विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्)/ पञ्चमोऽङ्कः
← चतुर्थोऽङ्कः | विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्) पञ्चमोऽङ्कः कालिदासः |
प्रशस्तिः → |
(ततः प्रविशति हृष्टो विदूषकः)
विदूषकः-ही ही भो, दिट्ठिआ चिरस्स कालस्स उव्वसीसहाओ तत्तभवं राआ णंदणवणप्पमुहेसु पदेसेषु विहरिअ पडिणिवुत्तो । पविसिअ णअरं दाणीं सकजाणुसासणेण पइदिमण्डलं अणुरज्जअन्तो रज्जं करेदि । असंताणत्तणं वज्जिअ से ण किं वि सोअणीअम् । अज्ज तिहिविसेसो त्ति भअवदीणं गङ्गाजमुणाणं संगमे देवीए सह किदाहिसेओ संपदं उवआरिअं उवविठ्ठो । ता जाव अलंकरणीयमाणस्स अङ्गाणुलेवणमल्लभाई भादुओ विअ होमि । ( इति परिकामति)
(नेपथ्ये) हद्धी हद्धी । एसो तालावन्तपिधाणं णिक्खिविअ णीअमाणो अच्छराविरहिदेण मोलिरअणदाए योइदो मणी आमिससङ्किणा गिद्धेण आक्खित्तो। [ही ही भोः! दिष्ट्या चिरस्य कालस्योर्वशीसहायः तत्र भवान् राजा नन्दनवनप्रमुखेषु
पञ्चमोऽङ्कः।
अथ स्वस्वस्थानेषु यथाक्रम सन्निवेशितान् मुखसन्ध्यादिरूपानार्थान् एकत्वेन योजयितुं निर्वणसन्धिगर्भं चरममङ्कमारभते । तल्लक्षणं यथा धानञ्जये "बीजवन्तो मुखाद्यर्थाः विप्रकीर्णा यथायथम् । ऐकार्यमुपनीयन्ते यत्र निर्वहणं हि तत् ।"
इदानीं विदूषकमुखेनाग्रिमकथोपन्यासार्थं तत्प्रवेशमाह ततः प्रविशति हृष्टः परितुष्टो हृष्टमना विदूषकः । ही ही भोः इति आश्चर्ये । दिष्ट्या सौभाग्यमिदम् यत् चिरस्य कालस्य भूयसा समयेन उर्वशीसहायः तत्रभवान् मान्यो राजा नन्दनवनप्रमुखेषु इन्द्रनगरोपवनादिषु बहुषु रमणीयेषु प्रदेशेषु विहृत्य विहारं कृत्वा प्रतिनिवृत्तः प्रत्यागतः । इदानी नगरं प्रतिष्ठानाख्यं प्रविश्य स्वकार्यानुशासनेन राजकार्यावलोकनेन प्रकृतिमण्डलं प्रजागणमनुरञ्जयन् प्रसादयन् राज्यं करोति । असन्तानत्वं अपत्यविहीनत्वं वर्जयित्वा विहाय अस्य राज्ञः किमपि शोचनीयम् न, सर्वमन्यदनुगुणं केवलमस्य निरपत्यता त्रासयित्री । अद्य स राजा तिथिविशेषः कश्चन पर्वविशेषः इति हेतोः भगवत्योः गङ्गायमुनयोः सङ्गमे देव्या महिष्या सह कृताभिषेकः विहितमज्जनः सन् साम्प्रतम् अधुना उपकार्या पटभवनम् (tent) उपविष्टः स्थितः । तद् यावत् अलक्रियमाणस्य भूष्यमाणस्य तस्य राज्ञः अङ्गेषु अनुलेपनम् कुङ्कुममृगमदाधुद्वर्तनं तथा च माल्यं प्रदेशेषु विहृत्य प्रतिनिवृत्तः । प्रविश्य नगरमिदानीं स्वकार्यानुशासनेन प्रकृतिमण्डलमनुरञ्जयन् राज्यं करोति । असन्तानत्वं वर्जयित्वा अस्य न किमपि शोचनीयम् । अद्य तिथिविशेष इति भगवत्योः गङ्गायमुनयोः सङ्गमे देव्या सह कृताभिषेकः साम्प्रतमुपकार्यामुपविष्टः । तद्यावदलङ्क्रियमाणस्याङ्गानुलेपनमाल्यभागी भ्रातेव भवामि । (इति परिक्रामति)
(नेपथ्ये ) हा धिक् हा धिक् । एष तालवृन्तपिधानं निक्षिप्य नीयमानोऽप्सरोविरहितेन मौलिरत्नतायां योजितो मणिरामिषशङ्किना गृध्रेणाक्षिप्तः।]
विदूषकः-(आकर्ण्य ) अच्चाहिदं अच्चाहिदं । परमबहुमदो क्खु तव वअस्स संगमणीओ णाम चूडामणी । अदो क्खु असमत्तणेवत्थो एव्व तत्तभवं आसणादो उट्ठिदो । ता पासपरिवत्ती होमि । ( इति निष्क्रान्तः) [अत्याहितम् अत्याहितम् । परमबहुमतः खलु तव वयस्य ! सङ्गमनीयो नाम चूडामणिः । अतः खलु असमाप्तनेपथ्य एव तत्रभवान् आसनतः उत्थितः । तत् पार्श्वपरिवर्ती भवामि ।]
कुसुमादीनां गुम्फनम् तयोः भ्रातेव भागित्वात् अंशेनोपभोगकर्तृत्वात् राज्ञः यथा भ्राता भ्रातुः उपभोग्यस्य अंशोपभोगी भवति तथैव तदर्थोपस्थापितानां पदार्थानां भोक्ता भवामि । इति उक्त्वा परिक्रामति इतस्ततः परिभ्राम्यति ।
नेपथ्ये वचनमिदम् अत्र बहुषु अर्थसूचकेषु नेपथ्ये अभिधानात् चूलिकाख्यम् अर्थोपक्षेपकम् । तल्लक्षणन्तु यथोक्तमेव । हा धिक् हा धिक् इति कष्टसूचकमव्ययपदम्, वीप्सा च कष्टातिरेकद्योतनाय ।
एष इति-एषः तालवृन्तम् एव पिधानम् आवरणम् निक्षिप्य दूरीकृत्य अनावृत एव नीयमानः अप्सरोविरहितेन उर्वशीवियुतेन राज्ञा मौलिरत्नतायां शिखामणित्वे योजितः उपयुक्तः अयं मणिः आमिषशङ्किना मांसखण्डोऽयमिति मन्यमानेन गृध्रेण आक्षिप्तः उत्प्लुत्य नीतः। सङ्गमनीयस्य मणे: "प्रभालेपीति" पद्ये(४१६१) रक्तत्वर्णनात् गृध्रेण आमिषलवोऽयमिति शङ्कया गृहीतः इति भावः । अत्र रक्तवसाधर्म्यात् मणौ आमिषलव इति भ्रमेण ग्रहणधीः, अतः अत्र भ्रान्तिमान् अलङ्कारः “साम्यादतस्मिन् तद्बुद्धिः भ्रान्तिमान् प्रतिभोत्थितः" इति लक्षणात्।
विदूषकः-(आकर्ण्य श्रुत्वा) अत्याहितम् अत्याहितम् महद् भयमुपस्थितम् इत्यर्थः । हे वयस्य ! तव सङ्गमनीयः सङ्गमे हेतुभूतः चूडामणिःप्रवेशका
(ततः प्रविशति राजा सूतश्च कञ्चुकिवेधको परिजनश्च )
राजा-वेधक वेधक!
आत्मनो वधमाहर्ता क्वासौ विहगतस्करः ।
येन तत्प्रथमं स्तेयं गोप्तुरेव गृहे कृतम् ॥१॥
किरात:-एसो अग्गमुहलग्गहेमसूत्तेण मणिणा अणुरज्जअन्तो विअ आआसं भमदि । [एष अग्रमुखलग्नहेमसूत्रेण मणिना अनुरञ्जयन्निवाकाशं भ्रमति । ]
राजा-पश्याम्येनम् -
असौ मुखालम्बितहेमसूत्रं बिभ्रन्मणिं मण्डलशीघ्रचारः ।
अलातचक्रप्रतिमं विहङ्गस्तद्रागलेखावलयं तनोति ॥२॥
शिखारत्नम् परमबहुमतः प्रियतमः, अत एव असमाप्तनेपथ्यः अपरिगृहीतसकलपरिधानः वस्त्रादिकम् अपरिधायैव वा आसनतः राजसिंहासनतः उत्थितः । तत् अतः तव पार्श्वपरिवर्ती समीपस्थः भवामि । इति निष्क्रान्तः । प्रवेशकः-लक्षणम् यथापूर्वमेव ।
(ततः प्रविशति राजा सूतः सारथिः, कञ्चकी वृद्धान्तःपुरसंचारी सेवकः, वेधकः कश्चन किरातः, अन्यपरिजनश्च । ) वेधकस्थाने रेचक इति पाठान्तरम् । राजा वेधकमाहूय पृच्छति ।
आत्मन इति-आत्मनः स्वस्य वधम् विनाशरूपं मणिं आहर्ता सम्पादयिता स विहगेषु तस्करः चोरः क्व अस्ति येन पक्षिचोरेण प्रथमं स्तेयं चौर्यम् गोप्तुः लोकानां पालकस्य ममैव गृहे कृतम् । येन खगचोरेण आदौ प्रजानां पालकस्य मम एव गृहे चौर्यं कृतम् स चोरः गृध्रः क्व गतः। तात्पर्यन्तु स मणिं नाहरत् किन्तु आत्मनो वधमेवाहरत् इति वधस्य अत्र मणितादात्म्याभिसम्बन्धात् रूपकमलङ्कारः । तथाच गोप्तुरिति पदस्य विशेषतया साभिप्रायत्वात्परिकरालङ्कृतिश्च । अनुष्टुब् वृत्तम् ॥ १॥
किरात:-एष अग्रमुखे मुखाग्रे लग्नम् हेमसूत्रम् सुवर्णसूत्रं यस्य तादृशेन मणिना आकाशमनुरञ्जयन् रक्तं कुर्वन्निव भ्रमति ।
अत्र उत्प्रेक्षालङ्कारः॥
राजा-पश्याम्येनं विहङ्गचोरम् ।
असाविति-असौ गगने लक्ष्यमाणः मुखे आलम्बितं गृहीतं हेमसूत्रं कनकदोरकं यस्य तादृशं मणिं बिभ्रत् धारयन् विहङ्गमः मण्डलं मण्डलाकारं वर्तुलं तथा शीघ्रं लरितं यस्मिन् कर्मणि तद्यथा स्यात्तथाभूतश्चारो गतिः यस्य तादृशः मण्डलाकारगमनेन त्वरितवेगः सन् अलातं ज्वलत्काष्ठं तस्य चक्रं कथय किं खल्वत्र कर्त्तव्यम् ।
विदूषकः-(उपेत्य) भोः ! अलं एत्थ घिणाए । अवराही सासणीओ [ भोः! अलमत्र घृणया । अपराधी शासनीयः।]
राजा-सम्यगाह भवान् । धनुर्धनुस्तावत् ।
परिजन:-जं भट्टा आणवेदि [ यद्भर्ता आज्ञापयति ]
(इति निष्कान्तः।)
राजा-न दृश्यते हि विहङ्गाधमः ।
विदूषकः-इदो इदो दक्खिणन्तरेण चलिदो सउणिहदासो।
[इतइतो दक्षिणान्तरेण चलितः शकुनिहताशः।]
तत्प्रतिमं तत्सदृशं तस्य मणेः रागो लालिमा तस्य लेखा तनिर्मितं वलयं करोति । अतिवेगेन भ्रमितालातमण्डलवत् प्रभाशालीत्यर्थः। महता वेगेन भ्रामितं ज्वलत्काष्ठं रक्तमिव सर्वत्र दृश्यते तथैव सवेगं तस्य पक्षिणः आकाशे रक्तमणिग्रहणपूर्वकं वर्तुलकारं गमनं मणिनानुस्यूतेन रागेण निर्मितं वलयं विदधातीत्यर्थः । अत्रोपमालङ्कारः । “अलातमुल्मुकमिति" द्वे अर्धदग्धकाष्ठस्य पर्यायाविति कोषः।
उपजातिवृत्तम् ॥ २॥
इदानीम् रे वेधक ! कथय किं नु खलु कर्तव्यम् मणिप्राप्त्यर्थं विधेयमित्यर्थः ।
विदूषकः-(उपेत्य तत्रागत्य ।) भो ! अलमत्र घृणया पक्षिणः वधः कथं कार्यः इति मत्वा घृणा दया अत्र न विधेया; यतः अपराधी जनः शासनीयः अवश्यं दण्डनीयः । राजधर्मश्चायम् “दण्ड्यांश्चैवाप्यदण्डयन्" इत्यनेन अपराधिनं यो राजा नानुशास्ति स पापभाक् भवति । अत्र घृणाऽकरणे अपराधिदण्डस्योचितत्वप्रदर्शनस्य हेतुत्वाद्वाक्यस्य काव्यलिङ्गमलङ्कारः । कारुण्यं करुणा घृणा इति कोषः।
राजा-सम्यगाह भवान् युक्तमभिहितं भवता । धनुर्धनुः तावत् । अत्र दण्ड्यदण्डनरूपवर्तनस्य शास्त्रोक्तत्वात् नीतिर्नाम नाव्यालङ्कार उपन्यस्तः । "नीतिः शास्त्रेण वर्तनम्"।
परिजन:-यद्भर्त्ता स्वामी आज्ञापयति ।
(इति धनुरानेतुं निष्क्रान्तः)
राजा-स विहेगषु अधमो नीचश्चोरत्वादिति न दृश्यते क्व गत इति ।
विदूषकः स शकुनिहताशः विहगाधमः इत इतः अनेन मार्गेण दक्षिणान्तरेण दक्षिणया दिशा चलितः। राजा-(दृष्ट्वा) इदानीम्-
प्रभापल्लवितेनासौ करोति मणिना खगः। |
यवनी-(धनुर्हस्ता प्रविश्य) भट्टा! एदं ससरं चावम् । [भर्तः, इदं सशरं चापम् । ]
राजा-किमिदानीं धनुषा । बाणपथातीतः क्रव्यभोजनः ।
तथाहि-
आभाति मणिविशेषो दूरमिदानीं पतत्रिणा नीतः। |
राजा-(दृष्ट्वा ) इदानीम्-
प्रभेति - असौ खगः प्रभया तेजसा पल्लवितेन दीप्तेन अशोकस्तवकेन अशोककुसुमगुच्छेन इव मणिना दिङ्मुखस्य दिशः मुखस्य अवतंसकं कर्णभूषणं करोति। अत्र दिशः नायिकाखकल्पनम् । सा च कर्णभूषणं परिधत्ते । खगस्तु नायकः। स अवतंसं परिधापयति । प्रायशः सुकुमारा ललनाः कुसुमस्तबकमवतंसयन्ति । स्ववपुषः गौरत्वात् रक्तकुसुमगुच्छं परं भूषयतेततराम् । नायकस्तु खगः दिशं नायिकामनेन रक्ताशोककुसुमस्तबकप्रतिमारुणिम्ना मणिना दिङ्मुखमवतंसयतीत्यर्थः । अत्र दिशः नायिकात्वसंभावनेन, मणेरवतंसत्वविभावनेन उत्प्रेक्षालङ्कृतिः। अशोकस्तबकेति उपमानात् उपमालङ्कारश्च । अनुष्टुप् वृत्तम् ॥ ३ ॥ यवनी-काचन प्रतिहारी-(धनुर्हता धनुर्गृहीत्वा प्रविश्य ) भर्तः, इदं सशरं सबाणं चापम् धनुरिति ।
राजा-धनुषा चापेन इदानीं किं प्रयोजनम्-व्यर्थमिदानीं धनुः । यतः सः क्रव्यभोजनः मांसाशनः विहगः बाणपथातीतः बाणमार्गमतिक्रान्तः, दूरदेशं प्राप्त इत्यर्थः । तथाहि-
आभातीति-पतत्रिणा पक्षिणा इदानीं दूरं दूरदेशं नीतः मणिविशेषः उत्कृष्टः स मणिः नकं रात्रौ परुषेषु अविरलेषु निबिडेषु इत्यर्थः कर्वुरितेषु वा 'घनानां मेघानां छेदेषु संपृक्तः संयुक्तः दृश्यमान इत्यर्थः लोहिताङ्गः मङ्गलाख्यो प्रहविशेष इव आभाति ।
भौमस्तु रक्तं नक्षत्रम् । रक्तं चेदं रत्नम् । यथा मेघेषु भौमो दूरतः सुन्दरमाभाति तथैव विहङ्गमेन अतिदूरं नीतो मणिप्रवर आभातीति तात्पर्यम् ।
अत्र सहृदयैकगम्यचमत्कारशोभितमिदं उपमालङ्करणम् । “परुषं कर्बुरे रूक्षे स्थानिष्ठुरवचस्यपि" इति हैमः । कर्बुरितं च "विरकसन्ध्यापरुषं पुरस्ताद्यथा
२. विक्र० आर्य लातव्य।
कञ्चकी-आज्ञापयतु देवः।
राजा-मद्वचनादुच्यन्तां नागरिकाः सायं निवासवृक्षाग्रे विचीयतां विहगाधमः।
कञ्चकी-यथाज्ञापयति देवः । (इति निष्क्रान्तः)
विदूषकः-भोः ! विसमीअदु भवं संपदं । कहिं गदो सो रअणुकुम्मीलओ भवादो सासणादो मुंचिस्सदि । [भोः। विश्राम्यतु भवान् साम्प्रतम् । कुत्र गतः स रत्नकुम्भीलकः भवतः शासनान्मोक्ष्यते ।]
(इत्युपविशतः)
राजा-वयस्य!
रत्नमिति न मे तस्मिन् मणौ प्रयासो विहङ्गमोत्क्षिप्ते । |
रजः पार्थिवमुज्जिहीते" इत्यनेकार्थकैरवाकारकौमुदी ॥ 'अङ्गारकः कुजो भौमो लोहिताङ्गो महीसुतः' इत्यमरः । इयमार्या जातिः॥४॥
आर्य लातव्येति कञ्चुकिनः सम्बोधनम् ।
कञ्चुकी-आज्ञापयतु देवः।
राजा-मद्वचनात् मदाज्ञया उच्यन्तां समादिश्यन्तां नागरिकाः नगरनिवासिनोजनाः यत् सायं समये निवासवृक्षाग्रे स्ववासनीडाश्रये वृक्षे स विहगाधमः विचीयतामन्वेष्यताम् ।
कञ्चुकी -यथा आज्ञापयति तथैवास्तु । (इति निष्क्रान्तः)
विदूषकः-भो वयस्य ! विश्राम्यतु शान्तिं विरामं वा गृह्णातु । रत्नस्य कुम्भीलकश्चोरः स विहगाधमः भवतः शासनात् दण्डात् कुत्र गतः सन् मोक्ष्यते । क्व गतः स भवद्दण्डपथातीतो भविष्यति । न कुत्रापीत्यर्थः । यत्र कुत्रापि स गमिष्यति तत्रापि भवच्छासने आगमिष्यति । अनेन राज्ञः सर्वत्रास्खलित शासनशक्तिशालित्वं व्यज्यते । (इति उपविशतः राजाविदूषकौ निषीदतः)
राजा-वयस्य!
रत्नमिति-विहङ्गमेन पक्षिणोक्षिप्ते नीते तस्मिन् मणौ रत्नं बहुमूल्यमिदमिति मत्वा प्रयासः प्रयत्नः न । स महार्घो मणिरासीत् तदभावे मम महती क्षतिरिवि कृत्वा नाहं तत्कृते दूनः न वा पुनस्तत्प्राप्तिबद्धचित्तः अस्मि, किन्तु(ततः प्रविशति सशरं मणिमादाय कञ्चुकी)
कञ्चुकी--जयति जयति देवः ।
अनेन निर्भिन्नतनुः स वध्यो
रोषेण ते मार्गणतां गतेन ।
प्राप्तापराधोचितमन्तरिक्षा-
त्समौलिरत्नः पतितः पतत्री ॥ ६ ॥
(सर्वे विस्मयं रूपयन्ति)
कञ्चुकी--अभिप्रक्षालितोऽयं मणिः कस्मै दीयतामिति ।
राजा--वेधक ! गच्छ । कोषपेट्टके स्थापयैनम् ।
किरातः--जं भट्टा आणवेदित्ति । [यद्भर्ताऽऽज्ञापयतीति ।]
(इति मणिमादाय निष्क्रान्तः)
राजा--(लातव्यं प्रति) आर्य ! जानाति भवान् कस्यायं बाण इति ।
तेन सङ्गमनीयेन तन्नामकेन सङ्गमहेतुभूतेन मणिना हे सखे ! अहम् प्रियया सङ्गमितः सम्मेलितः । नाहं तं मणिं मणित्वेन प्रकल्प्य मानयामि किन्तु प्रियासङ्गमकत्वेन तं बहु मत्वा एतावन्तमायासं करोमि । अनेन राज्ञः विपुलकोषवत्त्वं, कृतज्ञत्वं, गुणग्राहकत्वं च ध्वन्यते । इयमार्या जातिः ॥ ५ ॥
(ततः प्रविशति सशरं मणिमादाय कञ्चुकी शरेण येन स वध्यो विहगो हतस्तेन सहितं मणिं गृहीत्वा कञ्चुकी राज्ञः समीपे आगच्छति )
कञ्चुकी--जयति जयति देवः ।
अनेनेति--वध्यः वधस्य योग्यः स विहङ्गः अनेन मार्गणतां गतेन बाणत्वं प्राप्तेन ते रोषेण क्रुधा निर्भिन्नतनुर्भिन्नदेहः सन् प्राप्तापराधोचितं कृतापराधानुसारं यथा स्यात्तथा तत्फलरूपेण वा समौलिरत्नः शिखामणिना संयुतः स पतत्री अधः पतितः । स विहगस्तु तव क्रुधा एव मृतः । स क्रोध एव बाणत्वमाप्तः । अनेन राज्ञः प्रतापातिशयो द्योत्यते । अत्र च शरेण हतेऽपि खगे तद्धेतुत्वेन क्रुधो वर्णनात् असम्बन्धेऽपि सम्बन्धदर्शनादतिशयोक्तिरलङ्कारः ॥ उपजातिवृत्तम् ॥ ६ ॥
(सर्वे जना विस्मयमाश्चर्यं रूपयन्ति दर्शयन्ति)
कञ्चुकी--अभिप्रक्षालितः जलेन धौतोऽयं मणिः कस्मै प्रदीयताम् ।
राजा--वेधक ! गच्छ । कोषपेट्टके स्थापयैनम् । कोषाध्यक्षाय दीयताम् ।
किरातः--यद्भर्ता आज्ञापयति । (इति मणिमादाय निष्क्रान्तः ।)
राजा--(लातव्यं प्रति ।) आर्य कञ्चुकिन् ! जानाति भवान् कस्यायं बाणः । कस्य शरेण हतोऽयं विहङ्ग इति ज्ञायते किं भवता ?
कञ्चुकी- नामाङ्कितो दृश्यते । नात्र मे वर्णविभावसहा दृष्टिः ।
राजा- तदुपश्लेषय शरं यावन्निरूपयामि ।
विदूषकः- किं भवं विआरेदि ? [ किं भवान् विचारयति ?]
राजा-शृणु तावत्प्रहर्तुर्नामाक्षराणि ।
विदूषकः-अवहिदो म्हि । [अवहितोऽस्मि ।]
राजा-(वाचयति)
उर्वशी सम्भवस्यायमैलसूनोर्धनुष्मतः ।
कुमारस्यायुषो बाणः संहर्ता द्विषदायुषाम् ॥ ७ ॥
विदूषकः-दिट्ठिआ संताणेण वट्ठदि महाराओ।
[दिष्ट्या सन्तानेन वर्धते महाराजः।]
राजा-कथमेतत् । सखे! अनिमिष्या वियुक्तोऽहमुर्वश्या । न
कञ्चुकी-नामाङ्कितो दृश्यते । यस्यायं बाणस्तस्य नाम लिखितं दृश्यते । किन्तु अत्र मे वर्णानां विभावः परिज्ञानं तत्सोढुं शक्या दृष्टिर्न । मम वार्धक्यात् दृष्टेः निर्बलत्वात् नाहं विभावयितुं पारयामि किमत्र लिखितमिति ।
राजा-भवतु-शरमुपश्लेषय समीपं स्थापय यावदहं निरूपयामि विभावयामि वाचयामि नामाक्षराणि ।
विदूषकः-किं भवान् विचारयति?
राजा-शृणु तावत् विहङ्गस्य प्रहर्तुः घातकस्य नामाक्षराणि ।
विदूषकः- अवहितोऽस्मि दत्तचित्तोऽस्मि ।
राजा-(वाचयति)
उर्वशीति-इलायाः गोत्रापत्यं पुमान् ऐलः पुरूरवाः तस्य सूनोः तनयस्य उर्वशीतः संभवः उत्पत्तिर्यस्य सः तस्य उर्वशीपुत्रस्य धनुष्मतः धनुर्धारिणः आयुषः तदाख्यस्यायुर्नामकस्य कुमारस्य द्विषदां शत्रूणामायुषाम् जीवनस्य संहर्ता घातकः अयं बाणः अस्ति इति शेषः । स खलु बाणः विक्रमोर्वश्योः तनयस्यासीत् । आयुर्नाम कुमारः शत्रूणामायुषामाहर्तेति विरोधालङ्कारः । अनुप्रासश्च । इलानाम्नी पुरूरवसो माता । अत्र बीजार्थोपगमात् सन्धिर्नाम निर्वहणसन्ध्याङ्गमुक्तम् । अनुष्टुप् वृत्तम् ॥ ७ ॥
विदूषकः-दिष्ट्या सौभाग्यमिदं यत् महाराजः सन्तानेन पुत्रेण सन्तत्या वर्धते सौभाग्यशालीति । अङ्केऽस्मिन्नेव विदूषकेणोक्तमासीत् यदनपत्यत्वं सर्वं राज्ञो भद्रम् । किन्तु इदानीं ससन्तानत्वं राज्ञः परिज्ञाय महानन्दो विदूषकस्येति दिष्ट्या गम्यते। कदाचिदपि तत्रभवती गर्भाविर्भूतदोहदाप्युपलक्षिता । कुत एव प्रसूतिः । किन्तु
आविलपयोधराग्रं लवलीदलपाण्डुराननच्छायम् ।
कतिचिदहनि शरीरं श्लथवलयमिवाभवत्तस्याः॥८॥
विदूषकः-मा भवं माणुसीधम्म दिव्वाए ताए संभावेदु । पभावगूढाई ताणं चरिदाईं ।[मा भवान् मानुषीधर्मं दिव्यायास्तस्याः सम्भावयतु । प्रभावगूढानि तासां चरितानि ।]
राजा-कथमेतत् यदुवंशीसंभवो मे तनयः स्यात् ? यतः हे सखे ! अनिमिष्या देवाङ्गनया तया उर्वश्या अहं विमुक्त आसम् । तथा च सा तत्रभवती माननीया कदाचिदपि कस्मिन्नपि समये गर्भेण आपन्नसत्वतावशात् आविर्भूतम् प्रकटतां प्राप्तं दोहदं गर्भलक्षणम् यस्याः सा तादृशी नोपलक्षिता । इत्येवं सत्यपि कुत खलु प्रसूतिः सन्ततिः ? यद्यपीदमभवत्तथापि कानिचित् चिह्नानि तादृशानि तत्पूर्वरूपाणि वा मयावलोकितान्यासन्निति वर्णयति-किन्तु पूर्वोत्तस्य विकल्पे।
आविलेति-कतिचिदहनि कतिचिद्दिनानि अभवन् यदा तस्याः शरीरम् आविले कृष्णे पयोधराग्रे कुचाग्रे चूचुके वा यस्मिन् तादृशं कृष्णचूचुकम् , लवलीदलवत् पाण्डुरा सिता आननस्य मुखस्य छाया छविः यस्मिन् तादृशम् आपाण्डुमुखकान्ति, तथा च श्लथवलयम् शिथिलं कनकवलयम् यस्मिन् तादृशं दुर्बलं शरीरमभवत् । इवेति स्मरणे ।
कानिचिद्दिनानि व्यतीतानि यदा तस्या चूचुके कृष्णतां प्राप्ते, मुखकान्तिः पाण्डरतां प्राप्ता, कृशत्वमभजच्चास्याः शरीरमिति मया गर्भस्यास्फुटलिङ्गानि समालोकितानि, न तु कदापि उपारूढानि गर्भलक्षणानीति भावः ।
"चूचुकं तु कुचाग्रं स्या"दित्यमरः । इवेति वाक्यालङ्कारे । लवली हरपरिवडी इति भाषा । अत्र चोपमालङ्कारः। चूचुकयोः कृष्णत्वम्, मुखस्य म्लानत्वं, नयनयोरलसत्वम् , वपुषः कुशत्वम् , एवमादीनि आपन्नसत्वायाः ललनाया लिङ्गानि । यदुक्तम् सुश्रुते "स्तनयोः कृष्णमुखता रोमराज्युद्गमस्तथा । अक्षिपक्ष्माणि चाप्यस्याः संमील्यन्ते विशेषतः" इति । तथा च चरके-"निष्ठीविकागौरवमङ्गसादः तन्द्राप्रहर्षौ हृदयव्यथा च । तृप्तिश्च बीजग्रहणं च योन्याः गर्भस्य सद्योऽनुगतस्य लिङ्गम्" यथा वा अष्टाङ्गहृदये-“अम्लेष्टता स्तनौ पीनौ श्वेतान्तौ कृष्णचूचुकौ” इति वाग्भटः । इयमार्या जातिः ॥ ८ ॥
विदूषकः-दिव्यायाः देवयोनिगतायास्तस्याः उर्वश्याः मानुषीधर्म मानवयोनिगतानां स्त्रीणां गर्भावस्थायाम् यादृशा धर्माः सन्ति तादृशा एव तस्या अपि अवश्यं भवेयुरिति मा भवान् सम्भावयतु शङ्केथाः । सा देववनिता । तस्यां मानुषीणामिव धर्माणां सद्भावस्य कल्पना अनुचिता । भवेदेवमेव यद्देववनितानां राजा-अस्तु तावदेवं यथाह भवान् । पुत्रसंवरणे किमिव कारणं तत्रभवत्याः।
विदूषकः-मा वुड्ढिं मं राआ परिहरिस्सदि त्ति। [मा वृद्धां माम् राजा परिहरिष्यतीति]
राजा-कृतं परिहासेन । चिन्त्यताम् ।
विदूषकः-को देवरहस्साईं तक्कइस्सदि [को देवरहस्यानि तर्कयिष्यति ?]
कञ्चुकी-(प्रविश्य ) जयति जयति देवः। देव ! च्यवनाश्रमात् कुमारं गृहीत्वा तापसी सम्प्राप्ता देवं द्रष्टुमिच्छति ।
राजा-उभयमप्यवलम्बितं प्रवेशय ।
उपारूढगर्भलिङ्गत्वेनादर्शनेऽपि गर्भः स्यात्सन्ततिः प्रसूता भवेदिति । तासां देवाङ्गनानां चरितानि आचरणानि प्रभाववैशेष्यात् गूढानि भवन्ति। गुप्तं हि तासां चरितमिति सामान्यवाक्यस्य तस्या अपि चरितं गुप्तमदृष्टलिङ्गमस्तीति बोधस्य समर्थनाय प्रदानादर्थान्तरन्यासः ।
राजा-अस्तु तावदेवं यथाह भवान् , यथा भवता उक्तं यत्तस्या देवयोनित्वात् गूढाचारः तद्भवतु यथार्थम् । किन्तु पुत्रसंवरणे तस्यां मयोत्पादितस्य तनयस्य गोपने तत्रभवत्या उर्वश्या किमिव कारणम् ? को नु खलु हेतुस्तस्या मनसि भवेद्यतस्तया मया अविज्ञातरूपेण पुत्रो रक्षितः ? अत्र पुत्रसंवरणकार्यस्य कारणमार्गणयत्नदर्शनात् विबोधो नाम निर्वहणसन्ध्यङ्गं प्रतिदर्शितम् यदुक्तं "विबोधः कार्यमार्गणम्" इति रूपके ।
विदूषकः-समुचितं प्रत्युत्तरमलभमानो माणवकः उपहासं करोति- राजा वृद्धां मामिति मत्वा मा परिहरिष्यति । राजानो हि नूतनामेव तरुणीमुपभोक्तुं कामयन्ते । तथा च "प्रसूतिर्गतयौवना" इति न्यायात् यदि राजा ज्ञास्यति यन्मया सुतमुदपादि तदा सः वृद्धां गतयौवनां मां मत्वा परिहरेदिति एवं मा भूदिति हेतुं विचार्य गोपितस्तया ते तनय इति । अत्र हासः ।
राजा-कृतं परिहासेन । उपहासेनालम् । चिन्त्यताम् को नु खलु हेतुर्भवेदिति । अत्र कृतमित्यस्य योगे करणम् ।
विदूषकः-देवरहस्यानि देवत्वावच्छिन्नानां रहस्यानि गोप्यानि को नाम तर्कयिष्यति अनुमानबलाच्चिन्तयितुं पारयेदित्यर्थः ।
कञ्चुकी-(प्रविश्य) जयति जयति देवः । देवेति महाराजसम्बोधनम् । च्यवनाश्रमात् च्यवनस्य महामुनेराश्रमात् कुमारमेकं बालकं गृहीला काचन तापसी इह सम्प्राप्ता आयाता तथा च देवं महाराजं द्रष्टुं मिलितुं इच्छति ।
राजा-उभयमपि तापसीकुमारौ अविलम्बितं सत्वरं प्रवेशय इहानय । कञ्चुकी-यदाज्ञापयति देवः । (इति निर्गम्य तापसीसहितं कुमारमादाय प्रविष्टः)
विदूषकः-णं क्खु एसो खत्तिअकुमारो जस्स णामाङ्किदो गद्धलक्खवेही णाराओ उवलद्धो तत्तभवदो बहु अणुकरेदि । [ननु खल्वेष क्षत्रियकुमारो यस्य नामाङ्कितो गृध्रलक्ष्यवेधी नाराच उपलब्धस्तत्रभवतः बह्वनुकरोति ।]
राजा-एवमेतत् ।
बाष्पायते निपतिता मम दृष्टिरस्मिन्
वात्सल्यबन्धि हृदयं मनसः प्रसादः।
संजातवेपथुभिरुज्झितधैर्यवृत्ति-
रिच्छामि चैनमदयं परिरब्धुमङ्गैः ॥ ९ ॥
कञ्चुकी-यदाज्ञापयति देवः ( इति निर्गम्य बहिर्गत्वा तापसीसहितं कुमारमादाय गृहीत्वा प्रविष्टः ।)
विदूषकः :-यस्य कुमारकस्य नाम्ना अभिधानेन अङ्कितः चिह्नितः, गृध्ररूपं लक्ष्यं तस्य वेधी छेदकः नाराचः शरः उपलब्धः अस्माभिर्दृष्टः स एष एवायं क्षत्रियबालकः तत्रभवतो बहु बहुरूपेण अनुकरोति सदृशः प्रतिभाति ।
राजा-एवमेतत् सत्यमेव साम्यं बहुतरं लक्ष्यते ।
बाष्पायत इति-अस्मिन् कुमारे निपतिता मम दृष्टिः बाष्पायते अश्रूणि उद्वमति । कुमारमेनं दृष्ट्वा आनन्दातिरेकात् अस्राणि वहन्ति । तथा च मम हृदयं वात्सल्यस्य प्रेम्णः बन्धः यस्मिन् तादृशं उद्गतप्रेमानुबन्धनं भवति । मम मनसः प्रसादः विकासः भवति, बालमेनं प्रेक्ष्य मे मनः प्रफुल्लतां भजते । अतोऽहमेनं कुमारकं उज्झिता परित्यक्ता धैर्यवृत्तिर्धीरत्वं येन स धीरत्वहीनः सन् सञ्जातवेपथुभिः सकम्पैः अङ्गैः अदयं गाढं यथा भवेत् तथा परिरब्धुमुपगूहितुमालिङ्गितुं वा इच्छामि । कुमारमेनं दृष्ट्वा मम नयने सास्ने भवतः, हृदये प्रेमानुबन्धनं जागर्ति, मनो विकसति । अत आनन्दातिशयात्पुलकिततनुरहम् मनसः धैर्यं परित्यज्य गाढमालिङ्गितुं कामय इत्यर्थः ।
अत्र पुत्रं दृष्ट्वा प्रेम्णः जागरणात् वत्सलरसवादिनां मते वत्सलाख्यो रसः, तत्र राजा कुमारश्चालम्बनविभावौ, मनोविकासपुलकादयः अनुभावाः, नाराचदर्शनस्वनिरपत्यतादीन्युद्दीपनानि, प्रीतिः सञ्चारी वत्सलत्वं स्थायी । अथवा अन्येषां मते रत्याख्यो भावः ।
बाष्पायत इत्यत्र "बाष्पोष्मभ्यामुद्वमने" इति सूत्रेण उद्वमनरूपेऽर्थे बाष्पात् क्यङ् प्रत्ययः । वेपथुरिति टुवेपृ कम्पने अथुच् । अदयं तस्य सौकुमार्यमविगणय्य कञ्चुकी -भगवति ! एवं स्थीयताम् ।
(तापसीकुमारौ यथोचितं स्थितौ)
राजा-(उपसृत्य) भगवति ! अभिवादये।
तापसी-महाराअ, सोमवंसं धारअन्तो होहि । (आत्मगतम्) भो, अणाचक्खिदो वि विण्णादो एव्व तस्स राएसिण आउसो अ ओरसो संबन्धो। (प्रकाशम् ) जाद! पणम गुरुम् । [ महाराज ! सोमवंशं धारयन् भव ! (आत्मगतम् ) भो ! अनाख्यातोऽपि विज्ञात एव तस्य राजर्षेरायुषश्चौरसः सम्बन्धः । (प्रकाशम् ) जात ! प्रणम गुरुम् ।]
(कुमारो बाष्पगर्भमञ्जलिं बद्ध्वा प्रणमति)
राजा -वत्स ! आयुष्मान् भव ।
कुमारः-(स्पर्शं रूपयित्वा स्वगतम् )
अशिथिलं आलिलिङ्गिषुरस्मीति बोधः । क्रियाविशेषणमिदम् । अत्र माधुर्यप्रसादौ गुणौ । वसन्ततिलका वृत्तम् ॥९॥
कञ्चुकी-भगवति-इदं तापसीसम्बोधनम् । एवं स्थीयताम् । अत्रास्यताम् इत्यर्थः । (तापसीकुमारौ यथोचितं यथानिर्दिष्टस्थानम् स्वोच्चावचत्वं निरीक्ष्य स्थितावुपविष्टौ।)
राजा-(उपसृत्य) भगवति ! अभिवादये प्रणमामि ।
तापसी-सोमवंशं धारयन् भव वंशपरम्पराभिवर्धको भव । वंशविस्ताराय प्रयतो भवेत्यर्थः। (आत्मगतम् ) भोरिति विस्मये ! अनाख्यातः अनुक्तोऽपि तस्य राजर्षेः पुरूरवस आयुषश्चौरसः जन्यजनकः सम्बन्धः इति विज्ञात एव । अनयोराकृतिसाम्यात् स्वसमानलक्षणयोगाच्चाकथितोऽपि एतेषां पितृपुत्रसम्बन्धः परिज्ञायते । उरस इति औरसः अण् प्रत्ययः । “उरसोऽण" (४।४।९४) स्वजाते त्वौरसः इत्यमरः । (प्रकाशम् ) जात हे वत्स ! गुरुम् पितरम् प्रणम अभिवादयेत्यर्थः।
गुरुस्त्रिलिङ्ग्यां महति दुर्जरा लघुनोरपि । पुमान्निषेकादिकरेषु पित्रादौ सुरमन्त्रिणि "इति । गुरुः पितृवाचकश्च 'गॄ शब्दे' (क्र्या. प. से.) अथवा “गॄ निगरणे" (तु. प. से) इति धातोः "कॄग्रोरुच्च" (उ. १।२४) इत्युः प्रत्ययः।
(कुमारः बाष्पगर्भं अश्रुपूर्णमञ्जलिं बद्ध्वा प्रणमति)
राजा-वत्स! आयुष्मान् दीर्घायुर्भव ।
कुमार:-(स्पर्शं रूपयित्वा स्वगतम्)
यदि हार्दमिदं श्रुत्वा पिता ममायं सुतोऽहमस्येति । |
राजा-भगवति ! किमागमनप्रयोजनम् ।
तापसी-सुणादु महाराओ। एसो दीहाऊ आऊ जादमेत्तो एव्व उव्वसीए किंवि णिमित्तमवेक्खिअ मम हत्थे णासीकिदो। जं खत्तिअस्स कुलीणस्स जादकम्मादिविहाणं तं से तत्तभवदा चवणेण सव्वं अणुट्ठिदम् । गिहीदविज्जो धणुव्वेदे अ विणीदो। [शृणोतु महाराजः । एष दीर्घायुरायुर्जातमात्र एवोर्वश्या किमपि निमित्तं अपेक्ष्य मम हस्ते न्यासीकृतः। यत् क्षत्रियस्य कुलीनस्य जातकर्मादिविधानं तदस्य तत्रभवता च्यवनेन सर्वमनुष्ठितम् । गृहीतविद्यो धनुर्वेदे च विनीतः ।]
यदीति-यदि अयं मम पिता जनकः, अहञ्चास्य सुतः पुत्र इति श्रुत्वैव केवलम् इदं हार्दं विलक्षणं प्रेम जागर्ति तदा वृद्धानां उत्सङ्गे अङ्के पोषितानां बालानां गुरुषु पितृषु कीदृशः स्नेहः भवेत् । केवलं पितृपुत्रयोः तादृशसम्बन्धश्रवणमात्रेणैवालौकिकं प्रेम प्रादुर्भवति चेत् आजन्मतः पितॄणाम् अङ्के लालितानां शिशूनां पितृषु कीदृशं प्रेम भविष्यति । कुमारस्य मनसि राजानं विलोक्य हार्दं प्रेमाविर्बभूव । तदृष्ट्वा विचारशीलेन कुमारेण स्वानुभवतः प्रकाश्यते यज्जन्मतः अहमस्योत्सङ्गसुखमनुपलभमानोऽपि इत्थमासक्तस्तदा पित्रा सार्धं सदैव लालनपालनसुखमनुभवतः कियत् प्रेम भवेदित्यर्थ:।
इयमार्याजातिः ॥ १०॥
राजा-भगवति तापसि ! किमागमनप्रयोजनम् अत्रागमने को नाम हेतुः ?
तापसी-शृणोतु महाराजः यदर्थमहमत्रागता । एष दीर्घायुश्चिरायुः आयुर्नाम कुमारः जातमात्र एव जन्मप्रभृति उर्वश्या अस्य मात्रा किमपि अविज्ञातं निमित्तं प्रयोजनमपेक्ष्य उद्दिश्य मम हस्ते न्यासीकृतः रक्षणपोषणाय निक्षिप्तः संस्थापित इत्यर्थः ।
उर्वश्या केनाप्यज्ञातेनोद्देश्येन कुमारोऽयं जन्मतः मह्यं लालनपालनाय समर्पित इत्यर्थः।
यत्कुलीनस्य सत्कुलोत्पन्नस्याभिजातस्येत्यर्थः, क्षत्रियस्य जातकर्मादिविधानं संस्कारादिकं तत्रभवता पूज्येन भगवता च्यवनेन महामुनिना सर्वं अनुष्ठितम् समाप्तम् । क्षत्रियकुलाचारानुसारं सर्वेऽस्य संस्काराः जातकर्मनामकरणमुख्याः च्यवनेन सम्पन्ना इत्यर्थः । अनेन बालस्य संस्कृतत्वं प्रकटितम् । धनुर्वेदे च गृहीतविद्यः, शस्त्रास्त्रविचक्षणश्चायमिति विनीतश्च निरभिमानी स्वसमुदाचारानुकूलाचरणशीलोऽयमिति बोधः । अत्र कार्योपक्षेपात् ग्रथनं नाम सन्ध्यङ्गमुक्तं भवति । राजा-सनाथः खलु संवृत्तः ।
तापसी-अज्ज फुल्लसमिधकुसणिमित्तं इसिकुमारेएहिं सह गदेण इमिणा अस्समवासविरुद्धं समाअरिदं । [अद्य पुष्पसमित्कुशनिमित्तं ऋषिकुमारकैः सह गतेनानेनाश्रमवासविरुद्धं समाचरितम् ।]
विदूषकः-कधं विअ ? [कथमिव ?]
तापसी-गहीदामिसो किल गिद्धो अस्समपादवसिहरे णिलीअमाणो लक्खीकिदो बाणस्स । [गृहीतामिषः किल गृध्रः आश्रमपादपशिखरे निलीयमानो लक्ष्यीकृतो बाणस्य ।]
राजा-ततस्ततः ।
तापसी-तदो उवलद्धवुत्तन्तेण भअवदा चवणेण अहं समादिट्ठा णिज्जादेहि एदं उव्वसीहत्थे णासं त्ति । ता उव्वसीं पेक्खिदुं इच्छामि । [तत उपलब्धवृत्तान्तेन भगवता च्यवनेनाहं समादिष्टा निर्यातयैनं उर्वशीहस्ते न्यासमिति । तदुर्वशीं प्रेक्षितुमिच्छामि ।]
राजा-तेन ह्यासनमनुगृह्णातु भगवती ।
राजा-सनाथः खलु संवृत्तः, भगवत्या धात्रीकर्मग्रहणेन, भगवता च्यवनेन च जनककर्मपरिग्रहेण अनुगृहीतोऽयमित्यर्थः ।
तापसी-अद्य पुष्पसमित्कुशनिमित्तं होमीयवस्तुग्रहणाय ऋषिकुमारकैः सह गतेन अनेन आयुषा आश्रमवासविरुद्धं सात्विकाचरणप्रतिकूलं समाचरितम् ।
विदूषकः-कथमिव किं तदस्याचरणमाश्रमविरोधि ।
तापसी-गृहीतामिषः गृहीतमांसखण्डः गृध्रः आश्रमस्य सन्निकटवर्तिनः पादपस्य तरोः शिखरे निलीयमानः सुप्तः अनेन बाणस्य लक्ष्यीकृतो हत इत्यर्थः । आचरणमिदं आश्रमावासप्रतिकूलमित्यर्थः ।
राजा-ततस्ततः किं जातम् ।
तापसी -ततः उपलब्धवृत्तान्तेन ज्ञातगृध्रवधसमाचारेण भगवता च्यवनेन अहं समादिष्टा आज्ञापिता यदेनं न्यासं निक्षेपं उर्वशीहस्ते निर्यातय प्रत्यर्प्य मुक्ता भव । अतः उर्वशी प्रेक्षितुं मिलितुमिच्छामि । न्यासस्य प्रत्यर्पणं निर्यातनम् । “दाने न्यासार्पणे वैरशुद्धौ निर्यातनं मतमिति" मुक्तावली ।
राजा-तेन आसनमनुगृह्णातु स्वीकरोतु भगवती ।(प्रेष्योपनीतयोरासनयोरुपविष्टौ)
राजा -लातव्य । आहूयतामुर्वशी।
कञ्चुकी-यदाज्ञापयति देवः । (इति निष्क्रान्तः)
राजा-(कुमारमवलोक्य) एह्येहि वत्स!
सर्वाङ्गीणः स्पर्शः सुतस्य किल तेन मामुपनतेन । |
तापसी-जाद णन्देहि पिदरम् । [जात ! नन्दय पितरम्।]
(कुमारो राजानमुपसर्पति)
राजा-(आलिङ्ग्य ) वत्स ! प्रियसखं ब्राह्मणमशङ्कितो वन्दस्व।
(प्रेष्येण भृत्येन उपनीतयोरानीतयोरासनयोः
तापसीकुमारौ उपविष्टौ निषण्णौ)
राजा-लातव्य कञ्चुकिन् ! आहूयतामुर्वशी।
कञ्चुकी-यदाज्ञापयति देवः । (इति निष्क्रान्तः)
राजा-(कुमारमवलोक्य ।) एहि एहि वत्स ।
सर्वाङ्गीण इति-
सुतस्य स्पर्शः पुत्रगात्रेण संस्पर्शः सर्वाङ्गीणः सर्वदेहव्यापी खलु । पुत्रगात्रसम्पर्कजन्यं सुखम् सकलदेहं व्याप्नोतीति भावः । सर्वं च तदङ्गं सर्वाङ्गम् तद्व्याप्नोति इत्येवं शीलः सर्वाङ्गीणः सर्वाङ्गव्यापी “तत्सर्वादेः" इत्यनेन स्वप्रत्ययः। किलेति सामान्यवस्तु प्रतिपादने ऐतिह्ये वा । सौभाग्यतः उपनतेन प्राप्तेन तेन सम्पर्कजन्यसुखेन मां आह्वादयस्व सुखय । मम प्रारब्धवशात् लब्धेन अनेन पुत्रगात्रसम्पर्कसुखेन मां प्रीणयेत्यर्थः । तत्रोपमानं आह-यथा चन्द्रकरः चन्द्रमसः करः किरणः चन्द्रकान्तं मणिं आह्वादयति द्रवयति । यथा चन्द्रकिरणसंस्पर्शन चन्द्रकान्तमणिर्द्रवति तथैव तवाङ्गसंस्पर्शसुखेन अहमप्यानन्दोदधिनिमग्नो भविष्यामीत्यर्थः ।
इदमेवाह कश्चन कविः-"सुप्रसिद्धमिदं लोके चन्दनं खलु शीतलम् । पुत्रगात्रस्य संस्पर्शश्चन्दनादतिरिच्यते ।” अत्रोपमालङ्कारश्च । अनुष्टुब् वृत्तम् ॥ ११॥
तापसी-जात वत्स ! पितरम् जनकम् नन्दय आनन्दय सुखयेत्यर्थः ।
(कुमारो राजानमुपसर्पति उपगच्छतीति भावः)
राजा-(आलिङ्ग्य) वत्स ! प्रियसखं मम प्रियवयस्यं एनं ब्राह्मणं अशङ्कितो निर्भीकः सन् वन्दस्व प्रणम । अत्र विदूषकस्य ब्राह्मणत्वप्रतिपादनेन पूज्यत्वम् वन्द्यत्वं च व्यज्यते । ब्राह्मणवन्दनादिकस्य समुदाचारस्य उपदेशः राज्ञः न्यायपथप्रवर्तकत्वं व्यनक्ति। विदूषकः-किं ति सङ्किस्सदि । णं अस्समवासपरिचिदो एव साहामिओ। [किमिति शङ्कयते । नन्वाश्रमवासपरिचित एव शाखामृगः।]
कुमार:-(सस्मितम् ) तात वन्दे ।
विदूषकः -सोत्थि भवदो । वड्ढ्दु भवम् । [ स्वस्ति भवते वर्धतां भवान् ।]
(ततः प्रविशत्युर्वशी कञ्चुकी च)
कञ्चुकी-इत इतो देवी।
उर्वशी-(प्रविश्यावलोक्य च।) को णु क्खु एसो कणअपीठोवविठ्ठो महाराएण सज्जीअमाणसिहण्डो चिट्ठदि । (तापसीं दृष्ट्वा) अम्महे ! सञ्चवदीसहिदो पुत्तओ मे आऊ महन्तो क्खु संवुत्तो। [को नु खल्वेष कनकपीठोपविष्टो महाराजेन सज्ज्यमानशिखण्डस्तिष्ठति । (तापसीं दृष्ट्वा ।) अहो! सत्यवतीसहितः पुत्रको मे आयुर्महान् खलु संवृत्तः।]
विदूषकः-किमिति शङ्कयते शङ्कायाः किं कारणम् । नास्तीति भावः। यतः आश्रमे वासः तेन परिचितः ज्ञात एव शाखामृगः कपिः। “वानरा हि वृक्षेभ्यो फलान्याहृत्य ऋषीनुपतिष्ठन्तीति" बाणभट्टैः प्रतिपादितम् । तदनुसारम् आश्रमवासिनो बालस्यास्य कपिस्तु सम्यक् परिचित एव । सम्यक् परिचितस्य शङ्का निरर्थकेति मत्वा विदूषकः स्वस्य विरूपत्वात् विकृतवेषत्वात् वानरसाम्यं तदेव च शङ्काहेतुं मनुते किन्तु कपिभिः परिचितत्वप्रतिपादनेन च तन्निवारयति ।
कुमार:-(सस्मितम्-ईषद्धास्येन) तात वन्दे प्रणमामि । विदूषकस्य स्वजनकसखित्वात् तातेति सम्बोधनम् । “तातस्तु जनकः पिता" इति ।
विदूषकः-स्वस्ति भवते अत्र स्वस्तियोगे चतुर्थी । वर्धतां भवान् इति आशीः।
(ततः उर्वशी कञ्चुकी च प्रविशतः)
कञ्चुकी-इत इतो देवी आगम्यतामिति शेषः ।
उर्वशी-(प्रविश्य अवलोक्य च) को नु खलु एष कनकपीठोपविष्टः सुवर्णपीठासीनः महाराजेन स्वयं सज्ज्यमानशिखण्डः प्रसाध्यमानचूडः तिष्ठति । शिखण्डश्चूडा "शिखण्डोबर्हचूडयोरिति" शब्दमुक्तावली । (तापसीं दृष्ट्वा) अहो इति अकल्पितस्य दर्शनादाश्चर्यव्यञ्जकम् । सत्यवतीति तापसी नाम, तया राजा-(विलोक्य) वत्स!
इयं ते जननी प्राप्ता त्वदालोकनतत्परा । |
तापसी-जाद एहि । पच्चुवगच्छ मादरं । [जात एहि । प्रत्युपगच्छ मातरम् ।]
(इति कुमारेण सहोर्वशीमुपसर्पति ।)
उर्वशी-अज्जे ! पादवंदणं करेमि । [आर्ये ! पादवन्दनं
करोमि ।]
तापसी-वच्छे, भत्तुणो वहुमदा होहि । [वत्से ! भर्तुर्बहुमता भव ।]
कुमार:: -अम्ब ! अभिवादये।
सहितः पुत्रकोः मम आयुरस्ति । महान् खलु संवृत्तः, अद्भुतमिदमित्यर्थः । अत्र पुत्रपदात् कप्प्रत्ययः प्रेमातिशयद्योतनायेति ज्ञेयम् ।
राजा-(विलोक्य । ) वत्स !
इयमिति-स्नेहः प्रेम तेन प्रस्रवः वहत्पयः तेन निर्भिन्नं विशेषतया सङ्गतम् आर्द्रीभूतत्वात् दृढं लग्नं स्तनांशुकम् कञ्चुकमुद्वहन्ती धारयन्ती त्वदालोकनतत्परा तव विलोकने उत्सुका इयं ते जननी माता उर्वशी प्राप्ता समायातेत्यर्थः।
अत्र राज्ञो बहुपत्नीकत्वात् अन्यासामुर्वशीभिन्नानामपि मातृत्वात् तासां परिहाराय जननीतिपदग्रहणम् । स्नेहप्रस्रवेतिपदेन चिरकालदृष्टं तनयं समीक्ष्य मातुः साहजिकमिदमिति सम्बोध्य जननीत्वमेव विशेषयति । त्वदालोकनेत्यनेन औत्सुक्यं व्यज्यते । तेन च यत इयमीदृशी तव कारणेनोत्कण्ठिता, अतस्त्वमपि प्रेम्णः सहजत्वात् तस्याः कारणेन तादृश एवोत्सुको भवेरिति हेतोः कुमारस्योत्कण्ठोत्कर्षायास्य ग्रहणम् ।
निर्भिन्नं सुसङ्गतम् “भिन्नं वाच्यवदत्यर्थे दारिते सङ्गते स्फुटे" इति विश्वलोचनः ॥ अनुष्टुप् वृत्तम् ॥ १२ ॥
तापसी -जात वत्स! एहि आगच्छ ! मातरं प्रति उपगच्छ समीपं गच्छ। (इत्येवं कुमारेणामुना सह उर्वशीमुपसर्पति । अत्र उर्वशीमिति उपयोगे द्वितीया।)
उर्वशी-आर्ये सत्यवति ! पादवन्दनं करोमि ।
तापसी-वत्से ! भर्तुः बहुमता अभिलषिता दयिता भव ।
कुमार:-अम्ब मातः ! अभिवादये।
२१ विक्र० उर्वशी -वच्छ । पिदरं आराधयन्तो होहि । [वत्स ! पितरमाराधयन् भव । ] (राजानं प्रति ) जेदु जेदु महाराओ।[जयतु जयतु महाराजः।]
राजा-स्वागतं पुत्रवत्यै। इत आस्यताम् ।
उर्वशी -अज्जा उवविसध [आर्या ! उपविशत ।]
(सर्वे यथोचितमुपविष्टाः।)
तापसी-वच्छे ! गिहिदविज्जो आऊ संपदं कवचारुहो संवुत्तो । एसो भत्तुणो समक्खं णिज्जादिदो सहिहत्थणिक्खेवो। ता तुम्हेहिं विसज्जिदं अत्ताणं इच्छामि । उवरुज्झइ मे अस्समधम्मो । [वत्से ! गृहीतविद्य आयुः साम्प्रतं कवचार्हः संवृत्तः। एष भर्तुः समक्षं निर्यातितः सखीहस्तनिक्षेपः । तद्युष्माभिः विसर्जितमात्मानमिच्छामि । उपरुद्ध्यते मे आश्रमधर्मः।]
उर्वशी-कामं चिरस्स अज्जउत्तं पेक्खिअ अवहिदाहिअएण जुज्जदि पुणो अस्समधम्मं विभाविदुं । ता गच्छदु अज्जा पुणोदंसणाअ । [कामं चिरस्यार्यपुत्रं प्रेक्ष्यावहितहृदयेन युज्यते पुनराश्रमधर्मं विभावयितुम् । तद्गच्छत्वार्या पुनर्दर्शनाय ।]
उर्वशी-वत्स! पितरमाराधयन् पितृचरणसेवापरायणो भव (राजानं प्रति) जयतु जयतु महाराजः ।
राजा-पुत्रवत्यै ते स्वागतम्-सतनयाया विशेषतया मान्यत्वम् । इत आस्यताम्।
उर्वशी-आर्याः सभ्याः ! उपविशत ।
(सर्वे यथोचितं यथास्थानमुपविष्टाः।)
तापसी-वत्से उर्वशि! गृहीतविद्यः यथाविधि सुसम्पादितधनुर्वेदादिक्षत्रोचितविद्यः आयुः साम्प्रतमधुना कवचार्हः कवचस्य योग्यः युधि कवचधारणयोग्यः सम्पन्नः । अतः एष कुमारः ते भर्तुः पुरूरवसः समक्षं प्रत्यक्षं सखीहस्तनिक्षेपः त्वया मयि न्यासीकृतः इदानीं निर्यातितः समर्पितः । ततश्चाहं युष्माभिः सर्वैः विसर्जितं गन्तुमनुमतमात्मानमिच्छामि । इदानीं गमनायानुज्ञां भवद्भिर्दत्तां इच्छामीत्यर्थः । मे आश्रमधर्मश्च उपरुध्यते बाध्यते इत्यर्थः ।
उर्वशी-चिरस्य चिरकालेन कामं यथेच्छं आर्यपुत्रं महाराजं प्रेक्ष्य दृष्ट्वा इदानीं अवहितहृदयेन सावधानेन चेतसा पुनः आश्रमधर्मं विभावयितुं पालयितुं राजा-तत्रभवते च्यवनाय मम प्रणाममावेदयिष्यसि ।
तापसी-एव्वं भोदु । [एवं भवतु ।]
कुमार:-आर्ये ! सत्यमेव निवर्तनम् ? इतो मामपि नेतुमर्हसि।
राजा-अयि वत्स ! उषितं त्वया पूर्वस्मिन्नाश्रमे । द्वितीयमध्यासितुं तव समयः।
तापसी-जाद ! गुरुणो वअणं अणुचिट्ठ [जात ! गुरोर्वचनमनुतिष्ठ ।]
कुमार:-तेन हि
यः सुप्तवान् मदङ्के शिखण्डकण्डूयनोपलब्धसुखः। |
युज्यते । परस्परसम्मेलनं जातम् । पुनराश्रमधर्मस्य परिपालनाय भवत्याः गमनमुचितम् । तद्गच्छतु आर्या पुनर्दर्शनाय । भवत्याः पुनरपि दर्शनं प्रतीक्षामहे इति भावः।
राजा-आर्ये ! तत्रभवते पूज्याय च्यवनाय महर्षये मम प्रणाममभिवादनम् आवेदयिष्यसि समर्पयिष्यसि । निवेदनीयमित्यर्थः ।
तापसी-एवं भवतु निवेदयिष्यामि ।
कुमार:-आर्य इति सत्यवतीसम्बोधनम् । सत्यमेव निवर्तनम् , यथार्थमेव त्वं प्रतिनिवृत्तासि स्वाश्रमम् । इतः अस्मात्स्थानात् मामपि नेतुमर्हसि । अहमपि चलामि मामपि नय । अत्र बालकस्य एतावत्कालपर्यन्तं तया सहोषितत्वात् कोमलहृदयस्य तत्रैवाभिनिवेशः।
राजा-अयि वत्स! सप्रेम सम्बोधनमिदम् । त्वया पूर्वस्मिन् आश्रमे ब्रह्मचर्याश्रमे उषितं निवासः कृतः । इदानीं द्वितीयमाश्रमं गार्हस्थ्यमध्यासितुं प्रवेष्टुं एष तव समयः सम्प्राप्तः।
तापसी-जात ! गुरोः पितुर्वचनं शासनमनुतिष्ठ विधेयम् ।
कुमार-तेन हि-भवतु एवं करिष्ये । किन्तु यथा शाकुन्तले शकुन्तला कण्वं प्रति मृगीप्रसवसमये मामुपनेतुं प्रार्थयते तथैवेहापि कुमारः आरण्यकत्वात् तादृगेव तापसी याचते।
य इति-शिखण्डो बर्हस्तस्य कण्डूयनेन खर्जनेन उपलब्धमाप्तम् सुखम् निर्वृतिर्येन सः तादृशः यः मदङ्के मदुत्सङ्गे सुप्तवान् निद्रां लेभे तं जातकलापं समुद्गतपिच्छभारम् शितिकण्ठकं नीलग्रीवं तन्नामानं वा शिखिनम् मयूरम् मे तापसी-एव्वं करेमि । [एवं करोमि ।]
उर्वशी-भअवदि ! पादवन्दणं करेमि। [भगवति ! पादवन्दनं करोमि ।]
राजा-भगवति! प्रणमामि ।
तापसी-सोत्थिं भोदु तुम्हाणं । [स्वस्ति भवतु युष्मभ्यम् ।]
(इति निष्क्रन्ता)
राजा-सुन्दरि !
अद्याहं पुत्रिणामग्र्यः सुपुत्रेण तवामुना । |
(उर्वशी स्मृत्वा रोदिति)
मदर्थे प्रेषय । बालानां मयूरे साहजिकी आसक्तिस्तेषां लोभनीयरूपनृत्यकेकाप्रभृतित्वात् । अतः कुमारेण स्वबालभावस्य सदृशं हि आचरितमनयाभ्यर्थनया।
"कलापः संहते बर्हे" इति कोषः । अत्र कुमाराणां निसर्गवर्णनात् स्वभावोक्तिः । इयमार्याजातिः॥१३॥
तापसी-(कुमारं प्रति ।) एवं करोमि, प्रेषयिष्यामि ते मयूरमिति ।
उर्वशी-भगवति सत्यवति ! पादवन्दनं करोमि।
राजा-भगवति प्रणमामि ।
तापसी-स्वस्ति भवतु युष्मभ्यम् । भद्रमस्तु उभयोरित्यर्थः । स्वस्तियोगे चतुर्थी।
(इति निष्क्रान्ता ।)
राजा-सुन्दरि ! उर्वशीसम्बोधनम् ।
अद्येति तव अमुना अनेन सुपुत्रेण सद्गुणगणविशिष्टेन पुत्रेण अहं पुत्रिणां तनयवतां पुरुषाणां अग्र्यः प्रधानः । ये केचन जनाः पुत्रेण भाग्यवत्त्वमामनन्ति तेषां भाग्यशालिनामहमग्रेसरः ईदृशेन सत्पुत्रेण पुत्रित्वात् । तत्रोपमानम्-पौलोमीसम्भवेन शच्यां समुत्पन्नेन जयन्तेन इन्द्रतनयेन पुरन्दरः इन्द्र इव । यथा जयन्तेन इन्द्रः शोभतेतराम् तथैवामुना तनयेनाहमिति । अत्र इन्द्रसदृशत्वम् नरेन्द्रस्यावगम्यते । पुरन्दरः इत्यत्र "खश्" प्रत्ययो मुमागमश्च । एतादृक् वर्णनं रघुवंशेऽपि “यथा जयन्तेन शचीपुरन्दरौ" इत्यादि । अनुष्टुप् वृत्तम् ॥ १४॥
(उर्वशी स्मृत्वा रोदिति किमपि पुरातनं स्मृत्वेत्यर्थः)
[किं नु खलु साम्प्रतमत्रभवत्यश्रुमुखी संवृत्ता।]
राजा-(सावेगम्)
किं सुन्दरि प्ररुदिताऽसि ममोपनीते |
उर्वशी-सुणादु महाराओ। पढमं उण पुत्तदंसणसमुत्थिदेण आणंदेण विसुमरिदम्हि । दाणीं महिंदसंकित्तणेण मम हिअए ट्ठिदं समएण। [शृणोतु महाराजः। प्रथमं पुनः पुत्रदर्शनसमु-
विदूषकः-किं नु खलु किं नु कारणम् स्यात् यदधुना साम्प्रतं अत्रभवती उर्वशी अश्रुमुखी बाष्पाकुला संवृत्ता ?
राजा-(सावेगम् सोद्वेगम् सचिन्तम् वा)
किमिति-हे सुन्दरि ! मम वंशस्य कुलस्य स्थितिर्मर्यादा प्रतिष्ठा वा यस्मात्तादृशस्य पुत्रस्य अधिगमात् लाभात् स्फुरति प्रकाशमाने हृदयामोदकारके प्रमोदे अमन्दानन्दे उपनीते प्राप्ते सति किमर्थं प्ररुदितासि रोदिषि । मयि सुखिनि तवापि सुखित्वं योग्यम् न तु ईदृक् प्ररोदनमुचितमित्यर्थः । इयं प्रमोदवेला अतः किमर्थं रोदिषीति आवेगकारणम् । तस्याः रोदनं वर्णयति- पीनौ मांसलौ यौ स्तनौ तयोरुपरि निपातिभिः पतद्भिः अस्रैः बाष्पैः पुनरुक्तमिव द्वितीयामिव यथास्यात्तथा मुक्तावलीविरचनां अर्पयन्ती । उर्वशी मुक्तावलीं परिदधाना आसीत् । तस्या अश्रुबिन्दवोऽपि मुक्तासदृशा इति वर्णयति । तव एभिरश्रुबिन्दुभिः एकस्याम् मुक्तावल्यां सत्यामपि द्वितीयां मुक्तावलीविरचनां अर्पयन्ती रचयन्तीव किमिति रोदिषि?
अत्र मौक्तिकहारविरचनायाः सम्भावितकल्पनात् उत्प्रेक्षालङ्कारः । अश्रूणां मुक्तासदृशवत्प्रतिपादनात् व्यङ्ग्योपमा । अत्र पुनरुक्तमिति क्रियाविशेषणम् । यथा एकस्य सत्त्वे पुनरुक्तिर्व्यर्था तथैव एकस्य मौक्तिकहारस्य सत्तायां अन्यस्येदृशस्य व्यर्थवं क्लेशकरत्वं च । अत्र श्लेषाख्यो अर्थगुणः “एवं क्रियापरम्परया विदग्धचेष्टितस्य तदस्फुटत्वस्य तदुपपादकयुक्तेश्च सामान्याधिकरण्यरूपः संसर्गः श्लेषः" इति जगन्नाथपण्डितेन्द्रः । तथा च साम्यसौकुमार्यमाधुर्यशब्दगुणाः । अत्र च वसन्ततिलकाख्यं वृत्तम् ॥ १५ ॥
उर्वशी-शृणोतु महाराजः-प्ररुदितस्य कारणमाह-प्रथममादौ पुत्रदर्शनसमुत्थितेन पुत्रसम्मेलनजनितेन आनन्देन विस्मृतास्मि । किन्त्वधुना त्थितेन आनन्देन विस्मृतास्मि । इदानीं पुनः महेन्द्रसङ्कीर्तनेन मम हृदये स्थितं समयेन ।]
राजा-कथ्यतां समयः।
उर्वशी-अहं पुरा महाराअगहिदहिअआ गुरुसावसंमूढा महिंदेण अवधीकदुअ अब्भणुण्णादा।[अहं पुरा महाराजगृहीतहृदया गुरुशापसम्मूढा महेन्द्रेण अवधीकृत्याभ्यनुज्ञाता।]
राजा-किमिति ।
उर्वशी-जदा मम सो पिअवअस्सो तुइ समुप्पणसुदस्स मुहं पेक्खिदि तदा मम समीवं तुए आअंतव्वं त्ति । तदो मए महाराअविओअभीरुदाए जादमेत्तो एव्व विज्जागमणिमित्तं अ भअवदो चवणस्स अस्समपदे एसो पुत्तओ अज्जाए सञ्चवदीए हत्थे आप्पणा णिक्खित्तो । अज्ज उण पिदुणो आराहणसमत्थो संवुत्तो त्ति काउण णिज्जादिदो एसो दीहाऊ आऊ । एत्तिको मे महाराएण सह संवासो। [यदा मम स प्रियवयस्यस्त्वयि समुत्पन्नसुतस्य मुखं प्रेक्षते तदा मम समीपं त्वया आगन्तव्यमिति । ततो
महेन्द्रस्य पुरन्दरस्य सङ्कीर्तनेन नामग्रहणेन मम हृदये समयेन कालावधिना स्थितम् । या समयमर्यादा पुरा कृताऽऽसीत्सा इदानीं पूर्वस्मिन् पद्ये कीर्तितेन इन्द्रनाम्ना मम स्मृतिपथमवतीर्णा । तेन चाहं रुदिताऽस्मि ।
राजा-कथ्यतां समयः कालावधिः। “समयः शपथाचारकालसिद्धान्तसंविदः" इत्यमरः।
उर्वशी-अहं पुरा महाराजेन गृहीतं हृदयं यस्याः तादृशी महाराजसंलग्नचित्ताभिनिवेशा गुरुशापसंमूढा गुरोः भरताचार्यस्य शापेन (द्वितीयाङ्कगतकथाऽत्रानुसन्धेया।) संमूढा विस्मृतात्मा महेन्द्रेण अवधीकृत्य कालावधिं निश्चित्य महाराजेन सार्धं उषितुमभ्यनुज्ञाता । आसम् इति शेषः ।
राजा-किमिति कियत्कालपर्यन्तो हि सः अवधिः ।
उर्वशी-अवधिं वर्णयन्ती पुत्रगोपनकारणमुद्घाटयति-महेन्द्रेणोक्तमासीद्यत् यदा मम स प्रियवयस्यो महाराजः त्वयि समुत्पन्नस्य जातस्य सुतस्य मुखं प्रेक्षते तदा मम समीपं त्वया आगन्तव्यम् । मय्युत्पन्नपुत्रदर्शनावसानाकालावधिरित्यर्थः । ततः पश्चात् मया महाराजेन सह जन्यमानस्य वियोगस्य विरहस्य भीरुतया भीतया जातमात्र एवायं पुत्रकः विद्या लौकिकी आगमाः मया महाराजवियोगभीरुतया जातमात्र एव विद्यागमनिमित्तं च भगवतश्च्यवनस्य आश्रमपदे एष पुत्रकः आर्यायाः सत्यवत्याः हस्ते आत्मना निक्षिप्तः । अद्य पुनः पितुराराधनसमर्थः संवृत्त इति कृत्वा निर्यातित एष दीर्घायुरायुः । एतावान् मम महाराजेन सह संवासः।]
(सर्वे विषादं नाटयन्ति । राजा मोहमुपगच्छति ।)
सर्वे-समस्ससदु समस्ससदु महाराओ । [समाश्वसितु समाश्वसितु महाराजः।]
कञ्चुकी-समाश्वसितु महाराजः ।
विदूषकः -अब्बम्हणं अब्बम्हणं । [अब्रह्मण्यम् अब्रह्मण्यम् ।
राजा-(समाश्वस्य) अहो! सुखप्रत्यर्थिता दैवस्य ।
शास्त्राणि तेषामध्ययननिमित्तम् भगवतः च्यवनस्य आश्रमरूपिणि पदे स्थाने एष आयुरार्यायाः मान्यायाः सत्यवत्यास् तापस्याः हस्ते आत्मना स्वयं निक्षिप्तः स्थापितो न्यासीकृतो वा। अद्य पुनः इति वाक्यालङ्करणे । पितुर्महाराजस्य आराधने सेवायां समर्थः अयं संवृत्तः इति कृत्वा अनेन हेतुना एष दीर्घायुः चिरजीवी आयुः निर्यातितः प्रत्यर्पितः । एतावान् एतावत्कालावधिरेव महाराजेन सह मम संवासः सहवास इति स्मृत्वा अहमरोदम् । अधुना वियोगो भवितेति भावः । एतत्कालपर्यन्तमेव महाराजेन सहोषितुमभ्यनुज्ञाताऽस्मि महेन्द्रेणेति सारः । अत्रोर्वश्या स्वात्मजगोपनहेत्वनुभवप्रकाशनादनुभूत्याख्यं निर्णयोनाम निर्वहणसन्ध्यङ्गमुक्तं भवति ।
(सर्वे श्रोतारो विषादं खेदं नाटयन्ति रूपयन्ति ।)
सर्वे-समाश्वसितु समाश्वसितु महाराजः । अत्र राजा मूर्च्छति दयिताया गुरुवियोगं अनुभूतपूर्वं पुनरनुभवितुमसमर्थः भृशं खेदेन विसंज्ञतामलभत ।
कञ्चकी-समाश्वसितु महाराजः ।
विदूषकः-अब्रह्मण्यम् अब्रह्मण्यम् । महान् खलु अनर्थः संवृत्त इति अर्थबोधे अव्ययमिदम् । “अब्रह्मण्यमवध्योक्तौ" इत्यमरः ।
राजा-(समाश्वस्य संज्ञा लब्ध्वा) अहो! दैवस्य भाग्यस्य सुखप्रत्यर्थिता सुखपराङ्मुखता । यदैकं सुखमुपनतम् द्वितीयं दुःखमापतितमित्यर्थः ।
आश्वासितस्य मम नाम सुतोपलब्ध्या |
विदूषकः-अअं सो अत्थो अणत्थानुबन्धीत्ति तक्केमि तत्तभवदा वक्कलं गेण्हिअ तवोवणं गन्तव्वं त्ति । [अयं स अर्थः अनर्थानुबन्धीति तर्कयामि तत्रभवता वल्कलं गृहीत्वा तपोवनं गन्तव्यमिति ।]
उर्वशी-हा हदम्हि मन्दभाआ। मं वि किदविणअस्स पुत्तअस्स लम्भणाणन्तरं सग्गारोहेणेण अवसिदकज्जां विप्पओअमुहीं महाराओ समत्थइस्सदि । [हा हतास्मि मन्दभाग्या । मामपि
आश्वासितस्येति-कृशमुदरं यस्याः सा तादृशि तनुमध्ये ! नाम प्राकाश्ये ! सुतोपलब्ध्या पुत्रप्राप्त्या आश्वासितस्य सन्तोषितस्य कृतसान्त्वनस्य वा मम सद्यस्तस्मिन्नेव समये त्वया सह अयं विप्रयोगो विरहः प्रथमाभ्रवृष्ट्या प्रथममेघवर्षया व्यावर्तिता निर्वापिता आतपजन्या रुग् यस्य तादृशस्य दूरीकृतोष्मपीडस्य वृक्षस्य वैद्युतः तडित्सम्बंधी अग्निरिवोपस्थितः ।
यथा प्रथमं नवमेघेन कृते त्वीषद्वर्षे दूरीकृतसूर्यातपत्रासस्य वृक्षस्य कृते तडिज्जन्योऽग्निस्त्रासाय भवति तथैवेदानीं निरपत्यस्य मम सुतलाभेनेषज्जातसान्त्वनस्य कृते त्वया सह गुरुरसह्यो वियोगः सम्प्राप्तः । काञ्चित् शान्तिमुपलभ्य पुनः क्लेशो यथा भृशं दुःखदो भवति तथैव सुतप्राप्त्यनन्तरं त्वया सह विरहवादः । “नाम प्राकाश्य सम्भाव्य क्रोधोपगमकुत्सने" इति त्रिकाण्डी । "आतपो रश्मिमात्रे स्यात्सूर्यरश्मौ च दृश्यते" इति धरणिः । अत्र उदरशब्दः लक्षणया कटिरूपेऽर्थे बोध्यः ।
अत्र बिम्बप्रतिबिम्बानुप्राणिता लुप्तोपमालङ्कृतिः । यथा वैद्युताग्निः वृक्षं प्रकामं दहति तथैव मम मनः अनेन विरहाग्निना दंदह्यत इति व्यङ्ग्यम् उभयोरसह्यत्वात् । वसन्ततिलका वृत्तम् ॥ १६ ॥
विदूषकः-अयं सः सुतोपलब्धिरूपः अर्थः अनर्थानुबन्धी अनिष्टकारी विद्यते इति तर्कयामि । यदा एकोऽर्थः सम्पन्नः तदा अन्योऽन्यथा संवृत्तः । अतः इति हेतोः तत्र भवता इदानीम् वल्कलं गृहीत्वा मुनिवेषं धृत्वा तपोवनं तपसे गन्तव्यमुचितम् ।
उर्वशी-हा इति खेदे। मन्दभाग्या अहं हताऽस्मि । कृतविनयस्य सम्पादितशिक्षस्य पुत्रकस्य लम्भानन्तरम् लाभानन्तरम् स्वर्गारोहेण अवसितकृतविनयस्य पुत्रकस्य लम्भानन्तरं स्वर्गारोहणेनावसितकार्या विप्रयोगमुखीं महाराजः समर्थयिष्यति ।]
राजा-सुन्दरि ! मा मैवम् ।
नहि सुलभवियोगा कर्तुमात्मप्रियाणि |
कुमार:-नार्हति तातो नृपपुङ्गवधारितायां धुरि दम्यं नियोजयितुम् ।
कार्या समाप्तकर्तव्याम् विप्रयोगमुखीं विरहबद्धमनस्कां मामपि महाराजः समर्थयिष्यति मंस्यते । सुशिक्षितपुत्रस्य लाभानन्तरं कृतकृत्या भूत्वा सुखदुःखसमाना इयमिदानीं स्वर्गं जिगमिषुरस्तीति मंस्यते महाराजः। अनुरूपपुत्रलाभेन इदानीं मां सम्पन्नकार्यां मत्वा गन्तुमाज्ञां दास्यति महाराज इति भावः । कृतः सम्पादितः विनयः शिक्षा येन सः। “विनयं प्रणतो प्राहुः शिक्षायां विनयो मतः" इति लोचनः ।
राजा-सुन्दरि मा मा एवम् मंस्थाः । नैतदेवम् ।
नहीति -सुलभः सुकरः क्षणे क्षणे सम्भाव्यो वियोगो यस्याः सा तादृशी वियोगकारिणी परवत्ता पराधीनता आत्मप्रियाणि स्वेच्छानुकूलमाचरितुं न प्रभवति । पराधीनः पुरुषः स्वकामनानुकूलं कर्तुं न पारयति । पारतन्त्र्यं बन्धाय भवति स्वेच्छाचारनिरोधाय च । अतो गच्छ । तव भर्तुरिन्द्रस्य शासने आज्ञायां तिष्ठ वर्तस्व । त्वं इन्द्रस्य परतन्त्रत्वात् तस्याभ्यनुज्ञया वर्तस्व । ततश्च त्वयि स्वर्गङ्गतायाम् अहमपि तव सूनौ आयुषि अद्यैव अस्मिन्नेव क्षणे राज्यं राजकार्यं विन्यस्य संस्थाप्य विचरितानि मृगयूथानि मृगवृन्दानि येषु मृगाध्युषितानि वनानि आश्रयिष्ये अवगाहिष्ये । वानप्रस्थाश्रमं धारयिष्ये इत्यर्थः।
"परतन्त्रः पराधीनः परवान्" इत्यमरः । “सूनुः पुत्रेऽनुजे रवौ" ।
अत्र प्रसादस्यानुग्रहरूपत्वात् पर्युपासनं नाम निर्वहणसन्ध्यङ्गमुक्तं भवति । अत्र गुरुतरविरहजन्यसन्तापेन संसारात् पराङ्मुखस्य राज्ञो निर्वेदः उर्वशीविरहमात्रहेतुक एव न पुनः नित्यानित्यवस्तुविवेकादिसाधनचतुष्टयकृतः इति भावाभासमात्रम् तस्य च विप्रलम्भपोषकत्वात् ऊर्जस्विदलङ्कारः । प्रचमचरणे अर्थान्तरन्यासः । इदं च मालिनी वृत्तम् ॥ १७ ॥
कुमार:-तातः नृपेषु पुङ्गवः श्रेष्ठः तेन धारितायां चालितायां धुरि दम्यं वत्सतरं नियोजयितुं नार्हति । अत्र राज्ञः पुङ्गवत्वकल्पनात् शक्तिमत्त्वं कार्य राजा-अयि वत्स! मा मैवम् ।
शमयति गजानन्यान्गन्धद्विपः कलभोऽपि सन् |
निर्वाहकत्वं च व्यज्यते । दम्ये वत्सतरः। “दम्यवत्सतरौ समौ" इत्यमरः । अत्र मयि भवता उदूढभारस्य राज्यकर्मणः नियोगः पुङ्गवधारितायां धुरि वत्सतरस्य नियोग इवेति भावात् निदर्शनालङ्कारो व्यङ्ग्यः। अनेन कुमारस्य विनयित्वं नयवत्त्वञ्च गम्यते । अनुरूपप्रयोगः मुद्राराक्षसे "गुर्वी धुरं यो भुवनस्य भर्ता धुर्येण दम्यः सदृशं बिभर्ति ।" (३-३)
राजा-अयि वत्स मा मैवम् कथय, यतः अपार्थमेतत् ।
शमयतीति-गन्धद्विपः गन्धगजः कलभः शावकोऽपि सन् अन्यान् गजान् शमयति । तथा च वेगेन उदग्रं भयङ्करं भुजङ्गशिशोः वालसर्पस्यापि विषम् मारणाय प्रभवतितराम् नितरां समर्थमस्ति । तथैव बालावस्थः कौमारकेऽपि वर्तमानस्त्वं अधिपतिः सन् भुवं परिरक्षितुमलं समर्थो भवसि । यतः अयं गन्धगजसर्पनृपादीनां गणः समूहः जात्यैव निसर्गत एव स्वकार्यसहः भवति न तु वयसा । गन्धगजलक्षणम्-“यस्य गन्धं समाघ्राय न तिष्ठन्ति प्रतिद्विपाः । स वै गन्धगजो नाम नृपतेर्विजयावहः" इति युक्तिकल्पतरुः।
वेगोदग्रमिति-वेगस्तु "धातोर्धात्वन्तरप्राप्तिर्विषवेग इति स्मृतः ।" सप्तधातवः "रसासृङ्मांसमेदोऽस्थिमज्जशुक्राणि धातवः" इति वाग्भटे । तथाच विषवेगा सप्तैव सन्ति । "वेगो रोमाञ्चमाद्यो रचयति विषजः स्वेदवकोपशोषौ तस्योर्ध्वस्तत्परौ द्वौ वपुषि जनयतो वर्णभेदप्रवेपौ । यो वेगः पञ्चमोऽसौ नयनविवशतां कण्ठभङ्गं च हिक्काम् षष्ठो निश्वासमोहौ वितरति च मृतिं सप्तमो भक्षकस्य" इति विषतन्त्रे।
सरलार्थस्तु-
यथा शावकोऽपि गन्धगजः अन्यान् गजान् वारयितुं पारयति, यथा भुजङ्गशिशोः वेगवत्तरं विषं मारणायालं भवति तथैव बाल्यवयस्कोऽपि त्वं भुवम् पालयितुं समर्थः असि । तमेव समर्थयति सामान्येन अयं सर्वोऽपि गुणानां गणः एषु सर्वेषु नैसर्गिको भवति नात्र खलु वयः समीक्ष्यते । अनुरूपार्थान्तरन्यासो यथा भवभूतेः
"गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः।"
तथा च रघुवंशेऽपि "तेजसां हि न वयः समीक्ष्यते ॥"
अत्र त्वं बालोऽपि भुवं पालयितुमर्हसीति प्रतिपादनाय दृष्टान्तस्यैकस्य अलन्त्वेऽपि अनेकयोः प्रदानात् समुच्चयालङ्कारः। “समुच्चयोऽसौ स त्वन्यः युगपद्या आर्य लातव्य ।
कञ्चुकी-आज्ञापयतु देवः ।
राजा-मद्वचनादमात्यपर्वतं ब्रूहि, सम्भ्रियतां आयुष्मतो राज्याभिषेक: ।
(कचुकी दुःखेन निष्कान्तः।)
(सर्वे दृष्टिविघातं रूपयन्ति।)
राजा-(आकाशमवलोक्य ।) कुतो नु खलु विद्युत्सम्पातः । (निपुणमवलोक्य ।) अये भगवान्नारदः।
गोरोचनानिकषपिङ्गजटाकलापः |
गुणक्रिया" इति काव्यप्रकाशे । तथाच पूर्वार्धस्य अपरार्धे प्रतिबिम्बनात् साम्येन प्रणिधानाद्वा दृष्टान्तालङ्कारः। “दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम् ।" तथा चार्थान्तरन्यासः । एतेषां स्वातन्त्र्येण चमत्काराधायकत्वात् संसृष्टिश्च ।
"कलभः करिशावकः" इति कोषः।
इदं च हरिणीवृत्तम् । तल्लक्षणं यथा -रसयुगहयैन्सौ म्रौ स्लौ गो यदा हरिणी तदा । यदा नगणसगणौ मगणरगणौ सगणलघू गुरुश्च तदा हरिणी नाम छन्दः स्यात् । इह षड्भिश्चतुर्भिः सप्तभिश्च यतिः ॥ १८॥
आर्य लातव्य !
कञ्चुकी-आज्ञापयतु देवः।
राजा-मद्वचनाद् मदाज्ञया अमात्यपर्वतं तन्नामानं ब्रूहि कथय । आयुष्मतः आयुषः राज्याभिषेकः संनियतां सज्जीक्रियताम् प्रसाध्यताम् वा। (कञ्चुकी दुःखेन निष्क्रान्तः स्वामिनं राज्यपरिहारिणं ज्ञात्वा दुःखी सन् सन्देशं कथयितुमपगतः।)
(सर्वे उपस्थिताः दृष्टिविघातं दर्शने मन्दतां रूपयन्ति नाटयन्ति ।)
राजा-(आकाशमवलोक्य) कुतो नु खलु विद्युत्सम्पातः (निपुणं सूक्ष्मतया विलोक्य ।) अये इति आश्चर्ये भगवान् नारदः। अत्र तडित्तेजसा इव नारददेहौजसा नयने प्रतिहते । तथा चात्र । अद्भुतसम्प्राप्तेः “उपगूहनम्" नाम सन्ध्यङ्गम् । तद्भवेदुपगूहनम् यत्स्यादद्भुतसम्प्राप्तिः ।
गोरोचनेति-गोरोचनायाः निकषः कषपाषाणः तत्स्थरेखा वा तद्वत् अर्घोऽर्घस्तावत् ।
उर्वशी-अअं भअवदो अग्घो । [ अयं भगवतः अर्घः।]
(ततः प्रविशति नारदः।)
नारदः-विजयतां मध्यमलोकपालः।
राजा-भगवन् । अभिवादये ।
उर्वशी-भअवं पणमामि । [भगवन्तं प्रणमामि ।]
नारदः-अविरहितौ दम्पती भूयास्ताम् ।
पिङ्गा पिङ्गलः जटाकलापः जटाजूटः यस्य सः, शशिनश्चन्द्रमसः कला इव अमलं धवलं वीतसूत्रं यज्ञोपवीतम् यस्य सः तादृशो नारदः पिङ्गलेन जटाजूटेन विमलेन यज्ञोपवीतेन च उपलक्षितः तत्र भवान् नारदः मौक्तिकैः भूषिताङ्गः सुवर्णशाखायुतः कल्पवृक्ष इव समायातो लक्ष्यते।
गोरोचना हि परमोज्वला दीप्तिमती भवति अनेन तस्याम् पिङ्गलत्वं दृश्यते । "निकषः कषपाषाणः" इति कोषः । किन्त्वत्र गोरोचनागतरेखाः लक्षणया बुध्यन्ते । यज्ञोपवीतस्य सूक्ष्मत्वात् शशिकलेतिपदेन द्वितीयाचन्द्रस्य कला मन्तव्या। अतिशयेति पदम् क्रियाविशेषणम् संभृतपदेन साकं योज्यम् । प्ररोहः शाखा।
अत्र प्रथमार्धे उपमाद्वयम् । चरमे तु चरणे उपमानभूतस्य जङ्गमकल्पवृक्षस्य कल्पितत्वात् कल्पितोपमा । नारदस्य कल्पतरुत्वकथनात् सर्वमनोरथदायित्वम् शान्तिकरत्वम्, नायकनायिकयोर्दीर्घसंयोगरूपसुखवार्ताहरत्वम् ध्वन्यते । नारदस्यानुरूपवर्णनं माघेऽपि दृश्यते "दधानमम्भोरुहकेसरद्युतीः जटाः शरश्चन्द्रमरीचिरोचिषं । विहङ्गराजाङ्गरूहैरिवायतैः हिरण्मयोर्वीरुहवल्लितन्तुभिः ॥ कृतोपवीतं हिमशुभ्रमुञ्चकैः । धनं घनान्ते तडितां गणैरिवे"ति ।
वसन्ततिलका वृत्तम् ॥ १९ ॥
राजा-अर्घोऽर्घः स्तावत् आनीयतामिति शेषः । अर्घः पूजाविधिः तदर्थं द्रव्यम् “गन्धमाल्यादिसंयुक्तमुदकमर्घ्यमुच्यते ।"
उर्वशी-अयं भगवतः अर्घः पूजार्हाय पूजाविधिः।
(ततः प्रविशति नारदः।)
नारदः-विजयतां मध्यमलोकपाल: मध्यमलोकं मर्त्यलोकं पालयतीति असौ भूपतिरित्यर्थः । "पुंसि स्मृतौ मध्यमलोकमर्त्यौ" इत्यमरः।
राजा-भगवन् ! अभिवादये प्रणमामि ।
उर्वशी-भगवन्तं प्रणमामि ।
नारदः-अविरहितौ दम्पती भूयास्ताम् । युवयोः विश्लेषः कदापि मा भूयादिति परमसुखकारिणी आशीः । राजा-(आत्मगतम्) अपि नामैवं स्यात् । (प्रकाशम् । कुमारमाश्लिष्य) वत्स ! भगवन्तमभिवादयस्व ।
कुमार:- भगवन् ! और्वशेय आयुः प्रणमति ।
नारदः-आयुष्मानेधि ।
राजा-अयं विष्टरोऽनुगृह्यताम् ।
(नारदस्तथोपविष्टः सर्वे नारदमनूपविशन्ति)
राजा-(सविनयम्)भगवन्,किमागमनप्रयोजनम् ?
नारदः-राजन्, श्रूयतां महेन्द्रसन्देशः।
राजा-अवहितोऽस्मि ।
नारद:-प्रभावदर्शी मघवा वनगमनाय कृतबुद्धिं भवन्तमनुशास्ति ।
राजा-किमाज्ञापयति ?
राजा-(आत्मगतम् ) भगवतः आशीर्वचनं निशम्य शङ्कते, अपि नाम इति मनस्येव प्रश्ने । किं एवं स्यात् आवयोः कदापि विश्लेषो न भविष्यति । अत्र पूर्वभावो नाम निर्वहणसन्ध्यङ्गम् । (प्रकाशम् ) (कुमारं आयुषमाश्लिष्य) वत्स! भगवन्तं नारदं अभिवादयस्व प्रणम ।
कुमार:-भगवन् ! और्वशेयः उर्वश्याः अपत्यं पुमान् और्वशेयः उर्वशीतनयः आयुः प्रणमति ।
नारदः-आयुष्मान् एधि दीर्घायुर्भव।
राजा-अयं विष्टरः आसनम् अनुगृह्यताम् स्वीक्रियताम् , उपविश्यतामित्यर्थः । (नारदस्तथा आसने उपविष्टः । सर्वे उपस्थिता जना नारदम् अनु पश्चात् उपविशन्ति-समुदाचारोऽयम् ।)
राजा-(सविनयम् ) भगवन् किमागमनप्रयोजनम् ? केन हेतुना मद्गृहमुपकृतमद्य भवतागमनायासेन इति सादरं पृच्छति राजा।
नारदः-राजन् ! श्रूयतां महेन्द्रसन्देशः महेन्द्रेण प्रेषितः सन्देशः श्रूयतामित्यर्थः।
राजा-अवहितः सावधानः अस्मि ।
नारदः-प्रभावदर्शी स्वात्मप्रभावेण सर्वं ज्ञातुमर्हः मघवा इन्द्रः वनगमनाय कृतबुद्धिं कृतनिश्चयं भवन्तं अनुशास्ति आज्ञापयति ।
राजा-किमाज्ञापयति देवेन्द्रः?
२२ विक्र० नारद:-त्रिकालदर्शिभिरादिष्टः सुरासुरविमर्दो भावी । भवांश्च सांयुगीनः सहायः । तेन न त्वया शस्त्रन्यासः कर्तव्यः । इयश्चोर्वशी यावदायुस्तव सहधर्मचारिणी भवत्विति ।
उर्वशी-(अपवार्य) सल्लं विअ हिअआदो अवणीदं । [शल्यमिव हृदयादपनीतम् ।]
राजा-परमनुगृहीतोऽस्मि परमेश्वरेण ।
नारद:-युक्तम् ।
त्वत्कार्यं वासवः कुर्यात्त्वं च तस्येष्टकार्यकृत् । |
नारदः-त्रिकालदर्शिभिः भूतभविष्यवर्तमानेतिकालत्रये यद्यद् भावि तत्सर्वं स्वप्रभावेण जानद्भिः ज्योतिर्विद्भिः मुनिभिः सुरासुराणां देवदानवानां विमर्दो युद्धं संघर्षो वा भावी भविष्यति काले भविता इति आदिष्टः कथितः । देवदानवानां युद्धं भविष्यतीति प्रोक्तं मुनिभिः । भवांश्च अस्माकं सांयुगीनः संयुगे रणे साधुः तादृशो रणपण्डितः सहायः । तेन हेतुना त्वया शस्त्रन्यासः वानप्रस्थधर्मग्रहणेन शस्त्राणां परित्यागो न विधेयः । इयं च उर्वशी यावदायुः तव जीवनपर्यन्तं सहधर्मचारिणी धर्मपत्नीत्वेन भवतु इति । इयं त्वया सार्धं तव जीवनपर्यन्तं निवसतु इत्यर्थः । अत्र “कृतिर्लब्धार्थशमनमिति लक्षणात् लब्धाया उर्वश्या सुश्लिष्टय उपशमनात् कृतिर्नाम निर्वहणसन्ध्यङ्गं लभ्यते ।
उर्वशी-(अपवार्य) शल्यमिव हृदयादपनीतम् । किं नाम महेन्द्रः सन्दिशति ? किं मामाह्वयते इति यन्मम चेतसि शल्यम् शङ्कुरिवासीत्तत् इयं यावज्जीवं त्वया सार्धं वसतु इति वचनेन अपनीतम् हृदयाद् बहिर्निष्कासितम् । अधुना निर्वृताऽस्मि । भाविनं विश्लेषदुःखं नानुभविष्ये इति मत्वा स्वात्मानं सुखिनं मनुते । अत्र समयो नाम निर्वहणसन्ध्यङ्गम् । “समयो दुःखनिर्याणमिति" लक्षणात् ।
राजा-परमेश्वरेण महेन्द्रेण परम् अत्यन्तं अनुगृहीतोऽस्मि । महती खलु देवेन्द्रस्य कृपेत्यर्थः । अत्र आनन्दो नाम सन्ध्यङ्गमुक्तम् ।
नारदः-युक्तम् उचितमेवाभिहितम् ।
त्वदिति -वासवः इन्द्रः त्वत्कार्यं तव कार्यं कुर्यात् अभिलषितं वस्तु सम्पादयेत् , त्वञ्च तस्य इष्टस्य अभिलषितस्य कार्यस्य कर्ता भव, त्वं तस्य ईप्सितं सम्पादय । तवाभिलषितं इन्द्रः पूरयतु त्वञ्च तस्याभीप्सितं सम्पादय । तत्र दृष्टान्तः-सूर्यः अग्निं संवर्धयति । इति ह श्रूयते यत् यदा सूर्यः अस्तं याति तदा स्वीयं तेजः अग्नौ न्यस्यति तथा च अग्निः सूर्यं स्वतेजसा संवर्धयति पुष्णाति । "अग्नितेजो हि दिने सूर्यमनुप्रविशति रात्रौ सूर्यतेजोऽग्निमिति" पौरा (आकाशमवलोक्य) रम्भे उपनीयतां मन्त्रेण सम्भृतः कुमारस्याभिषेकः।
रम्भा-अअं से अहिसेअसंभारो । [अयमस्याभिषेकसंभारः।]
रम्भा-उपवेश्यतामयमायुष्मान् भद्रपीठे ।
(रम्भा कुमारं भद्रपीठे उपवेशयति)
नारद:-(कुमारस्य शिरसि कलशमावर्ज्य । )रम्भे! निर्वर्त्यतामस्य शेषो विधिः।
रम्भा:(यथोक्तं निर्वर्त्य । ) वच्छ! पणम भअवंदं पिदरो अ। [वत्स ! प्रणम भगवन्तं पितरौ च ।]
(कुमारः सर्वान् प्रणमति)
णिकी प्रसिद्धिः ॥ "आदित्यो वा अस्तं यन्नग्निमनुप्रविशति, अग्निर्वादित्यं सायं प्रविशति" इति श्रुतिः । सारस्तु-"देवान् भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ" इति गीता ॥ अत्र पूर्वार्धे भग्नप्रक्रमता। अत्र दृष्टान्तालङ्कारः। अनुष्टुप् वृत्तम् ॥ २० ॥
नारदः-(आकाशमवलोक्य ) रम्भे ! रम्भा नाम अप्सरसः। उपनीयतामानीयताम् मन्त्रेण सम्भृतः सम्पूजितः कुमारस्याभिषेकः ।
रम्भा-अयम् अस्य कुमारस्यायुषः अभिषेकस्य संभारः सामग्री।
नारदः-आयुष्मान् दीर्घायुरयं कुमारः भद्रपीठे भद्रासने उपवेश्यताम् स्थाप्यताम् । भद्रासने राज्याभिषेकसमये स्थीयते । भद्रासनलक्षणं यथा- "हैमञ्च राजतं तानं क्षीरवृक्षमयं च वा । भद्रासनं प्रकर्तव्यं सार्धहस्तसमुच्छ्रितम् । सपादहस्तमानं च राज्ञो माण्डलिकान्तरात्" इति देवीपुराणे । वाराहे च दृश्यते "त्रिविधस्तस्योच्छ्रायो हस्तः पादाधिकोऽर्धयुक्तश्च । माण्डलिकानन्तरचित्समस्तराज्यार्थिनां शुभदः" इति ।
(रम्भा कुमारं भद्रपीठे उपवेशयति)
नारदः-(कुमारस्य शिरसि मन्त्रसम्भृतं कलशं आवर्ज्य ) रम्भे ! निवर्त्यतां समाप्यतामस्य कुमाराभिषेकस्य शेषः अवशिष्टो विधिः । पुरा हि राज्याभिषेकः महतो मुनेः हस्ताभ्यामभवत् । तस्मिंश्च कलशावर्जनप्रधानं कर्म । शेषं परिचारिकैः विधीयते ।
रम्भा-(यथोक्तम् निर्वर्त्य कृत्वा) वत्स! प्रणम भगवन्तं नारदम् पितरौ मातरं पितरं च।
(कुमारः सर्वान् प्रणमति)
राजा-कुलधुरन्धरो भव ।
उर्वशी-पिदुणो आराहओ होहि । [पितुराराधको भव ।]
- (नेपथ्ये वैतालिकद्वयम् )
प्रथम:-विजयतां युवराजः।
अमरमुनिरिवात्रिः स्रष्टुरत्रेरिवेन्दुर्
बुध इव शिशिरांशोर्बोधनस्येव देवः।
भव पितुरनुरूपस्त्वं गुणैर्लोककान्तै-
रतिशयिनि समस्ता वंश एवाशिषस्ते ॥ २१ ॥
नारदः-स्वस्ति भवते । कल्याणं तेऽस्तु इत्यर्थः ।।
राजा-कुलधुरन्धरो भव । अत्र खच् प्रत्ययः । कुलावतंसो भूया इति ।
उर्वशी-पितुराराधकः सेवको भव ।
(नेपथ्ये वैतालिकद्वयम् । वैतालिकः कालबोधकः स्तुतिपाठकः ।)
प्रथमो वैतालिक:-विजयतां युवराजः-
अमरेति-अमराणां मुनिः देवर्षिः अत्रिः यथा ब्रह्मणः अनुरूपः पुत्रः अभवत् , यथा च अत्रेः इन्दुश्चन्द्रः अनुरूपः पुत्रः अभूत् , यथा शिशिरांशोश्चन्द्रस्य बुधः अनुरूपः पुत्र आसीत् , यथा बोधनस्य बुधस्य देवः महाराजः पुरूरवाः अनुरूपः पुत्रः समजनि तथैव त्वमपि लोककान्तः लोकप्रियः गुणैः पितुः पुरूरवसः अनुरूपः भव । यतः अतिशयिनि उत्कर्षशालिनि ते वंशे कुले समस्ताः अशेषा आशिषः सन्तीति शेषः । ब्रह्मणः प्रभृति पुरूरव:- पर्यन्तम् उत्तरोत्तरं यथा पूर्वपूर्वगुणसमूहोऽभवत्तथा त्वय्यपि भवतु । त्वमपि पितुः सदृशः हृद्यगुणगणभाजनं भवेति, सर्वा आशिषः सर्वश्रेयोऽधिगमान्निरवकाशाः पौनरुक्त्यं भजन्ते । यथा ब्रह्मणः पुत्रः अत्रिः पितृसदृशः, तस्य तनयः तत्तुल्यः इत्येवं परम्पराप्राप्तं पित्रनुरूपत्वं त्वय्यपि भवत्वित्यर्थः ।
"अत्रिर्हि ब्रह्मणः पुत्रो मानसः । इन्दुश्चात्रेः नयनजः पुत्रः । यदुक्तं पद्मपुराणे, ब्रह्मणो मानसः पुत्रस्त्वत्रिर्नाम महातपाः । स्रष्टुकामः प्रजा वत्स तपस्तेपे सुदुस्तरम् । ऊर्ध्वमाचक्रमे तस्य रेतः सोमत्वमीयिवत् । नेत्राभ्यां तस्य सुस्राव दशधा द्योतयद्दिशः" इत्यादि । हरिवंशेऽपि तादृशम् “पपात भासयन् लोकान् शीतांशुः सर्वभावनः" इति । अनुरूपपद्यम् रघुवंशे “अथ नयनसमुत्थं ज्योतिरत्रेरिव शैः" इति... ।
बुधः बृहस्पतेः भार्यायां तारायाम् चन्द्रेण उत्पादितः । यथा मत्स्यपुराणे "ततः संवत्सरस्यान्ते द्वादशादित्यसन्निभः । दिव्यपीताम्बरधरः पीताभरणभूषितः । राज्ञः सोमस्य पुत्रत्वात्सौम्यो राजसुतः स्मृतः” इति । बोधनो द्वितीय:-
तव पितरि पुरस्तादुन्नतानां स्थितेऽस्मिन् |
बुधः तस्य पुत्रः राजा पुरुरवा अभवत् । देवो राजा "राजा भट्टारको देवः" इत्यमरः । अतिशयः उत्कर्षः । ईदृक् भावः रघुवंशे "आशास्यमन्यत्पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस्ते । पुत्रं लभस्वात्मगुणानुरूपं भवन्तमीड्यं भवतः पितेव ॥
अत्र पारम्पर्यद्योतनाय बहूनामुपमानानां प्रदानात् मालोपमा । अत्राशीर्वचनम् नाम नाव्यालङ्कारः । यदुक्तम् "आशीरिष्टजनाशंसा।" मालिनी वृत्तम् ॥ २१॥
द्वितीयो वैतालिकः-
तवेति-उन्नतानां उच्चैः शिरसां महतां पुरुषाणां पुरस्ताद् अग्रे स्थितेऽस्मिन् तव पितरि स्थितिमति मर्यादापालके अनाकम्प्यधैर्ये अचलचेतः स्थैर्ये त्वयि विभक्ता राजलक्ष्मीः उन्नतानां पर्वतानां अग्रिमत्वेन स्थिते हिमवति च सति स्थितिमति मर्यादावति च अनाकम्प्यधैर्ये अक्षोभ्ये धीरे वा जलधौ समुद्रे व्यस्ततोया विभक्तजलप्रवाहा गङ्गा इव इदानीं अधिकतरं राजते शोभते । यथा गङ्गा हिमाचलतः निःसृता च समुद्रं गच्छन्ती सविशेषं शोभते तथैव राज्यश्रीः महतामग्रगण्ये तव पितरि मर्यादाशालिनि त्वयि च स्थिता सतीदानीं शोभतेतराम् इति भावः।
उन्नतानां पुरस्तादिति पदचयः राज्ञः पक्षे महतामग्रेसरः, हिमवतः पक्षे सानुमता अग्रिमः इति तात्पर्यं बोधयति । तथैव च स्थितिमति इति पदम् कुमारपक्षे उच्चावचानां उचितानुचितानां मर्यादापालकत्वं, समुद्रपक्षे न्यूनत्वाधिक्ययोः दूरसमीपयोर्मर्यादावत्त्वम् गमयति । अनाकम्प्यधैर्ये इति पदेन युवराजपक्षे अनुच्छेद्यचित्तस्थिरत्वम् , पयोधिपक्षे अक्षुब्धत्वम् शान्तलं वा ज्ञाप्यते ।
अत्र एतेषु पदेषु श्लेषः । तथा चात्र यथासख्यं अलङ्कारः । राज्ञः हिमवता सह औपम्यस्य गम्यत्वात् राज्ञः उच्चैः शिरस्त्वप्रतिपादनात् "क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैः शिरसां सतीवेति" गुणो, हिमवद्वत् अचलत्वम् धीरत्वं च ध्वन्यते । तथा च युवराजस्य जलधिना औपम्यदर्शनात् गभीरत्वम् , धीरत्वम् च व्यज्यते । तथा चात्र उपमालङ्कारः । राजलक्ष्म्याः गङ्गया सह साधर्म्यकल्पनात्, निर्मलत्वम् पावकत्वम् , हृदयशीतलत्वम् , देवतात्वम् , भूषणत्वम् , प्रसादकत्वम् द्योतितम् । “राजते राज" इत्यत्र यमकमलङ्कारः । मालिनी वृत्तम् ॥ २२ ॥ रम्भा-दिट्ठिआ पिअसही पुत्तअस्स जुवराअसिरीं पेक्खिअ भन्तुणो अविरहेण वड्ढदि । [ दिष्ट्या प्रियसखी पुत्रकस्य युवराजश्रियं प्रेक्ष्य भर्तुरविरहेण वर्धते ।]
उर्वशी-णं साधारणो ज्जेव एसो अब्भुदओ।[ननु साधारण एव एष अभ्युदयः।] (कुमारं हस्ते गृहीत्वा) जाद ! जेट्ठमातरं वंदेहि । [जात ! ज्येष्ठमातरं वन्दस्व ।]
राजा-तिष्ठ । सममेव तत्रभवत्याः समीपं यास्यामस्तावत् ।
नारद:-
आयुषो यौवराज्यश्रीः स्मारयत्यात्मजस्य ते ।
अभियुक्तं महासेनं सैनापत्ये मरुत्वता ॥ २३ ॥
राजा-अनुगृहीतोऽस्मि मघवता।
नारदः-भो राजन् ! किं ते भूयः प्रियं करोतु पाकशासनः ।
रम्भा-दिष्ट्या महत्सौभाग्यमिदमद्य यत् प्रियसखी उर्वशी पुत्रकस्य आयुषः युवराजश्रियम् प्रेक्ष्य भर्तुः अविरहेण संश्लेषेण वर्धते । अत्र भर्त्रा सह अवियोगः, पुत्रस्य यौवराज्यञ्च मधुनि सितासंयोग इव संवृत्तः ।
उर्वशी-ननु इति अवधारणे । आवयोः साधारण एव एष अभ्युदयः । (कुमारं हस्ते गृहीत्वा ) जात वत्स ! ज्येष्ठमातरमौशीनरीं वन्दस्व ! अत्र आचारानुसारं वर्तनात् नायिकायाः योग्यता सूच्यते ।
राजा-तिष्ठ!
तत्रभवत्याः मान्यायाः काशिराजदुहितुः समीपं सममेव यास्यामः । सर्वे मिलित्वा समवायेनैव तत्रभवतीं द्रक्ष्याम इति ।
आयुष इति-ते आत्मजस्य पुत्रस्य आयुषः यौवराज्यश्रीः युवराजलक्ष्मीः मरुत्वता इन्द्रेण सैनापत्ये सेनाधिपकार्ये अभिषिक्तं विनियुक्तं महासेनं स्कन्दं स्मारयति स्मृतिपथमवतारयति । तव पुत्रस्य यौवराज्यपदेऽधिष्ठानं कार्तिकेयस्य सेनानीत्वेन प्रविष्ठापनं स्मारयति गुहसदृशपराक्रमोऽयं भवितेत्यर्थः।
"कार्तिकेयो महासेनः" इत्यमरः । अत्र आयुषः यौवराज्ये प्रतिष्ठा गुहस्य सेनानीत्वं स्मारयतीति स्मरणालङ्कारः । “सादृश्यज्ञानोद्बुद्धसंस्कारप्रयोज्यं स्मरणं स्मरणालङ्कारः" इति लक्षणात् । अत्र भाषणं नाम निर्वहणसन्ध्यङ्गमुक्तं भवति । अनुष्टुप् वृत्तम् ॥ २३॥
राजा-अनुगृहीतोऽस्मि मघवता इन्द्रेण ।
नारदः-भो राजन् ! किं ते भूयः पुनरपि प्रियं करोतु अभीप्सितं सम्पा राजा-अतःपरमपि प्रियमस्ति! यदि भगवान् पाकशासनः प्रसादं करोतु । ततः
(भरतवाक्यम्)
परस्परविरोधिन्योरेकसंश्रयदुर्लभम् । |
अपि च-
सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु । |
दयतु पाकशासनो देवेन्द्रः । नाटकावसाने शिष्टाचारोऽयम् । अत्र काव्यसंहारो नाम सन्ध्यङ्गम् “वरप्रदानसम्प्राप्तिः काव्यसंहार इष्यते" इति लक्षणात् ॥
राजा-अतःपरमपि प्रियमस्ति । मयि जीवति पुत्रकस्य राज्यकार्यनिर्वहणसामर्थ्यं, यौवराज्यप्रतिष्ठापनम् , वल्लभया यावज्जीवपर्यन्तम् सहवासः सर्वं सम्यगुपपन्नम् । अतः परम् न किञ्चिदस्ति । तथापि यदि भगवान् पाकशासनः पाकनाम्नः दैत्यस्य हन्ता, महेन्द्रः प्रसादं करोतु प्रसन्नः स्यात्तदा इदं भवतु ।
(भरतवाक्यम् ) नटवाक्यम् । नाटके अभिनयसमाप्तौ नटेन सामाजिकेभ्यः आशीर्दीयते । नाटके पूर्वं नटादीनां नटत्वेन प्रवेशः प्रस्तावनापर्यन्तं भवति । वस्तुनि समारब्धे नटस्योक्तेः अन्याय्यत्वात् नाट्यशास्त्रप्रवर्तकमुनिविशेषभूमिकाऽवलम्बिनो नटस्य शुभशंसनात्मकं वाक्यम् भरतवाक्यमिति सर्वेषां मङ्गलं रूपं प्रशस्तिनामकं निर्वहणसन्धेः चरममिदमङ्गं वेदितव्यम् "नृपदेशादिशान्तिस्तु प्रशस्तिरभिधीयते" इति दर्पणकाराः ।
परस्परेति -प्रायशः मूर्खा धनिनो भवन्ति पण्डिताश्च दारिद्र्यव्याकुलाः सन्तीति मत्वा द्रव्यपाण्डित्ययोः सामानाधिकरण्याय प्रार्थयते ।
परस्परं विरोधिन्योः निसर्गवैरयोः श्रीसरस्वत्योः लक्ष्मीसरस्वत्योः एकसंश्रयदुर्लभम् एकाश्रयगतत्वेन दुर्लभं सङ्गतम् सहवासः सतां सज्जनानां भूतये अभ्युदयाय अस्तु । यत्र श्रीः दृश्यते तत्र सरस्वत्यभावः, यत्र सरस्वती तत्र श्रीर्न लक्ष्यते । इत्येवं उभयोरेकाश्रयेण स्थितिर्दुर्लभा । अतः सा सत्पुरुषाणां वृद्ध्यै भवतु ॥ अत्र सज्जनानां अभ्युदयस्य प्रार्थितत्वात् तेषाश्च प्रशंसाया गम्यमानत्वात् "प्रशस्ति"र्नाम सन्ध्यङ्गमुक्तं भवति । तदुक्तं आदिभरते "देवद्विजनृपादीनां प्रशस्तिः स्यात्प्रशंसनम्" इति । मूर्खा धनिनः पण्डिता दरिद्राः प्रायशो भवन्तीति मतमवलम्ब्य अनुरूपभावं जगन्नाथः प्रकटीचकार "खञ्जायितोऽधिमति गञ्जापरोऽपि बत सञ्जायतेऽत्र धनदः । सञ्जाघटीति गुणपुञ्जायितस्य न तु गुञ्जामितञ्च कनकम्" इति । अनुष्टुप् वृत्तम् ॥ २४॥ यपि च द्वितीयाशी:-
सर्व इति-सर्वः पुरुषः इह जगति दुर्गाणि दुःखानि क्लेशान् वा तरतु(इति निष्कान्ताः सर्वे)
इति पश्चमोऽङ्कः।
समाप्तमिदम् श्रीकालिदासकृतम् विक्रमोर्वशीयं नाम त्रोटकम् ।
पारं करोतु । दुःखादात्मानं उद्धरतु इत्यर्थः । सर्वः लोकः इह संसारे भद्राणि कल्याणानि सुखानि वा पश्यतु । सुखमनुभवत्वियर्थः । सर्वः अत्र कामान् स्वस्वमनोरथान् आप्नोतु । सर्वेषां मनोरथसिद्धिः भवतु । सर्वः सर्वत्र इह परत्र, गृहे बहिः राजसभायां वा सर्वतः सर्वकालं नन्दतु आनन्दं प्राप्नोतु । सर्वे जनाः इह भुवि सुखिनः सन्तु इत्याशीर्वचनम् । अनुष्टुब् वृत्तम् ॥ २५ ॥
(इति सर्वे नटाः निष्क्रान्ताः रङ्गभूम्या अपगताः)
इति श्रीमत्प्रमोदमोदमानमानसरसाविभक्तभगवल्लीलाललितकीर्तनस्वानस्वानन्दसक्तभक्तगोष्ठीगरिष्ठाणां रामानुजार्यकैङ्कर्यधुरीणानां प्रखरकिरणकरप्रतिभतेजःप्रकरप्रभाकराणां कविपण्डितेन्द्रमण्डलालङ्कारहीराणां अजस्रप्रणामारुणितवन्दारुराजन्यवृन्दमुकुटमौक्तिकपूज्यपदद्वन्द्वारविन्दानां रसिकतारसनिधीनां तोताद्रिविज्ञानविभवपीठाधीशानां आचार्यवर्याणां न्यायवेदवेदान्तमीमांसाद्यखिलनिगमागममन्थानशेमुषीकाणां विज्ञानविभूषणपदधारिणां स्वामिनां इन्दूरपुराभरणानां श्रीकृष्णाचार्यवर्याणां तनूभवैः सहृदयताजलनिधिकौस्तुभैः इन्दूरमहाराजासंस्कृतमहाविद्यालयाध्यक्षैः एम्. ए. काव्यतीर्थसाहित्यविशारदाद्यनेकोपाधिसमुल्लसितैः सुरेन्द्रनाथशास्त्रिभिः विरचितायां विक्रमोर्वशीयसंजीविकायाम् निसर्गोज्ज्वलायाम् विद्वन्मनःसागरशशिलेखायां कल्पलतासमाख्यायां व्याख्यायाम् पञ्चमाङ्कमुकुरः ॥
॥ समाप्तमिदं व्याख्यानम् ॥
॥ समाप्तश्चायं कालिदासप्रणीतो ग्रन्थः ॥
यावद्भा सवितुर्भाति यावच्च शशिनः कला । |
॥ भद्रमस्तु । इति शम् ॥