन्तामात्र विषयाऽन्तःकरणवृत्तिर्जन्यते, तत इदन्तायां तद्ग्राहकवृत्तौ च चैतन्यमभिव्यज्यते, तच्चैचन्यनिष्ठा चाऽविद्या दोषवशात् संक्षुभ्नाति, तत्रेदमंशावच्छिन्नचैतन्यस्थाऽविद्या संक्षुभिता सती सादृश्यादुद्बोधितरूप्यसंस्कारसहायवशाद् रूप्यकारेण विवर्त्तते। वृत्त्यवच्छिन्नचैतन्यस्थाऽविद्या तु रूप्यग्रहिवृत्तिसंस्कारसहकृता वृत्तिरूपेण विवर्त्तते; तौ च रूप्यविवर्त्तवृत्तिविवत्तौ स्वस्वाधिष्ठानेन साक्षिचैतन्येनाऽवभास्येते इत्येवं रजतावभासः। यद्यप्यत्राऽन्तःकरणवृत्तिरविद्यावृत्तिश्चेति ज्ञानद्वयम्, तथाऽपि तद्विषयः सत्यानृतयोरिदं रजतयोरन्योन्यात्मतयैकचत्वमापन्नस्ततो विषयवच्छिन्नफलस्याऽप्येकत्वेन ज्ञानैक्यमप्युपचर्यते। नाऽपि द्वितीयतृतीयौ, मिथ्याज्ञानमिथ्याविषययोर्निरूपणात्।
यद्यप्यत्र संप्रयोगसंस्कारौ निरपेक्षावेव प्रमितिस्मृत्योर्जनने समर्थौ, तथापि प्रमितिस्मृतिनैरन्तर्योत्पत्तिमात्रेण प्रवृत्त्यसंभवादुभाभ्यां संप्रयोगसंस्काराभ्यां जन्यमेकं मिथ्याज्ञानं कल्पनीयम्। यथा निरन्तरोत्पन्नेषअवपि वर्णज्ञानेषु यौगपद्याभावात् पदार्थज्ञानान्यथानुपपत्त्या पूर्वपूर्ववर्णसंस्कारसहितमन्त्यवर्ण विज्ञानमेकमेव हेतुत्वेन त्वया कल्प्यते, तद्वत्।

"https://sa.wikisource.org/w/index.php?title=विवरणप्रमेयसंग्रहः&oldid=329121" इत्यस्माद् प्रतिप्राप्तम्