सामग्री पर जाएँ

विमलकीर्तिनिर्देशः

विकिस्रोतः तः
विमलकीर्तिनिर्देशः
[[लेखकः :|]]

विमलकीर्तिनिर्देश


नमः सर्वबुद्धबोधिसत्वेभ्यः ॥

१.१ एवं मया श्रुतम् । एकस्मिन् समये भगवान् वैशाल्यां विहरति स्म, आम्रपालीवने महता भिक्षुसम्घेन सार्धमष्टाभिर्भिक्षुसहस्रैः,

१.२ सर्वैरर्हद्भिः क्षीणास्रवैर्निःक्लेशैर्वशीभूतैः सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैराजानेयैर्महानागैः कृतकृत्यैः कृतकरणीयैरपहृतभारैरनुप्राप्तस्वकार्थैः परिक्षीणभवसम्योजनैः सम्यगाज्ञासुविमुक्तचित्तैः सर्वचेतोवशिपरमपारमिप्राप्तैः,

१.३ द्वात्रिंशता च बोधिसत्वसहस्रैरभिज्ञानाभिज्ञातैः सर्वैर्महाभिज्ञापरिकर्मनिर्यातैः, बुद्धाधिष्ठानाधिष्ठितैः, सद्धर्मनगरपालैः, सद्धर्मपरिग्राहकैः, महासिंहनादनादिभिः, दशदिग्विघुष्टशब्दैः, सर्वसत्वानध्येषितकल्याणमित्रैः, त्रिरत्नवंशानुपच्छेतृभिः, निहतमारप्रत्यर्थिकैः, सर्वपरप्रवाद्यनभिभूतैः, स्मृतिसमाधिधारणीसंपन्नैः, सर्वनिवरणपर्युत्थानविगतैः, अनावरणविमोक्षप्रतिष्ठितैः, अनाच्छेद्यप्रतिभानैः, दानदमनियमसंयमशीलक्षान्तिवीर्यध्यानप्रज्ञोपायनिर्यातैः, अनुपलम्भानुत्पत्तिकधर्मक्षान्तिसमन्वागतैः, अवैवर्तिकधर्मचक्रप्रवर्तकैः, अलक्षणमुद्रामुद्रितैः, सर्वसत्वेन्द्रियज्ञानकुशलैः, सर्वपर्षदनभिभूतवैशारद्यविक्रामिभिः, महापुण्यज्ञानसंभारोपचितैः, लक्षणानुव्यञ्जनसमलंकृतकायैः, परमरूपधारिभिः, अपगतभूषणैः, मेरुशिखराभ्युद्गतयशःकीर्तिसमुद्गतैः, दृढवज्राध्याशयाभेद्यबुद्धधर्मप्रसादप्रतिलब्धैः, धर्मरत्नविकरणामृतजलसंप्रवर्षकैः, सर्वसत्वरुतरवितस्वराङ्गघोषविशुद्धस्वरैः, गम्भीरधर्मप्रतीत्यावतारान्तानन्तदृष्टिवासनानुसंधिसमुच्छिन्नैः, विगतभयसिंहोपमनादिभिः, तुल्यातुल्यसमतिक्रान्तैः, धर्मरत्नप्रज्ञासमुदानीतमहासार्थवाहैः ऋजुसूक्ष्ममृदुदुर्दृशदुरनुबोधसर्वधर्मकुशलैः, आगतिसत्वाशयमतिमनुप्रविष्टज्ञानविषयिभिः, असमसमबुद्धज्ञानाभिषेकाभिषिक्तैः, दशबलवैशारद्यावेणिकबुद्धधर्माध्याशयगतैः सर्वापायदुर्गतिविनिपातोत्क्षिप्तपरिखैः,
संचिन्त्यभवगत्युपपत्तिसंदर्शयितृभिः, महावैद्यराजैः, सर्वसत्वविनयविधिज्ञैः, यथार्हधर्मभैषज्यप्रयोगप्रयुक्तैः, अनन्तगुणाकरसमन्वागतैः, अनन्तबुद्धक्षेत्रगुणव्यूहसमलंकृतैः, अमोघश्रवणदर्शनैः, अमोघपदविक्रमैः, अपरिमितकल्पकोटीनियुतशतसहस्रगुणपरिकीर्तनापर्यन्तगुणौघैः ।

१.४ तद्यथा समदर्शिना च नाम बोधिसत्वेन महासत्वेन समविषमदर्शिना च, समाधिविकुर्वणराजेन च, धर्मेश्वरेण च, धर्मकेतुना च, प्रभाकेतुना च, प्रभाव्यूहेन च, महाव्यूहेन च, रत्नकूटेन च, प्रतिभानकूटेन च, रत्नमुद्राहस्तेन च, नित्योत्क्षिप्तहस्तेन च, नित्योत्पलकृतहस्तेन च, नित्योत्कण्ठितेन च, नित्यप्रहसितप्रमुदितेन्द्रियेण च, प्रामोद्यराजेन च, देवराजेन च, प्रणिधिप्रयातप्राप्तेन च, प्रतिसंवित्प्रणादप्राप्तेन च, गगनगञ्जेन च, रत्नोल्काधारिणा च, रत्नवीरेण च, रत्नश्रिया च, रत्ननन्दिना च, इन्द्रजालिना च, जालिनिप्रभेण च, अनारंबणध्यायिना च, प्रज्ञाकूटेन च, रत्नजहेन च, मारप्रमर्दिना च, विद्युद्देवेन च, विकुर्वणराजेन च, लक्षणकूटेन च, लक्षणकूटसमतिक्रान्तेन च, सिंहघोषाभिगर्जितस्वरेण च, शैलशिखरसंघट्टनराजेन च, गन्धहस्तिना च, गजगन्धहस्तिना च, सततोद्युक्तेन च, अनिक्षिप्तधुरेण च, सुमतिना च, सुजातेन च, पद्मश्रीगर्भेण च, पद्मव्यूहेन च, अवलोकितेश्वरेण च, महास्थामप्राप्तेन च, ब्रह्मजालिना च, रत्नयष्टिना च, मारजितेन च, क्षेत्रालंकृतेन च, मणिरत्नच्छत्रेण च, सुवर्णचूडेन च, मणिचूडेन च, मैत्रेयेण च, मञ्जुश्रिया च कुमारभूतेन बोधिसत्वेन महासत्वेन, एवंप्रमुखैर्द्वात्रिंशता बोधिसत्वसहस्रैः ।

१.५ दशभिश्च ब्रह्मसहस्रैर्जटिब्रह्मप्रमुखैः, अनेकाच्चतुर्महाद्वीपकाल्लोकधातोरभ्यागतैर्भगवतो दर्शनायै वन्दनायै पर्युपासनायै धर्मश्रवणाय च । ते तत्रैव पर्षदि संनिपतिताः । द्वादश च शक्रसहस्राण्यन्यान्येभ्यश्चतुर्महाद्वीपकेभ्योऽभ्यागतानि तत्रैव पर्षदि संनिपतितान्यभूवन् । तथान्येऽपि महेशाख्यमहेशाख्याः शक्रब्रह्मलोकपालदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगास्तत्रैव पर्षदि संनिपतिता अभूवन् संनिसण्णाः । तथा चतस्रः पर्षदो भिक्षुभिक्सूण्युपासकोपासिकाश्चोपसंक्रान्ता अभूवन् ।

१.६ तत्र भगवाननेकशतसहस्रया पर्षदा परिवृतः पुरस्कृतो धर्मं देशयति स्म । सुमेरुरिव पर्वतराजः सागरमध्यादभ्युद्गतः सर्वपर्षदमभिभूय भासते तपति विरोचते श्रीगर्भे सिंहासने निषण्नः ।

१.७ अथ रत्नाकरो बोधिसत्वो लिच्छविकुमारः सार्धं पञ्चमात्रैर्लिच्छविकुमारशतैः सप्तरत्नमयानि च्छत्राणि गृहीत्वा वैशाल्यां महानगर्यां निष्क्रम्य येनाम्रपालीवनं येन च भगवांस्तेनोपसंक्रामत् । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तं सप्तकृत्वः प्रदक्षिणीकृत्य यथा परिगृहीतैस्तैश्छत्रैर्भगवन्तमभिच्छादयति स्म । अभिच्छाद्यैकान्ते स्थितोऽभूत् ।

१.८ समन्तरनिःसृष्टानि च तानि रत्नच्छत्राण्यथ तावदेव बुद्धानुभावेनैकं महारत्नच्छत्रं संस्थितम् । तेन च महारत्नच्छत्रेणायं त्रिसाहस्रमहासाहस्रो लोकधातुः सर्वः संछादितः संदृश्यते स्म । यश्चास्मिंस्त्रिसाहस्रमहासाहस्रे लोकधातावायामविस्तारः, स तस्मिन्महारत्नच्छत्रे संदृश्यते स्म । ये चेह त्रिसाहस्रमहासाहस्रे लोकधातौ सुमेरवो महापर्वतराजा हिमवन्मुचिलिन्दमहामुचिलिन्दगन्धमादनरत्नपर्वता वा चक्रवाडमहाचक्रवाडाः, तेऽपि सर्वे तस्मिन्नेवैकमहारत्नच्छत्रे संदृश्यन्ते स्म । येऽपीह त्रिसाहस्रमहासाहस्रे लोकधातौ महासमुद्रा वा सरस्तडागानि वा नदीकुनद्यः स्रवन्त्यो वा प्रवहन्ति, ता अपि सर्वास्तस्मिन्नेवैकमहारत्नच्छत्रे संदृश्यन्ते स्म । यान्यपीह त्रिसाहस्रमहासाहस्रे लोकधातौ सूर्याचन्द्रमसां विमानानि तारारूपाणि वा देवभवनानि वा नागभवनानि वा यक्षभवनानि वा गन्धर्वासुरगरुडकिन्नरमहोरगभवनानि वा चातुर्महाराजभवनानि वा ग्रामनगरनिगमराष्ट्रराजधान्यो वा, तान्यपि सर्वाणि तस्मिन्नेवैकमहारत्नच्छत्रे संदृश्यन्ते स्म । यापि च दशदिशि लोके बुद्धानां भगवतां धर्मदेशना प्रवर्तते, सापि तस्मादेवैकमहारत्नच्छत्रान्निश्चरन्ती श्रूयते स्म ।

१.९ तत्र सा सर्वा पर्षदाश्चर्यप्राप्ता भगवतोऽन्तिकादिदमेवंरूपं महाप्रातिहार्यं दृष्ट्वा तुष्टोदग्रात्तमनाः प्रमुदिता प्रीतिसौमनस्यजाता तथागतं नमस्यती स्थितानिमिषं प्रेक्षमाणा ।

१.१० अथ खलु रत्नाकरो लिच्छविकुमारो भगवतोऽन्तिकादिदमेवंरूपं महाप्रातिहार्यं दृष्ट्वैकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तं गाथाभिरभ्यष्टावीत्:

शुभशुद्धकमलवरपत्रविशालनेत्र शुद्धाशया शमथपारमिताग्रप्राप्त । शुभकर्मसंचय विशालगुणाप्रमेय वन्दामि त्वां श्रमणशान्तिपथप्रणेतुम् ॥ १ ॥
पश्यथ ऋद्धि पुरुषर्षभनायकस्य संदृश्यते सुगतक्षेत्रवरप्रकाशाः ।
अमृतंगमा च वरधर्मकथा उदारा सा सर्व श्रूयति इतो गगनतलातः ॥ २ ॥
धर्मेण ते जितमिदं वरधर्मराज्यं धर्मं धनं च ददसे जगतो जितारे ।
धर्मप्रभेदकुशलं परमार्थदर्शिन् धर्मेश्वरं शिरसि वन्दमि धर्मराजम् ॥ ३ ॥
न च नाम अस्ति न च नास्ति गिरं प्रभाषि हेतुं प्रतीत्य इमि संभवि सर्वधर्माः ।
नैवात्र आत्मन च कारकु वेदको वा न च कर्मु नश्यति शुभमशुभं च किंचित् ॥ ४ ॥
मारस्त्वयास्तु विजितस्सबलो मुनीन्द्रः प्राप्ता शिवा अमृतशान्तवराग्रबोधिः ।
यस्मिन्नवेदित न चित्तमनःप्रचारा सर्वकुतीर्थिकगणाश्च न यान्ति गाहम् ॥ ५ ॥
चक्रं च ते त्रिपरिवर्ति बहुप्रकारं प्रावर्तितं प्रशमनं प्रकृतीविशुद्धम् ।
प्रत्यक्ष देवमनुजाद्भुतधर्मराजा रत्नानि त्रीणि उपदर्शित तत्र काले ॥ ६ ॥
ये तुभ्य धर्मरतनेन विनीत सम्यक्तेषामकल्पन पुनः सतते प्रशान्ता ।
वैद्योत्तमं मरणजातिजरान्तकारिं शिरसा नतोऽस्मि गुणसागरमप्रमेयम् ॥ ७ ॥
सत्कारसत्कृत न वेधसि मेरुकल्प दुःशीलशीलवति तुल्यगताधिमैत्री ।
गगनप्रकाशमनसे समताविहारी को नाम सत्वरतनेऽस्मि न कुर्यु पूजाम् ॥ ८ ॥
समागता ते जनता महामुने मुखमुदीक्षन्ति प्रसन्नमानसा ।
सर्वे च पश्यन्ति जिनं पुरस्ताज्जिनस्य आवेणिकबुद्धलक्षणम् ॥ ९ ॥
एकां च वाचं भगवान् प्रमुञ्चसे नानारुतं च परिषद्विजानति ।
यथास्वकं चार्थ विजानते जनो जिनस्य आवेणिकबुद्धलक्षणम् ॥ १० ॥
एकाय वाचाय उदीरिताय वासेसि एके अपरे निविद्यसि ।
आकाङ्क्षतां काङ्क्ष शमेसिर्नायको जिनस्य आवेणिकबुद्धलक्षणम् ॥ ११ ॥
वन्दामि त्वां दशबल सत्यविक्रमं वन्दामि त्वामभयगतं विशारदम् ।
धर्मेषु आवेणिकनिश्चयं गतं वन्दामि त्वां सर्वजगत्प्रणायकम् ॥ १२ ॥
वन्दामि सम्योजनबन्धनच्छिदं वन्दामि त्वां पारगतं स्थले स्थितम् ।
वन्दामि खिन्नस्य जनस्य तारकं वन्दामि संसारगतावनिश्रितम् ॥ १३ ॥
सत्वैर्समाधानगतं गतीगतं गतीषु सर्वासु विमुक्तमानसम् ।
जलेरुहं वा सलिले न लिप्यसे निषेविता ते मुनिपद्म शून्यता ॥ १४ ॥
विभाविता सर्वनिमित्त सर्वशो न ते कहिंचित्प्रणिधान विद्यते ।
अचिन्तियं बुद्धमहानुभावं वन्देऽहमाकाशसममनिश्रितम् ॥ १५ ॥

१.११ अथ रत्नाकरो लिच्छविकुमारो भगवन्तमाभिर्गाथाभिरभिष्टुत्य भगवन्तमेतदवोचत्: इमानि भगवन् पञ्चमात्राणि लिच्छविकुमारशतानि सर्वाण्यनुत्तरायां सम्यक्संबोधौ संप्रस्थितानि । तानि चेमानि बुद्धक्षेत्रपरिशुद्धिं परिपृच्छन्ति ः कतमा बोधिसत्वानां बुद्धक्षेत्रपरिशुद्धिरिति । तत्साधु भगवन् देशयतु तथागतोऽमीषां बोधिसत्वानां बुद्धक्षेत्रपरिशुद्धिम् ।

एवमुक्ते भगवान् रत्नाकराय लिच्छविकुमाराय साधुकारमदात्: साधु साधु कुमार । साधु खलु पुनस्त्वं कुमार यस्त्वं बुद्धक्षेत्रपरिशुद्धिमारभ्य तथागतं परिपृच्छसि । तेन हि कुमार शृणु साधु च सुष्ठु च मनसिकुरु । भाषिष्येऽहं ते यथा बोधिसत्वानां बुद्धक्षेत्रपरिशुद्धिमारभ्य ।

साधु भगवन्निति रत्नाकरो लिच्छविकुमारस्तानि च पञ्चमात्राणि लिच्छविकुमारशतानि भगवतः प्रत्यश्रौषुः ।

भगवांस्तेषामेतदवोचत्:

१.१२ सत्वक्षेत्रं कुलपुत्र बोधिसत्वस्य बुद्धक्षेत्रम् । तत्कस्य हेतोः । यावन्तं बोधिसत्वः सत्वेषूपचयं करोति तावद्बुद्धक्षेत्रं परिगृह्णाति । यादृशः सत्वानां विनयो भवति तादृशं बुद्धक्षेत्रं परिगृह्नाति । यादृशेन बुद्धक्षेत्रावतारेण सत्वा बुद्धज्ञानमवतरन्ति तादृशं बुद्धक्षेत्रं परिगृह्नाति । यादृशेन बुद्धक्षेत्रावतारेण सत्वानामार्याकाराणीन्द्रियाण्युत्पद्यन्ते तादृशं बुद्धक्षेत्रं परिगृह्णाति । तत्कस्य हेतोः । सत्वार्थनिर्जातं हि कुलपुत्र बोधिसत्वानां बुद्धक्षेत्रम् । तद्यथा रत्नाकर यादृशमिच्छेदाकाशं मापयितुं तादृशं मापयेत, न चाकाशं शक्यते मापयितुं नाप्यलंकर्तुम् । एवमेव रत्नाकर आकाशसमान् सर्वधर्माञ्ज्ञात्वा । यादृशमिच्छेद्बोधिसत्वः सत्वपरिपाकाय बुद्धक्षेत्रं मापयितुं तादृशं बुद्धक्षेत्रं मापयति, न च बुद्धक्षेत्राकाशता शक्यं मापयितुं नाप्यलंकर्तुम् ।

१.१३ अपि च रत्नाकर,

आशयक्षेत्रं बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्याशठा अमायाविनः सत्वा बुद्धक्षेत्र उपपद्यन्ते ।

अध्याशयक्षेत्रं कुलपुत्र बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य सर्वकुशलसंभारोपचिताः सत्वा बुद्धक्षेत्रे संभवन्ति ।

प्रयोगक्षेत्रं बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य सर्वकुशलधर्मोपस्थिताः सत्वास्तत्र बुद्धक्षेत्र उपपद्यन्ते ।

उदारो बोधिसत्वस्य बोधिचित्तोत्पादो बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य महायानसंप्रस्थिताः सत्वास्तत्र बुद्धक्षेत्रे संभवन्ति ।

दानक्षेत्रं बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य सर्वपरित्यागिनः सत्वास्तत्र बुद्धक्षेत्रे संभवन्ति ।

शीलक्षेत्रं बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य सर्वाभिप्रायसंपन्ना दशकुशलकर्मपथसंरक्षकाः सत्वास्तत्र बुद्धक्षेत्रे संभवन्ति ।

क्षान्तिक्षेत्रं कुलपुत्र बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य द्वात्रिंशल्लक्षनालंकृताः क्षान्तिदमशमथपारमिप्राप्ताः सत्वा बुद्धक्षेत्रे संभवन्ति ।

वीर्यक्षेत्रं बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य सर्वकुशलपर्येष्टिष्वारब्धवीर्याः सत्वा बुद्धक्षेत्रे संभवन्ति ।

ध्यानक्षेत्रं बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य स्मृतिसंप्रजन्यसमाहिताः सत्वा बुद्धक्षेत्रे संभवन्ति ।

प्रज्ञाक्षेत्रं बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य सम्यक्त्वनियताः सत्वा बुद्धक्षेत्रे संभवन्ति ।

चत्वार्यप्रमाणानि च बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य मैत्रीकरुणामुदितोपेक्षाविहारिनः सत्वा बुद्धक्षेत्रे संभवन्ति ।

चत्वारि संग्रहवस्तूनि कुलपुत्र बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य सर्वविमुक्तिसंगृहीताः सत्वा बुद्धक्षेत्रे संभवन्ति ।

उपायकौशल्यं बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य सर्वोपायमीमांसाकुशलाः सत्वा बुद्धक्षेत्रे संभवन्ति ।

सप्तत्रिंशद्बोधिपक्षा धर्मा बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य सम्यक्स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गविधिज्ञाः सत्वा बुद्धक्षेत्रे संभवन्ति ।

परिणामनाचित्तं बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य सर्वगुणालंकारं बुद्धक्षेत्रं दृश्यते ।

अष्टाक्षणप्रशमदेशना कुलपुत्र बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य सर्वापायसमुच्छिन्नमष्टाक्षणविगतं बुद्धक्षेत्रं संभवन्ति ।

स्वयं शिक्षापदेषु वर्तमाना परापत्त्यचोदनता बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्यापत्तिशब्दोऽपि बुद्धक्षेत्रे न संभवति ।

दशकुशलकर्मपथपरिशुद्धिः कुलपुत्र बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य नियतायुषो महाभोगा ब्रह्मचारिणः सत्यानुपरिवर्तिन्या वाचालंकृता मधुरवचना अभिन्नपर्षदो भिन्नसंधानकुशला ईर्ष्याविगता अव्यापन्नचित्ताः सम्यग्दृष्टिसमन्वागताः सत्वा बुद्धक्षेत्रे संभवन्ति ।

१.१४ इति हि कुलपुत्र, यावन्तो बोधिसत्वस्य प्रयोगास्तावन्त आशयाः । यावन्त आशयास्तावन्तोऽध्याशयाः । यावन्तोऽध्याशयास्तावन्त्यो निध्यप्तयः । यावन्त्यो निध्यप्तयस्तावन्त्यः प्रतिपत्तयः । यावन्त्यः प्रतिपत्तयस्तावन्त्यः परिणामनाः । यावन्त्यः परिणामनास्तावन्त उपायाः । यावन्त उपायास्तावन्त्यः क्षेत्रपरिशुद्धयः । यादृशी क्षेत्रपरिशुद्धिस्तादृशी सत्वपरिशुद्धिः । यादृशी सत्वपरिशुद्धिस्तादृशी ज्ञानपरिशुद्धिः । यादृशी ज्ञानपरिशुद्धिस्तादृशी देशनापरिशुद्धिः । यादृशी देशनापरिशुद्धिस्तादृशी ज्ञानप्रतिपत्तिपरिशुद्धिः । यादृशी ज्ञानप्रतिपत्तिपरिशुद्धिस्तादृशी स्वचित्तपरिशुद्धिः ।

तस्मात्तर्हि कुलपुत्र बुद्धक्षेत्रं परिशोधयितुकामेन बोधिसत्वेन स्वचित्तपरिशोधने यत्नः करणीयः । तत्कस्य हेतोः । यादृशी बोधिसत्वस्य चित्तपरिशुद्धिस्तादृशी बुद्धक्षेत्रपरिशुद्धिः संभवति ।

१.१५ अथ बुद्धानुभावेनायुष्मतः शारिपुत्रस्यैतदभवत्: यदि यादृशी चित्तपरिशुद्धिस्तादृशी बोधिसत्वस्य बुद्धक्षेत्रपरिशुद्धिः संभवति, तन्मा आहैव भगवतः शाक्यमुनेर्बोधिसत्वचर्यां चरतश्चित्तमपरिशुद्धं येनेदं बुद्धक्षेत्रमेवमपरिशुद्धं संदृश्यते ।

अथ खलु भगवानायुष्मतः शारिपुत्रस्य चेतसैव चेतःपरिवितर्कमाज्ञायायुष्मन्तं शारिपुत्रमेतदवोचत्: तत्किं मन्यसे, शारिपुत्र मा आहैव सूर्याचन्द्रमसावपरिशुद्धौ यज्जात्यन्धो न पश्यति ।

आह: नो हीदं भगवन् जात्यन्धापराध एष न सूर्यचन्द्रमसोः ।

आह: एवमेव शारिपुत्र सत्वानामज्ञानापराध एष यस्तथागतस्य बुद्धक्षेत्रगुणालंकारव्यूहं केचित्सत्वा न पश्यन्ति, न तत्र तथागतस्यापराधः । परिशुद्धं हि शारिपुत्र तथागतस्य बुद्धक्षेत्रं यूयं पुनरिदं न पश्यथ ।

१.१६ अथ खलु जटी ब्रह्मा स्थविरं शारिपुत्रमेतदवोचत्: मा भदन्तशारिपुत्र तथागतस्यापरिशुद्धं बुद्धक्षेत्रमिदं व्याहार्षीत् । परिशुद्धं हि भदन्तशारिपुत्र भगवतो बुद्धक्षेत्रम् । तद्यथापि नाम शारिपुत्र वशवर्तिनां देवानां भवनव्यूहाः । ईदृशान् वयं बुद्धक्षेत्रगुणव्यूहान् भगवतः शाक्यमुनेः पश्यामः ।

अथ खलु स्थविरः शारिपुत्रो जटिनं ब्रह्माणमेतदवोचत्: वयं पुनर्ब्रह्मन्निमां महापृथिवीमुत्कूलनिकूलां कण्टकप्रपातगिरिशेखरश्वभ्रगूथोडिगल्लप्रतिपूर्णां पश्यामः ।

जटी ब्रह्माह: नूनं भदन्तशारिपुत्रस्योत्कूलनिकूलं चित्तमपरिशुद्धबुद्धज्ञानाशयं येनेदृशं बुद्धक्षेत्रं पश्यसि । ये पुनस्ते भदन्तशारिपुत्र बोधिसत्वाः सर्वसत्वसमचित्ताः परिशुद्धबुद्धज्ञानाशयास्त इमं बुद्धक्षेत्रं परिशुद्धं पश्यन्ति ।

१.१७ अथ भगवान् पादाङ्गुष्ठेन इमं त्रिसाहस्रमहासाहस्रं लोकधातुं पराहन्ति स्म । अथ खलु तस्मिन् समयेऽयं त्रिसाहस्रमहासाहस्रो लोकधातुरनेकरत्नशतसहस्रसंचितोऽनेकरत्नशतसहस्रप्रत्यर्पितः संस्थितोऽभूत् । तद्यथापि नाम रत्नव्यूहस्य तथागतस्यानन्तगुणरत्नव्यूहो लोकधातुस्तादृशोऽयं लोकधातुः संदृश्यते स्म । तत्र सा सर्वावती पर्षदाश्चर्यप्राप्ता रत्नपद्मनिषण्नमात्मानं संजानीते स्म ।

१.१८ तत्र भगवानायुष्मन्तं शारिपुत्रमामन्त्रयते स्म: पश्यसि त्वं शारिपुत्र इमान् बुद्धक्षेत्रगुणव्यूहान् ।

आह: पश्यामि भगवनदृष्टाश्रुतपूर्वा इमे व्यूहाः संदृश्यन्ते ।

आह: ईदृशं मम शारिपुत्र सदा बुद्धक्षेत्रम् । हीनसत्वपरिपाकाय तु तथागत एवं बहुदोषदुष्टं बुद्धक्षेत्रमुपदर्शयति । तद्यथा शारिपुत्र देवपुत्राणामेकपात्र्यां भुञ्जानानां यथा पुण्योपचयविशेषेण सुधादेवभोजनमुपतिष्ठतः, एवमेव शारिपुत्र एकबुद्धक्षेत्रोपपन्ना यथा चित्तपरिशुद्ध्या सत्वा बुद्धानां बुद्धक्षेत्रगुणव्यूहान् पश्यन्ति ।

१.१९ अस्मिन् खलु पुनर्बुद्धक्षेत्रगुणव्यूहालंकारे संदर्श्यमाने चतुरशीतेः प्राणिसहस्राणामनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पन्नानि । यानि च तानि रत्नाकरेण लिच्छविकुमारेण सार्धं पञ्च लिच्छविकुमारशतान्यागतानि तेषामप्यानुलोमिक्याः क्षान्तेः प्रतिलंभोऽभूत् ।

१.२० अथ भगवान् पुनरेव तामृद्धिं प्रतिसंहरति स्म । ततः पुनरेवेदं बुद्धक्षेत्रं तत्स्वभावमेव संवृतम्, तत्र श्रावकयानिकानां देवमनुष्याणाम् ः अनित्या बतेमे सर्वसंस्कारा इति विदित्वा द्वात्रिंशता प्राणिसहस्राणां विरजोविगतमलं धर्मेषु धर्मचक्षुर्विशुद्धम् । अष्टानां च भिक्षुसहस्राणामनुपादायास्रवेभ्यश्चित्तानि विमुक्तानि । चतुरशीतेश्च प्राणिसहस्राणामुदारबुद्धधर्माधिमुक्तानां Ä विठपनप्रत्युपस्थानलक्षणाः सर्वधर्मा इति विदित्वानुत्तरस्यां सम्यक्संबोधौ चित्तान्युत्पन्नानि ॥ ॥

बुद्धक्षेत्रपरिशुद्धिनिदानपरिवर्तः प्रथमः ॥


२.१ तेन खलु पुनः समयेन वैशाल्यां महानगर्यां विमलकीर्तिर्नाम लिच्छविः प्रतिवसति स्म । पूर्वजिनकृताधिकारः, अवरोपितकुशलमूलः, बहुबुद्धपर्युपासितः, प्रतिलब्धक्षान्तिकः, लब्धप्रतिभानः, महाभिज्ञाविक्रीडितः, धारणीप्रतिलब्धः, वैशारद्यप्राप्तः, निहतमारप्रत्यर्थिकः, गम्भीरधर्मनयसुप्रविष्टः, प्रज्ञापारमितानिर्जातः, उपायकौशल्यगतिंगतः, प्रतिभानसमन्वागतः, सत्वाशयचरितकुशलः, इन्द्रियपरापरज्ञाननिर्यातः, यथाप्रत्यर्हधर्मदेशकः, कृतनिश्चयः कृतश्रम इह महायाने, सुपरीक्षितकर्मकारी, बुद्धेर्यापथप्रतिष्ठितः, सागरवरबुद्ध्यनुप्रविष्टः, सर्वबुद्धस्तुतस्तोमितप्रशंसितः, सर्वशक्रब्रह्मलोकपालनमस्कृतः, स सत्वपरिपाकायोपायकौशल्येन वैशाल्यां महानगर्यां प्रतिवसति स्म ।

२.२ अक्षयभोगो दरिद्रानाथसत्वसंग्रहाय । परिशुद्धशीलो दुःशीलसंग्रहाय । क्षमदमप्राप्तो दुष्टप्रदुष्टव्यापन्नक्रुधचित्तानां सत्वानां संग्रहाय । उत्तप्तवीर्यः कुसीदानां सत्वानां संग्रहाय । ध्यानस्मृतिसमाधिस्थितो विभ्रान्तचित्तानां सत्वानां संग्रहाय । प्रज्ञानिश्चयप्राप्तो दुःप्रज्ञानां सत्वानां संग्रहाय ।

२.३ अवदातवस्त्रधारी श्रमणेर्यापथसंपन्नः । गृहवासस्थितः कामधातुरूपधात्वारूप्यधात्वसंसृष्टः । भार्यापुत्रदारांश्च संदर्शयति, सदा च ब्रह्मचारी । परिवारपरिवृतश्च भवति, सदा च विवेकचारी । आभरणविभूषितश्च संदृश्यते, सदा च लक्षणपरिच्छिन्नः । अन्नपानभोजनजीवः संदृश्यते, सदा च ध्यानाहारः । सर्वद्यूतकरशालासु च संदृश्यते, द्यूतक्रीडासक्तचित्तांश्च सत्वान् परिपाचयति, सदा चाप्रमादचारी । सर्वपाषण्डप्रत्येषकश्च । बुद्धे चाभेद्याशयः । सर्वलौकिकलोकोत्तरशास्त्रविधिज्ञश्च । सदा च धर्मारामरतिरतः । सर्वसंगणिकासु च संदृश्यते, सर्वत्र चाग्रपूजितः ।

२.४ धर्मवादी च वृद्धमध्यदह्रसहायकश्च लोकानुवर्तनाय ।

सर्वव्यवहारोद्युक्तश्च न च लाभभोगाभिलाषी ।

सर्वचत्वरश्र्ङ्गाटकेषु च संदृश्यते सर्वसत्ववैनयिकतायै ।

राजकार्यानुप्रविष्टश्च सत्वारक्षायै ।

सर्वधर्मश्रवणसांकथ्येषु च संदृश्यते हीनयानविच्छन्दनाय महायाने समादापनतया ।

सर्वलिपिशालासु चोपसंक्रामति दारकपरिपाचनाय ।

सर्वगणिकाकुलानि च प्रविशति कामदोषसंदर्शनाय ।

सर्वकल्लवालगृहाणि च प्रविशति स्मृतिसंप्रजन्योपस्थापनाय ।

२.५ श्रेष्ठिषु च श्रेष्ठिसंमतः श्रेष्ठधर्मारोचनतायै ।

गृहपतिषु च गृहपतिसंमतः सर्वग्राहोद्ग्रहपरिच्छेदाय ।

क्षत्रियेषु च क्षत्रियसंमतः क्षान्तिसौरत्यबलप्रतिष्ठापनाय ।

ब्राह्मणेषु च ब्राह्मणसंमतो मानमददर्पनिर्घातनाय ।

आमात्येषु चामात्यसंमतः सर्वराजकार्यसहधर्मम्योजनाय ।

कुमारेषु च कुमारसंमतो राजभोगैश्वर्याभिलाषविनिवर्तनाय ।

अन्तःपुरेषु च काञ्चुकीयसंमतः स्त्रीकुमारिकापरिपाचनाय ।

२.६ प्राकृतजनानुवर्तकश्च सामान्यपुण्यविशिष्टाध्यालंबनाय ।

शक्रेषु च शक्रसंमत ऐश्वर्यानित्यत्वसंदर्शनायौ ।

ब्रह्मसु च ब्रह्मसंमतो विशेषज्ञानसंदर्शनाय ।

लोकपालेषु च लोकपालसंमतः सर्वसत्वपरिपालनाय ।

इति हि विमलकीर्तिर्लिच्छविरेवमप्रमाणोपायकौशलज्ञानसमन्वागतो वैशाल्यां महानगर्यां प्रतिवसति स्म ।

२.७ स उपायकौशल्येन ग्लानमात्मानमुपदर्शयति स्म । तस्य ग्लानस्य वैशाल्यां महानगर्यां राजराजमहामात्रामात्यकुमारपारिषद्या ब्राह्मणगृहपतयः श्रेष्ठिनैगमजानपदास्तदन्यानि च बहूनि प्राणिसहस्राणि ग्लानपरिपृच्छकान्युपसंक्रामन्ति स्म ।

२.८ तेषामुपसंक्रान्तानां विमलकीर्तिर्लिच्छविः । इममेव चातुर्महाभौतिकं कायमारभ्य धर्मं देशयति स्म: एवमनित्योऽयं मार्षाः कायः । एवमध्रुवः, एवमनास्वासिकः, एवं दुर्बलः, एवमसारः । एवं जर्जरः, एवमित्वरः, एवं दुःखः, एवमाबाधिकः, एवं विपरिणामधर्मा, एवं बहुरोगभाजनोऽयं मार्षाः कायः । तत्र पण्डितेन निश्रयो न कर्तव्यः ।

२.९ फेनपिण्डोपमोऽयं मार्षाः कायोऽपरिमर्दनक्षमः ।

बुद्बुदोपमोऽयं कायोऽचिरस्थितिकः ।

मरीच्युपमोऽयं कायः क्लेशतृष्णासंभूतः ।

कदलीस्कन्धोपमोऽयं कायोऽसारकत्वात् ।

यन्त्रभूतो बतायं कायोऽस्थिस्नायुविनिबद्धः ।

मायोपमोऽयं कायो विपर्याससंभूतः ।

स्वप्नोपमोऽयं कायो वितथदर्शनः ।

प्रतिभासोपमोऽयं कायः पूर्वकर्मप्रतिभासतया संदृश्यते ।

प्रतिश्रुत्कोपमोऽयं कायः प्रत्ययाधीनत्वात् ।

मेघोपमोऽयैः कायश्चित्ताकुलविगमलक्षणः ।

विद्युत्सदृशोऽयं कायः क्षणभङ्गयुक्तोऽनवस्थितः ।

अस्वामिकोऽयं कायो नानाप्रत्ययसंभूतः ।

२.१० निर्व्यापारोऽयं कायः पृथिवीसदृशः ।

अनात्मोऽयं कायोऽप्सदृशः ।

निर्जीवोऽयं कायस्तेजःसदृशः ।

निष्पुद्गलोऽयं कायो वायुसदृशः ।

निःस्वभावोऽयं काय आकाशसदृशः ।

२.११ असंभूतोऽयं कायो महाभूतानामालयः ।

शून्योऽयं काय आत्मात्मीयविगतः ।

जडोऽयं कायस्तृणकाष्ठकुड्यलोष्टप्रतिभाससदृशः ।

निश्चेष्टोऽयं कायो वातयन्त्रयुक्तो वर्तते ।

रिक्तोऽयं कायोऽशुचिपूतिसंचयः ।

तुच्छोऽयं काय उच्छादनपरिमर्दनविकिरणविध्वन्सनधर्मा ।

उपद्रुतोऽयं कायश्चतुरुत्तरैश्चतुर्भी रोगशतैः ।

जीर्णोदपानसदृशोऽयं कायः सदा जराभिभूतः ।

पर्यन्तस्थायी बतायं कायो मरणपर्यवसानः ।

वधकाशीविषशून्यग्रामोपमोऽयं कायः स्कन्धधात्वायतनपरिगृहीतः ।

तत्र युष्माभिरेवंरूपे काये निर्विद्विराग उत्पादयितव्यस्तथागतकाये च स्पृहोत्पादयितव्या ।

२.१२ धर्मकायो हि मार्षाः तथागतकायो दाननिर्जातः शीलनिर्जातः समाधिनिर्जातः प्रज्ञानिर्जातो विमुक्तिनिर्जातो विमुक्तिज्ञानदर्शननिर्जातः । मैत्रीकरुणामुदितोपेक्षानिर्जातः । दानदमसंयमनिर्जातः क्षान्तिसौरत्यनिर्जातो दृढवीर्यकुशलमूलनिर्जातो ध्यानविमोक्षसमाधिसमापत्तिनिर्जातः श्रुतप्रज्ञोपायनिर्जातः । सप्तत्रिंशद्बोधिपक्ष्यनिर्जातः शमथविदर्शनानिर्जातो दशबलनिर्जातश्चतुर्वैशारद्यनिर्जातः । अष्टादशावेणिकबुद्धधर्मनिर्जातः सर्वपारमितानिर्जातः । अभिज्ञाविद्यानिर्जातः सर्वाकुशलधर्मप्रहाणाय निर्जातः सर्वकुशलधर्मपरिग्रहनिर्जातः सत्यनिर्जातो भूतनिर्जातोऽप्रमादनिर्जातः । अप्रमाणशुभकर्मनिर्जातो मार्षास्तथागतकायस्तत्र युष्माभिः स्पृहा कर्तव्या । सर्वसत्वानां च सर्वक्लेशव्याधिप्रहाणायानुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादयितव्यानि ।

२.१३ एवं विमलकीर्तिर्लिच्छविस्तथा संनिपतितानां तेषां ग्लानपरिपृच्छकानां तथा तथा धर्मं देशयति यद्बहूनि सत्वशतसहस्राण्यनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादयन्ति ॥ ॥

अचिन्त्योपायकौशल्यपरिवर्तो नाम द्वितीयः ॥


३.१ अथ विमलकीर्तेर्लिच्छवेरेतदभवत्: अहं च ग्लान आबाधिको मञ्चसमारूढः, न च मां तथागतोऽर्हन् सम्यक्संबुद्धः समन्वाहरति, न च मे ग्लानपरिपृच्छकं कंचित्प्रेषयत्यनुकंपामुपादाय ।

३.२ समन्वाहृतश्च भगवता विमलकीर्तिर्लिच्छविः । अथ भगवानायुष्मन्तं शारिपुत्रमामन्त्रयते स्म: गच्छ त्वं शारिपुत्र विमलकीर्तेर्लिच्छवेर्ग्लानपरिपृच्छकः ।

एवमुक्त आयुष्माञ्शारिपुत्रो भगवन्तमेतदवोचत्: नाहं भगवनुत्सहे विमलकीर्तेर्लिच्छवेर्ग्लानपरिपृच्छको गन्तुम् । तत्कस्य हेतोः । अभिजानाम्यहं भगवन्: एकस्मिन् समयेऽन्यतमस्मिन् वृक्षमूले प्रतिसंलीनोऽभूवम् ।

विमलकीर्तिश्च लिच्छविर्येन तद्वृक्षमूलं तेनोपसंक्रम्य मामेतदवोचत्:
३.३ न भदन्तशारिपुत्र एवं प्रतिसंलयनं संलातव्यं यथा त्वं प्रतिसंलीनः । अपि तु तथा प्रतिसंलीयश्च यथा त्रैधातुके न कायश्चित्तं वा संदृश्यते । तथा प्रतिसंलीयश्च यथा निरोधाच्च न व्युत्तिष्ठसि सर्वेर्यापथेषु च संदृश्यसे । तथा प्रतिसंलीयश्च यथा प्राप्तिलक्षणं च न विजहासि पृथग्जनलक्षणेषु च संदृश्यसे । तथा प्रतिसंलीयश्च यथा ते न चाध्यात्मं चित्तमवस्थितं भवेन्न बहिर्धोपविचरेत् । तथा प्रतिसंलीयश्च यथा सर्वदृष्टिगतेभ्यश्च न चलसि सप्तत्रिंशत्सु च बोधिपक्ष्येषु धर्मेषु संदृश्यसे । तथा प्रतिसंलीयश्च यथा संसारावचरांश्च क्लेशान्न प्रजहासि निर्वाणसमवसरणश्च भवसि । ये भदन्तशारिपुत्र एवं प्रतिसंलयनं प्रतिसंलीयन्ते तेषां भगवान् प्रतिसंलयनमनुजानाति ।

३.४ सोऽहं भगवनेतां श्रुत्वा तूष्णीमेवाभूवम् । न तस्य शक्नोम्युत्तरे प्रतिवचनं दातुम् । तन्नाहमुत्सहे तस्य कुलपुत्रस्य ग्लानपरिपृच्छको गन्तुम् ।

३.५ तत्र भगवानायुष्मन्तं महामौद्गल्यायनमामन्त्रयते स्म: गच्छ त्वं मौद्गल्यायन विमलकीर्तेर्लिच्छवेर्ग्लानपरिपृच्छकः ।

मौद्गल्यायनोऽप्याह: नाहं भगवनुत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् । तत्कस्य हेतोः । अभिजानाम्यहं भगवन्: एकस्मिन् समये वैशाल्यां महानगर्यामन्यतमस्मिन् वीथीमुखे गृहपतिभ्यो धर्मं देशयामि । तत्र मां विमलकीर्तिर्लिच्छविरुपसंक्राम्यैवमाह:

३.६ न भदन्तमौद्गल्यायन गृहिभ्योऽवदातवसनेभ्य एवं धर्मो देशयितव्यो यथा भदन्तो देशयति । अपि तु तथा भदन्तमौद्गल्यायन धर्मो देशयितव्यो यथैव स धर्मः । धर्मो हि भदन्तमौद्गल्यायन असत्वः सत्वरजोविगतः, नैरात्म्यो रागरजोविगतः, निर्जीवो जातिच्युतिविगतः, निष्पुद्गलः पूर्वान्तापरान्तपरिच्छिन्नः, शान्त उपशान्तलक्षणः, विरागोऽनारम्बणगतिकः, अनक्षरः सर्ववाक्यच्छेदः, अनुदाहारः सर्वोर्मिविगतः, सर्वत्रानुगत आकाशसमसदृशः, अवर्णलिङ्गसंस्थानः सर्वप्रचारविगतः, अममो ममकारविगतः, अविज्ञप्तिश्चित्तमनोविज्ञानविगतः, असदृशो निष्प्रतिपक्षत्वात्, हेतुविलक्षणः प्रत्ययासमारोपः, धर्मधातुसमवसरणः सर्वधर्मसमाहितः, तथतानुगतोऽननुगमनयोगेन, भूतकोटिप्रतिष्ठितोऽत्यन्ताचलितत्वात्, अचलितः षड्विषयानिश्रितत्वात्, न क्वचिद्गमनागमनोऽनवस्थितत्वात्, शून्यतासमाहित आनिमित्तप्रभावितोऽप्रणिहितलक्षणः, ऊहापोहविगतः, अनुत्क्षेपोऽप्रक्षेपः, उत्पादभङ्गविगतः, अनालयश्चक्षुःश्रोत्रघ्राणजिह्वाकायमनःपथसमतिक्रान्तः, अनुन्नतोऽनवनतः, स्थितोऽनेञ्ज्यं प्राप्तः, सर्वप्रचारविगतः ।

३.७ ईदृशस्य भदन्तमहामौद्गल्यायन धर्मस्य कीदृशी देशना । धर्मदेशनेति भदन्तमहामौद्गल्यायन समारोपपदमेतत् । येऽपि शृण्वन्ति तेऽपि समारोपेनैव शृण्वन्ति । यत्र भदन्तमौद्गल्यायन असमारोपपदं न तत्र देश्यते न श्रूयते न विज्ञायते । तद्यथा मायापुरुषो मायापुरुषेभ्यो धर्मं देशयति ।

३.८ एवं हि चित्तावस्थानेन धर्मो देशयितव्यः । सत्वेन्द्रियकुशलेन च ते भवितव्यम्, सुदृष्टप्रज्ञादर्शनेन महाकरुणामुखीभूतेन महायानसंवर्णकेन बुद्धेकृतज्ञेन शुद्धाशयेन धर्मनिरुक्तिविधिज्ञेन, त्रिरत्नवंशानुपच्छेदाय च ते धर्मो देशयितव्यः ।

३.९ तेन भगवन् तथा तथा धर्मो देशितो यथा ततो गृहपतिपर्सदोऽष्टानां गृहपतिशतानामनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पन्नानि । अहं च निष्प्रतिभानोऽभूवम् । तन्नाहं भगवनुत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् ।

३.१० तत्र भगवानायुष्मन्तं महाकाश्यपमामन्त्रयते स्म: गच्छ त्वं महाकाश्यप विमलकीर्तेर्लिच्छवेर्ग्लानपरिपृच्छकः ।

महाकाश्यपोऽप्याह: नाहं भगवनुत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् । तत्कस्माद्धेतोः । अभिजानाम्यहं भगवन् दरिद्रवीथ्यां पिण्डाय चरामि । तत्र मां विमलकिर्तिर्लिच्छविरुपसंक्रम्यैवमाह:

३.११ प्रादेशिकी भदन्तमहाकाश्यपस्य करुणामैत्री, यन्महाकुलान्युत्सृज्य दरिद्रकुलान्युपसंक्रामसि । अपि तु भदन्तमहाकाश्यप धर्मसमताप्रतिष्ठितेन ते भवितव्यम् । सर्वदा सर्वसत्वसमन्वाहारेण पिण्डपातः पर्येष्टव्यः । अनाहारेण चाहारः पर्येष्टव्यः । परपिण्डग्राहापनयाय च ते पिण्डाय चरितव्यम् । शून्यग्रामाधिष्ठितेन च ग्रामः प्रवेष्टव्यः । नरनारीपरिपाकाय च ते नगरं प्रवेष्टव्यम् । बुद्धकुलकुलीनेन च ते कुलान्युपसंक्रमितव्यानि ।

३.१२ अप्रतिग्रहणतया च पिण्डपातः प्रतिग्राह्यः । जात्यन्धसमतया च रूपाणि द्रष्टव्यानि । प्रतिश्रुतकोपमतया च शब्दाः श्रोतव्याः । वातसमतया च गन्धा घ्रातव्याः । अविज्ञप्तितो रसा आस्वादयितव्याः । ज्ञानास्पर्शनतया च स्पर्शाः स्प्रष्टव्याः । मायापुरुषविज्ञाप्त्या च धर्मा विज्ञातव्याः । योऽस्वभावोऽपरभावश्च तदनुज्ज्वलितम् । यदनुज्ज्वलितं तन्न शाम्यति ।

३.१३ यदि स्थविरो महाकाश्यपोऽष्टौ च मिथ्यात्वानि समतिक्रामेत्, अष्टौ च विमोक्षान् समापद्येत, मिथ्यासमतया च सम्यक्त्वसमतामवतरेत्, एकेन च पिण्डपातेन सर्वसत्वान् प्रतिपादयेत्, सर्वबुद्धान् सर्वार्यांश्च प्रतिपाद्य पश्चादात्मना परिभुञ्जीत, तथा च परिभुञ्जीत यथा न संक्लेशो न विगतक्लेशः, परिभुञ्जीत न समाहितो न व्युत्थितः, न संसारस्थितो न निर्वाणस्थितः परिभुञ्जीत । ये च भदन्ताय पिण्डपातं ददति ते तेषां नाल्पफलं न महाफलैः भवेत् । न च हानाय न विशेषाय गच्छेत्, बुद्धगतिसमवसरणाय च भवेत न श्रावकगतिसमवसरणाय । एवं स्थविरो महाकाश्यपोऽमोघं राष्ट्रपिण्डं परिभुञ्जीत ।

३.१४ सोऽहं भगवनिमं धर्मनिर्देशं श्रुत्वाश्चर्यप्राप्तः सर्वबोधिसत्वान्नमस्यामि । गृहिणोऽपि नामैवंरूपं प्रतिभानम्, कोऽनुत्तरायां सम्यक्संबोधौ चित्तं नोत्पादयेत् । ततः प्रभृति मे न कश्चित्सत्वः श्रावकयाने प्रत्येकबुद्धयाने वा समादापितपूर्वोऽन्यत्र महायानात् । तन्नाहं भगवनुत्सहे तस्य कुलपुत्रस्य ग्लानपरिपृच्छको गन्तुम् ।

३.१५ तत्र भगवानायुष्मन्तं सुभूतिमामन्त्रयते स्म: गच्छ त्वं सुभूते विमलकीर्तेर्लिच्छवेर्ग्लानपरिपृच्छकः ।

सुभूतिरप्याह: नाहं भगवनुत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् । तत्कस्य हेतोः । अभिजानाम्यहं भगवन्: एकस्मिन् समये वैशाल्यां महानगर्यां पिण्डाय चरामि । विमलकीर्तेर्लिच्छवेर्निवेशनं पिण्डाय प्रविष्टः । तस्य मे विमलकीर्तिर्लिच्छविः पात्रं गृहीत्वा प्रणीतेन भोजनेन प्रतिपूर्यैवमाह:

३.१६ सचेत्त्वं भदन्तसुभूते आमिषसमतया सर्वधर्मसमतामनुगतः सर्वधर्मसमतया च बुद्धधर्मसमतामनुगत एव, त्वमिमं पिण्डपातं प्रतिगृह्नीष्व । सचेत्त्वं भदन्तसुभूते न रागदोषमोहप्रहीणो न च तैः सार्धं संवससि । सचेदेवमस्यविकोप्य सत्कायमेकायनं मार्गमनुगतः । न च तेऽविद्या भवतृष्णा च समुद्घातिता न च विद्याविमुक्ती उत्पादिते । आनन्तर्यसमतया च ते समाधिविमुक्तिः । न चासि मुक्तो न बद्धः । न च ते चत्वार्यार्यसत्यानि दृष्टानि न च न दृष्टसत्यः । न प्राप्तफलो न पृथग्जनसमवसरणः । न चास्यार्यो नानार्यः । न सर्वधर्मसमन्वागतश्च सर्वधर्मसमधिगतश्च ।

३.१७ न च ते शास्ता दृष्टो न धर्मः श्रुतो न संघः पर्युपासितः । ये च ते षट्शास्तारस्तद्यथा पूरणः काश्यपः, मस्करी गोशालीपुत्रः, संजयो वैराष्ट्रिकपुत्रः, ककुदः कात्यायनः, अजितः केशकम्बलः, निर्ग्रन्थो ज्ञातिपुत्रः, ते च भदन्तस्य शास्तारस्तांश्च निश्रित्य प्रव्रजितो यद्गामिनस्ते षट्शास्तारस्तद्गाम्येवार्यसुभूतिः,

३.१८ सर्वदृष्टिगतेषु चार्यमनन्तर्गतो न चान्तमध्यप्राप्तः, अष्टाक्षणसमवसरणश्चासि न चासि लक्षणमनुप्राप्तः, संक्लेशेन चासि समोऽव्यवदानमधिगतः, या च सर्वसत्वानामरणा सा भदन्तस्याप्यरणा, न च त्वया दक्षिणा विशोध्यते, ये च भदन्ताय पिण्डपातं ददति तांश्च विनिपातयसि, सर्वमारैश्च ते सार्धमेकहस्तः कृतः । सर्वक्लेशाश्च ते सहायाः, यत्स्वभावाश्च क्लेशास्तत्स्वभावो भदन्तः, सर्वसत्वेषु ते वधकचित्तं प्रत्युपस्थितम्, सर्वबुद्धाश्च तेऽभ्याख्याताः, सर्वबुद्धधर्मांश्च प्रतिक्रोशसि, न चासि संघप्रतिसरणः, न च जातु परिनिर्वास्यसि । एवं त्वमिमं पिण्डपातं प्रतिगृहीण ।

३.१९ तस्य मे भगवनिमं धर्मनिर्देशं श्रुत्वान्धकारप्राप्ता दिशोऽभूवन् ः तत्किमस्मै निर्दिशामि, कथं वा प्रतिपद्य इति । सोऽहं तत्पात्रमुत्सृज्य ततो गृहान्निष्क्रमिष्यामीति ।

विमलकीर्तिरिइच्छविर्मामेवमाह: मा भदन्तसुभूते अक्षरेभ्य उत्त्रसीः, प्रतिगृहाणेदं पात्रम् । तत्किं मन्यसे भदन्तसुभूते, यदि तथागतनिर्मित एवमुच्येत कच्चित्स उत्त्रसेत् ।

सोऽहमवोचम्: नो हीदं कुलपुत्र ।

स मामेवमाह: निर्मितमायास्वभावेभ्यो भदन्तसुभूते सर्वधर्मेभ्यो नोत्त्रसितव्यम् । तत्कस्माद्धेतोः । सर्वाणि हि तानि वचनानि तत्स्वभावानि, एवं पण्डिता अक्षरेषु न सज्जन्ति न तेभ्य उत्त्रस्यन्ति । तत्कस्माद्धेतोः । सर्वाणि तान्यक्षराण्यनक्षराणि स्थापयित्वा विमुक्तिं विमुक्तिलक्षणांश्च सर्वधर्मान् ।

३.२० इह निर्देशे निर्दिश्यमाने द्वयोर्देवपुत्रशतयोर्विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धम्, पञ्चानां च देवपुत्रशतानामानुलोमिक्याः क्षान्तेः प्रतिलम्भोऽभूत् । अहं च निष्प्रतिभानोऽभूवम्, न चास्य शक्नोम्युत्तरे प्रतिवचनं दातुम् । तन्नाहमुत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् ।

३.२१ अथ खलु भगवानायुष्मन्तं पूर्णं मैत्रायणीपुत्रमामन्त्रयते स्म: गच्छ त्वं पूर्ण विमलकीर्तेर्लिच्छवेर्ग्लानपरिपृच्छकः ।

पूर्णोऽप्याह: नाहं भगवनुत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् । तत्कस्माद्धेतोः । अभिजानाम्यहं भगवन्: एकस्मिन् समये वनस्यान्यतमस्मिन् पृथिवीप्रदेश आदिकर्मिकाणां भिक्षूणां धर्मं देशयामि ।

तत्र विमलकीर्तिर्लिच्छविरुपसंक्रम्य मामेवमाह:

३.२२ समापद्य भदन्तपूर्ण एतेषां भिक्षूणां चित्तं व्यवलोक्य धर्मं देशय । मा महारत्नभाजनेषु प्रति कुल्माषान् प्राक्षैप्सीः । जानिष्व तावत्किमाशया एते भिक्षव इति । मा वैडूर्यरत्नं काचमणिकैः समानीकार्षीः । मा भदन्तपूर्ण अप्रत्यवेक्ष्या सत्वेन्द्रियेषु प्रादेशिकेन्द्रियत्वमुपसंहार्षीः । मा अक्षतां क्षिणुष्व । मा महामार्गमवतर्तुकामान् भन्दरथ्यां प्रवेशय । मा महासागरं गोष्पदे प्रवेशय । मा सूर्यप्रभां खद्योतकैर्निर्वर्तय । मा सिंहनादसंप्रस्थितान् सृगालनादे नियोजय । अपि भदन्तपूर्ण सर्वे ह्येते भिक्षवो महायानसंप्रस्थिता अमुषितबोधिचित्ताः । तेषां भदन्तपूर्ण मा श्रावकयानमुपदर्शय । कष्टं हि श्रावकयानम् । जात्यन्धा इव मे श्रावकाः प्रतिभान्ति सत्वेन्द्रियविमात्रताज्ञाने ।

३.२३ अथ विमलकीर्तिर्लिच्छविस्तस्यां वेलायां तथारूपं समाधिं समापद्यते स्म । यथा ते भिक्षवोऽनेकविधं पूर्वेनिवासमनुस्मरण्ति स्म । ते पञ्चबुद्धशतपर्युपासितकुशलमूलाः सम्यक्संबोधये, तेषां तद्बोधिचित्तमामुखीभूतम् । ते तस्य सत्पुरुषस्य पादौ शिरोभिः प्रणम्य तत्रैव निषण्णाः प्राञ्जलयो भूत्वा, तेषां तादृशी धर्मदेशना कृता यथावैवर्तिकाः संवृत्ता अनुत्तरस्यां सम्यक्संबोधौ ।

३.२४ तन्नाहं भगवनुत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् ।

३.२५ तत्र भगवानायुष्मन्तं कात्यायनमामन्त्रयते स्म: गच्छ त्वं कात्यायन विमलकीर्तेर्लिच्छवेर्ग्लानपरिपृच्छकः ।

कात्यायनोऽप्याह: नाहं भगवनुत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् । तत्कस्माद्धेतोः । अभिजानाम्यहं भगवन्: भगवता संक्षिप्तेन भिक्षूणामववादो दत्तः । तेषां सूत्रपदविनिश्चयाय धर्मं देशयामि, यदिदमनित्यार्थं दुःखार्थमनात्मार्थं शान्तार्थम् ।

तत्र विमलकीर्तिर्लिच्छविरुपसंक्रम्य मामेवमाह:

३.२६ मा भदन्तकात्यायन सप्रचारामुत्पादभङ्गयुक्तां धर्मतां निर्दिश । यो भदन्तमहाकात्यायन अत्यन्ततया न जातो न जनिष्यति नोत्पन्नो न निरुद्धो न निरोत्स्यतेऽयमनित्यार्थः । यः पञ्चानां स्कन्धानां शून्यतानुगमानुत्पादानिरोधार्थोऽयं दुःखार्थः । यदात्मानात्मयोरद्वयत्वमयमनात्मार्थः । योऽस्वभावोऽपरभावस्तदनुज्ज्वलितम्, यदनुज्वलितं न तच्छाम्यति, योऽत्यन्तोपशमोऽयं शान्तार्थः ।

३.२७ अस्मिन् खलु पुनर्निर्देशे निर्दिश्यमाने तेषां भिक्षूणामनुपादायास्रवेभ्यश्चित्तानि विमुक्तानि । तन्नाहं भगवनुत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् ।

३.२८ तत्र भगवानायुष्मन्तमनिरुद्धमामन्त्रयते स्म: गच्छ त्वमनिरुद्ध विमलकीर्तेर्लिच्छवेर्ग्लानपरिपृच्छकः ।

अनिरुद्धोऽप्याह: नाहं भगवनुत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् । तत्कस्माद्धेतोः ।

३.२९ अभिजानाम्यहं भगवन्: अन्यतमस्मिंश्चङ्क्रमे चङ्क्रमामि । तत्र शुभव्यूहो नाम ब्रह्मा दशभिर्ब्रह्मसहस्रैः सार्धं तं प्रदेशमवभास्य येनाहं तेनोपसंक्रम्य मम पादौ शिरसाभिवन्द्यैकान्ते स्थित्वा मामेतदवोचत्: कियदायुष्माननिरुद्धो दिव्येन चक्षुषा पश्यति ।

तमेनमहमेतदवोचम्: अहं मार्ष इमं त्रिं साहस्रमहासाहस्रं लोकधातुं भगवतः शाक्यमुनेर्बुद्धक्षेत्रं तद्यथापि नाम करतले न्यस्तमामलकफलमेवं पश्यामि ।

३.३० इयं च कथा प्रवृत्ता विमलकीर्तिश्च लिच्छविस्तं प्रदेशमुपसंक्रामत् । उपसंक्रम्य मम पादौ शिरसा वन्दित्वैवमाह: किं भदन्तानिरुद्ध दिव्यं चक्षुरभिसंस्कारलक्षणमुतानभिसंस्कारलक्षणम् । यद्यभिसंस्कारलक्षणं तद्बाह्यैः पञ्चाभिज्ञैः समम्, अथानभिसंस्कारलक्षणमनभिसंस्कारोऽसंस्कृतस्तेन न शक्यं द्रष्टुम् । तत्कथं स्थविरः पश्यति ।

सोऽहं तूष्णीमभूवम् ।

३.३१ स च ब्रह्मा तस्य सत्पुरुषस्येमं निर्देशं श्रुत्वाश्चर्यप्राप्तस्तं नमस्कृत्यैतदवोचत्: के लोके दिव्यचक्षुषः ।

आह: बुद्धा भगवन्तो लोके दिव्यचक्षुषो ये समाहितावस्थां च न विजहति सर्वबुद्धक्षेत्राणि च पश्यन्ति । न च द्वयप्रभाविताः ।

३.३२ अथ स ब्रह्मेमं निर्देशं श्रुत्वा दशसहस्रपरिवारोऽध्याशयेनानुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयति स्म । स मां वन्दित्वा तं च सत्पुरुषमभिवाद्य तत्रैवान्तर्हितः । अहं च निष्प्रतिभानोऽभूवम् । तन्नाहमुत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् ।

३.३३ तत्र भगवानायुष्मन्तमुपालिमामन्त्रयते स्म: गच्छ त्वमुपाले विमलकीर्तेर्लिच्छवेर्ग्लानपरिपृच्छकः ।

उपालिरप्याह: नाहं भगवनुत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् । तत्कस्माद्धेतोः । अभिजानाम्यहं भगवन्: अन्यतमौ द्वौ भिक्षू आपत्तिमापन्नौ, तौ भगवतः पर्यपत्रपमाणौ भगवन्तं नोपसंक्रामतः । तौ येनाहं तेनोपसंक्रान्तावुपसंक्राम्य मामेतदवोचताम् । आवां भदन्तोपाले आपत्तिमापन्नौ, तावावां पर्यपत्रपमाणौ भगवन्तमुपसंक्रमितुं नोत्सहावहे । उत्साहाय आयुष्मन्नुपाले विनोदयस्वावयोः कौकृत्यं व्युत्थापयस्वावामापत्तेः ।

३.३४ सोऽहं भगवंस्तौ भिक्षू धर्म्यया कथया संदर्शयामि । विमलकीर्तिश्च लिच्छविस्तं प्रदेशमनुप्राप्तः स मामेतदवोचत्: मा भदन्तोपाले एतौ भिक्षू आगाढीकार्षीः, विनोदयानयोरापत्तिम्, मा आविलीकार्षीः । न हि भदन्तोपाले आपत्तिरध्यात्मप्रतिष्ठिता न बहिर्धासंक्रान्तो नोभयमन्तरेणोपलभ्यते । तत्कस्माद्धेतोः । उक्तं हि भगवता चित्तसंक्लेशात्सत्वाः संक्लिश्यन्ते चित्तव्यवदानाद्विशुध्यन्ते । चित्तं च भदन्तोपाले नाध्यात्मप्रतिष्ठितं न बहिर्धा नोभयमन्तरेणोपलभ्यते । यथा चित्तं तथापत्तिः, यथापत्तिस्तथा सर्वधर्माः, तथतां न व्यतिवर्तन्ते । या भदन्तोपाले चित्तस्य प्रकृतिर्यया चित्तप्रकृत्या भदन्तस्य चित्तं विमुक्तम्, किं जातु सा चित्तप्रकृतिः संक्लिष्टा ।

आह: नो हिदम् ।

आह: तत्प्रकृतिकानि भदन्तोपाले सर्वसत्वानां चित्तानि ।

३.३५ संकल्पो भदन्तोपाले क्लेशः । अकल्पाविकल्पा च प्रकृतिः । विपर्यासः संक्लेशः, अविपर्यस्ता च प्रकृतिः । आत्मसमारोपः संक्लेशः, नैरात्म्या च प्रकृतिः । उत्पन्नभग्नानवस्थिता भदन्तोपाले सर्वधर्मा मायामेघविद्युत्सदृशाः । निरपेक्षाः सर्वधर्माः क्षणमपि नावतिष्ठन्ते । स्वप्नमरीचिसदृशाः सर्वधर्मा वितथदर्शनाः । दकचन्द्रप्रतिबिम्बसदृशाः सर्वधर्माश्चित्तपरिकल्पेनोत्पद्यन्ते । ये त्वेवं जानन्ति ते विनयधरा इत्युच्यन्ते । य एवं विनीतास्ते सुविनीताः ।

३.३६ अथ तौ भिक्षु एतदवोचताम्: प्रज्ञाधरो विनयधरोऽयमुपासकः । न त्वयं भदन्तोपालिर्यो भगवता विनयधराणामग्रो निर्दिष्टः ।

तावहमेवं वदामि: मा भिक्षू अत्र गृहपतिसंज्ञामुत्पादयताम् । तत्कस्माद्धेतोः । तथागतं स्थापयित्वा नास्ति कश्चिच्छ्रावको वा बोधिसत्वो वा, य एतस्य प्रतिभानमाच्छिन्द्यात् । तादृश एतस्य प्रज्ञालोकः ।

३.३७ अथ तौ भिक्षू विनीतकौकृत्यावध्याशयेन तत्रैवानुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितवन्तौ, तं च सत्पुरुषमभिवन्द्यैवमाहतुः: सर्वसत्वा ईदृशस्य प्रतिभानस्य लाभिनो भवन्तु । तन्नाहमुत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् ।

३.३८ तत्र भगवानायुष्मन्तं राहुलमामन्त्रयते स्म: गच्छ त्वं राहुल विमलकीर्तेर्लिच्छवेर्ग्लानपरिपृच्छकः ।

राहुलोऽप्याह: नाहं भगवनुत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् । तत्कस्माद्धेतोः । अभिजानाम्यहं भगवन्: एकस्मिन् समये संबहुला लिच्छविकुमारका येनाहं तेनोपसंक्रम्य मामेतदवोचन्: त्वं राहुल तस्य भगवतः पुत्रश्चक्रवर्तिराज्यमुत्सृज्य प्रव्रजितः, तत्र के ते प्रव्रज्याया गुणानुशंसाः ।

तेषामहं यथारूपं प्रव्रज्याया गुणानुशंसा निर्दिशामि, विमलकीर्तिर्लिच्छविर्येनाहं तेनोपसंक्रान्तः । स मामभिवन्द्यैतदवोचत्:

३.३९ न भदन्तराहुल एवं प्रव्रज्याया गुणानुशंसा निर्देष्टव्या यथा त्वं निर्दिशसि । तत्कस्माद्धेतोः । निर्गुणा निरनुशंसा हि प्रव्रज्या । यत्र भदन्तराहुल संस्कृतप्रवृत्तिस्तत्र गुणानुशंसा । प्रव्रज्या चासंस्कृता, असंस्कृते च न गुणा नानुशांसा । प्रव्रज्या भदन्तराहुल अरूपिणि रूपविगता, पन्था निर्वाणस्य, प्रशंसिता पण्डितैः, परिगृहीतार्यैः, पराजयः सर्वमाराणाम्, पञ्चगत्युत्तारणी, पञ्चचक्षुविशोधनी, पञ्चबलप्रतिलम्भा, पञ्चेन्द्रियप्रतिष्ठा, परेषामनुपघातः, पापधर्मासंसृष्टा, परतीर्थ्यप्रमर्दनी, प्रज्ञप्तिसमतिक्रान्ता, पङ्के संक्रमः, अममा ममकारविगता, अपरिग्रहा, अनुपादाना, अनाकुला, आकुलप्रहीणा, स्वचित्तदर्शनी परचित्तसंरक्षणी, शमथानुकूला, सर्वतोऽनवद्या । इयमुच्यते प्रव्रज्या । य एवं प्रव्रजितास्ते सुप्रव्रजिताः ।

३.४० प्रव्रजत यूयं कुमारकाः स्वाख्याते धर्मविनये । दुर्लभो हि बुद्धोत्पादः, दुर्लभा क्षणसंपत्, दुर्लभो मनुष्यप्रतिलम्भः ।

ते कुमारका एवमाहुः: श्रुतमस्माभिर्गृहपते, न तथागतोऽनवसृष्टं मातापितृभ्यां प्रव्राजयतीति ।

स तानाह: उत्पादयत यूयं कुमारकाः अनुत्तरायां सम्यक्संबोधौ चित्तम् । प्रतिपत्त्या च संपादयत, सैव युष्माकं भविष्यति प्रव्रज्या सोपसंपत् ।

३.४१ तत्र द्वात्रिंशता लिच्छविकुमारैरनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादितानि । तन्नाहं भगवनुत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् ।

३.४२ तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते स्म: गच्छ त्वमानन्द विमलकीर्तेर्लिच्छवेर्ग्लानपरिपृच्छकः ।

आनन्द आह: नाहं भगवनुत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् । तत्कस्माद्धेतोः । अभिजानाम्यहं भगवन्: एकस्मिन् समये भगवतः कायस्य कश्चिदेवाबाधः । तत्र च क्षीरेण कृत्यमासीत् । सोऽहमन्यतमस्मिन् ब्राह्मणमहाशालस्य गृहमूले पात्रं गृहीत्वा स्थितः ।

विमलकीर्तिर्लिच्छविस्तं प्रदेशमनुप्राप्तः । स मां वन्दित्वैवमाह:

३.४३ किं भदन्तानन्द काल्यमेव पात्रमादायास्मिन् गृहद्वारसमीपे तिष्ठसि ।

तमेनमहमेतदवोचम्: भगवतो गृहपते कायस्य कश्चिदेवाबाधः । तत्र च क्षीरेण कृत्यम्, तत्पर्येषामि ।

स मामेवमाह: अलं भदन्तानन्द मा एवं वोचः । वज्रसंहतनो हि भदन्तानन्द तथागतकायः सर्वाकुशलवासनाप्रहीणः सर्वमहौजस्ककुशलधर्मसमन्वागतः । कुतस्तस्य व्याधिः कुत उपद्रवः ।

३.४४ तूष्णींभूतो भदन्तानन्द गच्छ । मा भगवन्तमभ्याचक्ष्व । मा कस्यचिद्भूय एवं वोचः । मा महौजस्का देवपुत्रा अन्यबुद्धक्षेत्रसंनिपतिताश्च बोधिसत्वाः श्रोष्यन्ति । राज्ञस्तावद्भदन्तानन्द चक्रवर्तिन इत्वरकुशलमूलसमन्वागतस्य व्याधिर्न संविद्यते । कुतस्तस्य भगवतोऽप्रमाणकुशलसमन्वागतस्य व्याधिर्भविष्यति । नेदं स्थानं विद्यते । गच्छ गच्छ भदन्तानन्द । मा मामध्यपत्रापय, मा अन्यतीर्थिकचरकपरिव्राजकनिग्रन्थाजीवाः श्रोष्यन्ति, मा तेषामेवं भविष्यति । कीदृशो बत अयमेषां शास्ता यः स्वयमेव तावदात्मानं ग्लानं न शक्नोति परित्रातुम्, कुतः पुनर्ग्लानानां सत्वानां त्राणं भविष्यति । ततः प्रच्छन्नं भदन्तानन्द गच्छ शीघ्रम् । मा कश्चिच्छृणुयात् ।

३.४५ अपि तु भदन्तानन्द धर्मकायास्तथागता नामिषकायाः । लोकोत्तरकायास्तथागताः सर्वलोकधर्मसमतिक्रान्ताः । अनाबाधस्तथागतस्य कायः सर्वास्रवविनिवृतः । असंस्कृतस्तथागतस्य कायः सर्वसंख्याविगतः । तस्य भदन्तो व्याधिमिच्छतीत्ययुक्तमसदृशम् ।

३.४६ तस्य मे भगवन्महदपत्राप्यं जातम् । मा मे भगवतोऽन्तिकाद्दुःश्रुतं दुर्गृहीतं वा कृतमिति । सोऽहमन्तरीक्षाच्छब्दमश्रौषम् ।

एवमेतदानन्द यथा गृहपतिर्निर्दिशति । अथ च पुनः पञ्चकषाये भगवानुत्पन्नः, तेनानर्थलूहदरिद्रचर्यया सत्वा विनेतव्याः । तद्गच्छ त्वमानन्द क्षीरं गृहीत्वा, मा पर्यपत्रपश्चेति ।

३.४७ ईदृशा भगवन् विमलकीर्तेर्लिच्छवेः प्रश्नव्याकरणनिर्देशाः । तन्नाहं भगवनुत्सहे तस्य कुलपुत्रस्य ग्लानपरिपृच्छको गन्तुम् ।

३.४८ एवं तानि पञ्चमात्राणि श्रावकशतान्यनुत्सहमानानि भगवते निवेदयन्ति । ये च तैर्विमलकीर्तिना लिच्छविना सार्धं कथासंलापाः कृतास्तान् सर्वान् भगवते निवेदयन्ति स्म ।

३.४९ तत्र भगवान्मैत्रेयं बोधिसत्वमामन्त्रयते स्म: गच्छ त्वं मैत्रेय विमलकीर्तेर्लिच्छवेर्ग्लानपरिपृच्छकः ।

मैत्रेयोऽप्याह: नाहं भगवनुत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् । तत्कस्माद्धेतोः । अभिजानाम्यहं भगवन्: एकस्मिन् समये संतुषितेन देवपुत्रेण सार्धं तुषितकायिकैश्च देवपुत्रैः सार्धं धर्म्यां कथां कथयामि यदिदं बोधिसत्वानां महासत्वानामविवर्त्यां भूमिमारभ्य । तत्र च विमलकीर्तिर्लिच्छविस्तं प्रदेशमुपसंक्रान्तः । स मामेतदवोचत:

३.५० त्वं मैत्रेय एकजातिप्रतिबद्धो भगवता व्याकृतोऽनुत्तरायां सम्यक्संबोधौ । तत्कतमयासि मैत्रेय जात्याउ व्याकृतः, किमतीतया वानागतयोत प्रत्युत्पन्नया । तत्र यातीता जातिः सा क्षीणा, याप्यनागता साप्यसंप्राप्ता, प्रत्युत्पन्नायाः स्थितिर्नास्ति जातेः । यथोक्तं भगवता: तथा हि त्वं भिक्षः क्षणे क्षणे जायसे जीर्यसि म्रियसे च्यवसे उपपद्यसे चेति । अजातितश्च नियामावक्रान्तिः । न चाजातिर्व्याक्रियते । नाप्यजातिरभिसंबुध्यते ।

३.५१ तत्कथं त्वं मैत्रेय व्याकृतस्तथतोत्पादेन तथतानिरोधेन वा । न च तथतोत्पद्यते न निरुध्यते, न निरोत्स्यते । या च सर्वसत्वानां तथता, या च सर्वधर्माणां तथता, सैव मैत्रेयस्यापि तथता । एवं यदि त्वं व्याकृतः सर्वसत्वा अपि व्याकृता भवन्ति । तत्कस्माद्धेतोः । न हि तथता द्वयप्रभाविता नानात्वप्रभाविता । तद्यदा मैत्रेयो बोधिमभिसंभोत्स्यते, सर्वसत्वा अपि तस्मिन् समये तादृशीमेव बोधिमभिसंभोत्स्यन्ते । तत्कस्माद्धेतोः । सर्वसत्वानुबोधो हि बोधिः । यदा च मैत्रेयः परिनिर्वास्यति, सर्वसत्वा अपि तदा परिनिर्वास्यन्ति । तत्कस्माद्धेतोः । न ह्यपरिनिर्वृतानां सर्वसत्वानां तथागताः परिनिर्वान्ति । परिनिर्वृतानि ते सत्वानि पश्यन्ति निर्वाणप्रकृतिकानि । तस्मादिह मैत्रेय मा एतान् देवपुत्रानुल्लापय मा विसंवादय ।

३.५२ न बोधौ कश्चित्प्रतिष्ठते, न निवर्तते । अपि तु खलु पुनर्मैत्रेय यैषां देवपुत्राणां बोधिपरिकल्पनदृष्टिस्तामेतामुत्सर्जय ।

न हि बोधिः कायेनाभिसंबुध्यते, न चित्तेन । व्युपशमो बोधिः सर्वनिमित्तानाम्, असमारोपो बोधिः सर्वारम्बणानाम्, अप्रचारो बोधिः सर्वमनस्काराणाम्, परिच्छेदो बोधिः सर्वदृष्टिगतानाम्, विगमो बोधिः सर्वपरिकल्पानाम्, विसंयोगो बोधिः सर्वेञ्जितमन्यस्यन्दितानाम्, अनधिष्ठानं बोधिः सर्वप्रणिधानानाम्, असङ्गप्रवेशो बोधिः सर्वोद्ग्रहविगता, स्थिता बोधिर्धर्मधातुस्थाने, अनुगता बोधिस्तथतायाम्, प्रतिष्ठिता बोधिर्भूतकोट्याम्, अद्वया बोधिर्मनोधर्मविगता । समा बोधिराकाशसमतया, असंस्कृता बोधिरुत्पादभङ्गस्थित्यन्यथात्वविगता, परिज्ञा बोधिः सर्वसत्वचित्तचरिताशयानाम्, अद्वारा बोधिरायतनानाम्, असंसृष्टा बोधिः सर्ववासनानुसंधिक्लेशविगता, न देशस्था न प्रदेशस्था बोधिः स्थानास्थानविगता, तथताप्रतिष्ठिता बोधिः सर्वतोऽदृश्या । नामधेयमात्रं बोधिस्तच्च नाम निरीहकम्, निरात्मिका बोधिरायूहनिर्यूहविगता, अनाकुला बोधिः प्रकृतिपरिशुद्धा, प्रकाशा बोधिः स्वभावपरिशुद्धा, अनुद्ग्रहा बोधिरध्यालम्बनविगता, निर्नानात्वा बोधिः सर्वधर्मसमतावबोधत्वात्, अनुपमा बोधिरुपमोपन्यासविगताः, सूक्ष्मा बोधिर्दुरनुबोधत्वात्, सर्वत्रानुगता बोधिराकाशस्वभावत्वात् । सा न शक्या कायेन वाचा चित्तेनाभिसंबोद्धुम् ।

३.५३ इह भगवन्निर्देशे निर्दिश्यमाने ततः परिषदो द्वयोर्देवपुत्रशतयोरनुत्पत्तिकेषु धर्मेषु क्षान्तिप्रतिलम्भोऽभूत् । अहं च निष्प्रतिभानोऽभूवम् । तन्नाहं भगवनुत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् ।

३.५४ तत्र भगवान् प्रभाव्यूहं लिच्छविकुमारमामन्त्रयते स्म: गच्छ त्वं सत्पुरुष विमलकीर्तेर्लिच्छवेर्ग्लानपरिपृच्छकः ।

प्रभाव्यूहोऽप्याह: नाहं भगवनुत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् । तत्कस्माद्धेतोः । अभिजानाम्यहं भगवन्: एकस्मिन् समये भगवन् वैशाल्या महानगर्या निष्क्रमामि । विमलकीर्तिश्च लिच्छविः प्रविशति । सोऽहं तमभिवाद्यैवमवोचम्: कुतस्त्वं गृहपते आगच्छसीति ।

स मामेवमाह: आगच्छामि बोधिमण्डादिति ।

तमहमेतदवोचम्: बोधिमण्ड इति कस्यैतन्नाम ।

स मामेतदवोचत्:

३.५५ बोधिमण्ड इति कुलपुत्र आशयमण्ड एषोऽकृत्रिमतया, प्रयोगमण्ड एष आरम्भोत्तारणतया, अध्याशयमण्ड एष विशेषाधिगमतया, बोधिचित्तमण्ड एषोऽसंप्रमोषनतया,

३.५६ दानमण्ड एष विपाकाप्रतिकाङ्क्षणतया, शीलमण्ड एष प्रणिधानपरिपूरणतया, क्षान्तिमण्ड एष सर्वसत्वाप्रतिहतचित्ततया, वीर्यमण्ड एषोऽविनिवर्तनतया, ध्यानमण्ड एष चित्तकर्मण्यतया, प्रज्ञामण्ड एष प्रत्यक्षदर्शितया,

३.५७ मैत्रीमण्ड एष सर्वसत्वसमचित्ततया, करुणामण्ड एष खेदसहिष्णुतया, मुदितामण्ड एष धर्मारामरतिरततया, उपेक्षामण्ड एषोऽनुनयप्रतिघप्रहाणतया,

३.५८ अभिज्ञामण्ड एष षडभिज्ञतया, विमोक्षमण्ड एषोऽकल्पनतया, उपायमण्ड एष सत्वपरिपाचनतया, संग्रहवस्तुमण्ड एष सर्वसत्वसंग्रहनतया, श्रुतमण्ड एष प्रतिपत्तिसारकत्वात्, निध्यप्तिमण्ड एष योनिशःप्रत्यवेक्षणतया, बोधिपक्ष्यधर्ममण्ड एष संस्कृतासंस्कृतोत्सर्जनतया, सत्यमण्ड एष सर्वलोकाविसंवादनतया, प्रतीत्यसमुत्पादमण्ड एषोऽविद्यास्रवक्षयतया यावज्जरामरणास्रवक्षयतया, सर्वक्लेशप्रशमनमण्ड एष यथाभूताभिसंबोधनतया,

३.५९ सर्वसत्वमण्ड एष सत्वास्वभावतया, सर्वधर्ममण्ड एष शून्यताभिसंबोधनतया, सर्वमारनिर्घातनमण्ड एसोऽचलनतया, त्रैधातुकमण्ड एष प्रस्थानविगमनतया, सिंहनादनदनवीर्यमण्ड एषोऽभीतानुत्रासनतया, बलवैशारद्यावेणिकसर्वबुद्धधर्ममण्ड एस सर्वतोऽनुपाक्रुष्टत्वात्, त्रैविद्यविद्यामण्ड एस निरवशेषत्वात्क्लेशानाम्, एकचित्तनिरवशेषसर्वधर्मानुबोधमण्ड एष सर्वज्ञज्ञानसमुदागमत्वात् ।

३.६० इति हि कुलपुत्र यावन्तो बोधिसत्वाः पारमिताप्रतिसंयुक्तं सत्वपरिपाकप्रतिसंयुक्तं सद्धर्मपरिग्रहप्रतिसंयुक्तं कुशलमूलप्रतिसंयुक्तं क्रममुत्क्षिपन्ति निक्षिपन्ति च । सर्वे ते बोधिमण्डादागच्छन्ति, बुद्धधर्मेभ्य आगच्छन्ति, बुद्धधर्मेषु च प्रतिष्ठन्ते ।

३.६१ इह भगवन्निर्देशे निर्दिश्यमाने पञ्चमात्रैर्देवमनुष्यशतैर्बोधाय चित्तान्युत्पादितानि । अहं च निष्प्रतिभानोऽभूवम् । तन्नाहं भगवनुत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् ।

३.६२ तत्र भगवान् जगतिन्धरं बोधिसत्वमामन्त्रयते स्म: गच्छ त्वं जगतिन्धर विमलकीर्तेर्लिच्छवेर्ग्लानपरिपृच्छकः ।

जगतिन्धरोऽप्याह: नाहं भगवनुत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् । तत्कस्माद्धेतोः । अभिजानाम्यहं भगवन्: एकस्मिन् समये स्वके विहारे विहरामि । अथ मारः पापीयान् द्वादशभिरप्सरःसहस्रैः परिवृतः शक्रवेषेण तूर्यसंगीतिसंप्रवादितेन येनाहं तेनोपसंक्रम्य मम पादौ शिरसा वन्दित्वा सपरिवारो मां पुरस्कृत्यैकान्तेऽस्थात् । तमेनमहं जानामि ः शक्र एष देवेन्द्र इति ।

तमहमेतदवोचम्: स्वागतं ते कौशिक, अप्रमत्तेन ते भवितव्यं सर्वकामरतिषु, अनित्यप्रत्यवेक्षनाबहुलेनात्तसारेण ते भवितव्यं कायजीवितभोगेभ्यः ।

स मामेवमाह: प्रतीच्छ त्वं सत्पुरुष इमानि द्वादशाप्सरःसहस्राणि ममान्तिकात्, एतास्ते परिचारिका भवन्ताम् ।

तमहमेतदवोचम्: मा त्वं कौषिक अकल्पिकेन वस्तुना श्रमणान् शाक्यपुत्रीयान्निमन्त्रय, यथा न ह्येता अस्माकं कल्प्यन्त इति ।

३.६३ एषा च कथा प्रवृत्ता, विमलकीर्तिर्लिच्छविरुपसंक्रान्तः । स मामेवमाह: मा अत्र कुलपुत्र शक्रसंज्ञामुत्पादय । मार एष पापीयांस्तव विहेठनाभिप्राय उपसंक्रान्तः, नैष शक्र इति ।

अथ विमलकीर्तिर्लिच्छविस्तं मारं पापीयांसमेतदवोचत्: अस्मभ्यं पापीयनेता अप्सरसो निर्यातय । अस्माकमेताः कल्प्यन्ते, न श्रमणानां शाक्यपुत्रीयाणामिति ।

अथ मारः पापीयान् भीतस्त्रस्तः संविग्नः । मा विमलकीर्तिना लिच्छविना विप्रलप्स्य इति, इच्छति चान्तर्धातुम्, न च शक्नोति सर्वर्द्धिमपि दर्शयित्वान्तर्धातुम् । सोऽन्तरीक्षाच्छब्दमश्रौषीत्: निर्यातय त्वमेताः पापीयनप्सरस एतस्मै सत्पुरुषाय, ततः शक्ष्यसि स्वभवनं गन्तुम् । अथ मारो भीतस्त्रस्तोऽकामकोऽस्मै ता अप्सरसो निर्यातयति ।

३.६४ प्रतिगृह्य च विमलकीर्तिस्ता अप्सरस एतदवोचत्: निर्यातिता यूयं मह्यं मारेण पापीयसा, उत्पादयतेदानीमनुत्तरायां सम्यक्संबोधौ चित्तम् । स तासां तदानुलोमिकीं बोधिपरिपाचनीं कथां कृत्वा बोधौ चित्तमुत्पादयति स्म ।

स ता एवमाह: उत्पादितमिदानीं युष्माभिर्बोधिचित्तम्, धर्मारामरतिरताभिरिदानीं युष्माभिर्भवितव्यम्, न कामरतिरताभिः ।

ताहुः: कतमा च पुनर्धर्मारामरतिः ।

स आह: बुद्धेऽभेद्यप्रसादरतिः, धर्मे शुश्रूषणरतिः, संघ उपस्थानरतिः, गुरुषु गौरवोपस्थानरतिः, त्रैधातुकान्निःसरणरतिः, विषयेष्वनिश्रितरतिः, स्कन्धेषु वधकानित्यप्रत्यवेक्षणारतिः, धातुष्वाशीविषपरितुलनारतिः, आयतनेषु शून्यग्रामविवेकरतिः, बोधिचित्तारक्षणरतिः, सत्वेषु हितवस्तुतारतिः, दाने संविभागरतिः, शीलेष्वशैथिल्यरतिः, क्षान्त्यां क्षमदमरतिः, वीर्ये कुशलसमुदानयनरतिः, ध्यानेषु परिकर्मरतिः, प्रज्ञायामपगतक्लेशावभासरतिः, बोधौ विस्तीर्णरतिः, मारस्य निग्रहरतिः, क्लेशानां प्रघातनारतिः, बुद्धक्षेत्रस्य विशोधनारतिः, लक्षणानुव्यञ्जनपरिनिष्पत्त्यर्थं सर्वकुशलमूलोपचयरतिः, गम्भीरधर्मश्रवणानुत्त्रासरतिः, त्रिविमोक्षमुखपरिजयरतिः, निर्वाणारम्बणरतिः, बोधिमण्डालंकाररतिः, न चाकालप्राप्तिरतिः, सभागजनसेवनारतिः, विषभागेष्वदोषाप्रतिघातरतिः, कल्याणमित्रेषु सेवारतिः, पापमित्रेषु विसर्जनारतिः, धर्मप्रीतिप्रामोद्यरतिः, उपाये संग्रहरतिः, अप्रमादबोधिपक्ष्यधर्मसेवनारतिः । एवं हि बोधिसत्वो धर्मारामरतिरतो भवति ।

३.६५ अथ मारः पापीयांस्ता अप्सरस एतदवोचत्: आगच्छत । इदानीं गमिष्यामः स्वभवनमिति ।

ता एवमाहुः: निर्यातिता इदानीं त्वया वयमस्मै गृहपतये । धर्मारामरतिरताभिरस्माभिरिदानीं भवितव्यम्, न कामरतिरताभिः ।

अथ मारः पापीयान् विमलकीर्तिं लिच्छविमेवमाह: निःसृज त्वं गृहपते इमा अप्सरसः । सर्वस्वपरित्यागिनो बोधिसत्वा महासत्वा भवन्ति ।

विमलकीर्तिराह: अवसृष्टा भवन्तु । गच्छ पापीयन् । सर्वसत्वानां धार्मिका अभिप्रायाः परिपूर्यन्ताम् ।

अथ ता अप्सरसो विमलकीर्तिं नमस्कृत्यैवमाहुः: कथं वयं गृहपते मारभवनेऽवतिष्ठेम ।

३.६६ आह: अस्ति भगिन्यः अक्षयप्रदीपं नाम धर्ममुखम् । तत्र प्रतिपद्यध्वम् । तत्पुनः कतमत् । तद्यथा भगिन्यः एकस्मात्तैलप्रदीपाद्दीपशतसहस्राण्यादीप्यन्ते । न च तस्य दीपस्य परिहाणिर्भवति । एवमेव भगिन्यः एको बोधिसत्वो बहूनि सत्वशतसहस्राणि बोधौ प्रतिष्ठापयति । न च तस्य बोधिसत्वस्य चित्तस्मृतिर्हीयते, न परिहीयते, उत च वर्धते । एवं सर्वान् कुशलान् धर्मान् यथा यथा परेषामारोचयति देशयति, तथा तथा विवर्धते सर्वैः कुशलैर्धर्मैः । इदं तदक्षयप्रदीपं नाम धर्ममुखम् । तत्र युष्माभिर्मारभवने स्थिताभिरपरिमाणानां देवपुत्राणामप्सरसां च बोधिचित्तं रोचयितव्यम् । एवं यूयं तथागतस्य कृतज्ञा भविष्यथ । सर्वसत्वानां चोपजीव्या भविष्यथ ।

३.६७ अथ ता अप्सरसो विमलकीर्तेर्लिच्छवेः पादौ शिरसा वन्दित्वा सार्धं मारेण प्रक्रान्ताः । इमे भगवन् विमलकीर्तेर्लिच्छवेर्विकुर्वणविशेषाः, यानहं नाज्ञासिषम् । तन्नाहं भगवनुत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् ।

३.६८ तत्र भगवान् सुदत्तं श्रेष्ठिपुत्रमामन्त्रयते स्म: गच्छ त्वं कुलपुत्र विमलकीर्तेर्लिच्छवेर्ग्लानपरिपृच्छकः ।

सुदत्तोऽप्याह: नाहं भगवनुत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् । तत्कस्माद्धेतोः । अभिजानाम्यहं भगवन्: स्वके पैतृके निवेशने महायज्ञं यजामि । सर्वदरिद्रदुःखितेभ्यः सर्वश्रमणब्राह्मणकृपणवनीयकयाचनकेभ्यो दानं ददामि । सप्तदिवसान्महायज्ञं यजामि ।

तत्र सप्तमे दिवसे विमलकीर्तिर्लिच्छविस्तां महायज्ञशालां प्रविश्य मामेतदवोचत्: न श्रेष्ठिपुत्र एवं यज्ञो यष्टव्यो यथा त्वं यजसे । धर्मयज्ञस्ते यष्टव्यः । किं त आमिषयज्ञेन ।

तमहमेतदवोचम्: कथं पुनर्धर्मयज्ञो यष्टव्यः ।

स मामेवमाह:

३.६९ येन धर्मयज्ञेनापूर्वाचरमं सर्वसत्वाः परिपाच्यन्ते, अयं धर्मयज्ञः । स पुनः कतमः । यदिदं बोध्याकाराभिनिर्हृता महामैत्री, सद्धर्मसंग्रहाभिनिर्हृता महाकरुणा, सर्वसत्वप्रामोद्यारम्बनाभिनिर्हृता महामुदिता, ज्ञानसंग्रहाभिनिर्हृता महोपेक्षा,

३.७० शान्तदान्ताभिनिर्हृता दानपारमिता, दुःशीलसत्वपरिपाचनाभिनिर्हृता शीलपारमिता, नैरात्म्यधर्माभिनिर्हृता क्षान्तिपारमिता, बोध्यङ्गाभिनिर्हृता वीर्यपारमिता, कायचित्तविवेकाभिनिर्हृता ध्यानपारमिता, सर्वज्ञज्ञानाभिनिर्हृता प्रज्ञापारमिता,

३.७१ सर्वसत्वपरिपाचनाभिनिर्हृता शून्यताभावना, संस्कृतपरिकर्माभिनिर्हृतानिमित्तभावना, संचिन्त्योपपत्त्यभिनिर्हृताप्रणिहितभावना,

३.७२ सद्धर्मपरिग्रहाभिनिर्हृतो बलपराक्रमः, संग्रहवस्त्वभिनिर्हृतं जीवितेन्द्रियम्, सर्वसत्वानां दासत्वशिष्यत्वाभिनिर्हृता निर्मानता, असारात्सारादानाभिनिर्हृतः कायजीवितभोगप्रतिलम्भः, षडनुस्मृत्यभिनिर्हृता स्मृतिः, संरञ्जनियधर्माभिनिर्हृतोऽध्याशयः, सम्यक्प्रतिपत्त्यभिनिर्हृताजीवपरिशुद्धिः, प्रसादप्रामोद्यसेवनाभिनिर्हृतार्यपर्युपासना, अनार्येष्वप्रतिघाताभिनिर्हृता चित्तनिध्यप्तिः, प्रव्रज्याभिनिर्हृतोऽध्याशयः, प्रतिपत्त्यभिनिर्हृतं श्रुतकौशलम्, अरणाधर्मप्रतिवेधाभिनिर्हृतोऽरण्यवासः, बुद्धज्ञानसंप्रापणाभिनिर्हृतं संलयनम्, सर्वसत्वक्लेशमोचनयोगाभिनिर्हृता योगाचारभूमिः,

३.७३ लक्षणानुव्यञ्जनसंभाराभिनिर्हृतः सत्वपरिपाकः, बुद्धक्षेत्रालंकाराभिनिर्हृतः पुण्यसंभारः, सर्वसत्वचित्तचरितयथाशयधर्मदेशनाभिनिर्हृतो ज्ञानसंभारः, सर्वधर्मानायूहानिर्यूहैकनयज्ञनाभिनिर्हृतः प्रज्ञासंभारः, सर्वक्लेशसर्वावरणसर्वाकुशलधर्मप्रहाणाभिनिर्हृतः सर्वकुशलमूलसंभारः,

३.७४ सर्वज्ञज्ञानानुबोधनसर्वकुशलधर्माभिनिर्हृतः सर्वबोधिपक्ष्यधर्मसमुद्गमः ।

अयं स कुलपुत्र धर्मयज्ञः, यत्र धर्मयज्ञे प्रतिष्ठिता बोधिसत्वा इष्टयज्ञयाजूका दक्षिणीया भवन्ति सदेवकस्य लोकस्य । एवं हि भगवन् तस्य गृहपतेर्निर्दिशतस्तस्या ब्राह्मणपर्षदो द्वयोर्ब्राह्मणशतयोरनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पन्नानि ।

३.७५ अहं चाश्चर्यप्रसादप्रतिलब्धस्तस्य सत्पुरुषस्य चरणौ प्रणम्य शतसहस्रमूल्यं मुक्ताहारं कण्ठादवतार्य ददामि । स तैः मुक्ताहारं न प्रतिगृह्णाति स्म । तमहमेतदवोचम्: प्रतिगृह्येमम्, यत्र ते प्रसादो भवति तस्मै प्रयच्छेति ।

तेन स मुक्ताहारो गृहीत्वा द्विधाकृतः । एको भागो यस्तत्र यज्ञशालायां सर्वलोकजुगुप्सितो नगरदरिद्रस्तस्मै दत्तः । द्वितीयश्च भागो दुष्प्रसहाय तथागताय दत्तः । यथा च सर्वा पर्षत्पश्यति तं च मरीचिं लोकधातुं तं च दुष्प्रसहं तथागतं तं च मुक्ताहारं दुष्प्रसहस्य मूर्धसंधौ मुक्ताहारकूटागारं प्रादुर्भूतं चित्रं दर्शनीयं चतुरस्रं चतुःस्थूणं समंभागशः सुविभक्तम् ।

३.७६ स इदं प्रातिहार्यं संदर्श्येमां वाचमभाषत: यस्य दायकस्य दानपतेर्यादृशी तथागते दक्षिणीयसंज्ञा तादृशी नगरदरिद्रे निर्नानात्वेन समा, महाकरुणाचित्तेन विपाकाप्रतिकाङ्क्षणतया परित्यागः । इयं धर्मयज्ञस्य परिपूरिः ।

३.७७ तत्रासौ नगरदरिद्र इदं प्रातिहार्यं दृष्ट्वा, इमं च धर्मनिर्देशं श्रुत्वा, अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयति स्म । तन्नाहं भगवनुत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् ।

३.७८ इति हि सर्वे ते बोधिसत्वा महासत्वाः स्वकस्वकान्निर्देशान्निर्दिशन्ति स्म, ये चैषां तेन सत्पुरुषेण सार्धमन्तराकथासमुदाहारा अभूवन्, न चोत्सहन्ते गन्तुम् ॥ ॥

श्रावकबोधिसत्वविसर्जनप्रश्नो नाम तृतीयः परिवर्तः ॥


४.१ तत्र भगवान्मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म: गच्छ त्वं मञ्जुश्रीः विमलकीर्तेर्लिच्छवेर्ग्लानपरिपृच्छकः ।

मञ्जुश्रीरप्याह: किं चापि दुरासदोऽसौ भगवन् विमलकीर्तिर्लिच्छविः, गम्भीरनयप्रतिभानप्रविष्टः, व्यस्तसमस्तवचननिर्हारकुशलः, अविष्ठितप्रतिभानः, अप्रतिमबुद्धिः सर्वसत्वेषु, सर्वबोधिसत्वक्रियासु निर्यातः, सर्वबोधिसत्वसर्वबुद्धगुह्यस्थानेषु सुप्रविष्टः, सर्वमारस्थानविवर्तनकुशलमहाभिज्ञाविक्रीडितः, अद्वयासंभेदधर्मधातुगोचरपरमपारमिप्राप्तः, एकव्यूहधर्मधात्वनन्ताकारव्यूहधर्मनिर्देशकः, सर्वसत्वेन्द्रियव्यूहसंप्रापणज्ञानकुशलः, उपायकौशल्यगतिंगतः, प्राप्तप्रश्नविनिश्चयः । स न शक्योऽल्पकेन संनाहेनाभिराधयितुम् । अथ च पुनर्गमिष्यामि बुद्धाधिष्ठानेन, तत्र यथाशक्ति यथाबलं निर्देक्ष्यामि ।

४.२ अथ ततः पर्षदस्तेषां बोधिसत्वानां तेषां च श्रावकाणां तेषां च शक्रब्रह्मलोकपालानां तेषां च देवपुत्राणामेतदभवत्: निश्चयेन तत्र महाधर्मश्रवणसांकथ्यं भविष्यति, यत्र मञ्जुश्रीः कुमारभूतः स च सत्पुरुष उभौ संलपिष्यतः । तत्राष्टौ च बोधिसत्वसहस्राणि पञ्चमात्राणि च श्रावकशतानि संबहुलाश्च शक्रब्रह्मलोकपालाः संबहुलानि च देवपुत्रशतसहस्राणि मञ्जुश्रियमनुबद्धानि धर्मश्रवणाय । अथ मञ्जुश्रीः कुमारभूतस्तैर्बोधिसत्वैर्महासत्वैस्तैश्च श्रावकैस्तैश्च शक्रब्रह्मलोकपालैर्देवपुत्रैश्च परिवृतो वैशालीं महानगरीं प्रविशति स्म ।

४.३ अथ विमलकीर्तेरेतदभवत्: अयं मञ्जुश्रीः कुमारभूत आगच्छति महता परिवारेण । यन्न्वहं शून्यं गृहमधितिष्ठेयम् । तेन तं गृहं शून्यमधिष्ठितमपगतद्वारपालम् । न तत्र मञ्चा वा पीठा वासनानि वा संदृश्यन्तेऽन्यत्रैकस्मान्मञ्चात्, यत्रात्मना ग्लानः समारूढः शयितः ।
४.४ अथ मञ्जुश्रीः सपरिवारो येन विमलकीर्तेर्निवेशनं तेनोपसंक्रामत् । उपसंक्रम्य प्रविशति स्म । स तं गृहं शून्यमपश्यद्विगतद्वारपालम् । न चात्र मञ्चान् वा पीठान् वापश्यदन्यत्रैकमञ्चात्, यत्र विमलकीर्तिः शयितः । अथ विमलकीर्तिर्लिच्छविर्मञ्जुश्रियं कुमारभूतमद्राक्षीत् । दृष्ट्वा च पुनरेवमाह: स्वागतं मञ्जुश्रियोऽस्वागतं मञ्जुश्रियोऽनागतस्यादृष्टश्रुतपूर्वस्य दर्शनम् ।

मञ्जुश्रिराह: एवमेतद्गृहपते यथा वदसि । य आगतो न स भूय आगमिष्यति । यश्च गतो न स भूयो गमिष्यति । तत्कस्माद्धेतोः । न चागतस्यागमनं प्रज्ञायते, न च गतस्य गमनम्, यश्च दृष्टो न भूयो द्रष्टव्यः ।

४.५ अपि तु कच्चित्ते सत्पुरुष क्षपणीयम्, कच्चिद्यापनीयम्, कच्चिद्वातेन प्रतिकुप्यन्ति धातवः, कच्चिदपगच्छति व्याधिर्न विवर्धते । भगवांस्तेऽल्पाबाधतां परिपृच्छति, अल्पातङ्कतां चाल्पग्लान्यतां च लघूत्थानतां च यत्रां च बलं च सुखं चानवद्यतां च स्पर्शविहारतां च ।

४.६ कुत्र ते गृहपते इदं व्याधिसमुत्थानम् । कियच्चिरमुपादाय ते व्याधिः । कदा चोपशमिष्यति ।

विमलकिर्तिराह: यावच्चिरमुपादाय मञ्जुश्रीः अविद्या भवतृष्णा च तावच्चिरमुपादाय ममैष व्याधिः । यदा च सर्वसत्वा विगतव्याधयो भविष्यन्ति तदा मम व्याधिः प्रश्रब्धो भविष्यति । तत्कस्माद्धेतोः । सत्वाधिष्ठानो हि मञ्जुश्रीः बोधिसत्वस्य संसारः । संसारनिश्रितश्च व्याधिः । यदा सर्वसत्वा विगतव्याधयो भविष्यन्ति तदा बोधिसत्वोऽरोगो भविष्यति ।

४.७ तद्यथा मञ्जुश्रीः श्रेष्ठिन एकपुत्रको ग्लानो भवेत् । तस्य मातापितरावपि ग्लानौ स्याताम् । तावच्च दुःखितौ भवेतां यावन्नासावेकपुत्रकस्तयोर्विगतव्याधिः स्यात् । एवं मञ्जुश्रीः बोधिसत्वस्य सर्वसत्वेष्वेकपुत्रकप्रेम । स सत्वग्लान्येन ग्लानो भवति, सत्वारोग्यात्त्वरोगः । यत्पुनर्मञ्जुश्रिः एवं वदसि ः कुतः समुत्थितो व्याधिरिति, महाकरुणासमुत्थितो बोधिसत्वानां व्याधिः ।

४.८ मञ्जुश्रीराह: शून्यं ते गृहपते गृहम् । न च ते कश्चिदुपस्थायकः ।

आह: सर्वबुद्धक्षेत्राण्यपि मञ्जुश्रिः शून्यानि ।

आह: केन शून्यानि ।

आह: शून्यतया शून्यानि ।

आह: शून्यतायाः का शून्यता ।

आह: अपरिकल्पनाश्च शून्यतायाः शून्यताः ।

आह: शक्या पुनः शून्यता परिकल्पयितुम् ।

आह: येनापि परिकल्प्येत तदपि शून्यम् । न च शून्यता शून्यतां परिकल्पयति ।

आह: शून्यता गृहपते कुतो मार्गितव्या ।

आह: शून्यता मञ्जुश्रीः द्वाषष्टिभ्यो दृष्टिगतेभ्यो मार्गितव्या ।

आह: द्वाषष्टिः पुनर्दृष्टिगतानि कुतो मार्गितव्यानि ।

आह: तथागतविमुक्तितो मार्गितव्यानि ।

आह: तथागतविमुक्तिः पुनः कुतो मार्गितव्या ।

आह: सर्वसत्वचित्तचरितेभ्यो मार्गितव्या । यत्पुनर्मञ्जुश्रीः एवं वदसि ः कस्त उपस्थायक इति । सर्वमाराः सर्वपरप्रवादिनश्च ममोपस्थायकाः । तत्कस्माद्धेतोः । मारा हि संसारस्य वर्णवादिनः । संसारश्च बोधिसत्वस्योपस्थायकः । परप्रवादिनो दृष्टिगतानां वर्णवादिनः । बोधिसत्वश्च सर्वदृष्टिगतेभ्यो न चलति । तस्मात्सर्वमाराः सर्वपरप्रवादिनश्च ममोपस्थायकाः ।

४.९ मञ्जुश्रीराह: किदृशोऽयं ते गृहपते व्याधिः ।

आह: अदृश्योऽनिदर्शनः ।

आह: किमेष व्याधिः कायसंप्रयुक्त उत चित्तसंप्रयुक्तः ।

आह: न कायसंप्रयुक्तः कायविविक्ततया । न चित्तसंप्रयुक्तो मायाधर्मतया चित्तस्य ।

आह: चत्वार इमे गृहपते धातवः । कतमे चत्वारः, यदुत पृथिवीधातुरब्धातुस्तेजोधातुर्वायुधातुरिति । तत्कतमस्तत्र धातुर्बाधते ।

आह: य एवं धातुको मञ्जुश्रीः सर्वसत्वानां व्याधिस्तेनाहं व्याधितः ।

४.१० अपि तु खलु पुनर्मञ्जुश्रीः कथं बोधिसत्वेन ग्लानको बोधिसत्वः प्रतिसंमोदितव्यः ।

मञ्जुश्रीराह: कायानित्यतया न च निर्विद्विरागतया, कायदुःखतया न च निर्वाणाभिनन्दनतया, कायानात्मतया सत्वपरिपाचनतया च, कायशान्ततया न चात्यन्तशमतया, सर्वदुश्चरितदेशनतया न च संक्रान्तितः, स्वग्लान्येन परसत्वग्लानकरुणतया, पूर्वान्तकोटीदुःखानुस्मरणतया, सत्वार्थक्रियानुस्मरणतया, कुशलमूलाभिमुखीकरणतया, आदिविशुद्धतया, अपरितर्षणतया, सदावीर्यारंभाच्च, वैद्यराजो भविष्यसि सर्वव्याधीनां शमयितेति । एवं बोधिसत्वेन बोधिसत्वो ग्लानः प्रतिसंमोदितव्यः ।

४.११ मञ्जुश्रीराह: कथं कुलपुत्र बोधिसत्वेन ग्लानेन स्वचित्तं निध्यपयितव्यम् ।

विमलकीर्तिराह: इह मञ्जुश्रीः बोधिसत्वेन ग्लानेनैवं स्वचित्तं निध्यपयितव्यम् । पूर्वान्तासद्विपर्यासकर्मसमुत्थानसमुत्थितोऽयं व्याधिरभूतपरिकल्पक्लेशसमुत्थितः । न पुनरत्र कश्चित्परमार्थतो धर्म उपलभ्यते यस्यैष व्याधिः । तत्कस्माद्धेतोः । चातुर्महाभौतिकोऽयं समुच्छ्रयः । न चैषां धातूनां कश्चित्स्वामी न समुत्थापयिता । अनात्मा ह्ययं समुच्छ्रयः । योऽयं व्याधिर्नाम नायं परमार्थत उपलभ्यते, अन्यत्रात्माभिनिवेशात् । उत नात्मन्यभिविनिष्टा विहरिष्यामो व्याधिमूलपरिज्ञाताविनः । तेनात्मसंज्ञां विष्ठाप्य धर्मसंज्ञोत्पादयितव्या । धर्मसंघातोऽयं कायः । धर्मा एवोत्पद्यमाना उत्पद्यन्ते । धर्मा एव निरुध्यमाना निरुध्यन्ते । ते च धर्माः परस्परं न चेतयन्ति न जानन्ति । न च तेषामुत्पद्यमानानामेवं भवत्युत्पद्यामह इति । न निरुध्यमानानामेवं भवति निरुध्यामह इति ।

४.१२ तेन धर्मसंज्ञाया एवं चित्तमुत्पादयितव्यम् । याप्येषा धर्मसंज्ञा सोऽपि विपर्यासः । विपर्यासश्च महाव्याधिः । विगतव्याधिकेन च मया भवितव्यम् । व्याधिप्रहाणाय च योगः करणीयः । तत्र कतमद्व्याधिप्रहाणम्, यदिदमहंकारममकारप्रहाणम् । तच्च कतमदहंकारममकारप्रहाणम्, यदिदं द्वयविगमः । तत्र कतमो द्वयविगमः, यदिदमध्यात्मं बहिर्धा च समुदाचारः । तत्र कतमोऽध्यात्मं बहिर्धा समुदाचारः, यदुत समतयाचलनताप्रचलनता । कतमा च समता । आत्मसमतया च निर्वाणसमता । तत्कस्माद्धेतोः । उभेऽप्येते शून्ये, यदुतात्मा निर्वाणं च । केनैते शून्ये । नामोदाहारेणैते शून्ये । उभावप्येतावपरिनिष्पन्नौ, यदुतात्मा निर्वाणं च । तेन समदर्शिना नान्यो व्याधिर्नान्या शून्यता कर्तव्या । व्याधिरेव शून्यता ।

४.१३ अविदिता च सा वेदना वेदितव्या । न चानेन वेदनानिरोधः साक्षात्कर्तव्यः । अपरिपूर्णेषु बुद्धधर्मेषूभे वेदने नोत्स्रष्टव्ये । न च दुर्गत्युपपन्नानां सत्वानामन्तिके महाकरुणा नोत्पादयितव्या । तथा करिष्यामो यथैषां सत्वानामेवमयोनिशोनिध्यप्त्या व्याधिमपनेष्यामः ।

४.१४ न चैषां कंचिद्धर्ममुपनेष्यामो नापनेष्यामः । यतो निदानाच्च पुनर्व्याधिरुत्पद्यते तस्य परिज्ञायै तेभ्यो धर्मं देशयिष्यामः । कतमच्च पुनर्निदानम्, यदिदमध्यालम्बननिदानम् । यावताध्यालम्बननिदानमध्यालम्बते, तावद्व्याधिनिदानम् । किं चाध्यालम्बते, त्रैधातुकमध्यालम्बते । तस्याध्यालम्बनतया का परिज्ञा, यदिदमालम्बनानुपलम्भः । यं हि नोपलभ्यते तं नालम्बते । किं च नोपलभते, उभे दृष्टी नोपलभते, यदिदमात्मदृष्टिं परदृष्टिं च । तदुच्यतेऽनुपलम्भ इति । एवं हि मञ्जुश्रीः ग्लानेन बोधिसत्वेन स्वचित्तं निध्यपयितव्यं जराव्याधिमरणोपपत्तिप्रहाणाय । एवं च मञ्जुश्रीः बोधिसत्वानां बोधिर्यदि न भवेत्, निरर्थको ननु व्यायामो भवेत् । यथा प्रत्यर्थिकनिर्घाताच्छुरा इत्युच्यन्ते, एवमेव जराव्याधिमरणदुःखोपशमनाद्बोधिसत्वा इत्युच्यन्ते ।

४.१५ तेन बोधिसत्वेन व्याधितेनैवं प्रत्यवेक्षितव्यम् । यथा मम व्याधिरभूतोऽसन्नेवं सर्वसत्वानामपि व्याधिरभूतोऽसन्निति । तस्यैवं प्रत्यवेक्षमाणस्य नानुशंसादृष्टिपतिता सत्वेषु महाकरुणोत्पद्यते, अन्यत्रागन्तुकक्लेशप्रहाणाभियुक्त्या सत्वेषु महाकरुणोत्पद्यते । तत्कस्माद्धेतोः । अनुशंसदृष्टिपतितयैव हि महाकरुणया बोधिसत्वस्य खेदो भवत्युपपत्तिषु । अनुशंसदृष्टिपर्युत्थानविगतया पुनर्महाकरुणया बोधिसत्वस्य खेदो न भवत्युपपत्तिषु । सोऽयमुपपद्यते, न च दृष्टिपर्युत्थानपर्युत्थित उपपद्यते । सोऽपर्युत्थितचित्त उपपद्यमानो मुक्त एवोत्पद्यते मुक्त एव जायते । स मुक्त एवोत्पद्यमानो मुक्त एव जायमानो बद्धानां सत्वानां शक्तः प्रतिबलो बन्धमोक्षाय धर्मं देशयितुम् । यथोक्तं भगवता स तावदात्मना बद्धः परं बन्धनान्मोचयिष्यतीति नादं स्थानं विद्यते । यस्त्वात्मना मुक्तः परं बन्धनान्मोचयिष्यतीति स्थानमेतद्विद्यते तस्मान्मुक्तेन बोधिसत्वेन भवितव्यम्, न बद्धेन ।

४.१६ तत्र कतमो बन्धः, कतमो मोक्षः । अनुपायाद्भवगतिपरिग्रहो बोधिसत्वस्य बन्धः, उपायाद्भवगतिगमनं मोक्षः । अनुपायाद्ध्यानसमाध्यास्वादनता बोधिसत्वस्य बन्धः, उपायेन ध्यानसमाध्यास्वादनता मोक्षः । अनुपायसंगृहीता प्रज्ञा बन्धः, उपायसंगृहीता प्रज्ञा मोक्षः । प्रज्ञयासंगृहीत उपायो बन्धनम्, प्रज्ञासंगृहीत उपायो मोक्षः ।

४.१७ तत्र कतमोऽनुपायसंगृहीता प्रज्ञा बन्धः, यदिदं शून्यतानिमित्ताप्रणिहितनिध्यप्तिः, न च लक्षणानुव्यञ्जनबुद्धक्षेत्रालंकारसत्वपरिपाचननिध्यप्तिः । इयमनुपायसंगृहीता प्रज्ञा बन्धः । तत्र कतमोपायसंगृहीता प्रज्ञा मोक्षः, यदिदं लक्षनानुव्यञ्जनबुद्धक्षेत्रालंकारसत्वपरिपाचननिध्यप्तिचित्तं च शून्यतानिमित्ताप्रणिहितपरिजयश्च । इयमुपायसंगृहीता प्रज्ञा मोक्षः । तत्र कतमः प्रज्ञयासंगृहीत उपायो बन्धः, यदिदं सर्वदृष्टिक्लेशपर्युत्थानानुशयानुनयप्रतिघप्रतिष्ठितस्य सर्वकुशलमूलारम्भो बोधौ चापरिणामना । अयं प्रज्ञयासंगृहीत उपायो बन्धः । तत्र कतमः प्रज्ञासंगृहीत उपायो मोक्षः, यदिदं सर्वदृष्टिक्लेशपर्युत्थानानुशयानुनयप्रतिघप्रहीणस्य सर्वकुशलमूलारम्भो बोधौ परिणामितस्तस्य चापरामर्शः । अयं बोधिसत्वस्य प्रज्ञासंगृहीत उपायो मोक्षः ।

४.१८ तत्र मञ्जुश्रीः ग्लानेन बोधिसत्वेनैवमिमे धर्मा निध्यपयितव्याः । यत्ल्� कायस्य चित्तस्य च व्याधेश्चानित्यदुःखशून्यानात्मप्रत्यवेक्षणा, इयमस्य प्रज्ञा । यत्पुनः कायव्याधिपरिहरणतया न खिद्यते, न प्रतिबध्नाति संसारम्, सत्वार्थयोगमनुयुक्तः, अयमस्योपायः । पुनरपरं यत्कायस्य व्याधेश्चित्तस्य चान्योन्यपरापरतां न निर्नवतानिःपुराणतां प्रत्यवेक्षते, इयमस्य प्रज्ञा । यत्पुनः कायस्य व्याधेश्चित्तस्य च नात्यन्तोपशमं निरोधमत्ययति, अयमस्योपायः ।

४.१९ एवं हि मञ्जुश्रिः ग्लानेन बोधिसत्वेन चित्तं निध्यपयितव्यम् । न च तेन निध्यप्तौ वानिध्यप्तौ वा स्थातव्यम् । तत्कस्माद्धेतोः । यदि ह्यनिध्यप्तौ तिष्ठेद्बालधर्म एषः । अथ निध्यप्तौ तिष्ठेच्छ्रावकधर्म एषः । तस्माद्बोधिसत्वेन न निध्यप्तौ स्थातव्यम् । यदत्रास्थानमयं बोधिसत्वस्य गोचरः ।

४.२० यन्न पृथग्जनगोचरो नार्यगोचरः, अयं बोधिसत्वस्य गोचरः । यत्संसारगोचरश्च न च क्लेशगोचरः, अयं बोधिसत्वस्य गोचरः । यन्निर्वाणप्रत्यवेक्षणगोचरश्च न चात्यन्तपरिनिर्वाणगोचरः, अयं बोधिसत्वस्य गोचरः । यच्चतुर्मारसंदर्शनगोचरश्च सर्वमारविषयातिक्रान्तगोचरश्च, अयं बोधिसत्वस्य गोचरः । यत्सर्वज्ञज्ञानपर्येष्टिगोचरश्च न चाकाले ज्ञानप्राप्तिगोचरः, अयं बोधिसत्वस्य गोचरः । यच्चतुःसत्यज्ञानगोचरश्च न चाकाले सत्यप्रतिवेधगोचरः, अयं बोधिसत्वस्य गोचरः । यदध्यात्मप्रत्यवेक्षणगोचरश्च संचिन्त्यभवोपपत्तिपरिग्रहगोचरश्च, अयं बोधिसत्वस्य गोचरः । यदजातिप्रत्यवेक्षणगोचरश्च न च नियामावक्रान्तिगोचरः, अयं बोधिसत्वस्य गोचरः । यत्प्रतीत्यसमुत्पादगोचरश्च सर्वदृष्टिविगतगोचरश्च, अयं बोधिसत्वस्य गोचरः । यत्सर्वसत्वसंगणिकागोचरश्च न च क्लेशानुशयगोचरः, अयं बोधिसत्वस्य गोचरः । यद्विवेकगोचरश्च न च कायचित्तक्षयनिश्रयगोचरः, अयं बोधिसत्वस्य गोचरः । यत्त्रैधातुकगोचरश्च न च धर्मधातुसंभेदगोचरः, अयं बोधिसत्वस्य गोचरः । यच्छून्यतागोचरश्च सर्वाकारगुणपर्येष्टिगोचरश्च, अयं बोधिसत्वस्य गोचरः । यदानिमित्तगोचरश्च सत्वप्रमोचनारम्बणवितर्कगोचरश्च, अयं बोधिसत्वस्य गोचरः । यदप्रणिहितगोचरश्च संचिन्त्यभवगतिसंदर्शनगोचरश्च, अयं बोधिसत्वस्य गोचरः । यदनभिसंस्कारगोचरश्च सर्वकुशलमूलाभिसंस्काराप्रतिप्रस्रब्धिगोचरश्च, अयं बोधिसत्वस्य गोचरः । यत्षट्पारमितागोचरश्च सर्वसत्वचित्तचरितपारगमनगोचरश्च, अयं बोधिसत्वस्य गोचरः । यत्षडनुस्मृतिगोचरश्
च न च सर्वास्रवक्षयगोचरः, अयं बोधिसत्वस्य गोचरः । यत्सद्धर्मप्रतिष्ठानगोचरश्च न च कुमार्गाध्यालम्बनगोचरः, अयं बोधिसत्वस्य गोचरः । यत्षडभिज्ञागोचरश्च न चास्रवक्षयगोचरः, अयं बोधिसत्वस्य गोचरः । यच्चतुरप्रमाणगोचरश्च न च ब्रह्मलोकोपपत्तिस्पर्शनगोचरः, अयं बोधिसत्वस्य गोचरः । यद्ध्यानसमाधिसमापत्तिगोचरश्च न च समाधिसमापत्तिवशेनोपपत्तिगोचरः, अयं बोधिसत्वस्य गोचरः । यत्स्मृत्युपस्थानगोचरश्च न च कायवेदनाचित्तधर्मात्यर्थगोचरः, अयं बोधिसत्वस्य गोचरः । यत्सम्यक्प्रहाणगोचरश्च न च कुशलाकुशलद्वयोपलम्भगोचरः, अयं बोधिसत्वस्य गोचरः । यदृद्धिपादाभिनिर्हारगोचरश्चानाभोगर्द्धिपादवशवर्तिगोचरश्च, अयं बोधिसत्वस्य गोचरः । यत्पञ्चेन्द्रियगोचरश्च सर्वसत्वेन्द्रियपरापरज्ञानगोचरश्च, अयं बोधिसत्वस्य गोचरः । यत्पञ्चबलप्रतिष्ठानगोचरश्च दशतथागतबलाभिसंदर्शनगोचरश्च, अयं बोधिसत्वस्य गोचरः । यत्सप्तबोध्यङ्गपरिनिष्पत्तिगोचरश्च बुद्धिप्रभेदज्ञानकौशल्यगोचरश्च, अयं बोधिसत्वस्य गोचरः । यन्मार्गप्रतिष्ठानगोचरश्च कुमार्गानध्यालम्बनगोचरश्च, अयं बोधिसत्वस्य गोचरः । यच्छमथविदर्शनासंभारपर्येष्टिगोचरश्च न चात्यन्तशान्तिपतनगोचरः, अयं बोधिसत्वस्य गोचरः । यदनुत्पादलक्षणसर्वधर्ममीमांसनगोचरश्च रूपलक्षनानुव्यञ्जनबुद्धकायालंकारपरिनिष्पत्तिगोचरः, अयं बोधिसत्वस्य गोचरः । यच्छ्रावकप्रत्येकबुद्धाकल्पसंदर्शनगोचरश्च बुद्धधर्मात्यजनगोचरश्च, अयं बोधिसत्वस्य गोचरः । यदत्यन्तविशुद्धिप्रकृतिसमापन्नसर्वधर्मानुगमनगोचरश्च यथाधिमुक्तिसर्वसत्वेर्यापथसंदर्शनगोचरश्
च, अयं बोधिसत्वस्य गोचरः । यदत्यन्तासंवर्तविवर्ताकाशस्वभावसर्वबुद्धक्षेत्रप्रत्यवेक्षणगोचरश्च नानाव्यूहानेकव्यूहबुद्धक्षेत्रगुणव्यूहसंदर्शनगोचरश्च, अयं बोधिसत्वस्य गोचरः । यद्धर्मचक्रप्रवर्तनमहापरिनिर्वाणसंदर्शनगोचरश्च बोधिसत्वचर्यात्यजनगोचरश्च, अयमपि बोधिसत्वस्य गोचरः ।

इह निर्देशे निर्दिश्यमाने ये मञ्जुश्रिया कुमारभूतेन सार्धमागता देवपुत्रास्ततोऽष्टानां देवपुत्रसहस्राणामनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पन्नानि ॥ ॥

ग्लानप्रतिसंमोदनापरिवर्तश्चतुर्थः ॥


५.१ अथायुष्मतः शारिपुत्रस्यैतदभवत्: कुत्रेमे बोधिसत्वा निषत्स्यन्ति, इमे च महाश्रावकाः । नेह गृह आसनानि संविद्यन्ते ।

अथ विमलकीर्तिर्लिच्छविरायुष्मतः शारिपुत्रस्य चेतोवितर्कमाज्ञायायुष्मन्तं शारिपुत्रमेतदवोचत्: किं भदन्तशारिपुत्रो धर्मार्थिक आगत उतासनार्थिकः ।

आह: धर्मार्थिका वयमागता नासनार्थिकाः ।

५.२ आह: तेन हि भदन्तशारिपुत्र यो धर्मर्थिको भवति, नासौ स्वकायार्थिको भवति । किं पुनरासनार्थिको भविष्यति । यो भदन्तशारिपुत्र धर्मार्थिको भवति, न स रूपवेदनासंज्ञासंस्कारविज्ञानार्थिको भवति, न स्कन्धधात्वायतनार्थिकः । यो धर्मार्थिकः, न स कामधातुरुपधात्वारूप्यधात्वर्थिको भवति, नासौ बुद्धाभिनिवेशार्थिको भवति, न धर्मसंघाभिनिवेशार्थिकः ।

५.३ पुनरपरं भदन्तशारिपुत्र यो धर्मार्थिकः, नासौ दुःखपरिज्ञानार्थिको न समुदयप्रहाणार्थिको न निरोधसाक्षात्क्रियार्थिको न मार्गभावनार्थिको भवति । तत्कस्माद्धेतोः । अप्रपञ्चो हि धर्मो निरक्षरः । तत्र यः प्रपञ्चयति ः दुःखं परिज्ञास्यामि समुदयं प्रहास्यामि निरोधं साक्षात्करिष्यामि मार्गं भावयिष्यामीति, नसौ धर्मार्थिकः, प्रपञ्चार्थिकोऽसौ । धर्मो हि भदन्तशारिपुत्र उपशान्तः । तत्र य उत्पादव्यये चरन्ति, न ते धर्मार्थिका न विवेकार्थिकाः, उत्पादव्ययार्थिकास्ते । धर्मो ह्यरजो रजोऽपगतः । तत्र ये क्वचिद्धर्मे रक्षन्तेऽन्तशो निर्वाणेऽपि, न ते धर्मार्थिकाः, रजोऽर्थिकास्ते । धर्मो ह्यविषयः । ये विषयसंख्याताः, न ते धर्मार्थिकाः, विषयार्थिकास्ते । धर्मो नायूहो निर्यूहः । ये केचिद्धर्मं गृह्णन्ति वा मुञ्चन्ति वा, न ते धर्मार्थिकाः, उद्ग्रहनिःसर्गार्थिकास्ते ।

५.४ धर्मोऽनालयः । य आलयारामाः, न ते धर्मार्थिकाः, आलयार्थिकास्ते । धर्मो निर्निमित्तः । येषां निमित्तानुसारिविज्ञानम्, न ते धर्मार्थिकाः, निमित्तार्थिकास्ते । धर्मोऽसंवासः । ये केचिद्धर्मेण सार्धं संवसन्ति, न ते धर्मार्थिकाः, संवासार्थिकास्ते । धर्मोऽदृष्टश्रुतमतविज्ञातः । ये दृष्टश्रुतमतविज्ञातेषु चरन्ति, न ते धर्मार्थिकाः, दृष्टश्रुतमतविज्ञातार्थिकास्ते ।

५.५ धर्मो भदन्तशारिपुत्र असंस्कृतः संस्कृतापगतः । ये संस्कृतगोचराः, न ते धर्मार्थिकाः, संस्कृतोद्ग्रहणार्थिकास्ते । तस्मादिह भदन्तशारिपुत्र धर्मार्थिकेन ते भवितुकामेन सर्वधर्मानर्थिकेन भवितव्यम् । इह धर्मनिर्देशे निर्दिश्यमाने पञ्चानां देवपुत्रशतानां धर्मेषु धर्मचक्षुर्विशुद्धम् ।

५.६ अथ विमलकीर्तिर्लिच्छविर्मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म: त्वं मञ्जुश्रीः दशसु दिक्ष्वसंख्येयेषु बुद्धक्षेत्रशतसहस्रेषु बुद्धक्षेत्रचारिकां चरसि । तत्कतरस्मिन् बुद्धक्षेत्रे त्वया सर्वविशिष्टानि सर्वगुणोपेतानि सिंहासनानि दृष्टानि । एवमुक्ते मञ्जुश्रीः कुमारभूतो विमलकीर्तिं लिच्छविमेतदवोचत्: अस्ति कुलपुत्र पूर्वे दिग्भागे षट्त्रिंशद्गङ्गानदीवालिकासमानि बुद्धक्षेत्राण्यतिक्रम्य मेरुध्वजा नाम लोकधातुः । तत्र मेरुप्रदीपराजो नाम तथागतोऽर्हन् सम्यक्संबुद्धस्तिष्ठति ध्रियते यापयति । तस्य तथागतस्य चतुरशीतियोजनशतसहस्र आत्मभावः । अष्टषष्टियोजनशतसहस्रं तस्य भगवतः सिंहासनम् । तेषां च बोधिसत्वानां चत्वारिंशद्योजनशतसहस्र आत्मभावः । चतुस्त्रिंशद्योजनशतसहास्रानि तेषां बोधिसत्वानां सिंहासनानि । मेरुध्वजायां लोकधातौ तस्य भगवतो मेरुप्रदीपराजस्य तथागतस्य बुद्धक्षेत्रे सर्वविशिष्टानि सर्वगुनोपेतानि सिंहासनानि ।

५.७ अथ विमलकीर्तिर्लिच्छविस्तस्यां वेलायां तथारूपं समन्वाहारं समन्वाहरति स्म । तादृशं चर्द्ध्यभिसंस्कारमभिसंस्कृतवान्, यत्ततो मेरुध्वजालोकधातोर्द्वात्रिंशत्सिंहासनशतसहस्राणि तेन भगवता मेरुप्रदीपराजेन तथागतेन प्रेषितानि । तावदुद्विद्धानि तावद्विस्तीर्णानि तावद्दर्शनीयानि यदपूर्वाणि तैर्बोधिसत्वैस्तैश्च महाश्रावकैस्तैश्च शक्रब्रह्मलोकपालैर्देवपुत्रैश्च । तान्युपर्यन्तरीक्षेणागत्य विमलकिर्तेर्लिच्छवेर्निवेशने प्रत्यतिष्ठन् । तच्च गृहं तावद्विस्तीर्णं संदृश्यते, यत्र तानि द्वात्रिंशत्सिंहासनशतसहस्राणि विचित्राण्यनुत्पीडनतया । न च वैशाल्या महानगर्या आवरणं कृतम्, न जम्बूद्वीपस्य, न चातुर्द्वीपिकस्यावरणम् । सर्वे ते तथैव संदृश्यन्ते यथा पूर्वं तथा पश्चात् ।

५.८ अथ विमलकीर्तिर्लिच्छविर्मञ्जुश्रियं कुमारभूतमेतदवोचत्: निषिद त्वं मञ्जुश्रीः सिंहासने सार्धमेतैर्बोधिसत्वैः । तादृशांश्चात्मभावानधितिष्ठत यत्सिंहासनेष्वनुरूपाः स्युः ।

अथ येऽभिज्ञाप्रतिलब्धा बोधिसत्वास्ते द्वाचत्वारिंशद्योजनशतसहस्रमात्मभावमधिष्ठाय तेषु सिंहासनेषु निसीदन्ति स्म । ये चादिकर्मिका बोधिसत्वास्ते न शक्नुवन्ति स्म तेषु सिंहासनेषु निषत्तुम् ।

अथ विमलकीर्तिर्लिच्छविरायुष्मन्तं शारिपुत्रमामन्त्रयते स्म: निषीद भदन्तशारिपुत्र सिंहासने ।

आह: न शक्नोमि सत्पुरुष निषत्तुमुच्चानि प्रगृहितानि चेमानि सिंहासनानि ।

आह: तेन हि भदन्तशारिपुत्र तस्यैव भगवतो मेरुप्रदीपराजस्य तथागतस्य नमस्कारं कुरु । ततः शक्ष्यसि निषत्तुम् ।

अथ ते महाश्रावकास्तस्य भगवतो मेरुप्रदीपराजस्य तथागतस्य नमस्कारं कुर्वन्ति स्म । ते तत्र पश्चात्तेषु सिंहासनेषु न्यषीदन् ।

५.९ अथायुष्माञ्शारिपुत्रो विमलकिर्तिं लिच्छविमेवमाह: आश्चर्यं कुलपुत्र यदिहैवं परीत्ते गृह इमानीयन्ति सिंहासनसहस्राण्येवमुच्चान्येवं प्रगृहीतानि विचित्राणि । न च वैशाल्या महानगर्या आवरणं कृतम्, न जम्बूद्वीपस्य, न ग्रामनगरनिगमजनपदराष्ट्रराजधानीनाम्, न चातुर्महाद्वीपिकस्य किंचिदावरणम्, न देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाणामावरणं कृतम् । तथैव संदृश्यन्ते यथा पूर्वं तथा पश्चात् ।

५.१० विमलकीर्तिराह: अस्ति भदन्तशारिपुत्र तथागतानां बोधिसत्वानां चाचिन्त्यो नाम विमोक्षः, यत्राचिन्त्यविमोक्षे प्रतिष्ठितो बोधिसत्वः सुमेरुं पर्वतराजं तावदुच्चं तावत्प्रगृहीतं तावदुद्विद्धं तावद्विस्तीर्णं सर्षपफलकोशे प्रवेशयेत् । न च सर्षपफलकोशं विवर्धयेत् । न च सुमेरुं हापयेत् । तां च क्रियामादर्शयेत् । न चातुर्महाराजकायिका देवास्त्रयस्त्रिंशतो वा जानीरन् ः कस्मिन् वयं प्रक्षिप्ताः । अन्ये च सत्वा ऋद्धिविनेया जानीयुः पश्येयुस्तं सुमेरुं पर्वतराजं सर्शपफलकोशप्रविष्टम् । अयं भदन्तशारिपुत्र बोधिसत्वानामचिन्त्यस्य विमोक्षस्य विषयप्रवेशः ।

५.११ पुनरपरं भदन्तशारिपुत्र अचिन्त्यविमोक्षप्रतिष्ठितो बोधिसत्वो यश्चतुर्षु महासमुद्रेष्वप्स्कन्धस्तमेकस्मिन् रोमकूपे प्रक्षिपेत् । न च मत्स्यकच्छपशिशुमारमण्डूकानामन्येषां वौदकानां प्राणिनां पीडा भवेत् । न च नागयक्षगन्धर्वासुराणामेवं भवेत्ः कस्मिन् वयं प्रक्षिप्ताः । सा च क्रिया प्रज्ञायेत । न च कश्चित्सत्वो विहिंसितो विहेठितो वा भवेत् ।

५.१२ इमं च त्रिसाहस्रमहासाहस्रं लोकधातुं भार्गवचक्रमिव परिगृह्य दक्षिणे पाणाववभ्राम्य गङ्गानदीवालिकासमान् लोकधातून् क्षिपेत् । न च सत्वा जानीरन् ः कस्मिन् वयं नीताः, कुतो वागता इति । पुनरपि चानाय्य यथास्थानं स्थापयेत् । न च गमनागमनं संजानीरन् । सा च क्रिया संदृश्येत ।

५.१३ पुनरपरं भदन्तशारिपुत्र सन्ति सत्वा अप्रमाणसंसारवैनयिकाः । सन्ति संक्षिप्तसंसारवैनयिकाः । तत्राचिन्त्यविमोक्षप्रतिष्ठितो बोधिसत्वोऽप्रमाणसंसारवैनयिकानां सत्वानां वैनयिकवशमुपादाय सप्तरात्रं कल्पमतिक्रान्तमादर्शयेत् । संक्षिप्तसंसारवैनयिकानां सत्वानां वैनयिकवशमुपादाय कल्पं सप्तरात्रमतिक्रान्तमादर्शयेत् । तत्राप्रमाणसंसारविनेयाः सत्वाः सप्तरात्रं कल्पमतिक्रान्तं संजानीरनि संक्षिप्तसंसारविनेयाः सत्वाः कल्पं सप्तरात्रमतिक्रान्तं संजानीरन् ।

५.१४ इति ह्यचिन्त्यविमोक्षप्रतिष्ठितो बोधिसत्वः सर्वबुद्धक्षेत्रगुणव्यूहानेकस्मिन् बुद्धक्षेत्रे संदर्शयति । सर्वसत्वानपि दक्षिणे करतले प्रतिष्ठाप्य चित्तजायिकयर्द्ध्या क्रमेत् । सर्वबुद्धक्षेत्रेषु च संदर्शनं दद्यात् । न चैकतोऽपि क्षेत्राच्चलेत् । यावत्यश्च दशसु दिक्षु बुद्धानां भगवतां पूजा वर्तन्ते, ताः सर्वा एकरोमकूप आदर्शयेत् । यावन्तश्च दशसु दिक्षु चन्द्रसूर्यास्तारारूपानि च, तान्यपि सर्वाण्येकरोमकूप आदर्शयेत् । यावत्यश्च दशसु दिक्षु वातमण्डल्यः प्रवान्ति, ता अपि सर्वा मुखद्वारे प्रवेशयेत् । न चास्य कायो विकीर्येत । न च तत्र बुद्धक्षेत्रे तृणवनस्पतयो नमेयुः ।

५.१५ यानि च दशसु दिक्षु बुद्धक्षेत्राण्युद्दह्यन्ते कल्पोद्दाहेन, तदपि सर्वमग्निस्कन्धं स्वमुखे प्रक्षिपेत् । यच्च तेन कर्म कर्तव्यं भवेत्, तच्च कुर्यात् । यच्चावस्ताद्गङ्गानदीवालिकाकोटीसमेषु बुद्धक्षेत्रेष्वतिक्रम्य बुद्धक्षेत्रम्, तदभ्युत्क्षिप्योर्धं दिग्भागं गङ्गानदीवालिकाकोटीसमेषु बुद्धक्षेत्रेषु प्रतिष्ठापयेत् । तद्यथापि नाम बलवान् पुरुषः सूच्यग्रेण बदरीपत्रमुत्क्षिपेत् ।

५.१६ एवमच्ंत्यविमोक्षप्रतिष्ठितो बोधिसत्वः सर्वसत्वानि चक्रवर्त्यादिरूपाण्यधितिष्ठेत् ।

५.१७ यावन्तश्च दशसु दिक्षु शब्दावभासाः शब्दप्रज्ञाप्तयः, ताः सर्वा हीनमध्यविशिष्टानां सत्वानां सर्वबुद्धघोषरुतरचितान्यधितिष्ठन्, ततश्च रुतघोषादनित्यदुःखशून्यानात्मशब्दरुतानि निश्चारयेत् । यावद्भिश्चाकारनिर्देशैर्दशसु दिक्षु बुद्धा भगवन्तो धर्मं देशयन्ति, तांस्ततो रुतनिर्घोषान्निश्चारयेत् ।

५.१८ अयं भदन्तशारिपुत्र अचिन्त्यविमोक्षप्रतिष्ठितानां बोधिसत्वानां यत्किंचिन्मात्रो विषयावतारनिर्देशः । अपि तु कल्पमहं भदन्तशारिपुत्र कल्पावशेसं वाचिन्त्यविमोक्षप्रतिष्ठितानां बोधिसत्वानां विषयानां विषयावतारनिर्देशं निर्दिशेयम्, अतो वोत्तरि ।

५.१९ अथ खलु स्थविरो महाकाश्यप इमं बोधिसत्वानामचिन्त्यविमोक्षं श्रुत्वाश्चर्यप्राप्तः स्थविरं शारिपुत्रमेतदवोचत्: तद्यथापि नाम आयुष्मञ्शारिपुत्र जात्यन्धस्य पुरुषस्य पुरस्तात्कश्चिदेव सर्वरूपगतान्युपदर्शयेत् । न च तत्र स जात्यन्ध एकरूपमपि पश्येत् । एवमेव आयुष्मञ्शारिपुत्र इहाचिन्त्यविमोक्षे निर्दिश्यमाने सर्वश्रावकप्रत्येकबुद्धा इह जात्यन्धा इव चक्षुर्विहीना एकस्मिन्नप्यचिन्त्यकारणे न प्रत्यक्षाः । को नाम विद्वानिममचिन्त्यं विमोक्षं श्रुत्वानुत्तरायां सम्यक्संबोधौ चित्तं नोत्पादयेत् । तत्किं नु भूयः करिष्यामोऽत्यन्तोपहतेन्द्रिया दग्धविनष्टानीव बीजान्यभाजनीभूता इह महायाने । सर्वश्रावकप्रत्येकबुद्धैरिमं धर्मनिर्देशं श्रुत्वा रुदद्भिस्त्रिसाहस्रमहासाहस्रो लोकधातुर्विज्ञापयितव्यः । सर्वबोधिसत्वैश्च प्रमुदितैरिममचिन्त्यविमोक्षं श्रुत्वा मूर्ध्ना संप्रत्येतव्यः, अधिमुक्तिबलं च संजनयितव्यम् । यस्यैषाचिन्त्यविमोक्षाधिमुक्तिः सर्वमारास्तस्य किं करिष्यन्ति । इमं निर्देशं निर्दिशतः स्थविरस्य महाकाश्यपस्य द्वात्रिंशता देवपुत्रसहस्रैरनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पन्नानि ।

५.२० अथ विमलकीर्तिर्लिच्छविः स्थविरं महाकाश्यपमेवमाह: यावन्तो भदन्तमहाकाश्यप दशसु दिक्ष्वप्रमेयेषु लोकधातुषु मारा मारत्वं कारयन्ति, सर्वे ते यद्भूयसाचिन्त्यविमोक्षप्रतिष्ठिता बोधिसत्वा उपायकौशल्येन सत्वपरिपाचनाय मारत्वं कारयन्ति । यावद्भिर्भदन्तमहाकाश्यप दशसु दिक्ष्वप्रमेयेषु लोकधातुषु बोधिसत्वा याचनकैर्याच्यन्ते हस्तपादान् वा कर्णनासं वा शोणितं स्नायुं वास्थिमज्जानं वा नेत्राणि वोत्तमाङ्गानि शिरांसि वाङ्गप्रत्यङ्गानि वा राज्यराष्ट्रजनपदान् वा भार्यापुत्रदुहितॄर्वा दासदासीर्वा हयगजरथवाहनानि वा सुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवाडमणिरत्नजातं वान्नपानानि रसान् वा, वस्त्राणि चोत्पीड्य याच्यन्ते, सर्वे ते याचनका यद्भूयसाचिन्त्यविमोक्षप्रतिष्ठिता बोधिसत्वा उपायकौशल्येनेमां दृढाध्याशयतां दर्शयन्ति । तत्कस्माद्धेतोः । उग्रतपसो हि भदन्तमहाकाश्यप बोधिसत्वास्त एवं दर्शयन्ति । नास्ति हि प्राकृतजनस्यास्थानानवकाशकृतस्य बोधिसत्वमुत्पीडयितुम् ।

तद्यथापि नाम भदन्तमहाकाश्यप न शक्तिरस्ति खद्योतकस्य सूर्यमण्डलप्रभामभिभवितुम् । एवमेव भदन्तमहाकाश्यप न शक्तिरस्ति प्राकृतस्य जनस्य बोधिसत्वेनानवकाशकृतस्योपसंक्रमितुं याचितुं वा । तद्यथा भदन्तमहाकाश्यप यो हस्तिनागस्य प्रहारो न स शक्यो गर्दभेन सोढुम् । एवमेव भदन्तमहाकाश्यप न शक्यमबोधिसत्वेन बोधिसत्वस्योत्पीडनं सोढुम् । बोधिसत्व एव बोधिसत्वोत्पीडां सहते । अयं भदन्तमहाकाश्यप अचिन्त्यविमोक्षप्रतिष्ठितानां बोधिसत्वानामुपायज्ञानबलप्रवेशः ॥ ॥

अचिन्त्यविमोक्षसंदर्शनपरिवर्तः पञ्चमः ॥


६.१ अथ खलु मञ्जुश्रीः कुमारभूतो विमलकीर्तिं लिच्छविमेतदवोचत्: कथं सत्पुरुष बोधिसत्वेन सर्वसत्वा अवेक्षितव्याः ।

आह: तद्यथापि नाम मञ्जुश्रीः विज्ञपुरुष उदकचन्द्रमवेक्षेत, एवं बोधिसत्वेन सर्वसत्वा अवेक्षितव्याः । तद्यथापि नाम मञ्जुश्रीः आदर्शमण्डले मुखमण्डलमालोकयेत्, एवं बोधिसत्वेन सर्वसत्वा अवेक्षितव्याः । तद्यथा मञ्जुश्रीः मरीचिकायामुदकम्, एवं बोधिसत्वेन सर्वसत्वा अवेक्षितव्याः । तद्यथा मञ्जुश्रीः मायाकारो मायाकारनिर्मितं पुरुषमवेक्षेत, एवं बोधिसत्वेन सर्वसत्वा अवेक्षितव्याः । तद्यथा मञ्जुश्रीः प्रतिश्रुत्काया रुतघोषः, एवं बोधिसत्वेन सर्वसत्वा अवेक्षितव्याः । तद्यथा मञ्जुश्रीः गगनेऽभ्रकूटम्, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः । तद्यथा मञ्जुश्रीः फेनपिण्डस्य पूर्वान्तः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः । तद्यथा मञ्जुश्रिः उदकबुद्बुदानामुत्पादव्ययः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः । तद्यथा मञ्जुश्रीः कदल्याः सारदर्शनम्, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः । तद्यथा मञ्जुश्रीः विद्युतः संक्रान्तिः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः । तद्यथा मञ्जुश्रीः पञ्चमो धातुः । एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः । तद्यथा मञ्जुश्रीः सप्तममायतनम्, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः । तद्यथा मञ्जुश्रीः आरूप्येषु रूपावभासः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः । तद्यथा मञ्जुश्रीः परितप्तानां बीजानामङ्कुरपरिनिष्पत्तिः,
एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः । तद्यथा मञ्जुश्रीः मण्डूकरोमप्रवारः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः । तद्यथा मञ्जुश्रीः मृतस्य कामक्रीडारतिः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः । तद्यथा मञ्जुश्रीः स्रोतआपन्नस्य सत्कायदृष्टिः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः । तद्यथा मञ्जुश्रिः सकृदागामिनस्तृतीयो भवः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः । तद्यथा मञ्जुश्रीः अनागामिनो गर्भावक्रान्तिः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः । तद्यथा मञ्जुश्रिः अर्हतः रागदोषमोहाः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः । तद्यथा मञ्जुश्रीः क्षान्तिप्रतिलब्धस्य बोधिसत्वस्य मात्सर्यदौःशील्यव्यापादविहिंसाचित्तानि, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः । तद्यथा मञ्जुश्रीः तथागतस्य क्लेशवासना, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः । तद्यथा मञ्जुश्रीः जात्यन्धस्य पुरुषस्य रूपदर्शनम्, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः । तद्यथा मञ्जुश्रीः निरोधसमापन्नस्याश्वासाः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः । तद्यथा मञ्जुश्रीः आकाशे शकुनिपदम्, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः । तद्यथा मञ्जुश्रीः पण्डकस्येन्द्रियस्य प्रादुर्भावः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः । तद्यथा मञ्जुश्रीः बन्ध्यायाः
पुत्रप्रतिलम्भः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः । तद्यथा मञ्जुश्रीः तथागतनिर्मितस्यानुत्पन्नाः क्लेशाः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः । तद्यथा मञ्जुश्रीः स्वप्नदर्शनप्रतिबुद्धस्य दर्शनम्, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः । तद्यथा मञ्जुश्रिः अपरिकल्पयतः क्लेशाः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः । तद्यथा मञ्जुश्रीः अनुपादानस्याग्नेः संभवः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः । तद्यथा मञ्जुश्रीः परिनिर्वृतस्य प्रतिसंधिः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः । एवं हि मञ्जुश्रीर्बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः ।

६.२ आह: यदि कुलपुत्रैवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः, कथं पुनरस्य महामैत्री भवति सर्वसत्वेषु ।

आह: यदा मञ्जुश्रीः बोधिसत्व एवं प्रत्यवेक्षते, मया ह्येषां सत्वानामेवं धर्मपरिज्ञायै धर्मो देशयितव्य इति, अतोऽस्य भूता सत्वत्राणमैत्री सर्वसत्वेषूत्पद्यतेऽनारम्बणतया, उपशममैत्र्यनुत्पादनतया, निष्परिदाहमैत्री निःक्लेशतया, यथावद्मैत्री त्र्यध्वसमतया, अविरोधमैत्र्यपर्युपस्थानतया, अद्वयमैत्र्यध्यात्मबहिर्धासंसृष्टतया, अकोप्यमैत्र्यत्यन्तनिष्ठतया, दृढमैत्री वज्रदृढाभेद्याशयतया, शुद्धमैत्री प्रकृतिशुद्धतया, सममैत्र्याकाशसमतया, अर्हन्मैत्र्यरिनिर्घातनतया, बोधिसत्वमैत्री सत्वपरिपाकास्रंसनतया, तथागतमैत्री तथतानुबोधनतया, बुद्धमैत्री सुप्तसत्वप्रबोधनतया, स्वयम्भुमैत्री स्वयमभिसंबोधनतया बोधिमैत्रि समरसतया, असमारोपमैत्र्यनुनयप्रतिघप्रहाणतया, महाकरुणामैत्री महायानपरिदीपनतया, अपरिखेदमैत्री शून्यनैरात्म्यप्रत्यवेक्षणतया, धर्मदानमैत्र्यनाचार्यमुष्टितया, शीलमैत्री दुःशीलसत्वावेक्षणतया, क्षान्तिमैत्र्यात्मपराक्षण्यनतया, वीर्यमैत्री सर्वसत्वभारवहनतया, ध्यानमैत्र्यनास्वादनतया, प्रज्ञामैत्री कालसंप्रापणतया, उपायमैत्री सर्वत्रमुखोद्दर्शनतया, अकुहनमैत्र्याशयपरिशुद्धितया, अशाठ्यमैत्र्याशयतया, अध्याशयमैत्री निरङ्गणतया, अमायामैत्र्यकृत्रिमतया, सौख्यमैत्री बुद्धसौख्यप्रतिष्ठापनतया । इयं मञ्जुश्रीः बोधिसत्वस्य महामैत्री ।

६.३ आह: कतरा पुनरस्य महाकरुणा ।

आह: यत्कृतं कृतं कुशलमूलं सर्वसत्वेभ्य उत्सृजति ।

आह: कतरा पुनरस्य महामुदिता ।

आह: यद्दत्वात्तमना भवति, न विप्रतिसारी ।

आह: कतरा पुनरस्य महोपेक्षा ।

आह: योभयतोऽर्थता ।

६.४ आह: संसारभयभीतेन किं प्रतिपत्तव्यम् ।

आह: संसारभयभीतेन मञ्जुश्रिः बोधिसत्वेन बुद्धमाहात्म्यं प्रतिपत्तव्यम् ।

आह: बुद्धमाहात्म्ये स्थातुकामेन कुत्र स्थातव्यम् ।

आह: बुद्धमाहात्म्ये स्थातुकामेन सर्वसत्वसमतायां स्थातव्यम् ।

आह: सर्वसत्वसमतायां स्थातुकामेन कुत्र स्थातव्यम् ।

आह: सर्वसत्वसमतायां स्थातुकामेन सर्वसत्वप्रमोक्षाय स्थातव्यम् ।

६.५ आह: सर्वसत्वप्रमोक्षं कर्तुकामेन किं कर्तव्यम् ।

आह: सर्वसत्वप्रमोक्षं कर्तुकामेन क्लेशप्रमोक्षः कर्तव्यः ।

आह: क्लेशानुत्स्रष्टुकामेन कथं प्रयुक्तेन भवितव्यम् ।

आह: क्लेशानुत्स्रष्टुकामेन योनिशः प्रयुक्तेन भवितव्यम् ।

आह: कथं प्रयुक्तः पुनर्योनिशः प्रयुक्तो भवति ।

आह: अनुत्पादानिरोधप्रयुक्तो योनिशः प्रयुक्तो भवति ।

आह: किं नोत्पादयति, किं न निरोधयति ।

आह: अकुशलं नोत्पादयति, कुशलं न निरोधयति ।

आह: कुशलस्याकुशलस्य च किं मूलम् ।

आह: सत्कायो मूलम् ।

आह: सत्कायस्य च पुनः किं मूलम् ।

आह: सत्कायस्येच्छालोभौ मूलम् ।

आह: इच्छालोभयोः किं मूलम् ।

आह: इच्छालोभयोरभूतपरिकल्पो मूलम् ।

६.६ आह: अभूतपरिकल्पस्य किं मूलम् ।

आह: अभूतपरिकल्पस्य विपर्यस्ता संज्ञा मूलम् ।

आह: विपर्यस्तायाः संज्ञायाः किं मूलम् ।

आह: विपर्यस्तायाः संज्ञाया अप्रतिष्ठा मूलम् ।

आह: अप्रतिष्ठायाः किं मूलम् ।

आह: यन्मञ्जुश्रीः अप्रतिष्ठानं तस्य किं मूलं भविष्यति । इति ह्यप्रतिष्ठानमूलप्रतिष्ठिताः सर्वधर्माः ।

६.७ अथ या तत्र गृहे देवता प्रतिवसति, सा तेषां बोधिसत्वानां महासत्वानामिमं धर्मनिर्देशं श्रुत्वा तुष्टोदग्रात्तमना, औदारिकमात्मभावं संदर्श्य दिव्यैः पुष्पैस्तान्महासत्वांस्तांश्च महाश्रावकानभ्यवकिरति स्म । अभ्यवकीर्णानां च तत्र यानि बोधिसत्वानां काये पुष्पाणि पतितानि, तानि धरणितले प्रतिष्ठितानि । यानि पुनर्महाश्रावकाणां काये पुष्पाणि पतितानि, तानि तत्रैव स्थितानि न भूमौ पतितानि । ततस्ते महाश्रावका ऋद्धिप्रातिहार्यैः तानि पुष्पाण्युत्सृजन्ति, न च पतन्ति ।

६.८ अथ सा देवतायुष्मन्तं शारिपुत्रमेवमाह: किं भदन्तशारिपुत्र, एतानि पुष्पाण्युत्सृजसि ।

आह: अकल्पिकानि देवते एतानि पुष्पाणि । तस्मादहमेतानि पुष्पाण्यपनयामि ।

देवताह: मा भदन्तशारिपुत्र एवं वोचः । तत्कस्माद्धेतोः । एतानि हि पुष्पाणि कल्पिकानि । किं कारणम् । तथा ह्येतानि पुष्पाणि न कल्पयन्ति न विकल्पयन्ति । स्थविरः पुनः शारिपुत्रः कल्पयति विकल्पयति च । ये भदन्तशारिपुत्र स्वाख्याते धर्मविनये प्रव्रज्यां कल्पयन्ति विकल्पयन्ति च, तेऽकल्पिकाः । स्थविरस्तु कल्पयति विकल्पयति च । ये पुनर्न कल्पयन्ति न विकल्पयन्ति, ते कल्पिकाः । पश्य भदन्तशारिपुत्र एषां महासत्वानां काये पुष्पाणि न श्लिष्यन्ति । यथापि नाम सर्वकल्पविकल्पप्रहीणत्वात् । तद्यथापि नाम भीरुकजातीयस्य पुरुषस्यामनुष्या अवतारमिअभन्ते । एवमेव संसारभयभीतानां रूपशब्दगन्धरसस्प्रष्टव्यान्यवतारं लभन्ते । ये पुनः सर्वसंसारक्लेशभयविगताः, किं तेषां रूपशब्दगन्धरसस्प्रष्टव्यानि करिष्यन्ति । येषां वासनाप्रहीणा, तेषां काये पुष्पाणि श्लिष्यन्ति । तस्मात्सर्ववासनाप्रहीणानां काये पुष्पाणि न श्लिष्यन्ति ।

६.९ अथ खल्वायुष्माञ्शारिपुत्रस्तां देवतामेतदवोचत्: कियच्चिरनिविष्टा पुनस्त्वं देवते इह गृहे ।

आह: यावच्चिरनिविष्टा स्थविरस्यार्या विमुक्तिः ।

आह: न चिरस्थिता त्वं देवते इह गृहे ।

आह: कियच्चिरनिविष्टा पुनः स्थविरस्यार्या विमुक्तिः ।

ततः स्थविरस्तूष्णीमभूत् ।

आह: किमिदानीं महाप्रज्ञानामग्र्यः स्थविरस्तूष्णीमभूत् । प्राप्तकालं प्रश्नं न विसर्जयति ।

आह: अप्रव्याहारा हि देवते विमुक्तिः । तन्न जाने किं व्याहरामीति ।

आह: यद्यदेव स्थविरोऽक्षरमुदाहरति, सर्वाण्येतान्यक्षराणि विमुक्तिलक्षणानि । तत्कस्माद्धेतोः । या हि सा विमुक्तिः, सा नाध्यात्मं न बहिर्नोभयमन्तरेणोपलभ्यते । एवमक्षराण्यपि । तस्मात्तर्हि भदन्तशारिपुत्र मा अक्षरापनयेन विमुक्तिं निर्दिश । तत्कस्माद्धेतोः । सर्वधर्मसमता हि विमुक्तिः ।

आह: ननु देवते रागदोषमोहविगमाद्विमुक्तिः ।

देवताह: अभिमानिकानामेष निर्देषो रागदोषमोहविगमाद्विमुक्तिरिति । ये निरभिमानिकाः, तेषां रागदोषमोहप्रकृतिरेव विमुक्तिः ।

६.१० अथ खल्वायुष्माञ्शारिपुत्रस्तां देवतामेतदवोचत्: साधु साधु देवते किं त्वया प्राप्तं किं वा साक्षात्कृतम्, यस्यास्त ईदृशं प्रतिभानम् ।

आह: न मया भदन्तशारिपुत्र किंचित्प्राप्तं साक्षात्कृतं वा । तेन म ईदृशं प्रतिभानम् । येषामेवं भवत्यस्माभिः प्राप्तं वा साक्षात्कृतं चेति, ते स्वाख्याते धर्मविनय आभिमानिका इत्युच्यन्ते ।

६.११ आह: किं त्वं देवते श्रावकयानिका प्रत्येकबुद्धयानिका महायानिका वा ।

आह: श्रावकायानिकास्मि श्रावकयानसूचनतया, प्रत्येकबुद्धयानिकास्मि प्रतीत्यधर्मावतारेण, महायानिकास्मि महाकरुणानुत्सृजनतया ।

६.१२ अपि तु खलु पुनर्भदन्तशारिपुत्र न चम्पकवनं प्रविष्टा एरण्डगन्धं जिघ्रन्ति । चम्पकवनं तु प्रविष्टाश्चम्पकगन्धमेव जिघ्रन्ति । एवमेव भदन्तशारिपुत्र नेह गृहे बुद्धधर्मगुणगन्धिके वसन्तः श्रावकप्रत्येकबुद्धगन्धैः जिघ्रन्ति । येऽपि भदन्तशारिपुत्र शक्रब्रह्मलोकपाला देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगा इदं गृहं प्रविशन्ति, तेऽप्यस्य सत्पुरुषस्य धर्मश्रवणेन बुद्धधर्मगुणगन्धेनोत्पादितबोधिचित्ता निष्क्रामन्ति । द्वादशवर्षाण्युपादाय भदन्तशारिपुत्र प्रतिवसन्त्या मे न जातु श्रावकप्रत्येकबुद्धसंप्रयुक्ता कथा श्रुतपूर्वा, नान्यत्र महामैत्रीमहाकरुणाप्रतिसंयुक्तैवाचिन्त्यधर्मप्रतिसंयुक्तैव ।

६.१३ इह भदन्तशारिपुत्र गृहेऽष्टावाश्चर्याद्भुता धर्माः सततसमितं संदृश्यन्ते । कतमेऽष्टौ ।

नेह रात्रिर्वा दिवसो वा प्रज्ञायते सदावभासितमिदं गृहं सुवर्णवर्णया प्रभया । नेह सूर्याचन्द्रमसौ प्रज्ञायेते, न भ्राजेते । अयं प्रथम आश्चर्याद्भुतो धर्मः ।

पुनरपरं भदन्तशारिपुत्र ये प्रविशन्तीदं गृहम्, तेषां समनन्तरप्रविष्टानां सर्वक्लेशा न बाधन्ते । अयं द्वितीय आश्चर्याद्भुतो धर्मः ।

पुनरपरं भदन्तशारिपुत्र इदं गृहमविरहितं शक्रब्रह्मलोकपालैरन्यबुद्धक्षेत्रसंनिपतितैश्च बोधिसत्वैः । अयं तृतीय आश्चर्याद्भुतो धर्मः ।

पुनरपरं भदन्तशारिपुत्र इदं गृहं सततसमितमविरहितं धर्मश्रवणेन षट्पारमिताप्रतिसंयुक्तया कथयाविवर्त्यधर्मकथया च । अयं चतुर्थ आश्चर्याद्भुतो धर्मः ।

पुनरपरं भदन्तशारिपुत्र इह गृहे यास्तूर्यसंगीतयो दिव्यमानुष्यकाणि वा वाद्यानि वाद्यन्ते, तेभ्यस्तूर्येभ्योऽप्रमाणो धर्मशब्दनिर्हारो निश्चरति सार्वकालिकः । अयं पञ्चम आश्चर्याद्भुतो धर्मः ।

पुनरपरं भदन्तशारिपुत्र इह गृहे चत्वारि महानिधानानि सर्वरत्नपरिपूर्णान्यक्षयाणि यतो निष्यन्दं सर्वदरिद्रकृपणा आदाय प्रक्रामन्ति, न च क्षीयन्ते । अयं षष्ठ आश्चर्याद्भुतो धर्मः ।

पुनरपरं भदन्तशारिपुत्र इह गृहे शाक्यमुनिस्तथागतोऽमिताभोऽक्षोभ्यो रत्नश्री रत्नार्ची रत्नचन्द्रो रत्नव्यूहो दुःप्रसहः सर्वार्थसिद्धः प्रभूतरत्नः सिंहनादनादी सिंहघोषस्तथागत एवं प्रमुखा दशसु दिक्ष्वप्रमाणास्तथागता येऽस्य सत्पुरुषस्य चिन्तितमात्रेणागच्छन्ति । आगत्य च तथागतगुह्यं नाम धर्ममुखप्रवेशं देशयित्वा प्रक्रामन्ति । अयं सप्तम आश्चर्याद्भुतो धर्मः ।

पुनरपरं भदन्तशारिपुत्र इह गृहे सर्वदेवभवनव्यूहाः सर्वबुद्धक्षेत्रगुणव्यूहाश्च संदृश्यन्ते । अयमष्टम आश्चर्याद्भुतो धर्मः ।

इमे भदन्तशारिपुत्र अष्टावाश्चर्याद्भुता धर्माः सततसमितमिह गृहे संदृश्यन्ते । तत्कस्माद्धेतोः । क इमामचिन्त्यधर्मतां पश्यञ्श्रावकधर्मतायै स्पृहयेत् ।

६.१४ आह: किं त्वं देवते स्त्रीभावं न निवर्तयसि ।

आह: परिपूर्णानि मे द्वादशवर्षाण्युपादाय स्त्रीभावं पर्येषमाणाया न चैनं लभे । अपि च भदन्तशारिपुत्र या मायाकारेण स्त्रीनिर्मिता यस्तामेवं वदेत्: किं त्वं स्त्रीभावं न निवर्तयसीति, स किं वदेत् ।

आह: न तस्याः काचित्भूता परिनिष्पत्तिः ।

आह: एवमेव भदन्तशारिपुत्र अपरिनिष्पन्नेषु सर्वधर्मेषु मायानिर्मितस्वभावेषु कुतस्तवैवं भवति: किं त्वं स्त्रीभावं न निवर्तयसीति ।

६.१५ अथ सा देवता तादृशमधिष्ठानमधितिष्ठति स्म । यथा स्थविरः शारिपुत्रो यादृशी सा देवता तादृशः संदृश्यते, सा देवता यादृशः स्थविरस्तादृशी संदृश्यते । अथ सा देवता शारिपुत्ररूपा शारिपुत्रं देवतारूपधारिणमपृच्छत्: किं भदन्तशारिपुत्र स्त्रीभावं न निवर्तयसि ।

शारिपुत्रो देवतारूप्याह: न जाने किं विनिवर्तयामीति । पुरुषरूपमन्तर्हितं स्त्रीरूपं मे निर्वृत्तम् ।

आह: यदि स्थविरः शक्ष्यति स्त्रीभावं विनिवर्तयितुम्, ततः सर्वाः स्त्रियोऽपि स्त्रीभावं विनिवर्तयिष्यन्ति । यथा स्थविरो न स्त्री स्त्रीव संदृश्यते, एवं सर्वस्त्रीणामपि स्त्रीरूपं न च स्त्रियः स्त्रीरूपाश्च संदृश्यन्ते । इदं संधाय भगवानाह: ःसर्वधर्मा न स्त्री न पुरुषः इति ।

अथ सा देवता तदधिष्ठानमवासृजत् । अथायुष्माञ्शारिपुत्रः पुनरेव स्वरूपसमन्वागतो बभूव । अथ सा देवतायुष्मन्तं शारिपुत्रमेवमाह: क्व नु ते भदन्तशारिपुत्र स्त्रीरूपं कृतं गतम् ।

आह: न तत्कृतं न विकृतम् ।

आह: एवमेव सर्वधर्मा न कृता न विकृताः । यत्र च न कृतिर्न विकृतिस्तद्बुद्धवचनम् ।

६.१६ आह: इतस्त्वं देवते च्युता कुत्रोपपत्स्यसे ।

आह: यत्रैव तथागतनिर्मित उपपत्स्यते, तत्रैवाहमुपपत्स्ये ।

आह: तथागतनिर्मितस्य न च्युतिर्नोपपत्तिः ।

आह: एवमेव सर्वधर्माणां न च्युतिर्नोपपत्तिः ।

आह: कियच्चिरेण पुनर्देवते बोधिमभिसंभोत्स्यसे ।

आह: यदा स्थविरः पृथग्जनधर्मसमन्वागतो भविष्यति, तदाहं बोधिमभिसंभोत्स्ये ।

आह: अस्थानमेतद्देवते यदहं पृथग्जनधर्मसमन्वागतः स्याम् ।

आह: एवमेव भदन्तशारिपुत्र अस्थानमेतद्यदहं बोधिमभिसंभोत्स्ये । तत्कस्माद्धेतोः । अस्थानस्थितैव हि बोधिः । तस्मादस्थानं न कश्चिदभिसंभोत्स्यते ।

स्थविर आह: उक्तं देवते तथागतेन ःगङ्गानदीवालिकासमास्तथागता अभिसंबुद्धा अभिसंबुध्यन्तेऽभिसंभोत्स्यन्ते चः ।

देवताह: अक्षरगणनासंकेताधिवचनमेतद्भदन्तशारिपुत्र अतीतानागतप्रत्युत्पन्ना बुद्धा इति । न पुनर्बुद्धा अतीता वानागता वा वर्तमाना वा । त्र्यध्वसमतिक्रान्ता हि बोधिः । अपि च प्राप्तं स्थविरेणार्हत्वम् ।

आह: प्राप्तमसंप्राप्तिकारणेन ।

आह: एवमेवाभिसंबोधिरनभिसंबोधिकारणेन ।

६.१७ अथ विमलकीर्तिर्लिच्छविरायुष्मन्तं शारिपुत्रमेवमाह: द्वानवतिबुद्धकोटीपर्युपासिता भदन्तशारिपुत्र एषा देवताभिज्ञाज्ञानविक्रीडिता प्रणिधानसमुच्छ्रिता क्षान्तिप्रतिलब्धावैवर्तिकसमवसरणा प्रणिधानवशेन यथेच्छति तथा तिष्ठति सत्वपरिपाकाय ॥ ॥

देवतापरिवर्तः षष्ठः ॥


७.१ अथ खलु मञ्जुश्रीः कुमारभूतो विमलकीर्तिं लिच्छविमेवमाह: कथं कुलपुत्र बोधिसत्वो गतिंगतो भवति बुद्धधर्मेषु ।

आह: यदा मञ्जुश्रीः बोधिसत्वोऽगतिगमनं गच्छति, तदा बोधिसत्वो गतिंगतो भवति बुद्धधर्मेषु ।

आह: कतमच्च बोधिसत्वस्यागतिगमनम् ।

आह: यदा पञ्चानन्तर्यगतिं च गच्छति, न च व्यापादविहिंसाप्रदुष्टो भवति । निरयगतिं च गच्छति, सर्वरजःक्लेशविगतश्च भवति । तिर्यग्योनिगतिं च गच्छति, विगततमोऽन्धकारश्च भवति । असुरगतिं च गच्छति, मानमददर्पविगतश्च भवति । यमलोकगतिं च गच्छति, सर्वपुण्यज्ञानसंभारोपात्तश्च भवति । अनेञ्ज्यरूपगतिं च गच्छति, न च तद्गतिसमवसरणो भवति । रागगतिं च गच्छति, विगतरागश्च भवति सर्वकामभोगेषु । दोषगतिं च गच्छति, अप्रतिहतश्च भवति सर्वसत्वेषु । मोहगतिं च गच्छति, प्रज्ञानिध्यप्तिचित्तश्च भवति सर्वधर्मेषु । मात्सर्यगतिं च गच्छति, सर्वाध्यात्मबाह्यवस्तुपरित्यागी च भवति कायजीवितानपेक्षः । दुःशीलगतिं च गच्छति, सर्वशीलशिक्षाधुतगुणसंलेखप्रतिष्ठितश्च भवत्यनुमात्रेष्ववद्येषु भयदर्शी । व्यापादखिलक्रोधगतिं च गच्छति, मैत्रीविहारि च भवत्यत्यन्ताव्यापन्नचित्तः । कौसीद्यगतिं च गच्छति, सर्वकुशलमूलपर्येष्ट्यभियुक्तश्च भवत्यप्रतिप्रस्रब्धवीर्यारम्भः । विभ्रान्तेन्द्रियगतिं च गच्छति, अरिक्तध्यानश्च भवति प्रकृतिसमापन्नः । दौःप्रज्ञगतिं च गच्छति, सर्वलोकिकलोकोत्तरशास्त्रकुशलश्च भवति प्रज्ञापारमितागतिंगतः । कुहनलपनचर्यागतिं गच्छति, उपायकौशलचर्यानिर्यातश्च भवति संधाभाष्यकुशलः । मानगतिं च दर्शयति, सेतुसंक्रामभृतश्च भवति सर्वलोकस्य । क्लेशगतिं च गच्छति, प्रकृतिपरिशुद्धश्च भवत्यत्यन्तासंक्लिष्टः । मारगतिं च गच्छति, अपरप्रत्ययश्च भवति सर्वबुद्धधर्मेषु । श्रावकगतिं च गच्छति, अश्रुतधर्मश्रावयिता च भवति सत्वानाम् । प्रत्येकबुद्धगतिं च गच्छति, महाकरुणानिर्यातश्च भवति सत्वपरिपाकाय । दरिद्रगतिं च गच्छति, रत्नपाणिताप्रतिलब्धश्च भवत्यक्षयभोगः
। विकलेन्द्रियगतिं च गच्छति, लक्षणसमलंकृतश्च भवत्यभिरूपः । हीनकुलोपपत्तिगतिं च गच्छति, तथागतकुलगोत्रसंभृतश्च भवति पुण्यज्ञानोपचितसंभारः । दुर्बलदुर्वर्णावहोटिमकगतिं च गच्छति, नारायणात्मभावप्रतिलब्धश्च भवति प्रियदर्शनः सर्वसत्वानाम् । जीर्णव्याधितोग्लानचर्यां च दर्शयति, अत्यन्तव्याधिसमुद्घातितश्च भवति मरणभयसमतिक्रान्तः । भोगगतिं च दर्शयति, अनित्यसंज्ञाप्रत्यवेक्षणाबहुलश्च भवति सर्वैषणाप्रतिप्रस्रब्धः । अन्तःपुरनाटकव्यूहाश्च बोधिसत्वो दर्शयति, उत्तीर्णकामपङ्कश्च भवत्यनिकेतचारी । धन्धायतनगतिं च गच्छति, विचित्रप्रतिभानालंकारश्च भवति धारणीप्रतिलब्धः । तीर्थिकगतिं च गच्छति, तीर्थभूतश्च भवति । सर्वलोकगतिं च गच्छति, सर्वगतिनिवृत्तश्च भवति । निर्वाणगतिं च गच्छति, संसारप्रबन्धं च न जहाति । एवं मञ्जुश्रीः बोधिसत्वोऽगतिगमनं गच्छति, गतिंगतश्च भवति सर्वबुद्धधर्मेषु ।

७.२ अथ विमलकीर्तिर्लिच्छविर्मञ्जुश्रियं कुमारभूतमेवमाह: कतमन्मञ्जुश्रीः तथागतानां गोत्रम् ।

आह: सत्कायः कुलपुत्र तथागतानां गोत्रम्, अविद्या भवतृष्णा च गोत्रम्, रागदोषमोहा गोत्रम्, चत्वारो विपर्यासा गोत्रम्, पञ्च निवरणानि गोत्रम्, षडायतनं गोत्रम्, सप्त विज्ञानस्थितयो गोत्रम्, अष्टौ मिथ्यात्वानि गोत्रम्, नवाघातवस्तूनि गोत्रम्, दशाकुशलाः कर्मपथा गोत्रम् । इदं कुलपुत्र तथागतानां गोत्रम् । संक्षेपेण कुलपुत्र द्वाषष्टिर्दृष्टिगतानि तथागतानां गोत्रम् ।

७.३ आह: किं संधाय मञ्जुश्रीः एवं वदसि ।

आह: न शक्यं कुलपुत्र असंस्कृतदर्शिना नियामावक्रान्तिस्थितेनानुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयितुम् । क्लेशागारसंस्कृतस्थितेनादृष्टिसत्येन शक्यमनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयितुम् । तद्यथा कुलपुत्र नोज्जङ्गलेषु पृथिवीप्रवेशेषूत्पलपद्मकुमुदपुण्डरीकसौगन्धिकानि विरोहन्ति । कर्दमपुलिनप्रक्षिप्तान्युत्पलपद्मकुमुदपुण्डरीकसौगन्धिकानि विरोहन्ति । एवमेव कुलपुत्र नासंस्कृतनियामप्राप्तेषु सत्वेषु बुद्धधर्मा विरोहन्ति । क्लेशपुलिनकर्दमप्राप्तेषु सत्वेषु बुद्धधर्मा विरोहन्ति । तद्यथापि नाम नाकाशे बीजानि विरोहन्ति । धरणितलप्रतिष्ठितानि विरोहन्ति । एवमेव नासंस्कृतनियामप्राप्तेषु बुद्धधर्मा विरोहन्ति । सुमेरुसमां सत्कायदृष्टिमुत्पाद्य बोधिचित्तमुत्पद्यते । ततश्च बुद्धधर्मा विरोहन्ति । तदनेनापि ते कुलपुत्र पर्यायेणैवं वेदितव्यम् । यथा सर्वक्लेशास्तथा तथागतानां गोत्रम् । तद्यथापि नाम कुलपुत्र नानवतीर्य महासमुद्रं शक्यमनर्घं रत्नमुत्क्षेप्तुम् । एवमेव नानवतीर्णेन क्लेशसागरं शक्यं सर्वज्ञताचित्तरत्नमुत्पादयितुम् ।

७.४ अथ स्थविरो महाकाश्यपो मञ्जुश्रिये कुमारभूताय साधुकारमदात्: साधु साधु मञ्जुश्रीः सुभाषिता त इयं वाग्भूतम् । एतत्क्लेशा गोत्रं तथागतानाम् । कुतो ह्यस्मद्विधानां शक्तिरस्ति बोधिचित्तमिदानीमुत्पादयितुम् । पञ्चानन्तर्यप्राप्तः शक्तो बोधिचित्तमुत्पादयितुम्, शक्तो बुद्धधर्मानभिसंबोद्धुम्, न पुनरहम् ।

७.५ तद्यथा विकलेन्द्रियस्य पुरुषस्य पञ्चकामगुणा निर्गुणा निःसमर्थाः । एवमेव सर्वसंयोजनप्रहीणस्य श्रावकस्य सर्वबुद्धधर्मा निर्गुणा निःसमर्थाः । न तस्य भूयः शक्तिरस्ति तानध्यालम्बितुम्* । तस्मान्मञ्जुश्रीः पृथग्जनास्तथागतस्य कृतज्ञाः, न श्रावकाः । तत्कस्माद्धेतोः । पृथग्जना हि बुद्धगुणाञ्श्रुत्वा त्रिरत्नवंशानुपच्छेदायानुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयन्ति । श्रावकाः पुनर्यावज्जीवमपि बुद्धधर्मबलवैशारद्यानि श्रुत्वानुत्तरायां सम्यक्संबोधौ न शक्ताश्चित्तमुत्पादयितुम् ।

७.६ अथ सर्वरूपसंदर्शनो नाम बोधिसत्वस्तस्यामेव पर्षदि संनिपतितोऽभूत्संनिषण्णः । स विमलकीर्तिं लिच्छविमेवमाह: कस्मिन् पुनस्ते गृहपते मातापितरौ दासीदासकर्मकरपौरुषेयम्, कुत्र मित्रज्ञातिसालोहिताः, कुत्र परिवारो हयगजरथपतिवाहनं वा । एवमुक्ते विमलकीर्तिर्लिच्छविः सर्वरूपसंदर्शनं बोधिसत्वं गाथाभिरध्यभाषत्:

प्रज्ञापारमिता माता बोधिसत्वान मारिष ।
पिता चोपायकौशल्यं यतो जायन्ति नायकाः ॥ (१)
भार्या धर्मरतिस्तेषां मैत्रि करुणा च दुहितरौ ।
सत्यधर्मावुभौ पुत्रौ गृहं शून्यार्थचिन्तना ॥ (२)
सर्वक्लेशास्तथा शिष्या यथेष्टवशवर्तिनः ।
बोध्यङ्गाश्चैव मित्राणि बोधिं बुध्यन्ति यैर्वराम् ॥ (३)
सहायाश्चानुबद्धा हि षडिमाः पारमिताः सदा ।
स्त्र्यागारः संग्रहस्तेषार धर्माः संगीतिवादितम् ॥ (४)
उद्यानं धारणी तेषां बोध्यङ्गकुसुमैश्चितम् ।
फलं विमुक्तिज्ञानं च वृक्षा धर्मधनं महत् ॥ (५)
विमोक्षाः पुष्किरिण्यश्च समाधिजालपूरिताः ।
विशुद्धिपद्मसंछन्ना यत्र स्नायन्ति निर्मलाः ॥ (६)
अभिज्ञा वाहनं तेषां महायानमनुत्तमम् ।
सारथिर्बोधिचित्तं तु सन्मार्गोऽष्टाङ्गिकः शिवः ॥ (७)
भूषना लक्षणान्येषामशीतिश्चानुव्यञ्जनाः ।
ह्रीरपत्राप्यवस्त्रास्ते कल्याणाध्याशयाः शुभाः ॥ (८)
सद्धर्मधनवन्तस्ते प्रयोगो धर्मदेशना ।
प्रतिपत्तिर्महालाभः परिणामश्च बोधये ॥ (९)
शयनं चतुरो ध्यानाः शुद्धाजीवेन संस्तृताः ।
प्रज्ञा विबोधनं तेषां नित्यं श्रुतसमाहिता ॥ (१०)
अमृतं भोजनं तेषां विमुक्तिरसपानकम् ।
विशुद्धाशयता स्नानं शीलं गन्धानुलेपनम् ॥ (११)
क्लेशशत्रुविनिर्घाताच्छूरास्ते ह्यपराजिताः ।
धर्षेन्ति चतुरो मारान् बोधिमण्डध्वजाश्रिताः ॥ (१२)
संचिन्त्यजाति दर्शेन्ति अजाताश्च असंभवाः ।
दृश्यन्ते सर्वक्षेत्रेषु रश्मिराजवदुद्गताः ॥ (१३)
बुद्धकोट्यो हि पूजित्वा सर्वपूजाहि नायकान् ।
न चैवात्मनि बुद्धे वा जातु कुर्वन्ति निश्रयम् ॥ (१४)
बुद्धक्षेत्राणि शोधेन्ति सत्वानां चरितं यथा ।
आकाशक्षेत्रानुप्राप्ता न सत्वे सत्वसंज्ञिनः ॥ (१५)
सर्वसत्वान ये रूपा रुतघोषाश्च ईरिताः ।
एकक्षनेन दर्शेन्ति बोधिसत्वा विशारदाः ॥ (१६)
मारकर्म च बुध्यन्ते माराणां चानुवर्तकाः ।
उपायपारमिप्राप्ताः सर्वां दर्शेन्ति ते क्रियाम् ॥ (१७)
ते जीर्णव्याधिता भोन्ति मृतमात्मानु दर्शयी ।
सत्वानां परिपाकाय मायाधर्मविहारिणः ॥ (१८)
कल्पोद्दाहं च दर्शेन्ति उद्दह्य तां वसुन्धराम् ।
नित्यसंज्ञीन सत्वानामनित्यमिति दर्शयी ॥ (१९)
सत्वकोटीसहस्रेभिरेकराष्ट्रे निमन्त्रिताः ।
सर्वेषां गृहि भुञ्जन्ति सर्वान्नामेन्ति बोधये ॥ (२०)
ये केचिन्मन्त्रविद्या वा शिल्पस्थाना बहूविधाः ।
सर्वत्र पारमिप्राप्ताः सर्वसत्वसुखावहाः ॥ (२१)
यावन्तो लोकि पाषण्डाः सर्वत्र प्रव्रजन्ति ते ।
नानादृष्टिगतप्राप्तान् सत्वान् हि परिमोचयि ॥ (२२)
चन्द्रा भवन्ति सूर्या वा शक्रब्रह्मप्रजेश्वराः ।
भवन्ति आपस्तेजश्च पृथिवी मारुतस्तथा ॥ (२३)
रोगान्तरकल्पेषु भैषज्यं भोन्ति उत्तमम् ।
येहि सत्वा विमुच्यन्ति सुखी भोन्ति अनामयाः ॥ (२४)
दुर्भिक्षान्तरकल्पेषु भवन्ति पानभोजनम् ।
क्षुधापिपासामपनेत्वान् धर्मं देशेन्ति प्राणिनाम् ॥ (२५)
शस्त्रान्तरकल्पेषु मैत्र्याध्यायी भवन्ति ते ।
अव्यापादे नियोजेन्ति सत्वकोटीशतान् बहून् ॥ (२६)
महासंग्राममध्ये च समपक्षा भवन्ति ते ।
संधिसामग्रि रोचेन्ति बोधिसत्वा महाबलाः ॥ (२७)
ये चापि निरयाः केचिद्बुद्धक्षेत्रेष्वचिन्तियाः ।
संचिन्त्य तत्र गच्छन्ति सत्वानां हितकारणात् ॥ (२८)
यावन्त्यो गतयः काश्चित्तिर्यग्योनौ प्रकाशिताः ।
सर्वत्र धर्मं देशेन्ति तेन उच्यन्ति नायकाः ॥ (२९)
कामभोगां पि दर्शेन्ति ध्यानं दर्शेन्ति ध्यायिनाम् ।
विहस्तं मारं कुर्वन्ति अवतारं न देन्ति ते ॥ (३०)
अग्निमध्ये यथा पद्ममद्भुतं पि विदर्शयेत् ।
एवं कामांश्च ध्यानं च अद्भुतं ते विदर्शयि ॥ (३१)
संचिन्त्य गणिका भोन्ति पुंसामाकर्षणाय ते ।
रागाङ्कुशेन लोभेत्वा बुद्धज्ञाने स्थपेन्ति ते ॥ (३२)
ग्रामिकाश्च सदा भोन्ति सार्थवाहाः पुरोहिताः ।
अग्रामात्योऽथ चामात्याः सत्वानां हितकारणात् ॥ (३३)
दरिद्राणां च सत्वानां निधानं भोन्ति अक्षयम् ।
येषां दानानि दत्वा हि बोधिचित्तं जनेन्ति ते ॥ (३४)
मानस्तब्धेषु सत्वेषु महानग्ना भवन्ति ते ।
सर्वमानसमुद्घातां बोधिं प्रार्थेन्ति उत्तमाम् ॥ (३५)
भयार्दितानां सत्वानां संतिष्ठन्तेऽग्रतः सदा ।
अभयं तेषु दत्वा च परिपाचेन्ति बोधये ॥ (३६)
पञ्चाभिज्ञा हि भूत्वा ते ऋषयो ब्रह्मचारिणः ।
शीले सत्वान्नियोजेन्ति क्षान्तिसौरत्यसंयमे ॥ (३७)
उपस्थानगुरून् सत्वान् संपश्येह विनायकाः ।
चेटा भवन्ति दासा वा शिष्यत्वमुपयान्ति च ॥ (३८)
येन येनैव चाङ्गेन सत्वा धर्मरता भवे ।
दर्शेन्ति हि क्रियाः सर्वा महोपायसुशिक्षिताः ॥ (३९)
तेषामनन्तशिक्षा हि अनन्तश्चापि गोचरः ।
अनन्तज्ञानसंपन्ना अनन्तप्राणिमोचकाः ॥ (४०)
न तेषां कल्पकोटीभिः कल्पकोटीशतैस्तथा ।
भाषद्भिः सर्वबुद्धैस्तु गुणान्तः सुवचो भवेत् ॥ (४१)
बोधिं न प्रार्थयेत्कोऽग्र्यां श्रुत्वा धर्मानिमान् बुधः ।
अन्यत्र हीनसत्वेभ्यो येषां प्रज्ञा न विद्यते ॥ (४२)
इति ॥ ॥

तथागतगोत्रपरिवर्तः सप्तमः ॥


८.१ अथ विमलकीर्तिर्लिच्छविस्तान् बोधिसत्वानामन्त्रयते स्म: प्रतिभातु सत्पुरुषाः कतमो बोधिसत्वानामद्वयधर्ममुखप्रवेशः ।

तत्र धर्मविकुर्वणो नाम बोधिसत्वः संनिपतितः । स एवमाह: उत्पादभङ्गौ कुलपुत्र द्वयम् । यन्न जातं नोत्पन्नं न तस्य कश्चिद्भङ्गः । अनुत्पादधर्मक्षान्तिप्रतिलम्भोऽद्वयप्रवेशः ।

८.२ श्रीगुप्तो बोधिसत्व आह: अहं ममेति द्वयमेतत् । आत्मासमारोपान्ममेति न भवति । यश्चासमारोपोऽयमद्वयप्रवेशः ।

८.३ श्रीकूटो बोधिसत्व आह: संक्लेशो व्यवदानमिति द्वयमेतत् । संक्लेशपरिज्ञानाद्व्यवदानमनना न भवति । सर्वमननासमुद्घाता सारूप्यगामिनी प्रतिपदयमद्वयप्रवेशः ।

८.४ सुनक्षत्रो बोधिसत्व आह: इञ्जना मननेति द्वयमेतत् । यत्पुनर्नाञ्जते न मनसिकरोत्यनधिकारः, अधिकारविरहितोऽयमद्वयप्रवेशः ।

८.५ सुबाहुर्बोधिसत्व आह: बोधिचित्तं श्रावकचित्तमिति द्वयमेतत् । या पुनर्मायाचित्तसमदर्शनता तत्र न बोधिचित्तं न श्रावकचित्तम् । या चित्तसमलक्षणतायमद्वयप्रवेशः ।

८.६ अनिमिषो बोधिसत्व आह: उपादानमनुपादानमिति द्वयमेतत् । यन्नोपाददाति तन्नोपलभते, तत्रोहापोहं न करोति । अकरणमव्यापत्तिः सर्वधर्माणामयमद्वयप्रवेशः ।

८.७ सुनेत्रो बोधिसत्व आह: एकलक्षणमलक्षणमिति द्वयमेतत् । यत्पुनर्न लक्षयति न विकल्पयति, नैकलक्षणं करोति नालक्षणम् । यल्लक्षणविलक्षणसमलक्षणप्रवेशोऽयमद्वयप्रवेशः ।

८.८ पुष्यो बोधिसत्व आह: कुशलमकुशलमिति द्वयमेतत् । या कुशलाकुशलस्यानुपस्थानता तदनिमित्तम् । अनिमित्तकोट्याश्चाद्वयता । यत्र निस्तीरणतायमद्वयप्रवेशः ।

८.९ सिंहो बोधिसत्व आह: अवद्यतानवद्यतेति द्वयमेतत् । यत्पुनर्वज्रनिबद्धज्ञानतया न बध्यते न मुच्यतेऽयमद्वयप्रवेशः ।

८.१० सिंहमतिर्बोधिसत्व आह: इदं सास्रवमिदमनास्रवमिति द्वयमेतत् । यत्पुनः समताधर्मप्राप्तः सास्रवानास्रवसंज्ञं न करोति, न वासंज्ञाप्राप्तः, न चासंज्ञासमतायां समताप्राप्तः, न संज्ञाग्रथितः । य एवं प्रवेशोऽयमद्वयप्रवेशः ।

८.११ सुखाधिमुक्तो बोधिसत्व आह: इदं सुखमिदमसुखमिति द्वयमेतत् । यत्पुनः सर्वसौख्यापगतो गगनसमबुद्धिः सुविशुद्धज्ञानतया न सञ्जत्ययमद्वयप्रवेशः ।

८.१२ नारायणो बोधिसत्व आह: इदं लौकिकमिदं लोकोत्तरमिति द्वयमेतत् । या लौकिकस्य प्रकृतिशून्यता, न तत्र किंचिदुत्तीर्यते नावतीर्यते न सार्यते न विसार्यते । यत्र नोत्तरणं नावतरणं न सरणं न विसरणमयमद्वयप्रवेशः ।

८.१३ दान्तमतिर्बोधिसत्व आह: संसारो निर्वाणमिति द्वयमेतत् । संसारस्वभावदर्शनान्न संसरति न परिनिर्वाति । यैवं बुध्यनायमद्वयप्रवेशः ।

८.१४ प्रत्यक्षदर्शी बोधिसत्व आह: क्षयोऽक्षय इति द्वयमेतत् । क्षयोऽत्यन्तक्षीणः । यश्चात्यन्तक्षीणः स न क्षपयितव्यः । तेनोच्यतेऽक्षय इति । यश्चाक्षयः स क्षणिकः । क्षनिकस्य नास्ति क्षयः । एवं प्रविष्टोऽद्वयधर्ममुखप्रविष्टो वक्तव्यः ।

८.१५ समन्तगुप्तो बोधिसत्व आह: आत्मा निरात्मेति द्वयमेतत् । यस्तामात्मतां नोपलभते, स किं निरात्मीकरिष्यति । आत्मस्वभावदर्शी द्वयं न करोत्ययमद्वयप्रवेशः ।

८.१६ विद्युद्देवो बोधिसत्व आह: विद्याविद्येति द्वयमेतत् । अविद्याप्रकृतिकैव विद्या । या चाविद्या साप्रकृतिकागणना गणनापथसमतिक्रान्ता । योऽत्राभिसमयोऽद्वयाभिसमयोऽयमद्वयप्रवेशः ।

८.१७ प्रियदर्शनो बोधिसत्व आह: रूपं शून्यमिति द्वयमेतत् । रुपमेव हि शून्यता । न रूपविनाशाच्छून्यता, रूपप्रकृतिरेव शून्यता । एवं वेदना संज्ञा संस्कारा विज्ञानं शून्यमिति द्वयमेतत् । विज्ञानमेव हि शून्यता । न विज्ञानविनाशाच्छून्यता, विज्ञानप्रकृतिरेव शून्यता । योऽत्र पञ्चसूपादानस्कन्धेष्वेवं ज्ञानानुबोधोऽयमद्वयप्रवेशः ।

८.१८ प्रभाकेतुर्बोधिसत्व आह: अन्ये चत्वारो धातवोऽन्य आकाशधातुरिति द्वयमेतत् । आकाशस्वभावा एव चत्वारो धातवः । पूर्वान्तत आकाशस्वभावा अपरान्तत आकाशस्वभावास्तथा प्रत्युत्पन्नतोऽप्याकाशस्वभावाः । यच्चैवं धातुप्रवेशज्ञानमयमद्वयप्रवेशः ।

८.१९ सुमतिर्बोधिसत्व आह: चक्षू रूपं च द्वयमेतत् । यत्पुनश्चक्षुःपरिज्ञातावी रूपेषु न रज्यति न दुष्यति न मुह्यति, स उच्यते शान्त इति । श्रोत्रं शब्दाश्च घ्राणं गन्धाश्च जिह्वा रसाश्च कायः स्प्रष्टव्यानि च मनो धर्माश्च द्वयमेतत् । यत्पुनर्मनःपरिज्ञातावी धर्मेषु न रज्यते न दुष्यति न मुह्यति, स उच्यते शान्त इति । एवं शान्तस्थितस्याद्वयप्रवेशः ।

८.२० अक्षयमतिर्बोधिसत्व आह: दानं सर्वज्ञतायां परिणामयतीति द्वयमेतत् । दानस्वभावैव सर्वज्ञता, सर्वज्ञतास्वभाव एव परिणामः । एवं शीलं क्षान्तिं वीर्यं ध्यानं प्रज्ञां सर्वज्ञतायां परिणामयतीति द्वयमेतत् । प्रज्ञास्वभावैव सर्वज्ञता, सर्वज्ञतास्वभाव एव परिणामः । योऽत्रैकनयप्रवेशोऽयमद्वयप्रवेशः ।

८.२१ गम्भीरबुद्धिर्बोधिसत्व आह: अन्या शून्यतान्यदनिमित्तमन्यदप्रणिहितमिति द्वयमेतत् । यद्धि शून्यं तत्र न किंचिन्निमित्तम् । अनिमित्तेऽप्रणिहितम् । अप्रणिहिते न चित्तं न मनो न मनोविज्ञानं प्रचरति । यत्रैकं विमोक्षमुखं तत्र सर्वाणि विमोक्षमुखानि द्रष्टव्यान्ययमद्वयप्रवेशः ।

८.२२ शान्तेन्द्रियो बोधिसत्व आह: बुद्धो धर्मः संघ इति द्वयमेतत् । बुद्धस्य हि धर्मः, धर्मप्रकृतिकश्च संघः । सर्वाण्येतानि रत्नान्यसंस्कृतानि, असंस्कृतं चाकाशम्, आकाशसमश्च सर्वधर्मनयः । य एवमनुगमोऽयमद्वयप्रवेशः ।

८.२३ अप्रतिहतचक्षुर्बोधिसत्व आह: सत्कायः सत्कायनिरोध इति द्वयमेतत् । सत्काय एव हि निरोधः । तत्कस्माद्धेतोः । तथा हि स सत्काय इति दृष्टिं नोपस्थापयति, यया दृष्ट्या सत्काय इति वा सत्कायनिरोध इति वा कल्पयति । सोऽकल्पोऽविकल्पोऽत्यन्ताविकल्पो निरोधस्वभावप्राप्तः, न संभवति न विभवत्ययमद्वयप्रवेशः ।

८.२४ सुविनीतो बोधिसत्व आह: कायवाङ्मनःसंवर इति द्वयमेतत् । तत्कस्माद्धेतोः । अनभिसंस्कारलक्षना ह्येते धर्माः । या कायस्यानभिसंस्कारता तल्लक्षणैव वागनभिसंस्कारता तल्लक्षणैव मनोऽनभिसंस्कारता । या च सर्वधर्माणामनभिसंस्कारता, सा ज्ञातव्यानुगन्तव्या । यदत्रानभिसंस्कारज्ञानमयमद्वयप्रवेशः ।

८.२५ पुण्यक्षेत्रो बोधिसत्व आह: पुण्यपुण्यानिञ्ज्यान् संस्कारनभिसंस्करोतीति द्वयमेतत् । यत्पुनः पुण्यापुण्यानिञ्ज्यानभिसंस्कारता साद्वया । या च पुण्यापुण्यानिञ्ज्यानां संस्काराणां स्वलक्षणशून्यता न तत्र पुण्यापुण्यानिञ्ज्याः संस्काराः । यैवमनुमार्जनायमद्वयप्रवेशः ।

८.२६ पद्मव्यूहो बोधिसत्व आह: आत्मसमुत्थानसमुत्थितं द्वयम् । आत्मपरिज्ञातावी द्वयं नोत्थापयति । अद्वयस्थितस्य विज्ञाप्तिर्नास्ति । अविज्ञप्तिकश्चाद्वयप्रवेशः ।

८.२७ श्रीगर्भो बोधिसत्व आह: उपलम्भप्रभावितं द्वयम् । यन्न लभते तन्नोपलभते, तन्नायूहति न निर्यूहति । तत्र नायूहो न निर्यूहोऽयमद्वयप्रवेशः ।

८.२८ चन्द्रोत्तरो बोधिसत्व आह: तमः प्रकाश इति द्वयमेतत् । अतमोऽप्रकाश इत्यद्वयम् । तत्कस्माद्धेतोः । तथा हि निरोधसमापन्नस्य न तमो न प्रकाशः । एवंलक्षणाश्च सर्वधर्माः । योऽत्र समताप्रवेशोऽयमद्वयप्रवेशः ।

८.२९ रत्नमुद्राहस्तो बोधिसत्व आह: निर्वाणेऽभिरतिः संसारेऽनभिरतिरिति द्वयमेतत् । यस्य न निर्वाणेऽभिरतिर्न संसारेऽनभिरतिरिदमद्वयम् । तत्कस्माद्धेतोः । बद्धस्य हि सतो मोक्षः प्रभाव्यते । योऽत्यन्तमेवाबद्धः स किं मोक्षं पर्येषिष्यते । अबद्धोऽमुक्तो भिक्षुर्न रतिमुत्पादयति नारतिमयमद्वयप्रवेशः ।

८.३० मणिकूटराजो बोधिसत्व आह: मार्गः कुमार्ग इति द्वयमेतत् । मार्गप्रतिपन्नस्य न कुमार्गः समुदाचरति । असमुदाचारस्थितस्य न मार्गसंज्ञा भवति न कुमार्गसंज्ञा । संज्ञापरिज्ञाताविनो हि द्वये बुद्धिर्नाक्रामत्ययमस्याद्वयप्रवेशः ।

८.३१ सत्यनन्दी बोधिसत्व आह: सत्यं मृषेति द्वयमेतत् । सत्यदर्शी सत्यमेव न समनुपश्यति, कुतो मृषा द्रक्ष्यति । तत्कस्माद्धेतोः । न हि स मांसचक्षुषा पश्यति, प्रज्ञाचक्षुषा पश्यति । तथा च पश्यति, न विपश्यति । यत्र च न पश्यना न विपश्यनायमद्वयप्रवेशः ।

८.३२ इत्येवं ते बोधिसत्वाः स्वकस्वकान्निर्देशान्निर्दिश्य मञ्जुश्रियं कुमारभूतमेतदवोचत्: कतमो मञ्जुश्रिः बोधिसत्वस्याद्वयप्रवेशः ।

मञ्जुश्रीराह: सुभाषितं युष्माकं सत्पुरुषाः सर्वेषाम् । अपि तु यावद्युष्माभिर्निर्दिष्टं सर्वमेतद्द्वयम् । एकनिर्देशं स्थापयित्वा यः सर्वधर्माणामनुदाहारोऽप्रव्याहारोऽनुदीरनाकीर्तनानभिलपनमप्रज्ञपनमयमद्वयप्रवेशः ।

८.३३ अथ खलु मञ्जुश्रीः कुमारभूतो विमलकीर्तिं लिच्छविमेतदवोचत्: निर्दिष्टोऽस्माभिः कुलपुत्र स्वकस्वको निर्देशः । प्रतिभातु तवाप्यद्वयधर्मप्रवेशनिर्देशः ।

अथ विमलकीर्तिर्लिच्छविस्तूष्णीमभूत् ।

अथ मञ्जुश्रीः कुमारभूतो विमलकीर्तेर्लिच्छवेः साधुकारमदात्: साधु साधु कुलपुत्र अयं बोधिसत्वानामद्वयधर्ममुखप्रवेशो यत्र नाक्षररुतरवितविज्ञप्तिप्रचारः ।

इह निर्देशे निर्दिश्यमाने पञ्चानां बोधिसत्वसहस्राणामद्वयधर्ममुखप्रवेशादनुत्पत्तिकधर्मक्षान्तिप्रतिलम्भोऽभूत् ॥ ॥

अद्वयधर्ममुखप्रवेशपरिवर्तोऽष्टमः ॥


९.१ अथायुष्मतः शारिपुत्रस्यैतदभूत्: कालः पर्यन्तीभूतः । इमे च महासत्वा नोत्तिष्ठन्ति । कुत्रैते परिभोक्ष्यन्ते ।

अथ विमलकीर्तिर्लिच्छविरायुष्मतः शारिपुत्रस्य चेतसा चेतःपरिवितर्कमाज्ञायायुष्मन्तं शारिपुत्रमेवमाह: ये ते भदन्तशारिपुत्र तथागतेनाष्टौ विमोक्षा आख्यातास्तैर्विमोक्षैर्विहर । त्वं मा आमिषम्रक्षितया संतत्या धर्मं श्रौषीः । अपि तु खलु पुनर्भदन्तशारिपुत्र मुहूर्तमागमयस्व, यावदनास्वादितपूर्वभोजनं भोक्ष्यसे ।

९.२ अथ विमलकीर्तिर्लिच्छविस्तस्यां वेलायां तथारूपं समाधिसमापन्नः तादृशं चर्द्ध्यभिसंस्कारमभिसंस्कृतवान् । यदूर्ध्वे दिग्भाग इतो बुद्धक्षेत्राद्द्वाचत्वारिंशद्गङ्गानदीवालिकासमानि बुद्धक्षेत्राण्यतिक्रम्य सर्वगन्धसुगन्धं नाम लोकधातुं तेषां बोधिसत्वानां तेषां च महाश्रावकाणामुपदर्शयति । तत्र गन्धोत्तमकूटो नाम तथागत एतर्हि तिष्ठति ध्रियते यापयति । तत्र च लोकधातौ यादृशा दशसु दिक्षु सर्वबुद्धक्षेत्रेषु दिव्या मानुष्यकाश्च गन्धा वान्ति । ते तत्र लोकधातौ वृक्षेभ्यो विशिष्टतमा गन्धा वान्ति । तत्र लोकधातौ नास्ति श्रावकप्रत्येकबुद्धानां नामधेयमपि । शुद्धानामेव बोधिसत्वानां संनिपातः । स तेभ्यो गन्धोत्तमकूटस्तथागतो धर्मं देशयति । तत्र च लोकधातौ सर्वगन्धमयाः कूटागाराः, सर्वगन्धमयाश्चङ्क्रमा उद्यानविमानानि । यं च ते बोधिसत्वा आहारमाहरन्ति तस्य भोजनस्य यो गन्धः सोऽप्रमाणाल्लोकधातून् स्फरति ।

तस्मिंश्च समये भगवान् गन्धोत्तमकूटस्तथागतो भक्ताय निषण्णोऽभुत्सार्धं तैर्बोधिसत्वैः । तत्र गन्धव्युहाहारा नाम देवपुत्रा महायानसंप्रस्थितास्तस्य भगवतस्तेषां बोधिसत्वानामुपस्थानपरिचर्याया उद्युक्ताः । तत्र सा सर्वा पर्षत्तं लोकधातुं पश्यति तं च भगवन्तं तांश्च बोधिसत्वान् भक्ताग्रनिषण्नान् ।

९.३ अथ विमलकीर्तिर्लिच्छविस्तान् सर्वान् बोधिसत्वानामन्त्रयते स्म: को युष्माकं सत्पुरुषाः उत्सहतेऽतो बुद्धक्षेत्राद्भोजनमानेतुम् । तत्र मञ्जुश्रियोऽधिष्ठानेन न कश्चिदुत्सहते ।

अथ विमलकीर्तिर्लिच्छविर्मञ्जुश्रियं कुमारभूतमेवमाह: न त्वं मञ्जुश्रीः पर्यपत्रपस ईदृश्या पर्षदा ।

आह: ननूक्तं कुलपुत्र तथागतेनाशिक्षितो न परिभवितव्य इति ।

९.४ अथ विमलकीर्तिर्लिच्छविरनुत्तिष्ठन्नेततः शयनात्पुरतस्तेषां बोधिसत्वानां निर्मितं बोधिसत्वं निर्मिमीते स्म । सुवर्णवर्णेन कायेन लक्षणानुव्यञ्जनसमलंकृतेन तस्य तादृशो रूपावभासोऽभूद्येन सा सर्वा पर्षद्ध्यामीकृता भवेत् ।

अथ विमलकीर्तिर्लिच्छविस्तं निर्मितं बोधिसत्वमेवमाह: गच्छ कुलपुत्र ऊर्धंदिग्भागे द्वाचत्वारिंशद्गङ्गानदीवालिकासमानि बुद्धक्षेत्राण्यतिक्रम्य सर्वगन्धसुगन्धो नाम लोकधातुः । तत्र गन्धोत्तमकूटो नाम तथागतः, स एतर्हि भक्ताय निषण्णः । तत्र गत्वा मद्वचनात्तस्य तथागतस्य पादौ शिरसा वन्दित्वैवं वद ः विमलकीर्तिर्लिच्छविर्भगवतः पादौ शिरसा वन्दित्वा भगवतोऽल्पाबाधतां च परिपृच्छत्यल्पातङ्कतां च लघुत्थानतां च यात्रां च बलं च सुखं चानवद्यतां च स्पर्शविहारतां च । एवं च वदति ः देहि मे भगवन् भुक्तावशेषं यत्सहे लोकधातौ बुद्धकृत्यं करिष्यति । एषां च हीनाधिमुक्तिकनां सत्वानमुदारां मतिं रोचयिष्यति । तथागतस्य नामधेयं वैस्तारिकं कृतं भविष्यति ।

९.५ अथ स निर्मितो बोधिसत्वो विमलकीर्तेर्लिच्छवेः साध्विति प्रतिश्रुत्य तेषां बोधिसत्वानां पुरत ऊर्धमुखः संदृश्यते । न चैनं ते बोधिसत्वाः पश्यन्ति गच्छन्तम् ।

अथ स निर्मितो बोधिसत्वस्तं सर्वगन्धसुगन्धं लोकधातुमनुप्राप्तः । स तत्र भगवतो गन्धोत्तमकूटस्य तथागतस्य पादौ शिरसा वन्दित्वैवमाह: विमलकीर्तिर्भगवन् बोधिसत्वो भगवतः पादौ शिरसा वन्दते । अल्पाबाधतां च परिपृच्छत्यल्पातङ्कतां च लघूत्थानतां च यात्रां च बलं च सुखं चानवद्यतां च स्पर्शविहारतां च ।

स च भगवतः पादौ शिरसा वन्दित्वैवमाह: देहि मे भगवन् भुक्तावशेषं भोजनं यदिदं सहे लोकधातौ बुद्धकृत्यं करिष्यति । तेषां हीनाधिमुक्तानां सत्वानामुदारेषु बुद्धधर्मेषु मतिं रोचयिष्यति । भगवतश्च नामधेयं वैस्तारिकं कृतं भविष्यति ।

९.६ अथ खलु ये तस्य भगवतो गन्धोत्तमकूटस्य तथागतस्य बुद्धक्षेत्रे बोधिसत्वास्ते विस्मितास्तं भगवन्तं गन्धोत्तमकूटं तथागतमेवमाहुः: कुतोऽयं भगवनीदृशो महासत्व आगच्छति, क्व वा स सहो लोकधातुः, कैषा हीनाधिमुक्तिकता नाम । एवं ते बोधिसत्वास्तं तथागतं परिपृच्छन्ति ।

अथ स भगवांस्तान् बोधिसत्वानेवमाह: अस्ति कुलपुत्राः अधोदिग्भाग इतो बुद्धक्षेत्राद्द्वाचत्वारिंशद्गङ्गानदीवालिकासमानि बुद्धक्षेत्राण्यतिक्रम्य सहो लोकधातुः । तत्र शाक्यमुनिर्नाम तथागतो धर्मं देशयति हीनाधिमुक्तिकानां सत्वानां पञ्चकषाये बुद्धक्षेत्रे । तत्र विमलकीर्तिर्नाम बोधिसत्वोऽचिन्त्यविमोक्षप्रतिष्ठितो बोधिसत्वेभ्यो धर्मं देशयति । तेनैष निर्मितो बोधिसत्वोऽनुप्रेषितो मम नामधेयपरिकीर्तनायास्य च लोकधातोर्वर्णसंप्रकाशनाय तेषां च बोधिसत्वानां कुशलमूलोत्तानतायै ।

९.७ अथ ते बोधिसत्वा एवमाहुः: कियन्महात्मा स भगवन् बोधिसत्वो यस्यायं निर्मित एवमृद्धिबलवैशारद्यप्राप्तः ।

स भगवानाह: तथा महात्मा स बोधिसत्वो यत्सर्वबुद्धक्षेत्रेषु निर्मितान् प्रेषयति । ते च निर्मिता बुद्धकृत्येन सत्वानां प्रत्युपस्थिता भवन्ति ।

९.८ अथ स भगवान् गन्धोत्तमकूटस्तथागतः सर्वगन्धसमीहिते भाजने तं सर्वगन्धपरिवासितं भोजनं तस्मै बोधिसत्वाय प्रादात् । तत्र नवतिर्बोधिसत्वसहस्राणि संप्रस्थितानि: गमिष्यामो वयं भगवन् तं सहं लोकधातुं तं भगवन्तं शाक्यमुनिं वन्दनायैतं च विमलकीर्तिं तांश्च बोधिसत्वान् दर्शनाय ।

स भगवानाह: गच्छत कुलपुत्राः यस्येदानीं कालं मन्यध्वे । अपि तु गन्धान् कुलपुत्राः प्रतिसंहृत्य तं लोकधातुं प्रविशत, मा ते सत्वा मदप्रमादमापत्स्यन्ते । स्वरूपं च प्रतिसंहरत, मा ते सहे लोकधातौ सत्वा मद्गुभूता भवेयुः । मा च तस्मिन् !ओकधातौ हीनसंज्ञामुत्पाद्य प्रतिघसंज्ञामुत्पादयत । तत्कस्माद्धेतोः । आकाशक्षेत्राणि हि बुद्धक्षेत्राणि, सत्वपरिपाकाय तु बुद्धा भगवन्तो न सर्वं बुद्धविषयं संदर्शयन्ति ।

९.९ अथ निर्मितो बोधिसत्वस्तद्भोजनमादाय सार्धं तैर्नवत्या बोधिसत्वसहस्रैर्बुद्धानुभावेन विमलकीर्त्यधिष्ठानेन च तेनैव क्षणलवमुहूर्तेन सर्वगन्धसुगन्धे लोकधातावन्तर्हितो विमलकीर्तेर्लिच्छवेर्गृहे प्रत्यष्ठात् ।

९.१० तत्र विमलकिर्तिर्नवतिसिंहासनसहस्राण्यधितिष्ठति यादृशान्येव तानि प्रथमकानि सिंहासनानि । तत्र ते बोधिसत्वा निषण्णाः । स च निर्मितस्तद्भोजनपरिपूर्णं भाजनं विमलकीर्तेर्लिच्छवेरुपनामयति स्म । तस्य भोजनस्य गन्धेन सर्वा वैशाली महानगरी निर्धूपिताभूद्यावत्साहस्रो लोकधातुः सुगन्धगन्धीकृतोऽभूत् । तत्र वैशालका ब्राह्मणगृहपतयः सोमच्छत्रश्च नाम लिच्छवीनामधिपतिस्तं गन्धमाघ्रायाश्चर्यप्राप्तोऽद्भुतप्राप्तः प्रह्लादितकायचेताः सार्धं परिपूर्णैश्चतुरशीत्या लिच्छविसहस्रैः । तेनैव च भोजनगन्धेन भूमावचरा देवपुत्राः कामावचरा रूपावचराश्च देवाः संचोदिता विमलकीर्तेर्लिच्छवेर्गृहमुपसंक्रान्ता अभूवन् ।

९.११ अथ विमलकीर्तिर्लिच्छविः स्थविरं शारिपुत्रं तांश्च महाश्रावकानेतदवोचत्: परिभुङ्ग्ध्वं भदन्ताः इदं तथागतामृतभोजनं महाकरुणाभावितम् । मा च प्रदेशचर्यायां चित्तमुपनिबन्धत, मा न शक्यत दक्षिणां शोधयितुम् ।

९.१२ तत्र केषांचिच्छ्रावकाणामेतदभवत्: इत एवं परीत्ताद्भोजनात्कथमियमीदृशी पर्षत्परिभोक्ष्यत इति ।

तान् स निर्मितो बोधिसत्वः श्रावकानेतदवोचत्: मा यूयमायुष्मन्तः स्वप्रज्ञापुण्यैस्तथागतप्रज्ञापुण्यानि समीकार्ष्ट । स्याच्चतुर्णां महासमुद्राणां क्षयः, न त्वेवास्य भोजनस्य कश्चित्परिक्षयः । सचेत्सर्वसत्वा अपि सुमेरुमात्रैरालोपैः कल्पं परिभुञ्जीरन्, तथाप्यस्य क्षयो न स्यात् । तत्कस्माद्धेतोः । अक्षयशीलसमाधिप्रज्ञानिर्जातस्येदं तथागतस्य पात्रावशेषं भोजनं नैतच्छक्यं क्षपयितुम् ।

९.१३ अथ ततो भोजनात्सर्वा सा पर्षत्तृप्ता कृता । न च तावद्भोजनं क्षीयते । यैश्च बोधिसत्वैः श्रावकैः शक्रब्रह्मलोकपालैस्तदन्यैश्च सत्वैस्तद्भोजनं भुक्तम्, तेषां तादृशं सुखं कायेऽवक्रान्तं यादृशं सर्वसुखप्रतिमण्डिते लोकधातौ बोधिसत्वानां सुखम् । सर्वरोमकूपेभ्यश्च तेषां तादृशो गन्धः प्रवाति । तद्यथापि नाम तस्मिन्नेव सर्वगन्धसुगन्धे लोकधातौ वृक्षाणां गन्धः ।

९.१४ अथ विमलकीर्तिर्लिच्छविर्जानन्नेव तान् भगवतो गन्धोत्तमकूटस्य तथागतस्य बुद्धक्षेत्रादागतान् बोधिसत्वानेतदवोचत्: किदृशी कुलपुत्राः गन्धोत्तमकूटस्य तथागतस्य धर्मदेशना ।

त एवमाहुः: न स तथागतोऽक्षरनिरुक्त्या धर्मं देशयति । तेनैव गन्धेन ते बोधिसत्वा विनयं गच्छन्ति । यत्र यत्रैव गन्धवृक्षे ते बोधिसत्वा निषीदन्ति, ततस्ततस्तादृशो गन्धः प्रवाति यत्समनन्तराघ्राते गन्धे सर्वबोधिसत्वगुणाकरं नाम समाधिं प्रतिलभन्ते यस्य समाधेः समनन्तरप्रतिलम्भात्सर्वेषां बोधिसत्वगुणा जायन्ते ।


९.१५ अथ ते बोधिसत्वा विमलकीर्तिं लिच्छविमेतदवोचन्: इह पुनर्भगवाञ्शाक्यमुनिः कीदृशीं धर्मदेशनां प्रकाशयति ।

आह: दुर्दमाः सत्पुरुषाः इमे सत्वाः । तेषां दुर्दमानां सत्वानां खटुङ्कदुर्दमदमथकथामेव प्रकाशयति । कतमः पुनः खटुङ्कदुर्दमानां दमथः, कतमा च खटुङ्कदुर्दमदमथकथा । तद्यथेमे निरयाः, इयं तिर्यग्योनिः, अयं यमलोकः, इमेऽक्षणाः, इयं हीनेन्द्रियोपपर्तिः, इदं कायदुश्चरितम्, अयं कायदुश्चरितस्य विपाकः, इदं वाग्दुश्चरितम्, अयं वाग्दुश्चरितस्य विपाकः, इदं मनोदुश्चरितम्, अयं मनोदुश्चरितस्य विपाकः, अयं प्राणातिपातः, इदमदत्तादानम्, अयं काममिथ्याचारः, अयं मृषावादः, इयं पिशुना वाक् । इयं परुषा वाचा, अयं संभिन्नप्रलापः, इयमभिध्या, अयं व्यापादः, इयं मिथ्यादृष्टिः, अयमेषामेष विपाकः, इदं मात्सर्यम्, इदं दौःशील्यम्, अयं क्रोधः, इदं कौशीद्यम्, अयं विक्षेपः, इदं दौःप्रज्ञ्यम्, इदं दौःप्रज्ञ्यस्य फलम् । अयं प्रातिमोक्षशिक्षाव्यतिक्रमः, अयं प्रातिमोक्षः, इदं करणीयम्, इदमकरणीयम्, अयं योगः । इदं प्रधानम्, इदमावरणम्, इदमनावरणम्, इयमापत्तिः, इयमनापत्तिः, इदमापत्तिव्युत्थानम्, अयं मार्गः । अयं कुमार्गः, इदं कुशलम्, इदमकुशलम्, इदं सावद्यम्, इदमनवद्यम्, इदं सास्रवम्, इदमनास्रवम्, इदं लौकिकम्, इदं लोकोत्तरम्, इदं संस्कृतम्,
इदमसंस्कृतम्, अयं संक्लेशः, इदं व्यवदानम्, अयं संसारः, इदं निर्वाणम् ।

इत्येवमनेकधर्मपरिभाषणतया खटुङ्काश्वसदृशचित्ताः सत्वा अवस्थाप्यन्ते । तद्यथा खटुङ्को हयो गजो वा यावन्मर्मवेधेन दमथं गच्छति, एवमेवेह दुर्दमाः खटुङ्काः सत्वास्ते सर्वदुःखपरिभाषणकथाभिर्दमथं गच्छन्ति ।

९.१६ ते बोधिसत्वा आहुः: आश्चर्यं भगवतः शाक्यमुनेर्यत्र हि नाम प्रतिसंहृत्य बुद्धमाहात्म्यं दरिद्रलूहतया खटुङ्कान् सत्वान् विनयति । येऽपि बोधिसत्वा इहैवं प्रतिकष्टे बुद्धक्षेत्रे प्रतिवसन्ति तेषामप्यचिन्त्या महाकरुणा ।

विमलकीर्तिराह: एवमेव सत्पुरुषाः तथैतद्यथा वदथ । येऽपीह बोधिसत्वाः प्रत्याजाताः, दृढा तेषां महाकरुणा । ते बहुतरमिह लोकधातावेकजन्मना करिष्यन्ति सत्वार्थम् । न त्वेव तत्र सर्वगन्धसुगन्धे लोकधातौ कल्पसहस्रेण सत्वार्थः ।

९.१७ तत्कस्माद्धेतोः । इह हि सत्पुरुषाः सहे लोकधातौ दश कुशलोच्चया धर्माः, येऽन्येषु बुद्धक्षेत्रेषु न संविद्यन्ते, यांश्च ते परिगृह्णन्ति । कतमे दश । यदिदं दानसंग्रहो दरिद्रेषु, शीलसंग्रहो दुःशीलेषु, क्षान्तिसंग्रहः प्रतिहतेषु, वीर्यसंग्रहः कुशीदेषु, ध्यानसंग्रहो विक्षिप्तचित्तेषु, प्रज्ञासंग्रहो दुःप्रज्ञेषु, अष्टाक्षणसमतिक्रमदेशनाक्षणप्राप्तेषु, महायानदेशना प्रादेशिकचर्यासु, कुशलमूलसंग्रहोऽनवरोपितकुशलमूलेषु, सततसमितं सत्वपरिपाकश्चतुर्भिः संग्रहवस्तुभिः । इमान् दश कुशलोच्चयान् धर्मान् प्रतिगृह्णन्ति ये तदन्येषु बुद्धक्षेत्रेषु न संविद्यन्ते ।

९.१८ ते बोधिसत्वा आहुः: कतमैर्धर्मैः समन्वागतो बोधिसत्वोऽक्षटोऽनुपहतः सहाल्लोकधातोश्च्युत्वा परिशुद्धं बुद्धक्षेत्रं गच्छति ।

विमलकीर्तिराह: अष्टाभिः कुलपुत्रः धर्मैः समन्वागतो बोधिसत्वः सहाल्लोकधातोश्च्युत्वाक्षटोऽनुपहतः परिशुद्धं बुद्धक्षेत्रं गच्छति । कतमैरष्टाभिः । यदुत सर्वसत्वानां मया हितं कर्तव्यम्, न चैषां सकाशात्किंचिद्धितं पर्येषितव्यम्, सर्वसत्वदुःखं चानेनोत्सोढव्यं सर्वं चानेन कुशलमूलं सर्वसत्वानामुत्स्रष्टव्यम्, सर्वसत्वेष्वप्रतिघातः, सर्वबोधिसत्वेषु शास्तृप्रेम, अश्रुतानां च धर्माणां श्रुतानां च श्रवणादप्रतिक्षेपः, अनीर्षुकता परलाभेषु स्वलाभेनानभिमननाचित्तनिध्यप्तिः, आत्मस्खलितप्रत्यवेक्षा परस्यापत्त्यचोदनता अप्रमादरतस्य च सर्वगुणसमादनम् । एभिरष्टाभिर्धर्मैः समन्वागतो बोधिसत्वः सहाल्लोकधातोश्च्युत्वाक्षटोऽनुपहतः परिशुद्धं बुद्धक्षेत्रं गच्छति ।

अथ विमलकीर्तिर्लिच्छविर्मञ्जुश्रीश्च कुमारभूतस्तस्यां पर्षदि संनिपतितायां तथा धर्मं देशयतो यथा परिपूर्णस्य प्राणिसहस्रस्यानुत्तरायां सम्यक्संबोधौ चित्तान्युत्पन्नानि, दशानां च बोधिसत्वसहस्राणामनुत्पत्तिकधर्मक्षान्तिप्रतिलम्भोऽभूत् ॥ ॥

निर्मितभोजनानयनपरिवर्तो नाम नवमः ॥


१०.१ तेन खलु पुनः समयेन भगवत आम्रपालीवने धर्मं देशयतः स मण्डलमाडो विपुलश्च विस्तीर्णश्च संस्थितोऽभूत् । सा च पर्षत्सुवर्णवर्णा संदृश्यते स्म । अथायुष्मानानन्दो भगवन्तमेतदवोचत्: कस्येदं भगवन् पूर्वनिमित्तं यदिदमाम्रपालीवनमेवं विस्तीर्णं संस्थितं सर्वा च पर्षत्सुवर्णवर्णा संदृश्यते ।

भगवानाह: एष आनन्द विमलकीर्तिर्लिच्छविर्मञ्जुश्रीश्च कुमारभूतो महत्या पर्षदा परिवृतौ तथागतस्यान्तिकमुपसंक्रमिष्यतः ।

१०.२ अथ विमलकीर्तिर्लिच्छविर्मञ्जुश्रियं कुमारभूतमेतदवोचत्: गमिष्यामो वयं मञ्जुश्रीः भगवतोऽन्तिकम् । इमे च महासत्वास्तथागतं द्रक्ष्यन्ति वन्दिष्यन्ते च ।

आह: गच्छाम कुलपुत्र यस्येदानीं कालं मन्यसे ।

अथ विमलकीर्तिर्लिच्छविस्तादृशमृद्ध्यभिसंस्कारमभिसंस्करोति स्म । यथा तां सर्वावतीं पर्षदं सार्धं तैः सिंहासनैर्दक्षिणे पाणौ प्रतिष्ठाप्य येन भगवांस्तेनोपसंक्रामत् । उपसंक्रम्य तां पर्षदं धरणितले प्रतिष्ठाप्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तं सप्तकृत्वः प्रदक्षिणीकृत्यैकान्तेऽस्थात् ।

अथ ये ते बोधिसत्वा गन्धोत्तमकूटस्य तथागतस्य बुद्धक्षेत्रादागताः, ते चान्ये च तेभ्यः सिंहासनेभ्योऽवतीर्य भगवतः पादौ शिरोभिर्वन्दित्वैकान्ते प्रत्यतिष्ठन् । एवं शक्रब्रह्मलोकपाला देवपुत्राश्च भगवतः पादौ शिरोभिर्वन्दित्वैकान्ते प्रत्यतिष्ठन् ।

अथ स भगवांस्तान् बोधिसत्वान् धर्म्यया कथय प्रतिसंमोद्यैवमाह: निसीदत कुलपुत्राः स्वेषु स्वेषु सिंहासनेषु ।

ते भगवतानुज्ञाता न्यषिदन् ।

१०.३ तत्र भगवानायुष्मन्तं शारिपुत्रमामन्त्रयते स्म: दृष्टं ते शारिपुत्र एषामग्रसत्वानां बोधिसत्वानां विक्रीडितम् ।

आह: दृष्टं भगवन् ।

भगवानाह: ततः का ते संज्ञोत्पन्ना ।

आह: अचिन्त्या संज्ञा मे भगवन् तत्रोदपद्यत यथा चिन्तयितुं तुलयितुं गणयितुं न शक्नोमि तादृशीं तेषामचिन्त्यां क्रियां पश्यामि ।

१०.४ अथायुष्मानानन्दो भगवन्तमेतदवोचत्: अनाघ्रातपूर्वं भगवन् गन्धमाजिघ्रामि । कस्यैष ईदृशो गन्धः ।

आह: एषामेव आनन्द बोधिसत्वानां सर्वरोमकूपेभ्यो गन्धः कायात्प्रवाति ।

शारिपुत्रोऽप्याह: अस्माकमप्यायुष्मन्नानन्द सर्वरोमकूपेभ्य ईदृशो गन्धः प्रवाति ।

आह: कुतोऽस्य गन्धस्य प्रादुर्भावः ।

आह: विमलकीर्तिना लिच्छविना गन्धोत्तमकूटस्य तथागतस्य बुद्धक्षेत्रात्सर्वगन्धसुगन्धाल्लोकधातोर्भोजनमानीतम् । तद्यावद्भिर्भुक्तं सर्वेषामीदृशो गन्धः कायात्प्रवाति ।

१०.५ अथायुष्मानानन्दो विमलकीर्तिं बोधिसत्वमेवमाह: कियच्चिरं पुनरेष कुलपुत्र गन्धोऽनुवर्तिष्यते ।

आह: यावदेतद्भोजनं न परिणतं भविष्यति ।

आनन्द आह: कियच्चिरेण पुनरेतद्भोजनं परिणंस्यति ।

आह: सप्तभिः सप्ताहैः परिणंस्यति । उपरि चास्य सप्ताहमोजः स्फरिष्यति । न चाजीर्णदोसो भविष्यति ।

१०.६ यैश्च भदन्तानन्द भिक्षुभिरनवक्रान्तनियामैरेतद्भोजनं भुक्तं तेषामवक्रान्तनियामानां परिणंस्यति । यैः पुनरवक्रान्तनियामैर्भुक्तं तेषां नापरिमुक्तचित्तानां परिणंस्यति । यैरनुत्पादितबोधिचित्तैः सत्वैः परिभुक्तं तेषामुत्पादितबोधिचित्तानां परिणंस्यति । यैरुत्पादितबोधिचित्तैर्भुक्तं तेषां नाप्रतिलब्धक्षान्तिकानां परिणंस्यति । यैः पुनः प्रतिलब्धक्षान्तिकैर्भुक्तं तेषामेकजातिप्रतिबद्धानां परिणंस्यति ।

१०.७ तद्यथापि नाम भदन्तानन्द स्वादुर्नाम भैषज्यम्, तत्तावत्कौष्ठगतं न परिणमति यावन्न सर्वगतं विषमपगतं भवति । ततः पश्चात्तद्भैषज्यं परिणमति । एवमेव भदन्तानन्द तावदेव तद्भोजनं न परिणतं भवति यावत्सर्वक्लेशविषं न निर्विषं भवति । ततः पश्चात्तद्भोजनं परिणमति ।

अथायुष्मानानन्दो भगवन्तमेतदवोचत्: बुद्धकृत्यं भगवनेतद्भोजनं करोति ।

आह: एवमेतदानन्द एवमेतद्यथा वदसि ।

१०.८ सन्त्यानन्द बुद्धक्षेत्राणि येषु बोधिसत्वा बुद्धकृत्यं कुर्वन्ति । सन्ति बुद्धक्षेत्राणि येषु बोधिवृक्षो बुद्धकृत्यं करोति । सन्ति बुद्धक्षेत्राणि येषु तथागतलक्षणरूपदर्शनं बुद्धकृत्यं करोति । एवं गगनमन्तरीक्षं बुद्धकृत्यं करोति । तादृशस्तेषां सत्वानां विनयो भवति ।

१०.९ एवं स्वप्नप्रतिभासदकचन्द्रप्रतिश्रुत्कामायामरीच्युपमोपन्यासाक्षरविभक्तिनिर्देशाः सत्वानां बुद्धकृत्यं कुर्वन्ति । सन्ति बुद्धक्षेत्राणि यत्राक्षरविज्ञप्तिर्बुद्धकृत्यं करोति । सन्त्यानन्द बुद्धक्षेत्राणि तादृशानि परिशुद्धानि यत्रानुदाहारताप्रव्याहारतानिर्देशतानभिलाप्यता तेषां सत्वानां बुद्धकृत्यं करोति ।

१०.१० न कश्चिदानन्द ईर्यापथो न कश्चिदुपभोगो यो बुद्धानां भगवतां सत्वविनयाय बुद्धकृत्यं न करोति । ये चेम आनन्द चत्वारो माराश्चतुराशीतिश्च क्लेशमुखशतसहस्राणि यैः सत्वाः संक्लिश्यन्ते, सर्वैस्तैर्बुद्धा भगवन्तो बुद्धकृत्यं कुर्वन्ति ।

१०.११ इदमानन्द सर्वबुद्धधर्मप्रवेशं नाम धर्ममुखं यत्र यत्र धर्ममुखे प्रविष्टो बोधिसत्वः सर्वोदारव्यूहगुणसमन्वागतेषु बुद्धक्षेत्रेषु नावलीयते नावनमति । सर्वोदारव्यूहगुणसमन्वागतेषु च बुद्धक्षेत्रेषु न कृष्यति नोन्नमति । तथागतानां च सकाशे सोऽधिमात्रं गौरवमुत्पादयति । आश्चर्यमिदं बुद्धानां भगवतां सर्वधर्मसमताधिमुक्तानां सत्वपरिपाचनतया बुद्धक्षेत्रनानात्वदर्शनम् ।

१०.१२ तद्यथा आनन्द भवति बुद्धक्षेत्राणामपरापरगुणनानात्वम्, न पुनः खगपथसंछादितस्य बुद्धक्षेत्रस्याकाशनानात्वम् । एवमेव आनन्द भवति तथागतानं रुपकायनानात्वम्, न पुनस्तथागतानामसङ्गज्ञाननानात्वम् ।

१०.१३ समा ह्यानन्द सर्वबुद्धा रूपेण वर्णेन तेजसा वपुषा लक्षणैः कुलमाहात्म्येन शीलेन समाधिना प्रज्ञया विमुक्त्या विमुक्तिज्ञानदर्शनेन बलैर्वैशारद्यैर्बुद्धधर्मैर्महामैत्र्या महाकरुणया हितैषितयेर्यया चर्यया प्रतिपदायुःप्रमाणेन धर्मदेशनया सत्वपरिपाकेन सत्वविमुक्त्या क्षेत्रपरिशुद्ध्या सर्वबुद्धधर्मपरिपूरया । तेनोच्यते सम्यक्संबुद्ध इति तथागत इति बुद्ध इति ।

एषामानन्द त्रयाणां पदानां योऽर्थविस्तरपदविभङ्गः स त्वया कल्पस्थितिकेनापि न सुकरः पर्यवाप्तुम् । त्रिसाहस्रपर्यापन्ना अप्यानन्द सत्वास्त्वत्सदृशा भवेयुरग्रा बहुश्रुतानां स्मृतिधारिणीप्रतिलब्धानाम्, तेऽपि सर्वे सत्वा आनन्दसदृशा एषां त्रयाणां पदानामर्थविनिश्चयं श्रुतस्मृतिधारिणीलब्धानामर्थविनिश्चयनिर्देशं कल्पेनापि न शक्नुयुः पर्यवाप्तुम्, यदिदं सम्यक्संबुद्ध इति तथागत इति बुद्ध इति । एवमप्रमाणा ह्यानन्द बुद्धबोधिः, एवमचिन्त्यं तथागतानां प्रज्ञाप्रतिभानम् ।

१०.१४ अथायुष्मानानन्दो भगवन्तमेतदवोचत्: अद्याग्रेणाहं भगवन्न भूयोऽग्रो बहुश्रुतानामित्यात्मानं प्रतिज्ञास्यामि ।

भगवानाह: मा त्वमानन्द अवलीनचित्तमुत्पादय । तत्कस्माद्धेतोः । श्रावकान् संधाय त्वं मया आनन्द अग्रो बहुश्रुतानां निर्दिष्टः, न बोधिसत्वान् । तिष्ठन्त्वानन्द बोधिसत्वाः । न ते पण्डितेनावगाहयितव्याः । शक्यो ह्यानन्द सर्वसागराणां गाधः प्रमातुम्, न त्वेव शक्यो बोधिसत्वानां प्रज्ञाज्ञानस्मृतिधारणीप्रतिभानस्य गाधः प्रमातुम् । उपेक्षका यूयमानन्द बोधिसत्वचर्यायां भवथ । तत्कस्माद्धेतोः । य इम आनन्द विमलकीर्तिना लिच्छविनैकपूर्वभक्ते व्यूहाः संदर्शिताः, ते सर्वश्रावकप्रत्येकबुद्धैरृद्धिप्राप्तैः सर्वर्द्धिविकुर्वितप्रातिहार्यैः कल्पकोटीशतसहस्राणि न शक्याः संदर्शयितुम् ।

१०.१५ अथ ये ते बोधिसत्वा भगवतो गन्धोत्तमकूटस्य तथागतस्य बुद्धक्षेत्रात्सर्वगन्धसुगन्धाल्लोकधातोरगतः, ते सर्वे प्राञ्जलीभूत्वा तथागतस्य नमस्यन्तः, एवं च वाचमभासन्त: प्रतिनिःसृजामो वयं भगवन् तान्मनसिकारान् यैरस्माभिरिह बुद्धक्षेत्रे हीनसंज्ञोत्पादिता । तत्कस्माद्धेतोः । अचिन्त्यो हि भगवन् बुद्धानां भगवतां बुद्धविषयः । उपायकौशल्येन सत्वपरिपाकाय यथा यथेच्छन्ति तथा तथा क्षेत्रव्यूहानादर्शयन्ति । देहि भगवनस्मभ्यं धर्मप्राभृतं यथा वयं तत्र सर्वगन्धसुगन्धे लोकधातौ गता भगवन्तमनुस्मरेम ।

१०.१६ भगवानाह: अस्ति कुलपुत्राः क्षयाक्षयो नाम बोधिसत्वानां विमोक्षः । तत्र युष्माभिः शिक्षितव्यम् । स पुनः कतमः । क्षयमुच्यते संस्कृतम्, अक्षयमसंस्कृतम् । तद्बोधिसत्वेन संस्कृतं च न क्षपयितव्यम्, असंस्कृते च न प्रतिष्ठातव्यम् ।

१०.१७ तत्र संस्कृतस्याक्षयता, यदिदं महामैत्र्या अच्यवनता, महाकरुणाया अनुत्सर्गः, अध्याशयसंप्रस्थितसर्वज्ञताचित्तस्यासंप्रमोषः, सत्वपरिपाकेष्वपरिखेदः, संग्रहवस्तूनामरिञ्चना, सद्धर्मपरिग्रहाय कायजीवितपरित्यागः, कुशलमूलेष्वतृप्तिः, परिणामनाकौशल्यप्रतिष्ठा, धर्मपर्येष्टावकौशीद्यम्, धर्मदेशनास्वनाचार्यमुष्टिः, तथागतदर्शनपूजावस्तुन्यौत्सुक्यम्, संचिन्त्योपपत्तिष्वनुत्त्रासः, संपत्तिविपत्तिष्वनुन्नामावनामता, अशिक्षितेष्वपरिभवः, शिक्षितेषु शास्तृप्रेमा, क्लेशाकीर्णानां योनिश उपसंहारः, विवेकरतिष्वतन्मयता, आत्मसौख्येऽनध्यवसानम्, परसौख्येन तन्मयता, ध्यानसमाधिसमापत्तिष्ववीचिसंज्ञा, संसार उद्यानविमानसंज्ञा, याचनकेषु कल्याणमित्रसंज्ञा, सर्वस्वपरित्यागे सर्वज्ञतापरिपूरिसंज्ञा, दुःशीलेषु परित्राणसंज्ञा, पारमितासु मातापितृसंज्ञा, बोधिपक्ष्येषु धर्मेषु स्वपरिवारसंज्ञा, अपर्याप्तीकृताः सर्वकुशलमूलसंभाराः, सर्वबुद्धक्षेत्रगुणानां स्वक्षेत्रनिष्पादनता, लक्षणानुव्यञ्जनपरिपूर्यै निरर्गडयज्ञयजनता, कायवाक्चित्तालंकारता सर्वपापाकरणतया, कायवाक्परिशुद्ध्या चित्तपरिशुद्ध्या चासंख्येयकल्पसंसरणता, चित्तशूरतयाप्रमाणबुद्धगुणश्रवणेनासंसीदनता, क्लेशशत्रुनिग्रहाय प्रज्ञाशस्त्रग्रहणता, सर्वसत्वभारोद्वहनतायै स्कन्धधात्वायतनपरिज्ञा, उत्तप्तवीर्यता मारसैन्यधर्षणार्थम्, निर्मानता धर्मपर्येष्ट्यै, ज्ञानपर्येष्टिधर्मग्राह्यताया अल्पेच्छसंतुष्टिता, सर्वलोकप्रियतायै सर्वलोकधर्मासंसृष्टता, लोकानुवर्तनतायै सर्वेर्यापथाविकोपनता,
सर्वक्रियासंदर्शनताया अभिज्ञोत्पादनता, सर्वश्रुतधारणतायै धारणीस्मृतिज्ञानता, सर्वसत्वसंशयच्छेदनताया इन्द्रियपरापरज्ञानता, असङ्गाधिष्ठानता धर्मदेशनतायै, असङ्गप्रतिभानता प्रतिभानप्राप्तप्रतिलम्भतया, देवमनुष्यसंपत्त्यनुभवता दशकुशलकर्मपरिशुद्धितया, ब्रह्मपथप्रतिष्ठानता चतुरप्रमाणोत्पादनतायै, बुद्धस्वरप्रतिलम्भता धर्मदेशनाध्येषणानुमोदनासाधुकारप्रदानेन, बुद्धेर्यापथप्रतिलम्भता कायवाङ्मनःसम्यमविशेषगामितया सर्वधर्मातन्मयतया, बोधिसत्वसंघकर्षणतया महायानसमादापनता, सर्वगुणाविप्रणाशतया चाप्रमादः । एवं हि कुलपुत्राः एतद्धर्माधिमुक्तो बोधिसत्वः संस्कृतं न क्षपयति ।

१०.१८ कथं पुनरसंस्कृते न प्रतितिष्ठते । यदा शून्यतापरिजयं च करोति । न च शून्यतां साक्षात्करोति । आनिमित्तपरिजयं च करोति । न चानिमित्तं साक्षात्करोति । अप्रणिहितपरिजयं च करोति, न चाप्रणिहितं साक्षात्करोति । अनभिसंस्कारपरिजयं च करोति, न चानभिसंस्कारं साक्षात्करोति । अनित्यमिति च प्रत्यवेक्षते, न च कुशलमूलैस्तृप्यते । दुःखमिति च प्रत्यवेक्षते, संचिन्त्य चोपपद्यते । अनात्मेति च प्रत्यवेक्षते, न चत्मतां परित्यजति । शान्तमिति च प्रत्यवेक्षते, न चात्यन्तशान्तिमुत्पादयति । विविक्तमिति च प्रत्यवेक्षते, कायचित्तेन चोद्युज्यते । अनालयमिति च प्रत्यवेक्षते, शुक्लधर्मालयं च न विजहाति । अनुपादानमिति च प्रत्यवेक्षते, उपात्तं च सत्वानां भारं वहति । अनास्रवमिति च प्रत्यवेक्षते, संसारप्रवृत्तिं चोपयाति । अप्रचारमिति च प्रत्यवेक्षते, प्रचरति सत्वपरिपाकाय । नैरात्म्यमिति च प्रत्यवेक्षते, सत्वमहाकरुणां च नोत्सृजति । अजातिं च प्रत्यवेक्षते, श्रावकनियामे च न पतति । रिक्तमिति च तुच्छमिति चासारकमिति चास्वामिकमिति चानिकेतमिति च प्रत्यवेक्षते, अरिक्तपुण्यश्
चातुच्छज्ञानश्च परिपूर्णसंकल्पश्च स्वयम्भूज्ञानाभिषिक्तश्च स्वयम्भूज्ञाने चाभियुक्तो नीतार्थो बुद्धवंशे प्रतिष्ठितो भवति । एवं हि कुलपुत्राः एवं धर्माधिमुक्तो बोधिसत्वोऽसंस्कृते न प्रतितिष्ठते संस्कृतं न क्षपयति ।

१०.१९ पुण्यसंभाराभियुक्तत्वदसंस्कृते न प्रतितिष्ठति, ज्ञनसंभाराभियुक्तत्वात्संस्कृतं न क्षपयति । महामैत्रीसमन्वागतत्वादसंस्कृते न प्रतितिष्ठति, महाकरुणासमन्वागतत्वात्संस्कृतं न क्षपयति । सत्वपरिपाचनत्वादसंस्कृते न प्रतितिष्ठति, बुद्धधर्माभिलाषित्वात्संस्कृतं न क्षपयति । बुद्धलक्षणपरिपूरणत्वादसंस्कृते न प्रतितिष्ठति, सर्वज्ञज्ञानपरिपूरणार्थं संस्कृतं न क्षपयति । उपायकुशलत्वादसंस्कृते न प्रतितिष्ठति, प्रज्ञासुनिरीक्षितत्वात्संस्कृतं न क्षपयति । बुद्धक्षेत्रपरिशुद्ध्यर्थमसंस्कृते न प्रतितिष्ठति, बुद्धाधिष्ठानत्वात्संस्कृतं न क्षपयति । सत्वार्थानुभवनादसंस्कृते न प्रतितिष्ठति, धर्मार्थसंदर्शनात्संस्कृतं न क्षपयति । कुशलमूलसंभारत्वादसंस्कृते न प्रतितिष्ठति, कुशलमूलवासनत्वात्संस्कृतं न क्षपयति । प्रणिधानपरिपूरणार्थमसंस्कृते न प्रतितिष्ठति, अप्रणिहितत्वात्संस्कृतं न क्षपयति । आशयपरिशुद्धत्वादसंस्कृते न प्रतितिष्ठति, अध्याशयपरिशुद्धत्वात्संस्कृतं न क्षपयति । पञ्चाभिज्ञाविक्रीडितत्वादसंस्कृते न प्रतितिष्ठति, बुद्धज्ञानषडभिज्ञत्वात्संस्कृतं न क्षपयति । पारमितासंभारपरिपूरणार्थमसंस्कृते न प्रतितिष्ठति, अपरिपूर्णकालत्वात्संस्कृतं न क्षपयति । धर्मधनसमुदानयनत्वादसंस्कृते न प्रतितिष्ठति, प्रादेशिकधर्मानर्थिकत्वात्संस्कृतं न क्षपयति । सर्वभैषज्यसमुदानयनत्वाद्
असंस्कृते न प्रतितिष्ठति, यथार्हभैषज्यप्रयोजनात्संस्कृतं न क्षपयति । दृढप्रतिज्ञया असंस्कृते न प्रतितिष्ठति, प्रतिज्ञोत्तारणत्वात्संस्कृतं न क्षपयति । धर्मभैषज्यसमुदानयनत्वादसंस्कृते न प्रतितिष्ठति, यथापीत्वरधर्मभैषज्यप्रयोजनात्संस्कृतं न क्षपयति । सर्वसत्वक्लेशव्याधिपरिज्ञानामसंस्कृते न प्रतितिष्ठति, सर्वव्याधिशमनात्संस्कृतं न क्षपयति । एवं हि कुलपुत्राः बोधिसत्वः संस्कृतं न क्षपयति, असंस्कृते न प्रतितिष्ठति । अयमुच्यते क्षयाक्षयो नाम बोधिसत्वानां विमोक्षः । तत्र युष्माभिः सत्पुरुषाः योगः करणीयः ।

१०.२० अथ खलु ते बोधिसत्वा इमं निर्देशं श्रुत्वा तुष्टा उदग्र आत्तमनसः प्रमुदिताः प्रीतिसौमनस्यजाता भगवतः पूजाकर्मणे तेषां च बोधिसत्वानामस्य धर्मपर्यायस्य पूजाकर्मणे सर्वमिमं त्रिसाहस्रमहासाहस्रं लोकधातुं सर्वचूर्णगन्धधुपव्यूहैः पुष्पैश्च जानुमात्रं संछाद्य भगवतश्च पर्षन्मण्डलमभिकीर्तिं कृत्वा भगवतः पादौ शिरोभिर्वन्दित्वा भगवन्तं त्रिष्प्रदक्षिणीकृत्योदानमुदानयन्त इह बुद्धक्षेत्रेऽन्तर्हितास्तेन क्षणलवमुहूर्तेन तत्र सर्वगन्धसुगन्धे लोकधातौ प्रत्युपस्थिताः ॥ ॥

क्षयाक्षयो नाम धर्मप्राभृतपरिवर्तो दशमः ॥


११.१ अथ खलु भगवान् विमलकीर्तिं लिच्छविमेतदवोचत्: यदा त्वं कुलपुत्र तथागतस्य दर्शनकामो भवसि, तदा कथं त्वं तथागतं पश्यसि ।

एवमुक्ते विमलकीर्तिर्लिच्छविर्भगवन्तमेतदवोचत्: यदाहं भगवन् तथागतस्य दर्शनकामो भवामि, तदा तथागतमपश्यनया पश्यामि । पूर्वान्ततोऽजातमपरान्ततोऽसंक्रान्तं प्रत्युत्पन्नेऽध्वन्यसंस्थितं पश्यामि । तत्कस्य हेतोः । रूपतथतास्वभावमरूपम्, वेदनातथतास्वभावमवेदनाम्, संज्ञातथतास्वभावमसंज्ञम्, संस्कारतथतास्वभावमसंस्कारम्, विज्ञानतथतास्वभावमविज्ञानम्, चतुर्धात्वसंप्राप्तमाकाशधातुसमम्, षडायतनानुत्पन्नं चक्षुःपथसमतिक्रान्तं श्रोत्रपथसमतिक्रान्तं घ्राणपथसमतिक्रान्तं जिह्वापथसमतिक्रान्तं कायपथसमतिक्रान्तं मनःपथसमतिक्रान्तम्, त्रैधातुकासंसृष्टम्, त्रिमलापगतम्, त्रिविमोक्षानुगतम्, त्रिविद्यानुप्राप्तम्, अप्राप्तं संप्राप्तम्, सर्वधर्मेष्वसङ्गकोटीगतं भूतकोट्यकोटिकम्, तथताप्रतिष्ठितं तदन्योन्यविसंयुक्तम्, न हेतुजनितं न प्रत्ययाधीनम्, न विलक्षणं न सलक्षणम्, नैकलक्षणं न नानालक्षणम् ।

न लक्ष्यते न संलक्ष्यते न विलक्ष्यते, नार्वाङ्न पारे न मध्ये, नेह न तत्र, नेतो नान्यतः, न ज्ञानविज्ञेयो न विज्ञानप्रतिष्ठितः, अतमोऽप्रकाशः, अनामानिमित्तम्, न दुर्बलो न बलवान्, न देशस्थो न प्रदेशस्थः, न शुभो नाशुभः, न संस्कृतो नासंस्कृतः ।

नापि केनचिदर्थेन वचनीयः, न दानतो न मात्सर्यतः, न शीलतो न दौःशील्यतः, न क्षान्तितो न व्यापादतः, न वीर्यतो न कौशीद्यतः, न ध्यानतो न विक्षेपतः, न प्रज्ञातो न दौःप्रज्ञ्यतः, न वचनीयो नावचनीयः, न सत्यतो न मृषातः, न नैर्याणिकतो नानैर्याणिकतः ।

न गमानीयो नागमनीयः, सर्वरुतव्याहारसमुच्छिन्नः, न क्षेत्रभूतो नाक्षेत्रभूतः, न दक्षिणार्हो न दक्षिणाशोधयिता, अग्राह्यः, अपरामृष्टः, अनिकेतः, असंस्कृतः, संख्यापगतः, समतया समः, धर्मतया तुल्यः, अतुल्यवीर्यः, तुलनासमतिक्रान्तः, न क्रान्तो न चाक्रान्तः, न समतिक्रान्तः, न दृष्टश्रुतपरिज्ञातः, सर्वग्रन्थिविगतः, सर्वज्ञज्ञानसमताप्राप्तः, सर्वसत्वसमः, सर्वधर्मनिर्विशेषप्राप्तः, सर्वतोऽनवद्यः, निष्किंचनः, निष्कषायः, निष्कलः, निर्विकल्पः, अकृतः, अजातः, अनुत्पन्नः, अभूतः, असंभूतः, न भविष्यति, निर्भयः, निष्क्लेशः, निःशोकः, निष्प्रीतिकः, नीरूर्मिकः, सर्वव्यवहारनिर्देशैरवचनीयः ।

ईदृशो भगवन् तथागतस्य कायः । स तथैव द्रष्टव्यः । य एवं पश्यन्ति, ते सम्यक्पश्यन्ति । ये त्वन्यथा पश्यन्ति, ते मिथ्या पश्यन्ति ।

११.२ अथायुष्माञ्शारिपुत्रो भगवन्तमेतदवोचत्: कतमस्माद्भगवन् बुद्धक्षेत्राच्च्युतौ विमलकीर्तिः कुलपुत्र इदं बुद्धक्षेत्रमागतः ।

भगवानाह: एतमेव त्वं शारिपुत्र सत्पुरुषं परिपृच्छ ः कुतस्त्वं च्युत्वेहोपपन्न इति ।

अथायुष्माञ्शारिपुत्रो विमलकीर्तिं लिच्छविमेतदवोचत्: कुतस्त्वं कुलपुत्र च्युत्येहोपपन्नः ।

विमलकीर्तिराह: यः स्थविरेण धर्मः साक्षात्कृतः, कच्चित्तस्य धर्मस्य च्युतिरुपपत्तिर्वा ।

आह: न तस्य धर्मस्य काचिच्च्युतिरुपपत्तिर्वा ।

आह: एवमच्युतिकानामनुत्पत्तिकानां भदन्तशारिपुत्र सर्वधर्माणां कुतस्तवैवं भवति ः कुतस्त्वं च्युत्वेहोपपन्न इति । यं भदन्तशारिपुत्र निर्मितां स्त्रियं पुरुषं वा पृच्छेः ः कुतस्त्वं च्युत्वेहोपपन्न इति । स किं व्याकुर्यात् ।

आह: न कुलपुत्र निर्मितस्य च्युतिर्नोपपत्तिः, स किं व्याकरिष्यति ।

आह: ननु भदन्तशारिपुत्र निर्मितस्वभावाः सर्वधर्मास्तथागतेन निर्दिष्टाः ।

आह: एवमेतत्कुलपुत्र ।

आह: निर्मितस्वभावेषु भदन्तशारिपुत्र सर्वधर्मेषु ः कुतस्त्वं च्युत्वेहोपपन्न इति । च्युतिरिति भदन्तशारिपुत्र अभिसंस्कारक्षनैअक्षणपदमेतत् । उपपत्तिरित्यभिसंस्कारप्रबन्ध एषः । तत्र बोधिसत्वश्च्यवते, न कुशलमूलाभिसंस्कारं क्षपयति । उपपद्यते च, न चाकुशलं प्रबध्नाति ।

११.३ तत्र भगवानायुष्मन्तं शारिपुत्रमामन्त्रयते स्म: अक्षोभ्यस्य शारिपुत्र तथागतस्य सकाशादागत एष कुलपुत्रोऽभिरत्या इओकधातोः ।

आह: आश्चर्यं भगवन् यदेष सत्पुरुषस्तावत्परिशुद्धाद्बुद्धक्षेत्रादागत्येहैवं बहुदोषदुष्टे बुद्धक्षेत्रेऽभिरमते ।

विमलकीर्तिराह: तत्किं मन्यसे भदन्तशारिपुत्र अपि नु सूर्यरश्मयोऽन्धकारेण सार्धं रमन्ते ।

आह: नो हीदं कुलपुत्र, न तयोर्योगोऽस्ति । सहोद्गते हि सूर्यमण्डले सर्वं तमोऽपयान्ति ।

आह: किं कारणं पुनः सूर्यो जम्बूद्वीप उदयते ।

आह: यावदेवावभासकरणाय तमोऽपघातय च ।

आह: एवमेव शारिपुत्र संचिन्त्य बोधिसत्वा अपरिशुद्धेषु बुद्धक्षेत्रेषूपपद्यन्ते सत्वानां परिशोधनाय । न च क्लेशैः सार्धं संवसन्ति, क्लेशान्धकारं च विधमन्ति सर्वसत्वानाम् ।

११.४ अथ सा सर्वा पर्षत्परितृषिताभुत्: पश्येम वयं तमभिरतिं लोकधातुं तं चाक्षोभ्यं तथागतं तांश्च बोधिसत्वांस्तांश्च महाश्रावकान् ।

अथ भगवांस्तस्याः सर्वस्याः पर्षदश्चेतस चेतःपरिवितर्कमाज्ञाय विमलकीर्तिं लिच्छविमेतदवोचत्: दर्शय कुलपुत्र अस्याः पर्षदस्तामभिरतिं लोकधातुं तं चाक्षोभ्यं तथागतम् । द्रष्टुकमेयं पर्सत् ।

अथ विमलकीर्तेर्लिच्छवेरेतदभवत्: यन्न्वहमितश्चासनान्नोत्तिष्ठेयम् । तां चाभिरतिं लोकधातुमनेकबोधिसत्वशतसहस्रां देवनागयक्षगन्धर्वासुराध्युषितां सचक्रवाडपरिखां सनदीतडागोत्ससरःसमुद्रपरिखां ससुमेरुगिरिकूटपर्वतां सचन्द्रसूर्यज्योतिषां सदेवनागयक्षगन्धर्वभवनां सब्रह्मभवनपारिसद्यां सग्रामनगरनिगमजनपदराष्ट्रमनुष्यां सस्त्र्यागारां सबोधिसत्वसश्रावकपर्षदम्, अक्षोभ्यस्य तथागतस्य बोधिवृक्षम्, अक्षोभ्यं च तथागतं सागरोपमायां महापर्षदि निषण्णं धर्मं देशयमानम्, अपि तानि पद्मानि यानि दशसु दिक्षु बुद्धकृत्यं कुर्वन्ति सत्वानाम्, अपि तानि त्रीणि रत्नमयानि सोपानानि यानि जम्बूद्वीपमुपादाय त्रयस्त्रिंशद्भवनमभ्युद्गतानि यैः सोपानैर्देवास्त्रयस्त्रिंशतो जम्बूद्वीपमवतरन्त्यक्षोभ्यं तथागतं दर्शनाय वन्दनायै पर्युपासनाय धर्मश्रवणाय जाम्बुद्वीपकाश्च मनुष्यास्त्रयस्त्रिंशद्भवनमभिरोहन्ति देवांस्त्रयस्त्रिंशतो दर्शनाय । एवमप्रमाणगुणसमुदितां तामभिरतिं लोकधातुमप्स्कन्धमुपादाय यावदकनिष्ठभवनं भार्गवचक्रमिव परिच्छिद्य दक्षिणेन पाणिना पुष्पदाममिवादायेमां लोकधातुं प्रवेशयेयम् । प्रवेश्य चास्याः सर्वस्याः पर्षदो दर्शयेयम् ।

११.५ अथ विमलकीर्तिर्लिच्छविस्तस्यां वेलायां तथारूपं समाधिं समापन्नः, तादृशं चर्द्ध्यभिसंस्कारमभिसंस्कृतवान् यस्तमभिरतिं लोकधतुं परिच्छिद्य दक्षिणेन पानिना गृहीत्वेमं सहं लोकधातुं प्रवेशयति स्म ।

११.६ तत्र ये दिव्यचक्षुषोऽभिज्ञाप्रतिलब्धाः श्रावका बोधिसत्वा देवमनुष्याश्च, ते महान्तमुत्क्रोशमुत्क्रोशन्ति स्म: क्न्यामहे भगवन् क्रियामहे सुगत । त्राय च तथागत इति ।

तान् भगवान् विनयनार्थमेवमाह: न ममात्र वृषभिता विमलकीर्तिना बोधिसत्वेन क्रियमाणानाम् ।

तत्र ये पुनरन्ये देवमनुष्याः, ते न जानन्ति न पश्यन्ति ः कुतो वयं क्रियामह इति । न ह्यभिरत्या लोकधातोरिमं सहं लोकधातुं प्रवेशिताया ऊनत्वं न पूर्णत्वमभूत् । न चास्य लोकधातोरुत्पीडो न संबाधः । नाप्यभिरत्या लोकधातोरूनभावः । यथा पूर्वं तथा पश्चात्संदृश्यते ।

११.७ अथ भगवाञ्शाक्यमुनिस्तां सर्वां पर्षदमामन्त्रयते स्म: पश्यत मार्षाः अभिरतिं लोकधातुमक्षोभ्यं च तथागतमेतांश्च क्षेत्रव्यूहाञ्श्रावकव्यूहान् बोधिसत्वव्यूहांश्च ।

त आहुः: पश्यामो भगवनिति ।

आह: ईदृशं मार्साः बुद्धक्षेत्रं परिग्रहीतुकामेन बोधिसत्वेनाक्षोभ्यस्य तथागतस्य बोधिसत्वचर्यायामनुशिक्षितव्यम् ।

अस्मिन् पुनरभिरतिलोकधातुसंदर्शनर्द्धिप्रातिहार्येऽक्षोभ्यस्य च तथागतस्य संदर्शनेऽस्मिन् सहे लोकधातौ चतुर्दशानामयुतानां देवमानुषिकायाः प्रजाया अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पन्नानि । सर्वैश्चाभिरत्यां लोकधातौ प्रणिधानमुत्पादितमुपपत्तये । ते सर्वे भगवता व्याकृता अभिरत्यां लोकधातावुपपत्तये । इति हि विमलकीर्तिर्लिच्छविर्यावानिह सहे लोकधातौ सत्वपरिपाकः कर्तव्यस्तं सर्वं कृत्वा पुनरेव तामभिरतिं लोकधातुं यथस्थाने स्थापयमास ।

११.८ तत्र भगवानायुष्मन्तं शारिपुत्रमामन्त्रयते स्म: दृष्टा ते शारिपुत्र अभिरतिर्लोकधातुः स चाक्षोभ्यस्तथगतः ।

आह: दृष्टा मे भगवन् । सर्वसत्वानां तादृशा बुद्धक्षेत्रगुणव्यूहा भवन्तु । सर्वसत्वाश्चेदृश्यर्द्ध्या समन्वागता भवन्तां यादृश्या विमलकीर्तिर्लिच्छविः कुलपुत्रः । एभिरपि च सुलब्धा लाभाः । ये वयमीदृशान् सत्पुरुषान् लभामहे दर्शनाय । तेषमपि सत्वानां सुलब्धा लाभा भविष्यन्ति, य एतर्हि तथागतस्य तिष्ठतो वा परिनिर्वृतस्य वेमं धर्मपर्यायमन्तशः श्रोष्यन्ति । कः पुनर्वादः, ये श्रुत्वाधिमोक्ष्यन्ते प्रत्येष्यन्त्युद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्त्यधिमोक्ष्यन्ति प्रवर्तयिष्यन्ति परेभ्यश्च विस्तरेण संप्रकाशयिष्यन्ति भावनायोगमनुयुक्ताश्च भविष्यन्ति ।

११.९ ते धर्मरत्ननिधानप्राप्ता भविष्यन्ति, येषामयं धर्मपर्यायो हस्तगतो भविष्यति । तथागतसहायास्ते भविष्यन्ति, य इमं धर्मपर्यायं स्वाध्यास्यन्ते । धर्मसंरक्षकास्ते भविष्यन्ति, य एतद्धर्माधिमुक्तानामुपस्थानपरिचर्यां करिष्यन्ति । गृहगतस्तेषां तथागतो भविष्यति, य इमं धर्मपर्यायं सुलिखितं कृत्वा धारयिष्यन्ति सत्करिष्यन्ति । सर्वपुण्यपरिगृहीतास्ते भविष्यन्ति, य इमं धर्मपर्यायमनुमोदिष्यन्ते । महाधर्मयज्ञं ते यजिष्यन्ति, य इतो धर्मपर्यायादन्तशश्चतुष्पदिकामपि गाथां संवरमपि परेभ्यो विस्तरेण देशयिष्यन्ति । तदेव तेषां भगवन् व्याकरणं येषामिह धर्मपर्याये क्षान्ती रुचिर्मतिः प्रेक्षा दृष्टिरधिमुक्तिर्मुक्तिश्च भविष्यति ॥ ॥

अभिरतिलोकधात्वानयनाक्षोभ्यतथागतदर्शनपरिवर्त एकादशः ॥


१२.१ अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्: बहुनि मे भगवन् तथागतस्यान्तिकान्मञ्जुश्रियश्च कुमारभूतस्यान्तिकाद्धर्मपर्यायशतसहस्राणि श्रुतानि । न च मे जात्वेवमचिन्त्यविमोक्षविकुर्वितधर्मनयप्रवेशश्रुतपूर्वो यादृश इह धर्मपर्याये निर्दिष्टः ।

१२.२ निःसंशयं ते सत्वा एवं धर्मभाजना भविष्यन्ति, य इमं धर्मपर्यायमुद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति । कः पुनर्वादः । ये भावनायोगमनुयुक्ता भविष्यन्ति, पिथितास्तेषां सर्वापायाः, अनावृतास्तेषां सर्वे सुगतिपथाः, दृष्टास्ते सर्वबुद्धैः, निहतास्तैः सर्वपरप्रवादिनः, पराजितास्तैः सर्वमाराः, विशोधितास्तैर्बोधिमार्गाः, प्रतिष्ठितास्ते बोधिमण्डे, तथागतगतिसमवसरणास्ते भविष्यन्ति ।

१२.३ य इमं धर्मपर्यायं धारयिष्यन्ति, अहमपि भगवन् तेषां कुलपुत्राणामुपस्थानपरिचर्यां करिष्यामि सार्धं सर्वपरिवारेण । यत्र च ग्रामनगरनिगमजनपदराष्ट्रराजधानीष्वयं धर्मपर्यायः प्रचरिष्यति देशयिष्यति संप्रकाशयिष्यति, तत्राहं सपरिवारो धर्मश्रवणायोपसंक्रामिष्यामि । अप्रसन्नानां च कुलपुत्राणां प्रसादमुत्पादयिष्यामि, प्रसन्नानां च धार्मिकिं रक्षावरणगुप्तिं करिष्यामि ।

१२.४ एवमुक्ते भगवाञ्शक्रं देवानामिन्द्रमेतदवोचत्: साधु साधु देवानमिन्द्र, सुभाषितं तेऽनुमोदते तथागतः । या देवानामिन्द्र अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां बोधिरिह धर्मपर्याय उद्दिष्टा । तस्मादिह देवेन्द्र अतीतानागतप्रत्युत्पन्नास्तेन कुलपुत्रेण व कुलदुहित्रा वा बुद्धा भगवन्तः पूजिता भविष्यन्ति, य इमं धर्मपर्यायमुद्ग्रहीष्यत्यन्तशः पुस्तकलिखितमपि करिष्यति वाचयिष्यति लिखिष्यति पर्यवाप्स्यति ।

१२.५ यश्च पुनर्देवेन्द्र कुलपुत्रो वा कुलदुहिता वेमं त्रिसाहस्रमहासाहस्रं लोकधातुं तथागतपूर्णं तद्यथापि नामेक्षुवनं वा नडवनं वा वेणुवनं वा तिलवनं वैवं शालिवनं वा प्रतिपूर्णं कल्पं वा कल्पावशेषं वा सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेत्तांस्तथागतान् सर्वपूजाभिः सर्वसुखोपधानैः, परिनिर्वृतानां च तेषां तथागतानामेकैकस्य तथागतस्य पूजाकर्मण एकघनस्याविकोपितस्य शरीरस्य सर्वरत्नमयं स्तूपं प्रतिष्ठापयेच्चतुर्महाद्वीपिकलोकधातुप्रमाणं यावद्ब्रह्मलोकमुच्चैस्त्वेन यष्टिच्छत्रपताकाभिरुद्विद्धोपशोभितमेवं सर्वतथागतानां प्रत्येकं स्तूपं कारयेत्, स च तत्र कल्पं वा कल्पावशेषं वा पूजां कुर्यात्सर्वपुष्पैः सर्वगन्धैः सर्वध्वजपताकाभिः सर्वतूर्यताडावचरसंप्रवादितेन पूजां कुर्यात्, तत्किं मन्यसे देवानामिन्द्र अपि नु स कुलपुत्रो वा कुलदुहिता वा ततो निदानं बहु पुण्यं प्रसुनुयात् ।

आह: बहु भगवन् बहु सुगत, नास्य पुण्यस्कन्धस्य शक्यः पर्यन्तोऽधिगन्तुं कल्पकोटीशतसहस्रैरपि ।

१२.६ भगवानाह: आरोचयामि ते देवानामिन्द्र, प्रतिवेदय । अतः स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसुनुयात्, य इममचिन्त्यविमोक्षनिर्देशं धर्मपर्यायमुद्गृह्णीयाद्धारयेद्वाचयेत्पर्यवाप्नुयात् । तत्कस्माद्धेतोः । धर्मनिर्जाता हि देवेन्द्र बुद्धानां भगवतां बोधिः, सा धर्मेणैव शक्या पूजयितुम्, नामिषेण । तदनेनापि ते देवेन्द्र पर्यायेणैवं वेदितव्यम् ।

१२.७ भूतपूर्वं देवानामिन्द्र अतीतेऽध्वन्यसंख्येये कल्पेऽसंख्येयतरे विपुलेऽप्रमाणेऽचिन्त्ये यदासीत्तेन कालेन तेन समयेन भैसज्यराजो नाम तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्महाव्यूहे लोकधातौ विशोधने कल्पे । तस्य खलु पुनर्देवानामिन्द्र भैषज्यराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य विंशतिरन्तरकल्प आयुःप्रमाणमभूत् । षट्त्रिंशच्चास्य कोटीनियुतानि श्रावकानां संघोऽभूत् । द्वादशकोट्यो बोधिसत्वानां संघोऽभूत् । तेन च देवानामिन्द्र कालेन तेन समयेन रत्नच्छत्रो नाम राजाभूच्चक्रवर्ती सप्तरत्नसमन्वागतश्चतुर्द्वीपेश्वरः । परिपूर्णं चास्य पुत्रसहस्रमभूच्छूराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम् ।

१२.८ तेन खलु पुनः समयेन राज्ञा रत्नच्छत्रेण स भगवान् भैषज्यराजस्तथागतः पञ्चान्तरकल्पान् सत्कृतः सपरिवारः सर्वसुखोपधानेन । इति हि देवानामिन्द्र तेषां पञ्चानामन्तरकल्पानामत्ययेन स राजा रत्नच्छत्रस्तत्पुत्रसहस्रमामन्त्रयते स्म: यत्खलु मार्षाः जानीत, कृता मया तथागतस्य पूजा, यूयमिदानीं तथागतस्य पूजां कुरुत । इति हि देवानामिन्द्र ते राजकुमाराः पितू राज्ञो रत्नच्छत्रस्य ः साध्विति प्रतिश्रुत्य सर्वे सहिताः समग्रा अपरान् पञ्चान्तरकल्पांस्तं भगवन्तं भैषज्यराजं तथागतं सत्कुर्वन्ति सर्वसुखोपधानैः ।

१२.९ ततश्चैको राजकुमारः सोमच्छत्रो नाम । तस्यैकाकिनो रहोगतस्यैतदभूत्: अस्ति त्वस्याः पुजाया अन्योदारता विशिष्टतरा पूजेति ।

तस्यान्तरीक्षाद्देवता बुद्धाधिष्ठानेनैवमाह: धर्मपूजा सत्पुरुष सर्वपूजाभ्यो विशिष्यते ।

स एवमाह: कतमा पुनः सा धर्मपूजेति ।

देवताह: एतमेव त्वं सत्पुरुष तथागतं भैषज्यराजमुपसंक्रम्य परिपृच्छ ः कतमा सा धर्मपूजेति । स ते भगवान् व्याकरिष्यति ।

अथ देवानामिन्द्र स सोमच्छत्रो राजकुमारो येन भगवान् भैषज्यराजस्तथागतोऽर्हन् सम्यक्संबुद्धस्तेनोपसंक्रामत् । उपसंक्रम्य तस्य भगवतः पादौ शिरसा वन्दित्वैकान्तेऽस्थात् । एकान्तस्थितश्च सोमच्छत्रो राजकुमारस्तं भगवन्तं भैषज्यराजं तथागतमेतदवोचत्: धर्मपूजा धर्मपूजेति भगवनुच्यते । कतमा सा धर्मपूजेति ।

१२.१० स भगवानाह: धर्मपूजा कुलपुत्र या तथागतभाषितानां सूत्रान्तानां गम्भीराणां गम्भीरावभासानां सर्वलोकप्रत्यनीकानां दुरवगाहानां दुर्दृशानां दुरनुबोधानां सूक्ष्माणां निपुणानां निरुपलम्भानां बोधिसत्वपिटकान्तर्गतानां धारणीसूत्रान्तराजमुद्रामुद्रितानामविवर्तचक्रसूचकानां षट्पारमितानिर्जातानां संगृहीतग्रहाणां बोधिपक्ष्यधर्मानुगतानाम् । बोध्यङ्गाहाराणां सत्वमहाकरुणावताराणां महामैत्रीनिर्देशानां मारदृष्टिगतविगतानां प्रतीत्यसमुत्पादनिर्दिष्टानाम्

१२.११ निरात्मनिःसत्वनिर्जीवनिष्पुद्गलानां शून्यतानिमित्ताप्रणिहितानभिसंस्काराणां बोधिमण्डाहारकाणां धर्मचक्रप्रवर्तकानां देवनागयक्षगन्धर्वसंस्तुतप्रशस्तानां सद्धर्मवंशानुपच्छेर्त्तॄणां धर्मगञ्जसंधारकानां धर्माग्रपूजावतीर्णानां सर्वार्यजनपरिगृहीतानां सर्वबोधिसत्वचर्याप्रशासकानां भूतार्थधर्मप्रतिसंचितावताराणां धर्मोद्दानानित्यदुःखानात्मशान्तनिर्जातानां दुःशीलौजोघट्टकानां सर्वपरप्रवादिकुदृष्ट्युपलम्भाभिनिविष्टत्रासकराणां सर्वबुद्धप्रशस्तानां संसारविपक्षाणां निर्वाणसुखसंदर्शकानाम् । एवंरूपाणां सूत्रान्तानां या देशना संप्रकाशना धारणा प्रत्यवेक्षणा सद्धर्मसंग्रहः, इयमुच्यते धर्मपूजेति ।

१२.१२ पुनरपरं कुलपुत्र धर्मपूजा या धार्मेषु धर्मनिध्यप्तिः, धर्मप्रतिपत्तिः, प्रतीत्यसमुत्पादानुलोमता, सर्वान्तदृष्टिविगमः, अजातानुत्पादक्षान्तिः, नैरात्म्यनिःसत्वतावतारः, हेतुप्रत्ययाविरोधः, अविग्रहः, अविवादः, अममत्वम्, ममकारविगमः, अर्थप्रतिशरणता न व्यञ्जनप्रतिशरणता, ज्ञनप्रतिशरणता न विज्ञनप्रतिशरणता, नीतार्थसूत्रान्तप्रतिशरणता न नेयार्थसंवृत्यभिनिवेशः, धर्मताप्रतिशरणता न पुद्गलदृष्ट्युपलम्भो न ग्राह्याभिनिविष्टता, यथावद्धर्मानुगमः, अनालयप्रवेशः, आलयसमुद्घातः, अविद्याव्युपशमो यावज्जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासव्युपशमः । एवं च द्वादशाङ्गं प्रतीत्यसमुत्पादमवेक्ष्यते, अक्षयाभिनिर्हारेण चाभिनिर्हरति, सत्वावेक्षया च दृष्टिनिरपेक्षः । इयमपि कुलपुत्र उच्यतेऽनुत्तरा धर्मपूजेति ।

१२.१३ इति हि देवानामिन्द्र स सोमच्छत्रो राजकुमारस्तस्य भगवतो भैषज्यराजस्य तथागतस्यान्तिकादिमां धर्मपूजां श्रुत्वानुलोमिकीं धर्मक्षान्तिं प्रतिलभते स्म । यथाप्रावृतैश्च वस्त्राभरणैस्तं भगवन्तं छादयति, एवं वाचमभाषत्: अहं भगवनुत्सहे तथागतस्य सद्धर्मपरिग्रहाय सद्धर्मपूजाकरणतायै सद्धर्मं परिरक्षितुम् । तस्य मे भगवांस्तथाधिष्ठानं करोतु । यथाहं निहतमारप्रत्यर्थिको भगवतः सद्धर्मं परिगृह्नीयाम् ।

तस्य स तथागतोऽध्याशयं विदित्वा व्याकृतवान् पश्चिमे काले सद्धर्मनगरपालरक्षायै ।

१२.१४ स खलु पुनर्देवानामिन्द्र सोमच्छत्रो राजकुमारस्तस्य तथागतस्य तिष्ठत एव श्रद्धयागारादनगारिकां प्रव्रजितः सन्नारब्धवीर्यो विहरति स्म कुशलेषु धर्मेषु । तेनारब्धवीर्येण कुशलधर्मप्रतिष्ठितेन न चिरात्पञ्चाभिज्ञा उत्पादिताः । गतिंगतश्च धारणीनामभूदनाच्छेद्यप्रतिभानः । स तस्य भगवतः परिनिर्वृतस्याभिज्ञाधारणीबलेन परिपूर्णान् दशान्तरकल्पांस्तस्य भगवतो भैषज्यराजस्य तथागतस्य प्रवृत्तं धर्मचक्रमनुवर्तयति स्म । तेन खलु पुनर्देवानामिन्द्र सोमच्छत्रेण भिक्षुणा सद्धर्मपरिग्रहाभियुक्तेन दशकोटीशतानि सत्वानामवैवर्तिकानि कृतान्यभूवन्ननुत्तरायां सम्यक्संबोधौ, चतुर्दश च प्राणिनियुतानि श्रावकप्रत्येकबुद्धयानिकानि, अप्रमाणाश्च सत्वाः स्वर्गोपगाः कृताः ।

१२.१५ स्यात्खलु पुनस्ते देवानामिन्द्र अन्यः स तेन कालेन तेन समयेन रत्नच्छत्रो नाम राजाभूच्चक्रवर्ती, न खलु पुनस्ते देवानामिन्द्र एवं द्रष्टव्यम् । तत्कस्माद्धेतोः । रत्नार्चिः स तथागतस्तेन कालेन तेन समयेन रत्नच्छत्रो नाम राजाभूच्चक्रवर्ती । यत्पुनस्तद्राज्ञो रत्नच्छत्रस्य पुत्रसहस्रमभूत् । इमे ते भाद्रकल्पिका बोधिसत्वा अभूवन् । यदिह भद्रकल्पे परिपूर्णं बुद्धसहस्रमुत्पत्स्यते यतश्चत्वार उत्पन्नाः शेषा उत्पत्स्यन्ते, क्रकुच्छन्दप्रमुखा यावद्रोचपर्यवसानाः, रोचो नाम तथागतः पश्चिमको भविष्यति ।

स्यात्खलु पुनस्ते देवानामिन्द्र एवमन्यः स तेन कालेन तेन समयेन सोमच्छत्रो नाम राजकुमारोऽभूद्येन तस्य भगवतो भैषज्यराजस्य तथागतस्य सद्धर्मः परिगृहीत इति । न खलु पुनस्त एवं द्रष्टव्यम् । तत्कस्माद्धेतोः । अहं स तेन कालेन तेन समयेन सोमच्छत्रो नाम राजकुमारोऽभूवम् । तदनेनापि ते देवेन्द्र पर्यायेणैवं वेदितव्यम् । यावत्यस्तथागतानां पूजाः, धर्मपूजा तासामग्र्याख्यायते, ज्येष्ठा श्रेष्ठा वरा प्रवरा प्रणीतोत्तरा निरुत्तराख्यायत इति । तस्मादिह देवानामिन्द्र धर्मपूजया मां पूजयत, मा आमिषपूजया । धर्मसत्कारेण मां सत्कुरुत, मा आमिषसत्कारेण ।

१२.१६ तत्र भगवान्मैत्रेयं बोधिसत्वमामन्त्रयते स्म: इमां तेऽहं मैत्रेय असंख्येयकल्पकोटीसमुदानीतामनुत्तरां सम्यक्संबोधिमनुपरीन्दामि, यथेम एवंरूपा धर्मपर्याया युष्मदधिष्ठानेन परिग्रहेण तथागतस्य परिनिर्वृतस्य पश्चिमे काले पश्चिमे समये जम्बूद्वीपे वैस्तारिका भवेयुः, नान्तर्धीयेरन् । तत्कस्माद्धेतोः । भविष्यन्ति मैत्रेय अनागतेऽध्वनि कुलपुत्राः कुलदुहितरश्च देवनागयक्षगन्धर्वाश्चावरोपितकुशला अनुत्तरां सम्यक्संबोधिं संप्रस्थिताः । तेऽश्रवणादस्य धर्मपर्यायस्य मा परिहास्यन्त इति । इमानेवंरूपान् सूत्रान्ताञ्श्रुत्वातीव प्रेम च प्रसादं च प्रतिलप्स्यन्ते, मूर्ध्ना च प्रतिग्रहीष्यन्ति । तेषां त्वं मैत्रेय तथारूपाणां कुलपुत्राणां कुलदुहितॄणां चानुरक्षाया इमानेवंरूपान् सूत्रान्तांस्तस्मिन् काले वैस्तारिकान् कुर्याः ।

१२.१७ द्वे इमे मैत्रेय बोधिसत्वानां मुद्रे । कतमे द्वे । विचित्रपदव्यञ्जनप्रसादमुद्रा च गम्भीरधर्मनयानुत्त्रासयथाभूतावतारप्रवेशमुद्रा च । इमे मैत्रेय बोधिसत्वानां द्वे मुद्रे । तत्र मैत्रेय ये बोधिसत्वा विचित्रपदव्यञ्जनप्रसादगुरुकाः, त आदिकर्मिका बोधिसत्वा वेदितव्याः । ये पुनरिमं मैत्रेय गम्भीरं सूत्रान्तमरूपलेपं यमकव्यत्यस्तनिहारपदपुटप्रभेदं प्रवर्तयिष्यन्ति श्रोस्यन्त्यधिमोक्ष्यन्ते वेदयिष्यन्ति, इमे बोधिसत्वाश्चिरचरितब्रह्मचर्या वेदितव्याः ।

१२.१८ तत्र मैत्रेय द्वाभ्यां कारणाभ्यामादिकर्मिका बोधिसत्वा आत्मानं क्षिण्वन्ति । न च गम्भीरेषु धर्मेषु निध्यप्तिं गच्छन्ति । कतमाभ्यां द्वाभ्याम् । अश्रुतपूर्वांश्च गम्भीरान् सूत्रान्ताञ्श्रुत्वोत्त्रस्यन्ति । संशयप्राप्ताश्च भवन्ति, नानुमोदन्ते । उत्तरि च प्रतिक्षिपन्ते: य एतेऽस्माभिः पूर्वं न श्रुतपूर्वाः कुत इमेऽधुनागताः । ये च ते कुलपुत्रा गम्भीरधर्मसूत्रान्तधारका गम्भीरधर्मभाजना गम्भीरधर्मदेशयितारः, तान्न सेवन्ते न भजन्ते न पर्युपासन्ते, अगौरवाश्च तेषु भवन्ति, अन्तरान्तरा च तेषामवर्णमपि निश्चारयन्ति । आभ्यां मैत्रेय द्वाभ्यां कारणाभ्यामादिकर्मिका बोधिसत्वा आत्मानं क्षिण्वन्ति । न च गम्भीरेषु धर्मेषु निध्यप्तिं गच्छन्ति ।
१२.१९ द्वाभ्यां मैत्रेय कारणाभ्यां गम्भीराधिमुक्तिको बोधिसत्व आत्मानं क्षिणोति । न चानुत्पत्तिकेषु धर्मेषु क्षान्तिं प्रतिलभते । कतमाभ्यां द्वाभ्याम् । तांश्चादिकर्मिकानचिरचरितान् बोधिसत्वानवमन्यते परिभवति न ग्राहयति न विवेचयति नानुशास्ति । तयैव च गम्भीराधिमुक्त्या शिक्षायामगौरवो भवति । लोकामिषदानेन च सत्वाननुगृह्णाति, न धर्मदानेन । आभ्यां मैत्रेय द्वाभ्यां कारणाभ्यां गम्भीराधिमुक्तिको बोधिसत्व आत्मानं क्षिणोति । न च क्षिप्रमनुत्पत्तिकेषु धर्मेषु क्षान्तिं प्रतिलभते ।

१२.२० एवमुक्ते मैत्रेयो बोधिसत्वो भगवन्तमेतदवोचत्: आश्चर्यं भगवन् यावत्सुभाषितं भगवतः । वयं भगवनेतांश्च दोषान् विवर्जयिष्यामः । इमां च तथागतस्यासंख्येयकल्पकोटीनियुतशतसहस्रसमुदानीतामनुत्तरां सम्यक्संबोधिं परिरक्षिष्यामो धारयिष्यामः । तेषां चानागतानां कुलपुत्राणां कुलदुहितॄणां भाजनीभूतानामिमानेवंरूपान् सूत्रान्तान् हस्तगतान् करिष्यामः । स्मृतिं चैषामुपसंहरिष्यामो यया स्मृत्येमानेवंरूपान् सूत्रान्तान् रोचयिष्यन्त्युद्ग्रहीष्यन्ति पर्यवाप्स्यन्ति धारयिष्यन्ति प्रवर्तयिष्यन्ति लिखिष्यन्ति परेषां च विस्तरेण देशयिष्यन्ति । तेषां च वयं भगवनुपस्तम्भं करिष्यामः । ये च खलु पुनर्भगवन् तस्मिन् काल इमानेवंरुपान् सूत्रान्तान् रोचयिष्यन्ति प्रवर्तयिष्यन्ति । वेदितव्यमेतद्भगवन्मैत्रेयस्य बोधिसत्वस्याधिष्ठानमिति ।

अथ भगवान्मैत्रेयस्य बोधिसत्वस्य साधुकारमदात्: साधु साधु मैत्रेय, सुभाषिता त इयं वाक् । अनुमोदते तथागतोऽनुजानाति च सुभासितम् ।

१२.२१ अथ ते बोधिसत्वा एकस्वरेण वाचमभाषन्त: वयमपि भगवन् तथागतस्य परिनिर्वृतस्यान्योन्येभ्यो बुद्धक्षेत्रेभ्य आगत्येमां तथागतबुद्धबोधिं वैस्तारिकीं करिष्यामः । तेषां च कुलपुत्राणामारोचयिष्यामः ।

१२.२२ अथ चत्वारो महाराजानो भगवन्तमेतदवोचन्: यत्र यत्र भगवन् ग्रामनगरनिगमराष्ट्रराजधानीष्विम एवंरूपा धर्मपर्यायाः प्रचरिष्यन्ति देशयिष्यन्ति प्रकाशयिष्यन्ति, तत्र तत्र वयं भगवन् चत्वारो महाराजाः सबलाः सवाहनाः सपरिवारा धर्मश्रवणायोपसंक्रमिष्यामः । तस्य च धर्मभाणकस्य समन्ततो योजनशतं रक्षां संविधाष्यामः, यथा तस्य धर्मभाणकस्य न कश्चिदवतारप्रेक्ष्यवतारगवेष्यवतारं लप्स्यते ।

१२.२३ तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते स्म: उद्गृहाण त्वमानन्द इमं धर्मपर्यायं धारय वाचय परेषां च विस्तरेण संप्रकाशय ।

आह: उद्गृहीतो मे भगवनयं धर्मपर्यायः । किं भगवनस्य धर्मपर्यायस्य नामधेयम् । कथं चऐनं धारयामि ।

भगवानाह: तस्मात्तर्हि त्वमानन्द इमं धर्मपर्यायं विमलकीर्तिनिर्देशं यमकपुटव्यत्यस्तनिहारमचिन्त्यधर्मविमोक्षपरिवर्तमित्यपि धारयेमं धर्मपर्यायम् ॥ ॥

इदमवोचद्भगवान् । आत्तमना विमलकीर्तिर्लिच्छविर्मञ्जुश्रीश्च कुमारभूत आयुष्मांश्चानन्दस्ते च महाश्रावकाः सा च सर्वावती पर्षत्सदेवमानुषासुरगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन्निति ॥ ॥

निगमनपरीन्दनापरिवर्तो नाम द्वादशः ॥


ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् ।
तेषां च यो निरोधो एवंवादी महाश्रमणः ॥

देयधर्मोऽयं प्रवरमहायानयायिनो भिक्षुशीलध्वजस्य यदत्र पुण्यं तद्भवत्वाचार्योपाध्यायमातापितृपूर्वंगमं कृत्वा सकलसत्वराशेरनुत्तरज्ञानफलावाप्तय इति ॥

श्रीमद्गोपालदेवराज्ये संवत्१२ भाद्रदिने २९ लिखितेयमुपस्थायकचाण्डोकस्येति ॥

"https://sa.wikisource.org/w/index.php?title=विमलकीर्तिनिर्देशः&oldid=396784" इत्यस्माद् प्रतिप्राप्तम्