विलोमाक्षररामकृष्णकाव्यम्

विकिस्रोतः तः
Jump to navigation Jump to search
विलोमाक्षररामकृष्णकाव्यम्
श्रीदैवज्ञपण्डित सूर्यकवि


|| विलोमाक्षररामकृष्णकाव्यम् ||

तं भूसुतामुक्तिमुदारहासं वन्दे यतो भव्यभवं दयाश्रीः ।
श्रीयादवं भव्यभतोयदेवं संहारदामुक्तिमुतासुभूतम् ॥ १॥

चिरं विरञ्चिर्न चिरं विरञ्चिः साकारता सत्यसतारका सा ।
साकारता सत्यसतारका सा चिरं विरञ्चिर्न चिरं विरञ्चिः ॥ २॥

तामसीत्यसति सत्यसीमता माययाक्षमसमक्षयायमा ।
माययाक्षसमक्षयायमा तामसीत्यसति सत्यसीमता ॥ ३॥

का तापघ्नी तारकाद्या विपापा त्रेधा विद्या नोष्णकृत्यं निवासे ।
सेवा नित्यं कृष्णनोद्या विधात्रे पापाविद्याकारताघ्नी पताका ॥ ४॥

श्रीरामतो मध्यमतोदि येन धीरोऽनिशं वश्यवतीवराद्वा ।
द्वारावतीवश्यवशं निरोधी नयेदितो मध्यमतोऽमरा श्रीः ॥ ५॥

कौशिके त्रितपसि क्षरव्रती योऽददाद्ऽद्वितनयस्वमातुरम् ।
रन्तुमास्वयन तद्विदादयोऽ तीव्ररक्षसि पतत्रिकेशिकौ ॥ ६॥

लम्बाधरोरु त्रयलम्बनासे त्वं याहि याहि क्षरमागताज्ञा ।
ज्ञातागमा रक्ष हि याहि या त्वं सेना बलं यत्र रुरोध बालम् ॥ ७॥

लङ्कायना नित्यगमा धवाशा साकं तयानुन्नयमानुकारा ।
राकानुमा यन्ननु यातकंसा शावाधमागत्य निनाय कालम् ॥ ८॥

गाधिजाध्वरवैरा ये तेऽतीता रक्षसा मताः ।
तामसाक्षरतातीते ये रावैरध्वजाधिगाः ॥ ९॥

तावदेव दया देवे यागे यावदवासना ।
नासवादवया गेया वेदे यादवदेवता ॥ १०॥

सभास्वये भग्नमनेन चापं कीनाशतानद्धरुषा शिलाशैः ।
शैलाशिषारुद्धनताशनाकी पञ्चानने मग्नभये स्वभासः ॥ ११॥

न वेद यामक्षरभामसीतां का तारका विष्णुजितेऽविवादे ।
देवाविते जिष्णुविकारता का तां सीमभारक्षमयादवेन ॥ १२॥

तीव्रगोरन्वयत्रार्यो वैदेहीमनसो मतः ।
तमसो न महीदेवै- र्यात्रायन्वरगोव्रती ॥ १३॥

वेद या पद्मसदनं साधारावततार मा ।
मारता तव राधा सा नन्द सद्मप यादवे ॥ १४॥

शैवतो हननेऽरोधी यो देवेषु नृपोत्सवः ।
वत्सपो नृषु वेदे यो धीरोऽनेन हतोऽवशैः ॥ १५॥

नागोपगोऽसि क्षर मे पिनाकेऽ नायोऽजने धर्मधनेन दानम् ।
नन्दानने धर्मधने जयो ना केनापि मे रक्षसि गोपगो नः ॥ १६॥

ततान दाम प्रमदा पदाय नेमे रुचामस्वनसुन्दराक्षी ।
क्षीरादसुं न स्वमचारु मेने यदाप दाम प्रमदा नतातः ॥ १७॥

तामितो मत्तसूत्रामा शापादेष विगानताम् ।
तां नगाविषदेऽपाशा मात्रासूत्तमतो मिता ॥ १८॥

नासावद्यापत्रपाज्ञाविनोदी धीरोऽनुत्या सस्मितोऽद्याविगीत्या ।
त्यागी विद्यातोऽस्मि सत्त्यानुरोधी दीनोऽविज्ञा पात्रपद्यावसाना ॥ १९॥

सम्भावितं भिक्षुरगादगारं याताधिराप स्वनघाजवंशः ।
शवं जघान स्वपराधिताया रङ्गादगारक्षुभितं विभासम् ॥ २०॥

तयातितारस्वनयागतं मा लोकापवादद्वितयं पिनाके ।
केनापि यं तद्विदवाप कालो मातङ्गयानस्वरतातियातः ॥ २१॥

शवेऽविदा चित्रकुरङ्गमाला पञ्चावटीनर्म न रोचते वा ।
वातेऽचरो नर्मनटीव चापं लामागरं कुत्रचिदाविवेश ॥ २२॥

नेह वा क्षिपसि पक्षिकन्धरा मालिनी स्वमतमत्त दूयते ।
ते यदूत्तमतम स्वनीलमा- राधकं क्षिपसि पक्षिवाहने ॥ २३॥

वनान्तयानस्वणुवेदनासु योषामृतेऽरण्यगताविरोधी ।
धीरोऽवितागण्यरते मृषा यो सुनादवेणुस्वनयातनां वः ॥ २४॥

किं नु तोयरसा पम्पा न सेवा नियतेन वै ।
वैनतेयनिवासेन पापं सारयतो नु किम् ॥ २५॥

स नतातपहा तेन स्वं शेनाविहितागसम् ।
सङ्गताहिविनाशे स्वं नेतेहाप ततान सः ॥ २६॥

कपितालविभागेन योषादोऽनुनयेन सः ।
स नये ननु दोषायो नगे भाविलतापिकः ॥ २७॥

ते सभा प्रकपिवर्णमालिका नाल्पकप्रसरमभ्रकल्पिता ।
ताल्पिकभ्रमरसप्रकल्पना कालिमर्णव पिक प्रभासते ॥ २८॥

रावणेऽक्षिपतनत्रपानते नाल्पकभ्रमणमक्रमातुरम् ।
रन्तुमाक्रमणमभ्रकल्पना तेन पात्रनतपक्षिणे वरा ॥ २९॥

दैवे योगे सेवादानं शङ्का नाये लङ्कायाने ।
नेयाकालं येनाकाशं नन्दावासे गेयो वेदैः ॥ ३०॥

शङ्कावज्ञानुत्वनुज्ञावकाशं याने नद्यामुग्रमुद्याननेया ।
याने नद्यामुग्रमुद्याननेया शङ्कावज्ञानुत्वनुज्ञावकाशम् ॥ ३१॥

वा दिदेश द्विसीतायां यं पाथोयनसेतवे ।
वैतसेन यथोपायं यन्तासीद्ऽविशदे दिवा ॥ ३२॥

वायुजोऽनुमतो नेमे सङ्ग्रामेऽरवितोऽह्नि वः ।
वह्नितो विरमे ग्रासं मेनेऽतोऽमनुजो युवा ॥ ३३॥

क्षताय मा यत्र रघोरितायु- रङ्कानुगानन्यवयोऽयनानि ।
निनाय यो वन्यनगानुकारं युतारिघोरत्रयमायताक्षः ॥ ३४॥

तारके रिपुराप श्री- रुचा दाससुतान्वितः ।
तन्वितासु सदाचारु श्रीपुरा पुरि के रता ॥ ३५॥

लङ्का रङ्काङ्गराध्यासं याने मेया काराव्यासे ।
सेव्या राका यामे नेया सन्ध्यारागाकारं कालम् ॥ ३६॥

॥ इति श्रीदैवज्ञपण्डित सूर्यकवि विरचितं विलोमाक्षररामकृष्णकाव्यं समाप्तम् ॥