सामग्री पर जाएँ

विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्)/सङ्क्षिप्तविवृतिः

विकिस्रोतः तः
← निवेद्यादिः विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्)
सङ्क्षिप्तविवृतिः
कालिदासः
INTRODUCTION  →

॥ श्रीः॥

॥ सङ्क्षिप्तविवृतिः॥


॥ प्रथमोऽङ्कः॥

 अथ काव्यकाननसञ्चरणपञ्चाननः समस्तकविवृन्दशेखरत्वेनोपबृंहितकीर्तिः तत्रभवान् कालिदासः त्रोटकप्रणयनकौतुकी काव्यस्यास्य प्रथमं स्वाभीष्टदेवताभावनामयीं सकलजनाशीर्वादपटीयसीं नान्दीं प्रणिनाय । अनन्तरं पारिपार्श्विकसूत्रधारौ विशुद्धमनस्कान् कुतूहलपुरस्कृतान् सामाजिकान् सरसभाषणमुग्धान् भूयोऽपि रसेन भावयितुं बद्धपरिकरौ सन्ततरससञ्चारचारु नवमिदं त्रोटकं विक्रमोर्वशीयम् अत्रभवतः प्रणेतुः कवेः प्रज्ञानिकषपाषाणमिति श्रावयित्वा, श्रुत्वा च परित्राणविषयकं देवाङ्गनानामाक्रन्दनं, प्रदर्श्य च नारायणस्योरुसम्भवायाः उर्वश्याः केशिना हरणम् असूचयतां सत्यसन्धस्य सूर्योपस्थाननिवृत्तस्य प्रतिष्ठानाधीशस्य पुरूरवसो राज्ञः प्रवेशम् । राजा चाप्सरसः समाश्वास्य तासां दुःखहेतुं जिज्ञासमानः प्राह कस्मात्ताः परित्रातव्या इति । अप्सरसां प्रमुखया रम्भया विज्ञापितदानवावलेपः मनःसागरेन्दुलेखायाः कुबेरभवनान्निवर्तमानायाः चित्रलेखासनाथाया उर्वश्याः निवेदितबन्दिग्राहो राजा ऐशानीं दिशं गतं परिज्ञाय जाल्मं, समाश्वास्य चेतराः अप्सरसः विषादमोचनाय सम्प्रार्थ्य च तासां मुखेभ्यः "सदृशमिदं सोमवंशोद्भवस्येति" प्रशंसां समुपगम्य, हेमकूटे प्रतिपालनसङ्केतं च निश्चित्य सूतेन ऐशानीं दिशं प्रेरितं रथमलङ्कुर्वाणः रथवेगं निरूप्य स्वविजयमाशंसमानः त्वरितगतिर्मघवतोऽपकारिणं दानवं अन्विष्य दण्डयितुं प्रतस्थे । ततः प्रयाते तु सारथिसनाथे राजनि, सहजन्या दर्शनपथातोतं परिज्ञाय परोपकारिणं महीपतिं, मेनकां यथानिर्दिष्टसङ्केतस्थले प्रचलितुं प्रार्थयामास । ततः सर्वाः नाट्येनाधिरुह्य हेमकूटशिखरं, अविज्ञातराजप्रभावा रम्भा मेनकां "अपि नाम राजा अस्माकं हृदयशल्यमिव समुत्पन्नम् उर्वशीहरणक्लेशमुद्धरेत्" इति पृच्छन्ती निःसंशयमिदं स्यात् इति लब्धप्रत्युत्तरा अपि, दानवानां दुर्जयत्वं शङ्कमाना सङ्गरे सत्यसङ्गरस्यास्य महेन्द्रसहायकत्वेन प्रतिवोध्यमाना एव प्रदर्शितोल्लसितकेतनतद्रथा एतावतैव कालेन विजयित्वं समीक्ष्य परम् विस्मयं वहन्ती, सूचिते तु सुनिमित्ते सह सखीभिः समुत्सुकलोचनाभ्यां विलोकयन्ती राजदर्शनावसरं प्रतिपालयन्ती बभूव ।

 अनन्तरं विचित्रविक्रमो राजा विक्रमः भव्यनिमीलितनयनया चित्रलेखया दत्तावलम्बनयोर्वश्या सार्धं प्रविशति ।

 अत्रान्तराले स भूपालः वज्रिणो वीर्यं प्रशंसन् सुरारिजन्यं भयमपगतमिति समाश्वासयन् तत्रभवतीमुर्वशीं पराजितपङ्कजे सुकुमारे मारदीपने लोचने उन्मीलयितुमभ्यर्थयत् । उच्छ्वासमात्रसम्भावितजीवितामप्युर्वशीमद्यापि संज्ञामलभमानां परिज्ञाय विह्वलां चित्रलेखां पीवरपयोधरस्थमन्दारकुसुमदाम्ना संसूच्यमानं हृदयकम्पं दर्शयन् राजा "बलवच्च ते सखी परित्रस्ता-" इति सकम्पमुर्वशीतनुं प्रेक्षमाणः आत्मानमनुग्राहयामास । एतावतैव कालेन स्निग्धं निध्यायन् राजा आपन्नां तां प्रकृतिमापन्नां परिज्ञाय सहर्षं चित्रलेखां दिष्ट्या वर्धसे इत्यभ्यनन्दयत् । संज्ञा प्राप्नुवानां प्रियसखीं विश्रम्भयितुं, प्रकटयितुं च कृतज्ञतामुपकारिणे पार्थिवाय चित्रलेखा "आपन्नानुकम्पिना महाराजेन प्रतिहतः खलु दानवा-" इति समाश्वासयितुं प्रचक्रमे । समुन्मील्य नयने च "किं महेन्द्रेणाभ्युपपन्नास्मि-" इति जातशङ्का महेन्द्रसदृशानुभावेन राजर्षिणा पुरूरवसेति विज्ञाप्यमाना राजानं स्निग्धमधुरैः विलोकनैः प्रत्युपकुर्वन्तीव दानवेन्द्ररक्षणेन महाराजेन बहूपकृतमिति स्वीयां कृतज्ञतामात्मनि प्रकाशयमाना सविस्मयं स्थिता । राजा च स्वात्मनि इमां रमणीयललनाललामभूतां रमणीं विलोक्य महर्षिं नारायणं विलोभयन्तीनां देवाङ्गनानां सलज्जत्वं युक्तमाशंसमानः, प्रशंसन्नतनुकोमलतनुं तामर्हणीयस्वभावाम् अत्यन्तमन्तःपुरविहारक्षमामक्षमामसुरसम्भ्रमस्य विचार्य, तदुत्पादके जातशङ्कः तस्याः प्रजापतित्वेन चन्द्रमसं कान्तिकोषं अथवा शृङ्गारसान्द्रं मदनं, तन्मित्रं माधवं वा परिकल्प्य, सन्देहदोलायमानचेताः विस्मृतात्मा तत्रैव नितरामरज्यत । क्व मे सखीजनः इति चित्रलेखां पृच्छन्ती “नाहं जाने, प्रियसखि ! अभयप्रदायी महाराजो जानातीति" लब्धोत्तरा, राज्ञा च "त्वद्दर्शनसफलयोर्यस्य नयनयोः पन्थानं सकृदपि त्वं यदृच्छयावतीर्णा सोऽपि त्वद्विरहेण समुत्सुको भवेत् तदा नाम कीदृशीमवस्थां प्रतिपद्येत ते सखीजन" इति सहचरीणां सविषादत्वं विज्ञापिता उर्वशी हृद्येव हृद्यं राज्ञो मधुरालापपाटवं भृशं प्रशंसन्ती “अत एवार्द्रसौहृदं सखीजनं प्रेक्षितुं त्वरते मे हृदयमिति” प्रत्युत्तरप्रदानसन्मानेन राजानं कृतार्थतामनयत् । राजा च हेमकूटस्थिताः सख्यः त्वन्मुखं उपरागान्ते चन्द्रमिव द्रष्टुमुत्सुकाः सन्तीति हस्तेन दर्शयति। सा च किं प्रेक्ष्यते इति अजानतीं 'चित्रलेखां प्रणयिजन इति उत्तरं तत्र च सचित्रलेखां प्रियसखीमुर्वशीं गृहीत्वा समुपस्थितं राजानं मेनकां दर्शयन्ती रम्भा, प्रियसख्याः प्रत्यानयनम् राज्ञश्च अक्षतशरीरत्वम् इति द्वयमपि सुप्रतिपन्नमिति मेनकया दत्तप्रत्युत्तरा समुत्पन्नकुतूहला अतिष्ठत् । अन्यत्र च राजा शैलशिखरं दृष्ट्वा सूतं रथमवतारयितुमाह । उर्वशी च रथावतस्पोकन्यक्षोमेन भीता राजानमवलम्बते; राजा च आयतेक्षणायास्तस्या अङ्गेनाङ्गसंस्पर्शजन्यसुखं प्राप्य आत्मानं धन्यं मन्यमानः स्वविषयावतारं सफलं मनुते । पश्चात् अन्या अप्सरसः दृष्ट्वा राजा सारथिं रथमुपश्लेषयितुमाह यतः समुत्सुकः सखीजनः प्रियसखीमुर्वशीं सम्भावयतु। अप्सरसः विजयिनं राजानं मधुरालापेन जयशंसनेनामिनन्दयन्ति । ततः सर्वाः सख्यः प्रियसखीमुर्वशीं दृढमालिङ्गन्ति ।

 अत्रान्तरे सूतः गगनमार्गे चित्ररथं पश्यति । तश्चावलोक्य अप्सरसः विस्मितां भवन्ति। प्रविश्य चित्ररथः महेन्द्रोपकारपर्याप्तेन विक्रममहिम्ना वर्धते भवानिति नायकं अभिनन्दयति । राजा च तं स्वागतं ब्रूते, चित्ररथश्च केशिना हृतामुर्वशीं नारदमुखेनावगत्य महेन्द्रेण गन्धर्वसेना प्रहिता, किन्तु मध्य एवाहं भवतो जयोदाहरणं चारणेभ्यो निशम्य इहस्थं त्वामुपागतः इति प्रवृत्तिं विधाय महेन्द्रोपकारसम्प्रीतः राजानं देवेन्द्रं द्रष्टुमभ्यर्थयते। राजा च स्वविनयं प्रकाशयन् वज्रिणः वीर्येणैवेदं सुसम्पन्नम् इति समाख्यापयन् शतमखदर्शनस्याययं नावसरः, त्वमेवोर्वशीं प्रभोरन्तिकं प्रापयेति प्रार्थयति। राज्ञो विचारं सम्प्रति साम्प्रतं मत्वा चित्ररथः अप्सरोभिः ‘साकमेकाक्येव गन्तुं प्रतिजानीते। उर्वशी चोपकारिणे नृपाय किमपि कृतज्ञतासूचकं वक्तुकामा अपि लज्जागौरवात् अशक्नुवाना चित्रलेखामुखेन “महाराजाभ्यनुज्ञया महाराजस्य कीर्तिं प्रियसखीमिव दिवं निनीषुरस्मीति" निवेदयति । राजा च पुनर्दर्शनाय प्रार्थयते । सर्वाः सगन्धर्वाः आकाशमुत्पतन्ति । उर्वशी च राज्ञ्यासक्तचेतसी उत्पतनभङ्गमिषेण लताविटपे वैजयन्त्याः लग्नत्वं प्रकाश्य तत्र रुद्धा चित्रलेखां मोचयेत्याह। सा च परिहासमकुर्वत दृढलग्ना सा मोचयितुं अशक्येति । उर्वशी च परिहासं विहाय मोचयितुं कथयति, चित्रलेखा च तस्याः दुर्मोच्यत्वं प्रकाशयन्ती मोचनव्यापारं नाटयति । उर्वशी नृपाहितमनस्का अस्य परिहासस्य भाविफलं विचिन्त्य "स्मरस्वैतत्ते वचनम्-" इति स्वपक्षं द्रढयति । राजा च स्वमनसि लतायाः उर्वशीगमनप्रतिरोधात् आत्मन्युपकारित्वं प्रख्यापयन् धन्यवादततिं समर्पयति यतस्तस्या एव कारणात् अपाङ्गनेत्रा पुनरपि सा परिवृत्तार्धमुखी नयनेऽतर्पयत् । चित्रलेखया एकावल्याः मोचनानन्तरं उर्वशी विरहजन्यविकारदुःखेन दीर्घं निःश्वसन्ती सस्पृहं राजानं प्रेमपरिप्लुतनेत्राभ्याम् वीक्षन्ती सखीजनं गगनमार्गगामिनं परिज्ञाय 'अपि नाम पुनरिममुपकारिणं प्रेक्षिष्ये इति विचारयन्ती यथाकथञ्चिद् अपक्रान्ता । 'सूतश्च आयुष्मते राज्ञे सुरेन्द्रस्य कृतापराधान् दैत्यान् नाशयित्वा ते वायव्यमस्त्रं तूणीरं प्रविष्टमिति न्यवेदयत् । राज्ञा च रथमुपश्लेषयितुं आज्ञप्तः राजानं रथमारोहयति । राजा चोर्वशीमार्गोन्मुखः “मदनो दुर्लभाभिलाषीति-" उपालभ्य यथा राजहंसी खण्डिताग्रभागान्मृणालाद्बिसं कर्षति तथैवेयं सुराङ्गना मे देहान्मनः प्रसभमाकर्षतीति मनस्याशंसन् तदीयचिन्ताव्यग्रचित्तो निष्क्रामति ।

॥ इति प्रथमोऽङ्कः॥


॥ द्वितीयोऽङ्कः॥

 प्रथमाङ्कवस्तुभावनानन्तरम् द्वितीयाङ्कवस्तुप्रारम्भाय उभयत्र कथांशं नियोजयितुं, तत्रभवान् कवीन्द्रः प्रवेशकं ददत् , विदूषकस्य मुखेन राज्ञो रहस्यं समुद्घाटयन्, राज्ञः शून्यहृदयत्वम् , हृदयनिहिताभीप्सितभारसमाक्रान्तत्वम् , अन्यनारीसंक्रान्तचित्तत्वमभिलक्ष्य देव्या महिष्या काशिराजतनयया प्रेरितायाः चेट्याः निपुणिकायाः राजरहस्यं अवगन्तुं विदूषकमनुसन्धातुं प्रयत्नं, तत्र च विजयं समाख्यापयन्, विदूषकस्य उर्वश्यामप्सरसि निहितमनस्कत्वरूपे राजरहस्ये समुद्घाटिते काशिराजदुहितरं प्रति “परिश्रान्तोऽस्म्यैतस्या मृगतृष्णिकाया वयस्यं निवर्तयितुं, यदि भवत्या मुखकमलं प्रेक्षिष्यते तदा निवर्तिष्यत इति" चाटुपूर्वकं कथनमभिसन्धाय, मध्याह्नसमयनिवेदकस्य वैतालिकस्य प्रवेशेन राज्ञः सवितृसदृशतेजोवत्त्वं व्यञ्जयित्वा, माध्याह्नविरामवेलां सूचयित्वा, विदूषकं च धर्मासनादुत्थितस्य महाराजस्य पार्श्वपरिवर्तिनं विधाय, सविदूषकस्योत्कण्ठितस्य राज्ञः प्रवेशमवगमय्य, नाटकीयवस्तुनि मुखसन्ध्यनन्तरं गर्भसन्धि समुल्लासयितुं यतमानः सामाजिकानां चेतांसि समाराध्दुं प्रचक्रमे ।

 अत्र च तत्रभवान् नृपतिः नर्मसचिवस्य वयस्यविदूषकस्याग्रे अनङ्गभङ्गोऽपि प्रदर्शिताङ्गभङ्गः आदर्शनात् सुरसुन्दरीप्रवेशं हृदये गाढतरं विज्ञाप्य, विदूषकस्य मुखात् काशिराजपुत्र्याः खिन्नत्वं निशम्य, अभ्यर्थ्य च रहस्यनिक्षेपरक्षणाय, वयस्यस्य निपुणिकया वञ्चितोऽस्मीति मनसि विचारयतः मौनमभिवीक्ष्य कथं तूष्णीमास्ते भवानिति पृच्छति । स्वसंयतजिह्वत्वं प्रकाशयति विदूषके, मनोविनोदमलभमानः बुभुक्षितस्य विदूषकस्य महानसगमनप्रस्तावमस्वीकृत्य , उपस्थिते तु विदूषककृते उर्वशीदर्शनविषयके प्रश्ने तत्रभवत्याः प्रत्यवयवमशक्यवर्णनायोग्यत्वम् निवेदयति । तथापि कुतूहलिने विदूषकाय तत्रभवतीं स्वमनोमन्दिरस्वामिनीं उर्वशीं आभरणस्याभरणम् उपमानस्योपमानं इति समासेन वर्णयन्नभिनन्द्य च “अत एव दिव्यरसाभिलाषिणा त्वया चातकव्रतं गृहीतमिति” सोपहासं वचनम् , मत्वा च विविक्तं विहायोत्सुकस्य नान्यच्छरणं, समाज्ञापयति विदूषकम् मञ्जुवञ्जुलतरुपुञ्जशोभासन्दानितस्य मन्दसुगन्धसमीरणशिशिरस्य मनोमोहकस्य प्रमदवनस्य मार्गमादेशयितुम् । तत्र च विदूषकः इत इतो भवानिति राजानं प्रमदवनमार्गमादिशन्' कञ्चित्कालं परिक्रमणानन्तरम् प्रमदवनपरिधिं प्रेक्ष्य “एष प्रमदवनपरिसरः अत्र च भवानतिथिरिव दक्षिणमारुतेन प्रत्युपगत" इति सविनयं विज्ञापयति । राजा च प्रमदवनश्रियं विलोक्य विविधा लताः कुसुमैः सनाथयन्तं वायुं कामिनमिवोपवर्ण्य मधुरमनोहरप्रमदोपवनप्रवेशपरो विदूषकेण सह प्रवेशं नाटयति । तत्र च राजा उद्यानस्थमन्दानिलविहारं भृशमुद्दीपकमनुभूय स्रोतसि प्रतीपतरणमिवोपवनप्रवेशं दुःखावहममंस्त । विदूषकश्चैनमर्थमनवगाहमानः कथमिवेति पृच्छन् राज्ञा मे मनः आदावेव अलभ्यवस्तुबद्धाभिनिवेशं पुष्पधन्वा कृशीकरोति, पुनश्च उपवनरसालैः साङ्कुरैः दृष्टिविलोभनैः बहु पीडितोऽस्मीति विज्ञापितः सन् अलं परिदेवनया तवाङ्गसुखमनङ्ग एव लघु सम्पादयितेति मङ्गलमाशासन् 'प्रतिगृहीतं ब्राह्मणवचनमिति, सम्मानितः राज्ञा सह परिक्रामते । भ्रमंश्चात्र तत्र वसन्तावतारसूचितां कमनीयतां प्रमदवनस्य राज्ञः विचारपथमवतारयति, राजा च सर्व निपुणमवलोकअन् श्यामं कुरबकं, मेदोन्मुखं बालाशोकं, नवां रसालमजरी उपवर्णयन् मणिशिलापट्टसमेते माधवीलतामण्डपे उपवेष्टुं प्रार्थितः तथा कुर्वन् इहासीनः ललितलतालोभ्यमानलोचनः प्रियागतामुत्कण्ठां विनोदयेत्युपश्लोकितः दीर्घं निश्वस्य तदङ्गनाबद्धसक्ति अनशमन्थरं मे नयनयुगं कुसुमितास्वपि उपवनलतावधूषु धैर्यं न धारयति इत्याचक्षाणः वाञ्छितलाभाय उपायं कञ्चन शोधयितुं प्रियवयस्यं प्रेरयति ।

 एवं तिष्ठति मदनोत्सुके राजनि चित्रलेखयानुगम्यमाना उर्वशी प्रविशत्याकाशयानेन । प्रियसखीविचारमजानती चित्रलेखा, क्व प्रस्थितासीति पृच्छन्ती हेमकूटशिखरे लताविटपलग्नां वैजयन्तीं मोचयितुं प्रवृत्ता त्वम् सोपहासं दृढं खलु लग्ना मोचयितुमशक्येति भणन्तीदानीम् कुत्रानिर्दिष्टकारणं गच्छसीति किमिति पृच्छसीति प्रियसख्या लब्धोत्तरा "राजर्षेः सकाशं प्रस्थिता किमिति" पुनरपि तद्धृदयभावान्वेषणपरा बभूव । उर्वशी च मदनेन नियोजिता, पूर्वप्रेषितहृदया अहं तत्रैव प्रचलितास्मीति प्राह । मार्ग सुलभञ्चादेशयितुं प्रार्थयन्ती दानवैरलङ्घनीयां शिखाबन्धिनीं विद्यां स्मारिता सा भगवतीभागीरथीयमुनयोः सङ्गमेन पावनीकृतमवनीतलं भूषयन्ती प्रतिष्टानाभरणं राजर्षिभवनममुपगते स्व इति विज्ञापिता सस्पृहैः विलोचनैः स्निग्धमालोकयन्ती स्थानान्तरगतः स्वर्ग एवेति मन्यमाना 'कुत्र खलु स आपन्नानुकम्पी भवेदिति- प्रियसखीं मन्त्रयते। सा च वनीं माघवनीमिव प्रमदोद्यानवाटिकामवतरन्ती राजानं दृष्ट्वा सोल्लास प्रथमोदितो भगवांश्चन्द्रः कौमुदीमिव त्वामवेक्षमाणः सवयस्यो नितरां राजतेतराम् इति निवेदयन्ती भृशं तां सुखयते ।

 उर्वशी तत्रभवती राजानं प्रथमदर्शनादपि सविशेषं प्रियदर्शनं मन्वाना तत्रान्तरे वनान्तराले तिरस्करिणीप्रतिच्छन्ना सवयस्यो महाराजः रहसि किं मन्त्रयत इति सजातकुतूहला सह चित्रलेखया तूष्णीं तिष्ठति । विदूषकश्च दुर्लभप्रणयिजनसमागमोपायं विचिन्त्य शून्यहृदयं राजानं विज्ञापयति यच्च स्वप्नसमागमकारिण्या निद्राया आश्रयः अथवा आलेख्यं लिखित्वावलोकनमिति । राजा चोभयमेवासम्भावि मनुते यतो विद्धमिदं हृदयं मदीयं पुष्पधनुषः इषुभिरतो निद्रां न लभयिष्यते आलेख्ये वा सुवदनायाः पूर्णतया लेखनात्पूर्वमेव मे - नयनयोर्गतिं बाष्पपरम्परावरुद्धां करिष्यति । परिच्छन्ना चोर्वशी चित्रलेखया श्रुतं त्वया यत् त्वत्कारणमेवेयमवस्थेति विज्ञापिता चेतसि प्रत्ययं न मे इति वदन्ती पुनरुपालम्भाङ्गीकरणबद्धकौतुका तूष्णीमास । राजा च सनिश्वासं सा मम हृद्गतां कठिनां रुजं न वेद किम् अथवा संवेद्यापि मामवमन्यते इत्यादौ प्रियामधिक्षिपति। पश्चाच्च पञ्चबाणो मम तस्मिन् जने समागममनोरथमवकेशिनं विधाय कृतित्वमभ्येत्विति काममुपालभते। एवं श्रुत्वा उर्वशी 'हा धिक् मामप्येवं मन्यते महाराज' इति जातनिर्वेदा स्वात्मानं दर्शयितुं अशक्नुवाना सखीं प्रभावलभ्यं भूर्जपत्रमधिलिख्य क्षेप्तुं प्रेरयामास । उर्वशीहस्ताक्षरानुगृहीते पतिते तु तस्मिन् पत्रे भीतो विदूषकः भुजङ्गनिर्मोक इति मत्वा आक्रन्दते। राजा च तद् भूर्जपत्रमिति परिज्ञाय गृहीत्वा वाचयति श्रावयति च वयस्यम् “यथा महाराजेन मतं तत्तथा न, मह्यमपि नन्दनवनवातः शिखीव शरीरदाहकः सन्तीति" स्वमदनावस्थां प्रकाशितवतीति । तदा च किं महाराजो भणिष्यतीति समुपस्थितकौतुकोर्वशी तिष्ठति । विदूषकश्च बुभुक्षिताय मह्यं प्रातराशो यथा सुखयति तथैव ते मनो विनोदयितुमयं लेखः प्राप्त इति समाश्वासयति । राजा सर्वथैव तस्याः सम्मेलनाभावे तदीयहस्तविन्यासेनैव समागमं साक्षादिव मत्वा स्वात्मानं सान्त्वयति । विदूषकश्च अपि नामेदं सम्भवि यत्तत्रभवती उर्वशी ईदृशं प्रीतिपुरःसरं लिखित्वा विसंवदिष्यतीति, न कदापीति पुनरपि मधुरालापैः वयस्योचितैः समाश्वासयति । उर्वशी च चित्रलेखां राजानं प्रति स्वानुमतं भणितुं नोदयति, चित्रलेखा च तिरस्करिणीं अपनोदते। सम्भ्रमात् तस्याः स्वागतं कृत्वा सखीं विनैकाकिनी त्वं मां तथा न विनोदयसि यथा सङ्गमे दृष्टपूर्वा गङ्गाविरहिता यमुना नात्मानं नन्दयति इति क्व ते सखीति जिज्ञासू राजा चित्रलेखया आदौ मेघराजिनस्तदनु च विद्युदिति- अन्योक्त्या उक्तिविचित्रया प्रत्युक्तः आत्मानमाशाबद्धं कथञ्चिद् विधाय इदमासनमास्यतामिति उपचारं विदधाति । विदूषकश्चानुपमसौन्दर्यामिमां चित्रलेखामेवोर्वशीं विचिन्तयन् नेयमुर्वशी तत्सहचरी एव, तदा सा कीदृशी सौन्दर्यसारनिकेतनं भवेदिति विस्मयेनापहृतात्मा बभूव । चित्रलेखा च राजानमाह यदुवंशी विज्ञापयति यथाहं महाराजेनैव असुरावलेपाद्हृतास्मीदानीं च बलवन्मदनेन बाध्यमाना भवतैवानुकम्प्यास्मीति । राजा च तत्कारणां स्वावस्थां दर्शयन् उभयोः पारस्परिकप्रीतिप्रवाहस्यानुवाहात् अभ्यर्थयते चित्रलेखां उभयोः समागमम् । चित्रलेखया प्रेरिता उर्वशी ससाध्वसमुपसृत्य सव्रीडम् जयतु जयतु महाराज इति विजयमाशंसते । राजा च हर्षपरिप्लुतमानसः अयि सुन्दरि यस्य त्वया जयः अद्योदीर्यते एतादृशोऽहं सत्यमेव विजयीति ससम्मानमुक्त्वा स्वहस्तेनासने उपवेशयति । तामुपविष्टाञ्चोर्वशी विदूषकः अनभिवादनादुपालभते । सा च सलज्जं प्रणमति । अनन्तरं कश्चन देवदूतः आकाशे घोषयति "चित्रलेखे त्वरयोर्वशी यतः महेन्द्रः भरताचार्येणोपदिष्टं ललिताभिनयं प्रयोगं द्रष्टुं कामयते” इति एवं अतिकठोरं वियोगजनकं शब्दं निशम्योर्वशी विषादं रूपयन्ती चित्रलेखामुखेन महाराजमनुज्ञामभ्यर्थयते । राजा च कथमपि विसर्जितवाग् नास्म्यहमीश्वरनियोगपरिपन्थी, किन्तु स्मर्तव्योऽयं जन इति प्रार्थनापरायणो भूत्वा तां गन्तुमनुमेने । गतायां च तस्यां चक्षुषः अगोचरतां स्वनयननिर्माणवैफल्यं अनुभवन् परं खिन्नो बभूव । विदूषकश्च भावानुबन्धा सा इतो गत्वा न त्वां विस्मरिष्यतीति बहुशः महाराजं विश्रम्भयति । राजा च वारं वारं तस्याः प्रस्थानसामयिकाननुभावान् स्मारं स्मारं उन्मनसमात्मानं विनोदयितुं किञ्चिदपि अलभमानो भूर्जपत्रं स्मरति । विदूषकश्च उर्वशीदर्शनेन विस्मृतात्मा कुत्र प्रभ्रष्टं तदित्यजानन् विषादमुपगच्छति राजानं च विज्ञापयति यद्दिव्यं तत् पत्रमुर्वशीमनुगतमिति । अन्वेषितुं च यतते ।

 ततः औशीनरी काशिराजतनया महाराजस्य परिणीता महिषी प्रविशति विभवतः परिवारेणानुगम्यमाना । सा च निपुणिकां स्वचेटीं प्रमदवनमलङ्कुर्वाणं समाणवकं महाराजं सत्यमेव दृष्टवतीति पृच्छति। नालीकं मया निवेदितमिति विज्ञापिता लतान्तरालेऽन्तरितमूर्तिः देवी श्रोतुं कामयते राज्ञः वयस्येन सह रहसि मन्त्रणम् । अत्रान्तरे वायुना नीयमानं भूर्जपत्रं देव्या दर्शनपथमवगाहते। निपुणिकयानीतं च तत् पत्रं तया पठितम् च । चेटी महाराजमुद्दिश्योर्वश्याः काव्यबन्धोऽस्तीति तर्कयामि इति विज्ञापयन्ती, गृहीतार्था भवेति देव्या समाज्ञप्ता तथा करोति । लतागृहे श्रुत्वा चार्थं पत्रस्य, महिषी परिक्रामन्ती अप्सरःकामुकं प्रेक्षितुं मनश्चक्रे । राजा च वसन्तसखायं मलयानिलं सम्बोध्द्य लतानां त्वं पौष्पं रजः सौरभ्यायाहरसीति युक्तम् किन्तु कामार्तस्य मे विनोदनैकहेतुं भूर्जपत्रमपनेतुं किं वा ते प्रयोजनमिति बहुशश्चाधिक्षिपति । तन्कारणं बहुपीडितं राजानं विलोक्य सहसोपसृत्य देवी अलमावेगेनेदं भूर्जपत्रमिति आचक्षाणा स्वमात्मानं प्रकाश्य राजानं ह्रेपयति । राजा च समम्भ्रमं तां स्वागतेनाभिनन्दयति। देवी च क्रोधेद्धचक्षुषी दुरागतं न तु स्वागतमिति भर्त्सयति । राजा च जनान्तिकं वयस्यं प्रतिविधानं पृच्छति । तदप्राप्नुवन् राजादौ मन्त्रपत्रं मार्गये नेदमिति आत्मानं गोपायति । पश्चाच्च स्वापराधमनुमनुते । देवी च नायं भवतोऽपराधः ममैवायं यदहमत्र स्थितास्मीति कोपं रूपयन्ती प्रस्थिता । राजा च चाटुकारेण तां प्रसादयितुं यतते । सा तु प्रावृट्काले नदीवाप्रसन्ना गता। तां दृष्ट्वा नेदमुपपन्नमिति राजा तर्कयते । मध्याह्नवेलां च दृष्ट्वा दिनार्थसमयं वर्णयत्ति यतो मयूरः उष्णातः सन् तरोर्मूलालवाले तिष्टति, भ्रमराश्च कर्णिकारमुकुलन्यधिशेरते, कारण्डवश्च तीरनलिनीमासेवते , पञ्जरशुकश्च क्लान्तो जलं याचते इति बहूनि निदाघकालसूचकानि चिह्नानि विलोक्य माध्याह्नवेला सम्प्राप्तेति जानन् स्वगृहं विरामाय गन्तुमनाः सवयस्यो महाराजो रङ्गभूमितो निष्क्रान्तः ।

॥ इति द्वितीयोऽङ्कः॥


॥ तृतीयोऽङ्कः॥

 अत्र प्रथमतः प्रविशतो गालवपेलवाख्यौ भरतशिष्यौ । तयोः मालवः पेलवं पृच्छति यतस्त्वं महेन्द्रमन्दिरे स्थापितस्तत्रभवता गुरुणा कथय देवपरिषदाराधितगुरोः प्रयोगेण न वेति । पेलवश्च सरस्वतीकृतललितपदावलीबन्धलेखे लक्ष्मीस्वयंवरे उर्वशी लक्ष्मीभूमिकां धारयन्ती वारुणीभूमिकया विलसन्त्या मेनकया सकेशवलोकपालमण्डितायामस्यां सभायां उपस्थितेषु कतमस्मिंस्ते हृदयाभिनिवेशः इति पृष्टा सती पुरुषोत्तमे इति कथयितव्ये प्रियसखीमाख्यदनाख्ययेयमपि प्रख्यातख्यातौ पुरूरवसाख्ये भूभर्तरि आत्मनः सख्यम् । ततश्च तस्यै क्रोधाग्निना दंदह्यमानशुष्कशमीवृक्षचेतास्तापसो मुनिस्तां ममोपदेशस्त्वयालङ्घितः अतो नार्हसि दिव्यामवस्थामिति शशाप। किन्तु पुरन्दरो दरं दर्शितदयाभावः प्रेक्ष्य क्रीडावनतवदनामुर्वशीं पञ्चबाणबाणविद्धदेहां स्वीयरणसहायस्य राजर्षेः पुरूरवसः कारणेन "यावत्स परिदृष्टसन्तानो भवेत्तावत्त्वं यथाकामं तं सेवस्वेति” शापस्यानुकूलतां विदधानः परमनुजग्राह । एवमुर्वशीसमागमसूचनम् भावि प्रदर्श्य भरतशिष्यौ सूर्यमवलोक्य कथाप्रसङ्गेनापराद्धाभिषेकवेला तदुपाध्यायस्य पार्श्ववर्तिनौ भवाव इति विज्ञाप्य पूर्वापरकथांशं सम्यग्योजयित्वा निष्क्रान्तौ।

 ततश्च रङ्गभुमिम् विशन् वृद्धकञ्चुकी अस्यां जरदवस्थायां कार्यभारोद्वहनेऽक्षमः परिश्रान्तो विश्राममलभमानः सेवां कारापरिणतिरिति निन्दन् स्त्रीषु कष्टोऽधिकारः इति खेदं प्रकाशयमानः औशीनर्या निपुणिकामुखेन व्रतसम्पादनाय पूर्वं याचितं महाराजं तदेव तस्या वचनेन विज्ञापयितुकामः सन् राजगृहे दिवसावसानवेलां रमणीयां वर्णयन् नेपथ्याभिमुखं विलोक्य तत्रैव प्रस्थितं राजानं वीक्ष्यावलोकनमार्गे प्रतिपालयन् स्थितः । ततः सविदूषकं परिवारेणानुगम्यमानं रणभूमिं प्रविशन्तम् अनङ्गबाणव्यथिताङ्गयष्टिं कार्यव्यापारवशादनतिदुःखेन दिनं गमितं कथं नु अविनोददीर्घयामा यामिनीदानीं यापयितव्येति नितान्तमन्तःसन्तापसन्तप्तं नृपतिमुपेत्य कञ्चुकी जयपुरःसरं मणिहर्म्यपृष्ठे चन्द्रस्य सुदर्शनत्वात्तत्राहं सन्निहितेन देवेन रोहिणीसंयोगपर्यन्तम् प्रतिपालयितुमिच्छामीति देवीवचनं निवेद्य राज्ञोऽङ्गीकारवचनमङ्गीकृत्य निश्चक्राम। राजा च माननी देवी कथं मां स्वयमेव मयानुपश्लोक्यमानापि आहूतवतीति किं सत्यम् व्रतनिमित्तमिदमिति विचिकित्साक्रान्तचेताः वयस्येन तदुत्तरेऽत्रभवती संजातपश्चात्तापा व्रतव्यपदेशेन तत्रभवतः प्रणिपातलङ्घनापमानमपगमयितुमिच्छन्ती भवेदिति लब्धतर्कः दयितप्रणिपातानुलङ्घिनीनां मानिनीनां मनस्वनीनाम् अनुशयवतीं निसर्गजां प्रकृतिं वर्णयन् विदूषकं मणिहर्म्यपृष्ठस्य मार्गमादेष्टुमादिदेश । विदूषकश्च सरलेन मार्गेण राजानं तत्र नीत्वा मणिशिलासोपानेन यथानिर्दिष्टं स्थलमारुह्यतामिति प्रार्थयति । राज्ञः तदारोहणानन्तरं सर्वे सोपानारोहणं रूपयन्ति । विदूषकश्च निरूप्यावसरं तिमिररहितं प्राचीदिङ्मुखमवलोक्य आसन्नं चन्द्रोदयं मनुते । राजनि च चन्द्रस्यालौकिकीमुदयसुषुमां वर्णयत्येवौषधीनां पतिर्गगनं व्यभूषयत् । राजा च उदितं नलिनीदयितं प्रणामपुरःसरम् उपस्तौति । तत्र च चन्द्रिकायामभिव्यक्तायां दीपिकानां व्यर्थत्वं परिज्ञाय तदुपशान्तये परिजनं समादिश्य विदूषकवचनेनासने समासीनः चन्द्रमवलोक्य देव्या आगमने मुहूर्तावसरं ज्ञात्वा विविक्ते स्वामवस्थां वर्णयितुं प्रचक्रमे । तत्र च वर्णनाप्रमुख एव दक्षिणस्य बाहोरास्पन्दनरूपं सुनिमित्तं चिन्तयन् अचिरेणैव प्रियया समागमं भाविनं मत्वाऽऽत्मानं धारयति ।

 ततश्चाभिसरणवेषशोभावर्धिताङ्गसौन्दर्या सचित्रलेखा तत्रभवत्युर्वशी प्रविशति । उर्वशी कृतनवाभिसरणवेषा आत्मानं निरूपयन्ती मुक्ताभरणभूषितंनीलांशुकपरिग्रहः कथं ते रोचते इति चित्रलेखां पृच्छति। सा च "प्रशंसनाय मे नास्ति वाग्विभवः, पुरूरवा एव अथवाहं भवेयमिति" उत्तरं ददाना प्रियतमस्य नामधेयश्रवणेनाधीरां धारयति प्रियसखीमुर्वशीम् । तथा च महाराजस्य भवनं संप्राप्य क्वास्ते मम हृदयङ्गम इति सख्या कृतप्रश्ना उपभोगयोग्ये सुस्थले खस्थः स मनोरथलब्धं प्रियासमागमसुखं अनुभवन् दृश्यत इति उपहासपरायणा बभूव । श्रुत्वा वचनमिदमसूयापरमप्यनसूयां "न मे हृदयं प्रत्येति-" इति स्वप्रेम्णः गाढावस्थां प्रकाशयन्तीं उर्वशी चित्रलेखा मणिहर्म्यप्रासादगतं राजर्षिं वयस्यमात्रैकसहायं विज्ञापयति । तत्रोपेत्य उभे राज्ञः "रजन्या सह मदनबाधा विजृम्भत" इति वचनं निशम्य समुद्भूतकुतूहले द्रुमान्तरालेऽन्तरिते संलापं श्रोतुं जोषमतिष्ठताम् । ततश्च विदूषकः परमशीतलान् शीतरश्मेः रश्मीन् सेवितुमभ्यर्थयते । किन्तु नरपतिः एकामुर्वशीमेव स्वसुखसम्पन्निधेस्तालिकां मन्वानः कुसुमशयनं चन्द्रमरीचिचयं वा सर्वमनर्थकारणमेव केवलं चिन्तयन् मनसिज रुजमपोहितुं दिव्या उर्वशी तदाश्रयिणी कथा वा केवला अलं भवेदिति स्वहृदयाधिदेवतां बहु प्रशशंस । विदूषकश्च वयस्यसमुचितं त्वं तामचिरेण लब्धासे' इति समाश्वासयामास। चित्रलेखा चैवंवादिनं राजानं दृष्ट्वाप्यननुग्रहां अतीवनिष्ठुरां प्रियसखीं सोपालम्भं कथमद्याप्यसन्तुष्टे विरमसीति सम्यगन्वयुक्त। राजन्यगाधप्रणयोर्वशी प्रभावपिहितं स्वं विस्मरन्ती “सखि चित्रलेखे ! अग्रतः स्थितायामपि मय्युदासीनो महाराजः” इति समाख्यापयन्ती चित्रलेखया असङ्क्षिप्ततिरस्कारण्यसीति स्मारिता सती विस्मिता बभूव । अत्रान्तरे नेपथ्ये इदो इदो भट्टिणीति घोषणामाकर्ण्योर्वशी स्वसम्मेलनान्तरायमनन्तरभाविनं विचार्य सह सख्या विवादमाप । विदूषकश्च सम्प्राप्ता देवीति विज्ञापनपरः संवृताकारस्तिष्ठति राज्ञा आदिष्टः तथाभूत एव आस ।उर्वशी चेदानीं किङ्कर्तव्यतामूढा सती चित्रलेखया विहितनियमवेषा राजमहिषी चिरं नात्र स्थास्यति त्वञ्चान्तरितासीति अलमावेगेनेति प्रार्थिता किमिदानीं भवितेति दर्शनपरा समतिष्ठत्।

 ततश्च धृतोपहारपरिजनेनानुगम्यमाना देवी रोहिणीयोगेन समधिकशोभाधारिणं मृगलाञ्छनं वर्णयन्ती “देवीसहितस्य भर्तुः ईदृश्येव विशेषरमणीयता भावीति" चेटीभिः प्रत्युक्ता, स्मितविलासवदनाया देव्याः दर्शनेन मर्षितापराधेयं मयि प्रसन्ना देवीति प्रतिभानवन्तं राजानमुपगम्य जयघोषमुदीरयति सप्रणयम् । राजा च देवीं स्वागतां प्रकाशयति, उर्वशी चौशीनरीं शचीतोऽहीनतेजस्विनीं विलोक्य देवीपदयोग्यत्वं तस्याः परामृशति । देवी च सविनयम् 'आर्यपुत्रं पुरस्कृत्य व्रतविशेषः सम्पादनीयो मयेति' कृत्वा कञ्चित्कालमुपरोधः सह्यतामिति राजानं प्रार्थितवती । राजा च नायमुपरोधोऽनुग्रहः खलु इति मधुरं वदन् किन्नामधेयमिदं व्रतमिति पप्रच्छ प्रियप्रसादनमिति चेट्या निवेदितो राजा मृणालकोमलायाः अस्या अङ्गयष्टेः व्रतेन ग्लपनं वृथेति प्रकाशयन् "प्रसादमाकाङ्क्षति यस्तवोत्सुकः स किन्त्वया दासजनः प्रसाद्यत" इति बहुशः सचाटुकारं प्रियं प्रियः स समभाषत । “महान् खल्वस्यामस्य बहुमानः” इति सवैलक्ष्यस्मितं कथयन्ती प्रियसहचरी चित्रलेखया अन्यसङ्क्रान्तप्रेमाणो नागराः भार्यायामधिकं दक्षिणा भवन्तीति सत्यमेवाभाषि । ततश्च देवी समादिश्य परिजनमुपहारादिकमानेतुं विविधैः पूजापरिमलद्रव्यैः भगवतश्चन्द्रमसः पादानर्चति । खस्तिवाचनिकं कञ्चुकिने विदूषकाय च यथामानं दत्वा एषाऽहं देवतामिथुनं रोहिणीमृगलाञ्छनं साक्षीकृत्यार्यपुत्रमनुप्रसादयामि । अद्यप्रभृति यां स्त्रियमार्यपुत्रः कामयते या चार्यपुत्रसमागमामिनिवेशिनी तया सदा अप्रतिबन्धेन मया वर्तितव्यमिति व्रतं जग्राह । उर्वशी चैनं वचनमबुध्द्वा चित्रलेखां पृच्छति । सा च प्रियसमागमस्ते पतिव्रतयाऽनयाऽभ्यनुज्ञात इति तामर्थं व्रतस्य व्यख्यापयत् । राजा च नाहमन्यनारीसङ्क्रान्तमना इति बहुशोऽलीकमपालपत् । देवी च भवतु न वेति सुसम्पन्नं मद्गतम् आगच्छत परिजना गच्छामो वयमिति वदन्ती "प्रिये ! न खलु प्रसादितोऽस्मि यदीदानीं विहाय मां गम्यते” इति राज्ञः आपातरमणीयं वचनमश्रुत्वैव सपरिजना निष्क्रान्ता ।

 एतादृशं सप्रणयं दम्पत्योः व्यवहारं दृष्ट्वोर्वशी प्रियकलत्रो हि राजर्षिरिति बहुमानेन कथयति । राजा च ततः आसनादुत्थाय दूरं गतां देवीं विज्ञाय

१०

विदूषकेण सह मन्त्रयते यत् अपि नामोर्वशी इदानीमिहागत्य स्वचरणनूपुररवेण मम श्रुतिपुटं सम्भावयेत्, अथवा पृष्ठतः समेत्य मे नयने करकमलावृते कुर्वीत, अथवा इह दर्शनेन मां सभाजयेदिति बहुशः प्रलपन् तदैकतानतया तस्यामासक्तस्तिष्ठति । अत्रान्तरे क्रीडापरायणोर्वशी पश्चादेत्य राज्ञः लोचने कराभ्यां निमीलयति । राजा च स्पर्शसुखेन विज्ञातप्रियः इयं नारायणोरुसंभवा वरोरुरिति तर्कयति । विदूषकश्च विस्मयविकसितो भवति । राजा च स्वगात्रस्य पुलकायमानत्वं तदेकसंस्पर्श विनाऽसम्भवमिति विचार्य तां वरोरुमेवामन्यत । अथ च हस्तावपनीय मुकुलिताक्षी हस्ताभ्यां गृहीत्वा परिवर्तयति। उर्वशी समुपसृत्य राज्ञो जयमुदीर्य देव्या मह्यं दत्तो महाराजः अतः प्रणयवती शरीरसङ्गतास्मीति स्वाभिप्रायमुद्घोषयति । राजा हि देव्या दानाद्यदि त्वं मां व्रजसि कस्यानुमतेन त्वया आदौ मे हृदयं चोरितमिति सोपहासं प्रत्याह । पश्चाचित्रलेखा तयोरेकान्तवासमाकाङ्क्षमाणा राजानं प्रार्थयते यदियं निरुत्तरा, मया च वसन्तापगमे ग्रीष्मसमये भगवान् सूरः उपचरितव्यः तदहं गच्छामि यथेयं मे प्रियसखी स्वर्गाय नोत्कण्ठेत तथा वर्तितव्यम् । राजा च तदङ्गीकरोति । उर्वशी चित्रलेखां परिष्वज्य मा खलु मां विस्मरेति सकरुणं प्रार्थयते । अपगतायां तु चित्रलेखायाम् राजा सामन्तमौलिमण्यरुणितपादद्वन्द्वे भुवनैकप्रभुत्वे तथा सुखं न लभे यथा अस्याश्चरणयोराज्ञाकरत्वेनाधिगतवानस्मीति स्वानन्दसीमानं प्रकाशयन् त एवेदानीं शशिनः कराः सुखयन्ति, पञ्चबाणस्य बाणास्त एवाधुनाऽनुकूलाः, तथा च यद्यद्विरुद्धं पुराऽऽसीत् तत्तत्सर्वं सम्प्रति मनोऽनुकूलतां प्राप्तमिति प्रियासमागमसुखमलौकिकं वर्णयामास। उर्वशी च चिरकारिका महाराजस्यापराद्धाहमिति आत्मानं क्षमापयति । राजा च क्लेशलब्धस्य वस्तुनः रसवत्तरत्वं ख्यापयन् “निर्वाणाय तरुच्छाया तप्तस्य हि विशेषतः” इति दृष्टान्तेन तमेवार्थं विशिनष्टि । विदूषकश्च गृहप्रवेशाय अभ्यर्थयते । ततः सर्वे विशन्ति । राजा चोर्वशी यदाऽहं त्वत्समागममनोरथावाप्तिवश्चितः आसम् तदा रजनी शतगुणिता बभूव यदीदानीं तव समागमे तथैव प्रसरेत्तदाऽहं कृतार्थतां भजेयमिति निवेद्य सवयस्यप्रियो निष्कान्त इति ।

॥ इति तृतीयोऽङ्कः॥


॥ चतुर्थोऽङ्कः॥

 इत्यं गर्भसन्धौ प्रेम्णः अवस्थामीदृशीं बोधयित्वा कविशेखरः प्रकृतेऽस्मिन्नङ्के अवमर्शसन्धिं आङ्कपरिसमाप्तेः प्रस्तारयति। नायकनायिकयोरीदृशं समागमं व्युत्पाद्य कविरत्र सम्भोगस्य वैलक्षण्यं दर्शयितुमस्मिन्नङ्के तावत् विप्रलम्भं प्रतिपिपादयिषुस्तत्समये राजा कां कां दशामन्वभवदिति सर्वं ख्यापयति । तत्र च भूतभविष्यतोः वस्तुनोः प्रदर्शनाय सहजन्याचित्रलेखयोर्वादमन्तरा उपक्षिपति । तत्र च चित्रलेखाया म्लानामाकृतिं प्रेक्ष्य सहजन्या तत्कारणं चित्रलेखां पृच्छति । सा च अस्य कारणं प्रियसख्या: उर्वश्या विरह' इति निवेदयति । अपि चाह गुरूणि तस्मिन् विप्रयोगे सत्यपि महता खल्वन्येनानर्थेन व्यग्रचित्ताऽस्मीति । तत्कथमिति समुपस्थापितशङ्कायां सहजन्याया चित्रलेखा विज्ञापयति यदेकदा विहरणपरायणा राज्ञा सहोर्वशी कैलासशिखरे गन्धमादनवनं विहाराय गता। तत्र च मन्दाकिनीतटे क्रीडमाना उदयवतीनाम्नी विद्याधरकन्यका तेन राजर्षिणा बहुकालं स्निग्धं निध्द्याता। तेन च हेतुनोर्वशी असहना सती कोपं कृत्वा भर्तुरनुनयमवमानयन्ती गुरुशापसम्मूढहृदया विस्मृतदेवताव्यवहारा स्त्रीजनपरिहरणीयं कुमारवनं प्रविष्टा । तत्र च देवतानियमानुसारं सा लतात्वमाप्ता । तेन चाधिकतरं सोत्कण्ठा सशोका चास्मि । पश्चात् च सहजन्यया पृष्टा तु कस्मिंश्चिदपि पुनर्मेलनोपाये चित्रलेखा सङ्गमनीयाख्यमणिं विहाय नास्ति कश्चनोपाय इति बोधयति । सहजन्या च 'न खलु तादृशा आकृतिविशेषाश्चिरं दुःखभाजो भवन्तीति' समाश्वास्य प्राची दिशमवलोक्य 'तदेहि उदयाधिपस्य भगवतो मरीचिमालिनः उपस्थानं कुर्वः' इति ख्यापयित्वा परस्परकथानुसन्धानं विधाय खण्डधारया चिन्तादूनमानसा सहचरीदर्शनबद्धलालसा हंसी सरोवरे ताम्यतीति अन्योक्त्या चित्रलेखायाः उर्वश्याः कारणेन संजातामन्तस्तापावस्थां प्रकटय्य ससखी निष्क्रान्ता ॥

 ततश्च प्रविशति सोन्मादः आकाशबद्धलक्ष्यो राजा । स च मेघं रक्षो मत्वा 'आः दुरात्मन् मम प्रियां हृत्वा क्व गच्छसि तिष्ठ तिष्ठेति' भर्त्सयित्वा, वर्षापरम्परया हतः बाणैर्हत इति मत्वा लोष्टं गृहीत्वा प्रतिहन्तुं प्रवर्तते । पश्चाच्च विभाव्य सकरुणं नवजलधरोऽयं न नाम राक्षसः, बाणवृष्टिरियं न, किन्तु जलवृष्टिरिति मूर्ञ्छितः पतति । ततश्च संज्ञां लब्ध्वा पुनरपि सकरुणं विचिन्त्य क्वव नु सा गता भवेत् , यतः सा यदि कोपप्रभावात् प्रभावेण पिहिता स्यात् सा मह्यं दीर्घं न कुप्यति, स्वर्गं गता भवेत् किन्तु सा मयि भावार्द्रा इति बहुशो विकल्पयन् परावृत्तभागधेयानां दुःखं दुःखानुबन्धीति शोचमानः सपदि तदीयविप्रयोगस्य नववारिधरोदयादुद्दीपितत्वं परिज्ञाय भृशं पीडां भजते । ततश्च मनस्येव विहस्य वृथा हि मया सन्तापवृद्धिरुपेक्ष्यते यतो 'राजा कालस्य कारणम्' इति प्रसिद्धवागनुसारं कथं न मया जलधरसमयः प्रत्यादिश्यते इति कृत्वा पुनश्च प्रावृषेण्यैरेव लिङ्गैरिदानीं मे राजोपचार इति विचार्य मेघं कनकरुचिरं वितानम्, तरुमञ्जरीः चामराणि, नीलकण्ठान् वन्दिनो मत्वाऽऽत्मानं संस्थापयति । इदानीं परिच्छदश्लाघां वृथा मन्यमानः काननेऽस्मिन् गहने प्रियामन्वेष्टुं प्रारेमे । इतस्ततः परिक्रामन् राजा ससलिलैः कुसुमैर्युक्तां नवकन्दलीमवलोक्य कोपारुणितलोचनैः ससलिलैर्विभूषितां प्रियां स्मरामीति खिन्नमनाः मेघसिक्तसिकतासु वनस्थलीषु यदि सा इतो गता स्यात्तदा अलक्ताङ्का तस्याश्चारुचरणपतिर्गुरुनितम्बतया पश्चान्नता दृष्टिपथमवतरेत् इति विकल्प्य, किञ्चिदग्रे गत्वा शुकोदरश्यामं स्तनांशुकम् दृष्ट्वा तदादानपरायणस्तं नवशाद्वलं परिज्ञाय सास्रम् कुतोऽस्मिन् विपिने प्रियाप्रवृत्तिर्लभेय इति अन्ततो विचारयन् सञ्चारपरायणः शैलतटस्थलीपाषाणमधिरुह्य नृत्यन्तं शिखिनं विलोक्य किन्त्वया. मम प्रिया दृष्टेति पृच्छति । पश्चान्नीलकण्ठं पृच्छति, तञ्च प्रतिवचनमदत्वैव नृत्यन्तमालोक्य तस्य , हर्षकारणं अवगन्तुकामः मप्रियाया इदानीमदर्शनात् कुसुमसनाथे तस्याः केशपाशेऽसति अस्य घनरुचिरकलापः निरुपमतामाप्त इति मत्वा परमहर्षपरिप्लुतोऽयं मयूरो विद्यते इति परव्यसनसुखितमेनं नाहं पृच्छामीति कृत्वा ततः प्रचलितः । तदनु च विहङ्गपण्डितां परभृतमालोक्य तत्पुरो जानुभ्यां स्थित्वा अप्यन्यपुष्टे ! यतस्त्वां कामिनः कामदूतिं व्याहरन्ति, त्वञ्च मानिनीनां भामिनीनां मानावभङ्गेऽमोघमस्त्रम् इति हेतोः, प्रियतमाया अन्तिकं मामाशु प्रापयेति प्रार्थयस्तदीयकुहूरवं निशम्य कथं सा त्वामनुरक्तं विहाय गतेति पृच्छसीति विचार्य तां प्रत्युत्तरं ददाति यदहं मया कृतं तस्याः कोपहेतुं न स्मरामि, किन्तु रमणीनां रमणेषु प्रभुता भावस्खलितानि नह्यपेक्षते इति प्रोच्य ससंभ्रममुपविश्य तां स्वकार्यनिपुणामवधार्य "महदपि परदुःखं शीतलं सम्यगाहु" रिति सामान्यं वचो ददत् प्रियेव मञ्जुस्वनेयमिति न मे कोपोऽस्यामिति तां परिहाय किञ्चिद्दूरं गतः । तत्र च प्रियापदनिक्षेपशंसिनं नूपूररवमाकर्ण्य तदनुसरणपरायणः मानसोत्सुकानां राजहंसानां कूजितमिदं न तु नूपूरशिञ्जितमिति विभाव्य परं दुःखमाप्नुवानः तदन्यतमतः प्रियावार्ता ज्ञातव्येति निश्चित्य तं अहो जलविहङ्गराजेति सम्बोध्य त्वं मानसं पश्चात् गमिष्यसि भूयो ग्रहणाय पाथेयभूतमिदं बिसं परित्यज्य मद्दयितावृत्तान्तदानेन मदीयं शोकशल्यमुद्धरेति अभ्यर्थ्य “स्वार्थात्सतां गुरुतरा प्रणयिक्रियैव” इति साधारणी वाचमनूद्यस्वपक्षं दृढतां नयति । राजा च तदवमानिनं तमुत्पतन्तं विलोक्य रे हंस यदि त्वया मे प्रिया नावलोकिता कथं त्वया तदीयं मदखेलपदं चोरितं स्यात्किन्तु मां स्तेनानुशासिनं राजानं मत्वा भयात्पलायितोऽसीति अधिक्षिप्य अन्यमवकाशमवगाहते। प्रियासहायं रथाङ्गनामानं वीक्ष्य तं प्रियाप्रवृत्तिं पृच्छन् तमपि च जायास्नेहात् पृथस्थितिभीरुमत एव स्वसमानदुःखं जानन् ततः प्रस्थितः। परिक्रम्य अन्तर्गुञ्जितषट्पदम् पद्मं तस्याः दष्टाधरं ससीत्कारमिवाननं परिज्ञाय कमलसेविनि भ्रमरे प्रणयं कर्तुं प्रवृत्तः । अञ्जलिं बध्द्वा मधुकरं तं मदिरेक्षणायास्तस्याः उदन्तं शंसितुमभ्यर्थयन् विकल्प्य च यत्त्वया सा वरतनुर्न दृष्टा, यतो यदि त्वं तद्वदनोच्छ्वासगन्धं सुरभिमवाप्स्यस्तदा तवाऽस्मिन् वराके पुण्डरीके न रतिरभविष्यदिति तं हीनभाग्यं त्यजति । करिणीसहायं नागाधिराजं सुखेन निषण्णं समीक्ष्य तदन्तिकमेत्य प्रियोपलब्धिसूचकेन मधुरकण्ठगर्जितेन समाश्वासितः यथा त्वं नागाधिराजः तथाहं राजाधिराजः, यथा त्वं दानी तथैवाहं, यथा तवेयं यूथे वशा तथा मम प्रियोर्वशी इति समानत्वं वीक्ष्य त्वयि मे भूयसी प्रीतिरिति निवेद्य परितो दृष्ट्वा अये ! अयमसौ अप्सरसां प्रियतमः सुरभिकन्दरो नाम सानुमान्, अपि नाम सुतनुरस्योपत्यकायां लभ्येतेति मृगतृष्णिकया प्रेरितः तमधिरोहति । तत्रान्धकारसान्द्रं सर्वं समीक्ष्य विद्युत्प्रकाशेनालोकयामीति कृतमन्त्रः मेघोदयमपि सौदामिनीविरहितं दृष्ट्वा शिलोच्चयमेवैनं "अपि वनान्तरमल्पभुजान्तरा श्रयति पर्वतपर्वसु सन्नता; इयमनङ्गपरिग्रहमङ्गला पृथुनितम्बनितम्बवती तवेति" परममाधुर्यसन्दानितेन विनयमहिम्नोपबृंहितेन वचसा तं पृष्ट्वोत्तरमनुपलभ्य शङ्के विप्रकर्षान्नायं शृणोति समीपमस्य गत्वा पृच्छामीति मत्वान्तिकं प्राप्य प्रियोदन्तं शुश्रूषुः साञ्जलिः रम्येऽस्मिन् विपिने मया विरहिता रामा त्वया विलोकिता किम् इति उक्त्वा प्रतिशब्दं च "दृष्टेत्याहेति" शृण्वन् दिशोऽवलोक्य सखेदं ममैवायं कन्दरान्तरविसर्पी प्रतिशब्दः इति परिज्ञाय मूर्च्छन् कालेन पुनश्चेतनामुपागम्य आत्मानं श्रान्तं अनुभूय गिरिणद्यास्तीरे तरङ्गवातमासेवितुं प्रक्रमते । तत्र नवाम्बुवाहकलुषां स्रोतोवहां पश्यन् रतिं लभमानस्तरङ्गिण्यास्तरङ्गसङ्घं भ्रूभङ्गं प्रियाया मत्वा, विहगश्रेणिं रशनां विचार्य, फेनं संरम्भशिथिलं वसनं विचिन्त्य, स्खलनमुभयोः समानं निरीक्ष्य “नदीभावेनेयं ध्रुवमसहना सा परिणता" इति विलपन् तत्प्रसादनपरः “अयि प्रिये ! प्रणयभङ्गपराङ्मुखमनसः त्वयि बद्धसक्तेर्मम कमपराधलेशं पश्यसि यतो दासजनं त्यजसीति" मधुरं प्रार्थयन् प्रियामनवाप्नुवन् परमार्थत इयं सरिदेवान्यथा कथं पुरूरवसं मामपहाय समुद्राभिसारिणी भवेदिति विचिन्तयति । पुरः सारङ्गमासीनमभिवीक्ष्य "हंहो हरिणीपते ! अपि मम प्रियामिह वने दृष्टवानसि, तदुपलक्षणन्तु यथेयं पृथुलोचना ते सहचरी सुभगं वीक्षते तथैव सापि" इति कृतायामप्यर्थनायां तद्वचनमनादृत्य कलत्राभिमुखं स्थितं सारङ्गमवेक्ष्य सर्वथोपपद्यते परिभवास्पदं विधिविपर्ययः इति स्वभागधेयान्यधिक्षिपन् अन्यत् स्थलं जिगमिषति। पुरतः शिलाभेदगतं नितान्तरक्तं किमपि लोकमानः किमिदं केसरिणा हतस्य गजस्यामिषलवः न तत् यतः इदं प्रभावत् ; अग्नेः स्फुलिङ्गः किम्, न तत् यतः अभिवृष्टमिदं वनमिति बहुशः सन्दिहानः रक्ताशोकस्तबकनिभरागं कञ्चन मणिमधिगत्य आदानपरः सन् तं निपुणं विविच्य यस्याः वल्लभायाः मन्दारपुष्पैः सनाथीकृतायां शिखायामयं मणिरर्पणीयः सा एव सम्प्रति मम दुर्लभेति मत्वा तं निरुपयोगिनं कल्पयित्वा यावदुत्सृजति तावदेव "वत्स गृह्यताम् गृह्यताम् सङ्गमनीयोऽयं मणिः प्रियजनेनाशु सङ्गमं भावयतीति" नेपथ्यवचनमाकर्ण्य उर्ध्वमवलोक्य अनुशासितारं भगवन्तं मृगराजधारिणं परिज्ञाय उपदेशानुकूलं मणिमादाय तं "हंहो सङ्गममणे ! यदि त्वं मम प्रियया सह समागमाय कल्पसे तदाऽहमात्मनस्त्वां शिखामणिं करिष्ये इति सम्बोध्य इतस्ततः परिक्रमते । तत्रैव पुरोवर्तिनीं कुसुमहीनामपि लतामिमां पश्यता मया रतिरनुभूयते इति सङ्कल्प्य, तस्याः मेघजलार्द्रपल्लवं प्रियायाः अश्रुभिर्धौताधरं परिकल्प्य, विश्रान्तपुष्पोद्गमं विरहादाभरणशून्यत्वं विचार्य, मधुलिहां गुञ्जनहीनत्वं चिन्तामानं कल्पयित्वा, पादपतितं मामवधूय जातानुतापेयं कोपना विद्यते इति मन्वानः प्रियानुकारिण्यां लतायां यावदाश्लेषप्रणयी तां आलिङ्गति तावदेव तत्स्थाने उर्वशी प्रविशति। राजा च निमीलिताक्षः उर्वशीगात्रसंस्पर्शजन्यसुखं लभमानः यद्यन्मया प्रथमं प्रियेति मतम् तत्तत् क्षणेन विसंवादगोचरोऽभूत् अतोऽहं तत्सुखं भृशमनुभवन् तद्धानिभीतः न सहसा लोचने विनिद्रे करोमि इति स्पर्शविभावितप्रियः रतेः परां भूमिमनुभवन् सहृदयहृदयचेतांसि समुल्लासयन् शनैर्नयने उन्मील्य कथं सत्यमेवोर्वशीति विलोक्य मूर्च्छितः पतति ।

 उर्वशी च समाश्वासयति महाराजम् । राजा च संज्ञां लब्ध्वा प्रिये ! अद्य जीवितम् , त्वद्वियोगजन्ये महति तमसि मज्जता मया दिष्ट्या त्वं प्रत्युपगतासीति

 वि.प्र.२ स्ववास्थां वर्णयति। उर्वशी मर्षयतु मेऽपराधं महाराज इति क्षमापयति ।. राजा च नाहं प्रसादयितव्यः, त्वत्समागमेन प्रसन्नो मे सबाह्यान्तरात्मा, तत्कथय कथमियन्तं समयं मद्विप्रयुक्ता त्वमनैषीरिति तामपृच्छत् । उर्वशी च "पुरा भगवता महासेनेन शाश्वतं नैष्टिकं व्रतं गृहीतम् , अध्यासितञ्चेदं गन्धमादनवनम् । शप्तं चेदं यत् या किल स्त्री इदं वनं समागमिष्यति सा लताभावं प्राप्स्यति इति । गौरीचरणरागसम्भवस्य मणेर्लाभश्च शापान्तः कृतः। अहञ्च गुरुशापसंमूढहृदया स्त्रीजनपरिहरणीयं रमणीयकुमारवनं प्रविष्टा लतात्वञ्च प्राप्ता" इत्याह । राजा समागमकारणं सङ्गममणिं प्रियायै दर्शयति । तथा च स्ववचनानुसार तं ललाटेsभिनिवेशयति । उर्वशी च "प्रियंवद ! महान् खलु कालः संवृत्तः आवयोः प्रतिष्टानान्निर्गतयोरित्यतः तत्रास्माभिर्गन्तव्यमिति" राजानमाह । अङ्गीकृते तु तस्याः प्रस्तावे, राजानं सा कथं गन्तुमिच्छति महाराज इति पृच्छति । राजा नवं पयोमुचं विमानं परिकल्प्य नगरं नेतुं तां निवेदयति । उर्वशी च तथैव करोति ।

   "प्राप्तसहचरीसङ्गमः पुलकप्रसाधिताङ्गः ॥
   स्वेच्छाप्राप्तविमाने विहरति हंसयुवा ॥"

इति हंसान्योक्त्या विरहोपक्रमानुसारं अन्तिममपि तथा उपसंहरतः कविपण्डितस्य कलाकौशलं निपुणं प्रेक्षमाणानां सामाजिकानां अग्रतः इत्थं नायिका नायकश्च रङ्गभूमितो निष्क्रान्तौ ॥

॥ इति चतुर्थोऽङ्कः॥


॥ पञ्चमोऽङ्कः॥

 अथ कविताकुमुदिनीचन्द्रः कवीन्द्रः सर्वं सुस्थं सम्पादयितुं रतेः परां भूमिं दर्शयित्वा, विप्रयोगेण प्रेम्णः परम्परां वर्धयित्वा, नियताप्तिं विधातुं, निर्वहणसन्धिं प्रारिप्सुः विदूषकमुखेनाग्रिमकथोपन्यासाय तत्प्रवेशमाह ।

 राज्ञः समागमेन सन्तुष्टो विदूषकः चिरेणोर्वशीसहायो राजा नन्दनवनप्रभृतिषु प्रदेशेषु विहृत्य प्रतिनिवृत्तोऽधुना स्वराज्यकार्यनिर्वहणपरायणः सन् प्रकृतिमनुरञ्जयन् विद्यत इति राज्ञः प्रतिष्ठाने प्रतिष्ठानानन्तरं कीदृशी दशेति सूचयति । शोभते चासौ यतो निःसन्ततित्वमपहाय राजा सुस्थ एव । तथा च अद्य कश्चन तिथिविशेष इति कृत्वा देव्या सह गङ्गायमुनयोः सङ्गमे कृताभिषेकस्तिष्ठति । इति सर्वां राज्ञः परिस्थितिं विज्ञाप्य विदूषकः परिक्रामति ।

 नेपथ्ये धिगिति शब्दं सङ्गममणिः आमिषशङ्किना केनचन गृध्रेणाक्षिप्त इति विज्ञापनां च श्रुत्वा विदूषकः अत्याहितम् अत्याहितमिति खेदं प्रकाशयन् राज्ञः असमाप्तनेपथ्यविधानावस्थायामेव प्रवेशं सूचयति । ततः सूतः कञ्चुकी वेधकं सपरिजनश्च राजा प्रविशन्ति । राजा च वेधकं क्वासौ विहगकुम्भीलको गत इति पृच्छति । किरातश्च मुखे न्यस्तकनकसूत्रं मणिमादायोड्डयमानं गृध्रं दर्शयति। विदूषकश्च राजानमुपेत्य तं गृध्रं दण्डयितुं प्रार्थयते । राजा धनुषे समाज्ञापयति । यावता कालेन धनुरानीयते तत्पूर्वमेव विहगाधमः नयनागोचरतां गतः । तं पक्षिणं तादृशं परिज्ञाय राजा कञ्चुकिनमाज्ञापयति, उच्यतां मदाज्ञया यत् सर्वैः नागरिकैरद्य सायं विचेतव्यः स विहगाधम इति । कुत्रापि पलायितः स रत्नपाटच्चरो भवतः शासनात् कथं मोक्ष्यते इति राज्ञः महिमानं ख्यापयन् विदूषकः राजानं सान्त्वयित्वोपवेष्टुं प्रार्थयति । राजा उपविशति मणेः प्रियया सह समागमकारकत्वेनोपबृंहितमूल्यवत्त्वं चोपवर्णयति । अत्रान्तरे सशरं मणिमादाय जयघोषपुरःसरं कञ्चुकी प्रविशति । मणिं तत्र दृष्ट्वा सर्वे विस्मयं नाटयन्ति । राजा च मणिं तं प्रक्षाल्य कोषपेट्टके स्थापयितुं आज्ञापयति । राजा च पुरःस्थं कञ्चुकिनं पृच्छति, कस्यायं बाण इति । कञ्चुकी वार्धक्यात् दृष्टेः दुर्बलत्वात् वर्णविभावनेऽसामर्थ्यं निजं प्रकाशयति । ततश्च राजा स्वयं नामाक्षराणि "उर्वशीसम्भवस्यायमैलसूनोर्धनुष्मतः। कुमारस्यायुषो बाणः संहर्ता द्विषदायुषाम्" इति श्रावयति । विदूषकश्च राज्ञः सन्तानवार्तां निशम्य हर्षपरिप्लुतः राजानमभिनन्दयति । राजा च सस्मितोऽपि कथमेतदिति विस्मितः सन् आह-अहं तु उर्वश्या वियुक्त एवासम् , न चाहं तां मम पत्नीमन्तर्वत्नीं सहयोगकालेऽपि कदाप्यपश्यम्, कुत एव प्रसूतिः इति । अनुचितं हि अमानुष्यां तस्यां मानुषीसदृशव्यवहारारोपणम् इति विदूषको राजानं भणति । भवतु नाम यथाह भवान् किन्तु मत्तः पुत्रस्य गोपने तत्रभवत्याः किं कारणम् इति राज्ञा पृष्टो विदूषकः वृद्धां मां राजा परिहरिष्यतीति मत्वा संवृतः पुत्र इति सोपहासं उत्तरं ददाति । अत्रान्तरे प्रविश्य कञ्चुकी "च्यवनाश्रमात्कुमारं गृहीत्वा तापसी देवं द्रष्टुं संप्राप्तेति विज्ञाप्य प्रवेशयितुं लब्धसम्मतिः तापसीसहितं कुमारमादाय प्रविष्टः । सुकुमारं जितमारं कुमारं तं दृष्ट्वा विदूषकः “यस्य नाम्ना अङ्कितो बाणः स एवायं क्षत्रकुमारः, भवत्सदृक्षतैवात्र प्रमाणं" इति राजानं निवेदयति। सोऽपि नयनयोः सबाष्पत्वम्, मनसः प्रसादत्वम् , हृदयस्य वत्सलत्वम् , देहस्य सवेपथुत्वम् अनुभाव्य तथैव मनुते । कञ्चुकी च तापसीकुमारौ यथास्थानमुपवेशयति । राजा चोपसृत्य तापसीमभिवादयते । तापसी मङ्गलमाशंसती मनसि आयुषः राज्ञश्च औरसं संबन्धं समीचीनं विचारयन्ती, प्रकाशं कुमारं गुरुं प्रणन्तुमाह । कुमारः सबाष्पमञ्जलिं बध्द्वा प्रणमति । राजा च तमायुष्मन्तमाशंसन् कुमारकं हस्ते गृह्णाति, कुमारश्च स्पर्शं रूपयित्वा स्वगतमेव "वृद्धानामुत्सङ्गे एव वृद्धानां बालानां कीदृशोऽनिर्वचनीयः स्नेह" इति स्पर्शमात्रेण अनुभवन् विचिन्तयति । राजा च तापसीमागमनप्रयोजनं पृच्छति । तापसी चाह यत् एष दीर्घायुरायुर्जातमात्र एवं केनापि निमित्तेन मम हस्ते न्यासीकृतः । क्षत्रकुलोचितं चास्य जातकर्मादि संस्करणम् तत्रभवता च्यवनेन महर्षिणा विहितम् , गृहीतविद्यो धनुर्वेदे विनीतश्चायम् । अद्य पुष्पसमित्कुशनिमित्तम् ऋषिकुमारैः सह गतेनानेनाश्रमविरुद्धं गृहीतामिषः गृध्रः आश्रमपादपशिखरे निलीयमानो लक्ष्यीकृतो हतश्च । तदुपलब्धोदन्तेन मुनिनादिष्टाऽस्मि यदेनं न्यासं उर्वशीहस्ते निर्यातयेति ।" तदुर्वशीं प्रेक्षितुमिच्छामि इत्युक्त्वा आसने समासीना । राजा चोर्वशीमाह्वातुमादिशति । ततो राजा कुमारं लालयति । अत्रान्तर एव प्रविशत्युर्वशी कञ्चुकी च । उर्वशी प्रविश्यालोक्य च कोऽयं महाराजेन प्रसाध्यमानशिखण्डकः तिष्ठतीति सन्दिहाना विभाव्य सत्यवतीसहितो मे पुत्रक आयुरिति परिज्ञाय सशङ्काऽभवत् । राजा च कुमाराय तज्जननीं दर्शयति । तापसी कुमारमाहूयोर्वशीमुपसर्पति । उर्वशी पादाभिवन्दनं करोति । सर्वे यथोचिताभिवादनस्वागतानन्तरं यथास्थानमुपविष्टाः । तापसी च उर्वश्यै कुमारं यच्छति । उर्वशी च समुदाचारानुसारं तापसीं विसृजति । राजा च च्यवनायाभिवादनमर्पयितुमभ्यर्थयते । कुमारश्च बालभावसदृशं तापसीं जातकलापं शितिकण्ठं शिखिनं तदर्थे प्रेषयितुमभ्यर्थनां विदधाति । गतायां च तस्यां, राजा अद्याहं तवामुना पुत्रेण पुत्रिणामग्रसरः जयन्तेन पुरन्दर इव सम्पन्नः इति प्रियामभिनन्दयति । अत्रान्तरे उर्वशी महेन्द्राभिधानात् किमपि स्मृत्वा रोदिति । तां तादृशावस्थां विलोक्य विदूषकः राजानं दर्शयति । राजा च सावेगम् "अयि सुन्दरि । मदीयवंशस्थितेर्हेतोरधिगमात् अद्य प्रमोदहेतौ सत्यपि किमकारणं रोदिषी"ति प्रियां सादरं पृच्छति । उर्वशी च महेन्द्रसंकीर्तितं समयं स्मरन्ती “अहं पुरा महाराजनिहितहृदया गुरुशापसम्मूढा महेन्द्रेणावधीकृत्याभ्यनुज्ञाता यदा मम प्रियवयस्यस्त्वयि समुत्पन्नसुतस्य वदनं प्रेक्षते तदा त्वया प्रत्यागन्तव्यमिति, ततश्च महाराजवियोगभीरुतया मया संवृणीतः पुत्रकः" इति सर्व समाख्याय एतावान्मम महाराजेन सह संवास इति विज्ञापितवती ।

 एतन्निशम्य सर्वे विषादं रूपयन्ति राजा च मुह्यति । सर्वैः समाश्वासनानन्तरं राजा संज्ञामधिगम्य दैवस्य सुखप्रत्यर्थितां वर्णयन् सुतोपलब्ध्या आश्वासितस्य मम त्वया सह विप्रयोगः आतपरुजः प्रथमाभ्रवृष्ट्या रक्षितस्य जनस्य कृते विद्युदिवोपस्थित इति स्वीयं गुरुशोकवत्त्वं प्रकाशयति । तदनन्तरं विदूषकस्तपोवनं प्रचलितुं समुचितं मन्यमानस्तथोपदिशति । उर्वशी च पुत्रावाप्तेरनन्तरमेव समापन्नां विपत्तिं समीक्ष्य भृशं दुःखिता भवति, राजा च तां भर्तुराज्ञां पालयेत्युक्त्वा सूनौ राज्यं विन्यस्य वनान्यधिगन्तुं निश्चिनोति । कुमारश्च सविनयं प्रार्थयते यदधुना नृपपुङ्गवधृतायां राज्यधुरि वत्सतरं मां नियोजयितुं तातो नार्हतीति । राजा च तस्य साहसं वर्धयितुं गन्धद्विपस्य कलभोऽपि अन्यान् गजान् शमयति, भुजङ्गशिशोरपि विषं वेगोग्रं भवतीति उदाहरणैः स्वपक्षं दृढयन् , "बालोऽपि त्वं भुवं शासितुमलमसीति" वचनैः कुमारस्य तेजस्वित्वं प्रकाश्य तं सान्त्वयति । राजा कञ्चुकिनं अमात्यपर्वतं आयुष्मतो राज्याभिषेकं विधातुं निवेदयेत्यादिशति । कञ्चुकी दुःखेन निष्क्रान्तः । सर्वे दृष्टिमधः कुर्वन्ति । राजा च गगनमवलोक्य कुतो नु खलु विद्युत्सम्पातः इति शङ्कमानः किञ्चिन्निपुणं विभाव्य भगवन्तं नारदं पश्यन् चकितः सन् महामुनिं पिङ्गलजटाजूटं सितोपवीतं नारदं मुक्तासरसन्निवेशितं हेमप्ररोहं जङ्गमकल्पद्रुमं वर्णयन् अर्घायाज्ञापयति, उर्वशी च तम् समर्पयति । ततो भगवान्नारदः प्रविशति । उपेत्य च विजयमाशंसते । राजा चोर्वशी अभिवादनं कुरुतः, नारदश्चाविरहितौ दम्पती भूयास्तामिति आशिषं वदति । राजा चोर्वश्या विप्रयोगमासन्नं निरीक्षमाणः “अपि नामैवं स्याद्यथा महामुनिराशंसत" इति मनसि विचिन्तयन् एव कुमारम् आश्लिष्य भगवन्तमभिवादयेति प्राह । कुमारश्च प्रणमति । नारदस्तं आयुष्मन्तं अभिभाषते । राजा नारदं विष्टरं ग्राहयित्वा सविनयं किमागमनप्रयोजनमिति पृच्छति । भगवान्नारदः प्रभावदर्शी मघवा वनगमनाय कृतधियं भवन्तमनुशास्ति यत् त्रिकालदर्शिभिः सुरासुरविमर्दो भावीति समादिष्टम् ,भवांश्च सांयुगीनः सहायः अतो न भवता शस्त्रन्यासो विधेयः, इयं चोर्वशी यावदायुः तव सहधर्मचारिणी भवत्विति महेन्द्रसंदेशं कथयति । उर्वशी च मनसि विप्रयोगमहच्छल्यं अपनीतं ज्ञात्वा परं सुखमलभत । राजा च वासवस्य महान्नयमनुग्रह इति ख्यापयति । नारदश्च राज्ञे "परस्परं भावयतोः युवयोः पारस्परिकी इष्टकारिता अविच्छिन्ना भवतु" इति प्रोच्य आकाशमवलोक्य रम्भां मन्त्रेण सम्भृतं कुमारस्याभिषेकसम्भारमुपनेतुं समाज्ञाप्य कुमारं भद्रपीठे उपवेशयति । कलशञ्च शिरसि आवर्ज्य रम्भां शेषं विधिं निर्वर्तयितुं समादिशति । विधौ समाप्ते कुमारः सर्वान् प्रणमति । सर्वे यथोचितं मङ्गलं भाषन्ते ।

 अत्रान्तरे नेपथ्ये वैतालिकद्वयम् पितृसदृशः सन् त्वय्यधिकतरं विराजमानां राजलक्ष्मीं सविशेषं सम्भावयेति कुमाराय विजयं घोषयामास । ततश्चोर्वशी कुमारं ज्येष्ठमातरमभिवन्दितुमाह किन्तु सममेव जिगमिषुणा राज्ञा निवारितः । नारदश्च ते तनयस्य यौवराज्यश्रीः मरुत्वता सैनापत्ये समारोपितस्य कार्तिकेयस्य शोभां स्मारयतीति स्कन्दसदृशत्वं आयुषः प्रख्यापयति । इत्येवं सर्वस्मिन् सुसंपन्ने सति सर्वेषां मङ्गलाशासनगर्भेण भरतवाक्येन

  "परस्परविरोधिन्योरेकसंश्रयदुर्लभम्
   संगतं श्रीसरस्वत्योः भूयादुद्भूतये सताम् ।
  सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु
   सर्वः कामानवाप्नोतु सर्वः सर्वत्र नन्दतु" इत्यमुना समाप्तं त्रोटकमिदम् ॥


॥ संक्षिप्तेतिवृत्तम् ॥

 त्रोटकस्यास्य तावत् प्रथमेऽङ्के सूर्योपस्थाननिवृत्तेन श्रुतदेवाङ्गनाक्रन्दनेन राज्ञा पुरूरवसा केशिदैत्येन हृतायाः सचित्रलेखायाः उर्वश्याः समुद्धरणम् । हेमकूटशिखरे राज्ञो विजयं प्रतिपालयन्तीनां सखीनां तया सह समागमः, श्रुतैतद्वृत्तेन महेन्द्रेण प्रेषितायाः गन्धर्वसेनाया नायकस्य चित्ररथस्य राज्ञा सम्मेलनम् , उर्वशीग्रहणम् , अत्रान्तरे संजातपूर्वरागयोः राजोर्वश्योः स्वस्वालयं प्रति प्रस्थानम् ।

 द्वितीये तु कामेनाभिभूयमाने राजनि पुरूरवसि प्रमदवनस्थे तिरस्करिणीप्रच्छन्नायाः ससख्याः उर्वश्याः खर्गादवतीर्य राज्ञे प्रेमपत्रप्रदानम् , तस्य च राज्ञानुवाचितस्य विदूषकहस्ते न्यासः । अत्रान्तरे लक्ष्मीस्वयंवराख्यं रूपकमभिनेतुं आहूतायाः अपूर्णमनोरथायाः उर्वश्याः खर्लोकगमनम् । अथ विदूषकानवेक्षया प्रभ्रष्टं मदनलेखमन्विष्यति राजनि कुपितया चेट्या सहायान्त्या काशिराजदुहित्रा मार्ग एव वायुवाहितस्य पत्रस्याधिगमः । पत्रनाशाद्राजनि दुःखिते सा लेखमर्पयित्वा भर्तुरनुनयं पादपतनं चावधीर्य शुद्धान्तमभिप्रस्थिता, ततो भीतस्य राज्ञः सविदूषकस्य निष्क्रमणम् ।  तृतीये विष्कम्भके भरतशिष्ययोः संवादे इन्द्रालये प्रयुज्यमाने लक्ष्मीस्वयंवरे रूपके वारुणीभूमिकायां वर्तमानया मेनकया “कस्मिंस्ते हृदयाभिनिवेशः" इति पृष्टा लक्ष्मीभूमिकोर्वशी "पुरुषोत्तमे" इति वक्तव्ये प्रमादात् 'पुरूरवसि' इति उक्तवतीति कुपितेन भरतेन "न ते दिव्यं स्थानं भविष्यति' इत्यभिशप्ता पुनर्देवेन्द्रेण “यथाकामं आपुत्रवदनदर्शनं तं मे सांयुगीनं सहायं सखायं सेवस्व" इत्यनुकम्पितेति कथांशः संयोजितः। मणिहर्म्यगृहे राज्ञि विदूषके च समागते प्रभावच्छन्नायाः सखीसनाथायाः तत्रभवत्या उर्वश्या अभिसारिकावेषेण आगत्य विदूषकराज्ञोः रहसि मन्त्रणस्य श्रवणम् , देव्या औशीनर्याश्च प्रियप्रसादनव्रतव्यपदेशेन तत्रैवागमनम् , रोहिणीसङ्गतं भगवन्तं चन्द्रमसं कञ्चुकीविदूषकौ राजानं चाभ्यर्च्य तस्याः प्रतिगमनम् । उर्वश्याः राज्ञः समीपे आगमनम्, चित्रलेखायाश्च सूर्योपस्थानाय स्वर्गारोहणं च।

 चतुर्थे, एकदा विहारं राज्ञा सह गतायाः, काञ्चन विद्याधरकन्यकामुदयवतीं प्रेक्षमाणाय राज्ञे कुपिताया गुरुशापसंमूढायाः कुमारवनं प्रविष्टाया उर्वश्याः लताभावकीर्तनम् , सङ्गममणिश्च तन्मोक्षोपाय इति कथनं च; विरहविधुरस्य राज्ञो वने मेघमयूरमधुकरमरालपिककरिशैलसरित्सारङ्गनीपेषु प्रियाप्रवृत्तिजिज्ञासानन्तरं सङ्गममणिमधिगत्य लताभूतां प्रियामालिङ्गितवतः शापमुक्तया तया सह सङ्गमः, प्रभूतेन च कालेन खराजधानीं प्रत्यागमनम् ॥

 पञ्चमे तु गृध्रेण सङ्गममणिहरणम् , कुमारेणायुषा तन्मारणम् , कुतो मे तनयः, तस्य गोपने च को वा हेतुरिति राज्ञो विकल्पनम् , जातमात्रस्यैव सत्यवतीहस्ते उर्वश्या न्यासीकृतस्य च्यवनेन महर्षिणा निर्वृत्तक्षात्रोचितसंस्कारस्य, गृहीतधनुर्वेदविद्यस्य कुमारस्यायुषः गृध्रवधरूपाश्रमानौचित्यकारित्वात् तापसीवेषधारिण्या सत्यवत्याऽऽनयनम् , तस्य च पित्रा परिचयः, तद्दर्शनप्रमुदितेन राज्ञा समाहूताया उर्वश्या आदौ पुत्रावाप्त्या प्रमोदः, विसर्जितायां तु सत्यवत्याम् “आपुत्रदर्शनं मे वयस्येन सह यथाकामं त्वयोषितव्यमिति" महेन्द्रकृतनियमस्य स्मरणेन विषादः, कृतप्रश्नाय राज्ञे विषादहेतोः प्रख्यापनम् , तस्मिन्नेव समये कुमारस्य राज्याभिषेकनिश्चयः, वनप्रस्थानाय कृतचेतसि राजनि नारदेनागत्य “सुरासुरविमर्दो भावी, भवान्मे समरसहायः सखा, न त्वया शस्त्राणि परित्यक्तव्यानि, इयं चोर्वशी यावदायुस्ते सहधर्मचारिणी भवतु" इति महेन्द्रसंदेशस्य कथनम् , राजोर्वश्योः विप्रयोगभीतयोः समाश्वासनम् नारदेन कुमारस्यायुषो यौवराज्येऽभिषेकः । तत्पश्चात् सर्वस्मिन् सुसम्पन्ने देवर्षिः नारदः राज्ञः किमपरं प्रियं कर्तुं शक्यते इत्यनुयुज्य राज्ञः प्रार्थितां समेषां जनानां सुखसम्पत्तिं आशिषा आशंसति । एवं राजा पुरूरवाः उर्वश्या सह ससुखं वार्धक्योचितशान्तिपरायणकार्यव्यापृतः सन् शेषं वयोऽयापयत् इति ॥


॥ श्रीः ॥

॥ नायकादिसिद्धान्तः॥

तत्र स्वरूपम्

 प्रायेण नाटकलक्षणलक्षिततया रूपकेषु तदिदं विक्रमोर्वशीयम् नाम त्रोटकम् । तथा च दर्पणे:-

    "सप्ताष्टनवपञ्चाङ्कम् दिव्यमानुषसंश्रयम् ।
    त्रोटकं नाम तत्प्राहुः प्रत्यङ्कं सविदूषकम् ॥"

प्रत्यङ्कं यथा विक्रमोर्वशीयमिति ॥*

 अत्रेदमवधेयं यत् स्वप्रतिभाविर्भूताभिप्रायानुसारिणी किल कविकल्पना न च तेनार्हति सर्वथैवेतिहासानुसरणम् । अतश्च नापेक्षते सामञ्जस्यमैतिह्येन सकलम् , सा चैतिहासिकनायकनायिकानुबन्धिनी केवलम् । तथा च महाभारतेन अभिज्ञानशाकुन्तलस्येव रामायणेन चोत्तररामचरितादीनामिवोपाख्यानभागे प्रकृतेऽपि ब्राह्मणादिभिः वैषम्ये सत्यपि काव्यचमत्कृतौ तदानन्दसन्दोहचर्वणायाञ्च न कदापि काचन क्षतिः इति ॥

 अत्र च बुधेलयोस्तनूजन्मा सोमवंशी विक्रमापराभिधानो राजर्षिः पराक्रमाकरः पुरूरवाः शठो धीरोदात्तप्रकृतिर्नायकः ।

 शठोऽयमेकत्रबद्धभावो यः । दर्शितबहिरनुरागो विप्रियमन्यत्रगूढमाचरति ।।

   अविकत्थनः क्षमावानतिगम्भीरो महासत्त्वः ।
   स्थैयान्निगूढमानो धीरोदात्तो दृढव्रतः कथितः ॥

 सहायश्चास्य विदूषको माणवकाख्यः-

   कुसुमवसन्ताद्यभिधः कर्मवपुर्वेषभाषाद्यैः ।
   हास्यकरः कलहरतिः विदूषकः स्यात् स्वकर्मज्ञः ॥

 अत्र नायिका रक्ताऽभिसारिका दिव्या साधारण्युर्वशी।

अभिसारिका हिः-अभिसारयते कान्तं या मन्मथवशंवदा।
   स्वयं वाऽभिसरत्येषा धीरैरुक्ताभिसारिका ।

तस्या अप्सरोभावात् दिव्यात्वम् । प्रेयसि गाढानुरागत्वात् रक्तात्वं । साधारणीत्वं हि:-
   धीरा कलाप्रगल्भा स्याद्वेश्या सामान्यनायिका ।

वेश्यात्वं च- विचित्रोज्ज्वलवेषा तु रणनूपुरमेखला ।
   प्रमोदस्मेरवदना स्याद्वेश्याभिसरेद् यदि ॥

 अत्र प्रतिनायिका सु-कलाहान्तरिता मध्या धीरा स्वकीया औशीनरी ।

स्वीयात्वम्:- विनयार्जवादियुक्ता गृहकर्मपरा पतिव्रता स्वीया ।

मध्यात्वम्:- मध्या विचित्रसुरता प्ररूढस्मरयौवना ।
   ईषत्प्रगल्भवचना मध्यमव्रीडिता मता।


  • इह हि प्रथमाङ्के विदूषकादर्शनात् नाटकमेव विक्रमोर्वशीयं न त्रोटकमित्यपि कश्चित् । धीरात्वम्:- प्रियं सोत्प्रासवक्रोक्त्या मध्या धीरा दहेद्रुषा ।

   (सोत्प्रासम् साक्षेपम् ।)

कलहान्तरितात्वम्:-चाटुकारमपि प्राणनाथं रोषादपास्य या ।
   पश्चात्तापमवाप्नोति कलहान्तरिता तु सा ॥

 उद्दीपनविभावाश्च मलयानिलमाकन्दमुकुलवर्षासमयप्रभृतयः- यदुक्तम्:- तत्र स्यादृतुषट्कं चन्द्रादित्यौ तथोदयास्तमयः ।
  लताकेलिवनविहारप्रभातमधुपानयामिनीप्रभृति ।
  उद्दीपनविभावास्ते रसमुद्दीपयन्ति ये ॥

 अनुभावाश्च परस्परसंवादाक्षिविक्षेपादयः स्तम्भो वैवर्ण्यं च -

   भ्रूविक्षेपकटाक्षादिरनुभावः प्रकीर्तितः ।

सात्विकाः- हासपुलकादयः सात्विकाः।

 अत्र व्यभिचारिणस्तु आवेगौत्सुक्योन्मादचिन्तादयः।
आवेगः सम्भ्रमो मतः। औत्सुक्यं हिः-

  इष्टानवाप्तेरौत्सुक्यं कालक्षेपासहिष्णुता ।
  चित्ततापत्वरास्वेददीर्घनिःश्वसितादिकृत् ॥

उन्माद:- चित्तसम्मोह उन्मादः कामशोकभयादिभिः ।
  अस्थानहासरुदितगीतप्रलपनादिकृत् ॥
चिन्ता-- ध्यानं चिन्ता हितानाप्तेः शून्यताश्वासतापकृत् ।

 अत्र रतिः स्थायी भावः ।

  अविरुद्धा विरुद्धा वा यं विरोधातुमक्षमाः।
  आस्वादाङ्कुररूपोऽसौ भावः स्थायीति सम्मतः॥

तत्र शृङ्गारस्य स्थायी भावो रतिः “रतिर्मनोऽनुकूलेऽर्थे मनसः प्रवणायितम्"।
(प्रवणायितं हि जलमिव सरलं सत्स्वभावतः प्रवृत्तमिव स्थितम्)

 सम्भोगः शृङ्गारोऽङ्गी रसः ।

   शृङ्गं हि मन्मथोद्भेदः तदागमनहेतुकः ।
   उत्तमप्रकृतिप्रायो रसः शृङ्गार उच्यते ॥
   (अयं च श्यामवर्णो विष्णुदैवतः कीर्तितः।)
सम्भोगत्वम्:- दर्शनस्पर्शनादीनि निषेवेते विलासिनौ ।
   यत्रानुरक्तावन्योन्यं सम्भोगोऽयमुदाहृतः ॥

(अङ्गी प्रधानम् ।)

परञ्चात्र हास्यविप्रलम्भादयोऽङ्गरसाः।

 अत्र हि सम्भोगस्य चमत्कारकारित्वात् विप्रलम्भो निपुणैर्दीयते यदुक्तम् “न विना विप्रलम्भेन सम्भोगः पुष्टिमश्नुते । कषायिते हि वस्त्रादौ भूयान् रागो विवर्धते" इति । विप्रलम्भो हि-यत्र तु रतिः प्रकृष्टानाभीष्टमुपैति विप्रलम्भोऽसौ ।  तत्र इह साक्षाद्दर्शनाद् पूर्वरागः "श्रवणाद्दर्शनाद्वापि मिथः संरूढरागयोः । दशाविशेषो योऽप्राप्तौ पूर्वरागः स उच्यते।" तत्र च रागस्य सप्त दशाः प्रोक्ताः- अभिलाषश्चिन्ता स्मृतिः, गुणकथनोद्वेगसंप्रलापाश्चोन्मादः......इति ।

 अत्र च पूर्वरागे माञ्जिष्ठो राग:-

   मञ्जिष्टारागमाहुस्तद्यन्नापैत्यतिशोभते ।
   इन्दुमत्या यथाजस्य दमयन्त्या नलस्य वा ॥
तत्र च  "विप्रलम्भः पुनरपि प्रवासाख्यः शापजन्यः संभ्रमेण च ।
   प्रवासो भिन्नदेशत्वं कार्याच्छापाच्च सम्भ्रमादिति ॥"

 अत्र चतुर्थेऽके उर्वश्या सह विहरता पुरूरवसा उदयवती नाम विद्याधरकन्यका क्षणं दृष्टा, तत्कुपिता उर्वशी मित्रावरुणशापाच्च हतविवेका कुमारवनं प्रविष्टा अतः अत्र संभ्रमाच्च शापाच्च प्रवास इति । अत्र दिव्यः संभ्रमः तेन जातः प्रवासः । यथा "दिव्यनाभसमानुष्योत्पातजात् सम्भ्रमात्त्रिधा" इति । क्वचन हास्यश्चाङ्गरस:-"विकृताकारवाग्वेषचेष्टादेः कुतुकाद्भवेत् । हास्यो हासस्थायिभावः श्वेतः प्रमथदैवतः" विदूषकादिभिः सहायैः सार्धं हासः ।

रीतिः पाञ्चाली:-

 पदसङ्घटना रीतिरङ्गसंस्थाविशेषवत्-उपकर्त्री रसादीनाम् ।

पाञ्चाली:-वर्णैः शेषैः पुनर्द्वयोः । समस्तपञ्चषपदो बन्धः पाञ्चालिका मता ॥ द्वयो वैदर्भीगौड्योः भिन्नैः वर्णैरित्यर्थः । आत्यन्तिकौजाः स्वभावलालित्यपूर्णैवर्णैः भिन्नो बन्धः इति ।

गुणो माधुर्याख्य:-"रसस्याङ्गित्वमाप्तस्य धर्माः शौर्यादयो यथा। तथा गुणा" इति ।

माधुर्यं च:- चित्तद्रवीभावमयोल्हादो माधुर्यमुच्यते।
तत्र वर्णास्तु:-"मूर्ध्नि वर्गान्त्यवर्णेन युक्ताष्टठडढान् विना ।
  रणौ लघू च तद्व्यक्तौ वर्णाः कारणतां गताः।

एतादृशा वर्णाः माधुर्यव्यञ्जनायापेक्ष्यन्ते इत्यर्थः ।
"अवृत्तिरल्पवृत्तिर्वा मधुरा रचना तथा ॥ इति ।

 प्रस्तावना प्रयोगातिशयाख्या:-

   चित्रैः कायः खकार्योत्थैः प्रस्तुताक्षेपिभिर्मिथः ।
   आमुखं तत्तु विज्ञेयम् नाम्ना प्रस्तावनाऽपि सा॥
प्रयोगातिशया-यदि प्रयोग एकस्मिन् प्रयोगोऽन्यः प्रयुज्यते।

   तेन पात्रप्रवेशश्चेत् प्रयोगातिशयस्तदा।।

 दूती चित्रलेखा निसृष्टार्था-

  कार्यप्रेष्येति दूतीलक्षणम् ।
निसृष्टार्थत्वं हि:-

   उभयोर्भावमुन्नीय स्वयं वदति चोत्तरम् ।
   सुश्लिष्टं कुरुते कार्यं निसृष्टार्था तु सा स्मृता ॥ इति ।

 अभिसरणस्थानं च उद्यानवाटीप्रभृतिकं यदुक्तम्-

"क्षेत्रं वाटी भग्नदेवालयो दूतीगृहं वनम् ।
   माऽऽलापञ्च श्मशानं च नद्यादीनां तटी तथा" इत्यादयः ।

 वृत्तिश्चात्र कैशिकी-

   शृङ्गारे कैशिकी वीरे सात्वत्यारभटी पुनः।
   ………सर्वनाट्यस्य मातृका ॥ इति धनञ्जयः।

कैशिकीलक्षणं यथा भरतः-

   या श्लक्ष्णनेपथ्यविशेषचित्रा स्त्रीसङ्कुला पुष्कलनृत्यगीता।
   कामोपभोगप्रभवोपचारा सा कैशिकी चारुविलासयुक्ता॥

  नान्दी चात्र द्वादशपदा पत्रावली।

   आशीर्वचनसंयुक्ता स्तुतिर्यस्मात्प्रयुज्यते ।
   देवद्विजनृपादीनां तस्मान्नान्दीति संज्ञिता ।
   पदैर्युक्ता द्वादशभिरष्टाभिर्वा पदैर्युतेति ॥

“यत्र बीजस्य विन्यासो ह्यभिधेयस्य वस्तुनः । श्लेषेण वा समासोक्त्या नाम्ना पत्रावली तु सा॥"

सङ्क्षेपेण तु-

 नायकश्चात्र पुरूरवाः शठो धीरोदात्तः, रक्ताभिसारिका दिव्या साधारण्युर्वशी, कलहान्तरिता मध्या धीरा स्वकीयौशीनरी च नायिके आलम्बनविभावाः । मलयानिलचूतमुकुलादयः उद्दीपनविभावाः । परस्परसंवादाक्षिविक्षेपादयश्चानुभावाः । आवेगौत्सुक्यचिन्तादयो व्यभिचारिणः। रतिः स्थायी । स्तम्भवैवर्ण्यादयः सात्विकाः, सम्भोगशृङ्गारोऽङ्गी, हास्यविप्रलम्भादयोऽङ्गरसाः। विदूषकादयः सहायाः, रीतिः पाञ्चाली, गुणो माधुर्याख्यः, प्रस्तावना प्रयोगातिशयाख्या, दूती चित्रलेखा निसृष्टार्था, अभिसरणस्थानं उद्यानवाटी, माञ्जिष्ठो रागः, कैशिकी वृत्तिः, द्वादशपदा पत्रावलीसमाख्या नान्दी । ऋष्याशंसितम् भरतवाक्यम् ।

॥ इति ॥

तदयं सङ्ग्रहश्लोकः-

  धीरोदात्तः शठोऽपि द्विजपतिकुलजो नायको विक्रमाख्यो
   वेश्या दिव्याभिसारिण्यनुगतहृदया नायिकात्रोर्वशी च ।
  सम्भोगाख्यो रसोऽङ्गी पुनरपररसो विप्रलम्भश्च हास्यः
   पाञ्चाली नाम रीतिर्भुवननिरुपमो माधुरीसान्द्रबन्धः ॥ * ॥

 अथ वा-

  धीरोदात्तशठोऽप्युदारमतिमान्नेता नृपो विक्रमो
   दिव्योर्वश्यभिसारिकाऽतिरुचिरा साधारणी नायिका ।
  सम्भोगोऽङ्गिरसश्च हास्यविरहावङ्गे रसौ त्रोटके
   पाञ्चाली किल रीतित्र मधुरो बन्धः कवेर्विश्रुतः ॥

.

पात्राणां स्वभावववर्णना।


तत्रभवान् पुरूरवाः-

 अयं हि सकलसामन्तमौलिमणिरञ्जितपादपीठो विलक्षणगुणगणैकभाजनो निखिलदेवतारूपस्वरूपः सकलकलोऽपि अविकलमतिः अमित्रजिदपि मित्रजेता, विचारवान् अपि चारदृष्टिः, कुपतिरपि कलत्रवल्लभः, आयतलोचनोऽपि सूक्ष्मदर्शनः, नलपृथुप्रभोऽप्यनलपृथुप्रभः, समित्संबन्धस्फुरितप्रतापोऽपि अकृशानुभावोपेतः, पृथ्वीमय इव स्थैर्ये, सवित्रमय इव तेजसि, भारतीमय इव वचसि, लक्ष्मीमय इव सौन्दर्ये, सुधामय इव माधुर्ये, सर्वकालमुर्व्यां भुजङ्गतया भ्राजितः शत्रुघ्नोऽपि विश्रुतकीर्तिः सार्वभौमः सन्ततपराक्रमो विक्रमो नाम सोमवंशीयो राजा रसस्निग्धेऽस्मिन् काव्ये तत्रभवता कविवरेण्येन नायकीकृतः । तस्य सूर्योपस्थाननिवृत्तेतिपदेन धर्मधुरन्धरत्वं, सत्यसन्धत्वम् , वीरत्वम् , “तेन हि मुच्यतां विषादः" इत्यनेन स्ववीर्यविश्वस्तत्वं "उपस्थितसाम्परायो महेन्द्रोऽपि मध्यमलोकात्सबहुमानमानाय्य तमेव विबुधविजयाय सेनामुखे नियुक्ते" इति मेनकावाक्येन, ‘अस्माकं चायं सांयुगीनः सहायः' इति महेन्द्रवाक्येन इन्द्रसदृशपराक्रमशालित्वम् , महेन्द्रसखित्वम् , “त्रिलोकरक्षी महिमा हि वज्रिणः” इत्यनेन निरभिमानित्वम्, “मन्दारकुसुमदाम्ना गुरुरस्याः सूच्यते हृदयकम्पः" मुहुरुच्छ्वतामध्ये परिणाहवतोः पयोधरयोः तथा चागामिना "स्थाने खलु नारायणमृषिं विलोभयन्यः तदूरसंभवामिमां प्रेक्ष्य व्रीडिता" इति अनेन पद्येन “अस्याः सर्गविधावि"ति पद्येन च सहृदयत्वम् , प्रेमाकुराङ्कुरितचित्तत्वम् , “चित्ररथसन्देशेन महेन्द्रोपकारित्वम् "ननु वज्रिण एव वीर्यमेतदित्यनेन विनयित्वम् , "आ लोकान्तात् प्रतिहततमोवृत्तिरासां प्रजानां तुल्योद्योगस्तव च सवितुश्चाधिकारो मतो नः" इति वैतालिकवाक्येन सूर्योपमत्वम्, “विविक्तादृते नान्यदुत्सुकस्य शरणमित्यनेन गाढप्रेमवत्त्वम्, “प्रतिगृहीतं ब्राह्मणवचनमित्यनेन” विप्रपूजकत्वम्, "तुल्यानुरागपिशुनं ललितार्थबन्धं पत्रे निवेशितमुदाहरणं प्रियायाः, उत्पक्ष्मलं मम सखे मदिरेक्षणायाः तस्याः समागतमिवाननमाननेन" इत्यनेन सरसालङ्कारिकत्वम् “मया नाम जितं यस्य त्वयायं जयमुदीर्यते” इति नायिकायां आदरभाववत्त्वम्, “सेव्यो जनश्च कुपितः कथं दासो निरपराधः" इत्यनेन सप्रणयत्वम् देव्या दासत्वकल्पनापुरःसरम् याथार्थ्यप्रतिपादकत्वम् , “विज्ञाप्यतां देवो यस्तव च्छन्द" इति अनेन दक्षिणत्वम्, देव्या आज्ञासंवाहकत्वम् “भगवन् ऋक्षराज हरचूडानिहितात्मने नमस्ते” इत्यनेन आस्तिकत्वम्, देवार्चकत्वम्, "अभिव्यक्तायां चन्द्रिकायां किं दीपिकापौनरुक्तेन" इत्यत्र रहसि प्रियसंलिलपिषया परिजनवर्जने दर्शितनीतिप्रवणत्वम् “अयमास्पन्दितैर्वायुराश्वासयति दक्षिणः” इत्यनेन शकुनशास्त्रेऽपि श्रद्धासमेतत्वम्, “उपस्थिता देवी, संवृताकारमास्तामित्यनेन औशीनर्याः अपराधाद् भीतत्वम्, "अनुग्रहो नोपराधः” इत्यत्र देव्याः च्छन्दानुवर्तित्वम् , “अनेन कल्याणि मृणालकोमलं व्रतेन गात्रं ग्लपयस्यकारणम्, प्रसादमाकांक्षति यस्तवोत्सुकः स किन्त्वया दासजनः प्रसाद्यत" इत्यनेन चाटुवचनैराराधकत्वम्, “नाहं पुनस्तथा त्वयि यथा हि मां शङ्कसे भीरु" इति आपाततः निर्दोषित्वकल्पनाय प्रार्थनापरत्वम् , तत्तादृशम् महिष्याराधनवेलायामपि नायिकायां गाढतयानुप्रविष्टहृदयत्वम् "अन्यत्कथं कलितं मम गात्रकं करस्पर्शादिति” अनेन सत्यप्रेमवत्त्वम्, सात्विकभाववत्त्वम् , “यदेवोपनतं दुःखात् सुखं तद्रसवत्तरमित्यनेन" प्रियाप्राप्त्या विलक्षणानन्दपात्रत्वम् , उदयवतीनामधेयायाः विद्याधरदारिकायाः प्रेक्षणेन सूचितं चञ्चलचित्तत्वम्, चतुर्थाङ्के च मनःसौधपाञ्चालिकायाः हिमकरकिरणावदातवर्णायाः प्रियाया उर्वश्या विप्रयोगेन सोन्मादत्वम् , संगममणिना सहयोगेन प्रसन्नत्वम् , लताभावमवाप्तायाः प्रियायाः आलिङ्गनेन स्पर्शसुखानुभवेन प्रियेय- मिति सनिश्चयत्वम् , प्रियाविरहकालेऽपि धैर्यधारणक्षमत्वम् , मणेः प्रियावाप्तिहेतुत्वात् तस्मै कृतज्ञत्वम्, सन्मानकत्वम् , आयुषः स्वतनयस्य दर्शनेन विस्मितत्वम्, “सर्वाङ्गीणः स्पर्शः सुतस्य किलानेन मामुपनतेन । आल्हादयस्व तावच्चन्द्रकरश्चन्द्रकान्तमिव" इत्यनेन सूचितं तनये सहजस्नेहसन्तानप्रवृत्तिमत्त्वम्, "अद्याहं पुत्रिणामग्र्यः जयन्तेन पुरन्दरः" इत्यनेन पुत्रावाप्तिसन्तुष्टत्वम्, उर्वश्याः भाविनं वियोगं दृष्ट्वा मूर्ञ्छितत्वम् , "प्रियाविप्रयोगेन तपसे वनगमनं वरमि"ति मत्वा सोमवंशानुसदृशं वनगमनाय कृतबुद्धित्वम् , “नहि सुलभवियोगा कर्तुमात्मप्रियाणि प्रभवति परवत्ता शासने तिष्ठ भर्तु रित्यनेन न्यायपथप्रवर्तकत्वम् , कुमारस्य यौवराज्ये प्रतिष्ठापनेन अलौकिकपुत्रस्नेहवत्त्वम्, सुसमीक्ष्यकारित्वम्, भूतेषु सानुकम्पत्वम् , नितान्तललितललनासम्भोगभोग्यभाग्यवत्त्वम् , नायिकायां स्थिरस्नेहवत्त्वम् , सभ्यत्वम् , सरसत्वम् , एवमादि नानागुणगणं वहमानः नाटकीयवस्तुसमीचीनेन धीरोदात्तलक्षणेनोपेतः नारदस्य प्रियकारितया प्रसन्नान्तरात्मा स्वकार्यनिर्वहणेन सामाजिकान् मुग्धानद्धा सम्भावयितुं प्रवृत्तः सहृदयचेतांसि प्रीणयन् नाटकस्य नायकत्वं साधु धारयन् कवये प्रशंसामाहरन् विलसतितराम् ।

 उर्वशी-इयं चाप्सरसां प्रमुखा अशेषरमणीयरमणीजनललामभूता अलङ्कारस्थाप्यलङ्करणात्मिका, मारस्य सुकुमारप्रहरणभूता, सौन्दर्यसारसर्वस्वनिकेतनं, रामणीयकत्वोपेतमिन्दोरधिदेवतात्वमाप्ता, सङ्कल्पयोनेः सङ्कल्पसिद्धिरिव, शृङ्गारसुधाभृङ्गारस्य निस्यन्दधारेव, रङ्गशाला रागशैलृषस्य, मनोजगारुडिकस्य शीकरणविद्या, धातुवादिकस्य रससिद्धिवेदः सौभाग्यसङ्गिलावण्यसन्दानितवपुषी अस्य त्रोटकस्य नायिका । केशिनाहृतायां राज्ञा पुरूरवसा च समुद्धृतायां तस्यां चक्षुषी उन्मील्य "किं प्रभावदर्शिना महेन्द्रेणाभ्युपपन्नास्मी"त्यनेन तस्याः साधारणस्त्रीत्वं व्यज्यते। "उपकृतं दानवेन्द्रसंरम्भेणेति" वाक्येन राज्ञे तस्याः कृतज्ञता प्रख्यापिता । "क्व मे सखीजनः" इत्यनेन सखीवृन्दे नितान्तप्रेमवत्त्वम् निग्धत्वं च तस्या गम्यते। समायाते तु चित्ररथे गमनायानुज्ञा गृहीतुं कृतमनस्कया तया स्वस्य व्यवहारकोविदत्वं व्यजिज्ञपि । द्वितीयाङ्के राजानं उपगच्छन्ती सा चित्रलेखां "दृढं लग्ना सा वैजयन्ती मोचयितुमशक्येति" वचनस्मारणेन वाक्चातुरीं स्वीयां व्यभासयत् । "राज्ञो भवनं स्थानान्तरगतः स्वर्गः इति" शंसन्त्या प्रियपक्षपातस्तया प्रकटितः । "प्रथमदर्शनादपि सविशेषं प्रियदर्शनो महाराज" इति अनेन तस्या औत्सुक्यं सूचितम् । “न तावदुपसर्पिष्ये, किमयं महाराजो विविक्ते मन्त्रयते" इत्यनेन तस्याः कपटपटुत्वं “राज्ञः कियत्प्रेमेति" गाहितुं सयत्नत्वं च गम्यते । “रोचते ते मेऽभिसारिकावेष" इत्यनेन अभिसारिकात्त्वं प्रकटितम् । राजमहिष्यां समायातायाम् तस्याः सौन्दर्यं, राज्ञा आदरणीयत्वं, तस्यां च राज्ञः प्रगाढप्रेमाणमपि विलोक्य असूयाहीनत्वम् , राज्ञा सह समागमादर्वाक् महिष्यनुमतं मे समागमं न वेति जिज्ञासावत्यास्तस्याः भावराहित्यं च व्यक्तम् । किन्तु राज्ञः परिणीतमहिषीं विहाय परस्याः विद्याधरकन्यकायाः समीक्षणे असहिष्णुत्वं मानिनीत्वं चात्मनः प्रकाशितवती । चतुर्थाङ्कसमाप्तौ चिरकालानवस्थानाय क्षमापयत्यात्मानं राज्ञोऽनुग्रहाय । राज्ञा सह वियोगमाशङ्कमानया तया तद्वियोगासहिष्णुत्वं बुध्द्वा जातमात्रेणैव आत्मजेन सह वियोगो वरमिति दर्शयन्त्या राजन्यगाधस्नेहवत्त्वं स्वीयं प्रख्यापितम् । पुनरपि “जेट्ठमादरं वन्देहीति" पुत्रमाज्ञापयन्त्यास्तस्याः औशीनर्याः कृते मनसि सन्मानभाववत्त्वं सपत्नीभावराहित्यञ्च गम्यते। इत्थं साधारणी अपि बहुसद्गुणभाजनं नायके अविचलानुरागपिशुनेन समुदाचारेण व्यवहरन्ती नायिकाधुरं सम्यग्वहमाना स्वीयभावानुभावैः प्रेक्षावतां प्रेक्षकाणां मनांसि समुल्लासयन्ती नाटकीयवस्तुगतमाकर्षकत्वं भृशमुपबृंहयतितराम् ॥

औशीनरी-

 इयं काशिराजस्य दुहिता राज्ञः पुरूरवसः पट्टाभिषिक्ता महिषी । इयं स्वभर्तारं अन्यनारीसङ्क्रान्तचेतसं परिज्ञाय तं ततो निवर्तयितुमशक्नुवाना, स्वभागधेयान्येवाधिक्षिपन्ती स्वमनसि शोककोपेद्धभावं नियन्त्रयन्ती, शान्तिमेव चरममुपायमधिगम्य राज्ञो मार्गेऽन्तरायमकुर्वती कालमयापयत् । किन्तु “हले निपुणिके, सत्यं किं त्वया लतागृहं विशन्नार्यमाणवकसहायो दृष्टो महाराजः-इतः प्रभृति" उर्वशीनिहितहृदयाय राज्ञेऽभ्यसूयति तत्रभवती तपस्विनी राज्ञी। भूर्जपत्रं उर्वशीललिताक्षरं स्वयं वाचयित्वा तत्कृते व्यग्रे तु राजनि तत्तत्र तस्मै प्रयच्छन्ती तं भृशं ह्रेपयति । पश्चाच् च राजानं विहाय सा गता, तेन तस्या मानिनीत्वं प्रकाशितम् । पुनश्च "आर्यपुत्रं पुरस्कृत्य कोऽपि व्रतविशेषो मया सम्पादनीयः तत्क्षणं मुपरोधः सह्यताम्, तथा च यां नारीx कामयते आर्यपुत्रस्तया सहाप्रतिबन्धेन वर्तितव्यमि"ति व्रतग्रहणेन च साक्षेपपरिभाषणगर्भं स्वीयं व्यवहारं प्रकाशयन्ती अन्ते राज्ञः तस्या मृगतृष्णिकायाः पराङ्मुखत्वमशक्यं वीक्षन्ती तथैव तस्य कुशलं प्रार्थयन्ती सती सा विविक्तवासमाश्रितवती ॥

विदूषकः-

 दृश्यते हि विविधेषु संस्कृतेषु रूपकेषु हास्यरसोद्दीपकः वाचाल: अप्रतिहतबुद्धिः अद्भुतप्रतिभोद्भासितधीः नर्मकर्मसचिवः द्विजातिप्रवीणो भोजनप्रियः आङ्ग्लरूपकेषु इव (clown) विदूषकाख्यः पात्रविशेषः । तस्य राज्ञा सह वयस्यभावः

 वि.प्र.३ अन्तःपुरचारित्वञ्च भवतः । द्वितीयाङ्कप्रारम्भे निपुणिकायां राजरहस्यमवगन्तुं विदूषकमनुसन्धातुं च यतमानायां सरलतया राजरहस्यस्य समुद्घाटनेन तस्य सरलस्वभाववत्त्वं अनियन्त्रितजिह्वत्वं च प्रकटीक्रियते। "किं तत्रभवत्युर्वशी अद्वितीया रूपेणेति" राजानं पृच्छन् स्वं नर्मसचिवभारमावहति । “महानसं गच्छामः, दिष्ट्या मम खलु बुभुक्षितेन खस्तिवाचनिकमिव लब्धं भवतः समाश्वासनकारणम् , त्वरयस्वास्य भोजनम् , पित्तोपशमनेन स्वस्थो भवतु, एष खण्डमोदकसदृश उदितो राजा ओषधीनाम् , अहमपि यदा शिखरिणीं रसालं च न लभे तदेव चिन्तयन्नासादयामि सुखम् इत्येवं विविधैः वाक्यैः स्वं भोजनपरायणत्वं व्यक्तम् । तथा च स स्ववैरूप्यस्य मूर्खत्वस्य च अभिज्ञः एव । भूर्जपत्रप्रभ्रंशेन स्वानवधानता प्रदर्शिता । “गतमुर्वशीमार्गेण दिव्यं भूर्जपत्रं" तथा च "एवं मया जिह्वा संयन्त्रिता येन भवतोऽपि नास्ति प्रतिवचनमि"त्यनेन वाक्चातुर्यं गम्यते । “यदा भवत्या मुखकमलं प्रेक्षिष्यते ततो निवर्तयिष्यते” इति मधुरालापेन देव्या औशीनर्याः चाटुकारित्वम् द्योत्यते । “भो ! ब्राह्मणसंक्रामिताक्षरेण ते पितामहेनाऽभ्यनुज्ञातोऽसि । तदासनगतो भव । येनाहमपि सुखासीनो भवामि ।" इत्यनेन राजानमपि वयस्यतया यथाकथमपि वक्तुं पारयति । विदूषकश्च राज्ञः प्रियवयस्यभावेन सदैव सुखं कामयमानः तस्योत्तरोत्तरसन्तानप्रतिसन्तानवृद्धिमीप्समानः निस्सन्ततित्वमेव केवलं दुःखकारणं मत्वा विचारपरायणो भवति । तथा च पुत्रसंवरणे उर्वश्याः कारणं किमित्यजानति राजनि विदूषकं पृच्छति सति “मा वृद्धां राजा मां परिहरिष्यतीति" परिहासं कुर्वन् मध्ये मध्ये रसमुपस्कुर्वन् सामाजिकानां चेतांसि रञ्जयन् स्वावश्यकतां अनिवार्यां बोधयन् नाटकीयवस्तु परमुपकरोतीति ॥

चित्रलेखा-

 तत्रभवत्या उर्वश्याः प्रियसखी चित्रलेखा “सखि समाश्वसिहि समाश्वसिहि कथमुच्छ्वसितमात्रसम्भावितजीविता अद्याप्येषा संज्ञा न लभते” इत्यादिवाक्यैः उर्वशीविषयकं हृद्गतं गाढं प्रणयं ज्ञापयति । "अनप्सरेव प्रतिभासी" ति वाचा उर्वशीं स्वीयाप्सरस्त्वं बोधयन्ती स्वाभिमानं मानवीविशेषत्वं च व्यनक्ति। प्रियसख्या "किमपि परतोऽपसरे"ति कृतायां याचनायां, चित्रलेखा राजनि उर्वश्याः प्रणयप्रसरं जानती; "नाहं शक्नोमि" इति वाचमाददती प्रियसख्याः प्रियकारित्वं बोधयति । ततश्च लताविटपे लग्नां एनां वैजयन्तीं मोचयेति प्रार्थितया तया "दृढं खलु लग्ना सा अशक्या मोचयितुम्" इति भणन्त्या स्वसहृदयत्वं, हासपरत्वं च व्यजिज्ञपि । पश्चाच्च द्वितीयाङ्के "कुत्र खल्वनिर्दिष्टकालं गम्यते” इति पृच्छया उर्वश्याः सा अपरमिव हृदयमासीदिति विश्रम्भभाजनत्वं प्रकटीकृतम् । समये समये च उर्वशीकृतं विचारमनुमोदमाना सा स्वदाक्षिण्यं भृशमेव सूचयति । महाराजे विक्रमे "क्वास्ते ते प्रियसखीति" पृच्छति, ननु प्रथमं मेघराजिर्दृश्यते पश्चाद् विद्युल्लतेति वदन्त्या तया स्वीयं वचनचातुर्यं मधुरालापित्वं च द्योतितम् । प्रथमाङ्कद्वितीयाङ्कयोः समाप्तौ च राज्ञे स्वाभिप्रायस्य विज्ञापनाय उर्वशी चित्रलेखामेव नोदयति, एतेन चित्रलेखायाः सहायकत्वं अर्थसंसाधकत्वं निसृष्टार्थत्वं च द्योत्यते । "कीदृशो मे अभिसारिकावेषः" इति पृच्छन्त्यै उर्वश्यै "नास्ति मे वाग्विभवः प्रशंसितु"मितिः ब्रुवाणा चित्रलेखा स्वां विनोदवृत्तिं शंसति । तृतीयाङ्के च "क्रीडिष्ये तावदेतया सह" अनेन तस्याः सखेलत्वं सदैव प्रसन्नचित्तत्वम् स्फुटमेव । तथा च तत्रैव सम्भोगयोग्यं विक्रमोर्वश्योः सम्मेलनं घटयित्वा अपसरणेन सा समयानुसाराचारं ज्ञापितवती । उर्वश्या विक्रमेण सह सति विप्रयोगे, तस्या अपि पीडितत्वप्रकाशनेन प्रियसखीसमुचितं सहानुभूतिमत्त्वं, सुखदुःखसहभागित्वं प्रीतिलतापोषकत्वं च स्फुटमवगम्यते । सा च प्रियसखीसमुचितसकलगुणगणसंयुता बभूवेति स्पष्टतरं लक्ष्यते सहृदयैः त्रोटकस्यास्य पर्यालोचनेनेति ।

कुमार:-

 आयुः जनकस्य स्पर्शमेव सम्भाव्य "उत्सङ्गे वृद्धानां गुरुषु भवेत्कीदृशः स्नेहः" इति वचनेन स्वाभाविकीमेव प्रीतिसन्ततिमनुभवति । "तात वन्दे” इत्यनेन तस्य विनयित्वं प्रकाश्यते । च्यवनाश्रमं प्रति गच्छन्त्यै तापस्यै, तामेवाम्बां मन्वानेन कुमारेण “इतो मामपि नेतुमर्हसीति” बालभावस्य सदृशमेव प्रोक्तम् । शिखण्डिनं प्रेषयेत्यनेन स्वीयं आरण्यकोचितं चित्तं तेन प्रकटीकृतम् । कुमारं राज्येऽभिषेचयते' राज्ञे"नार्हति तातः नृपपुङ्गवधारितायां धुरि दम्यं नियोजयितुमिति” सविनयं निवेदयता कुमारेण स्वीयं बुद्धिमत्त्वं, नयवत्त्वं, विनयवत्त्वं च सममेव प्रकाशितम् । शेषाणां गौणानां पात्राणां चारित्र्यन्तु नातीव चित्रं, तथा च सौकर्येणैव भावयितुं शक्यमतः ग्रन्थगौरवभिया नेह विवेचितम् सहृदयैश्च यथापेक्षमूह्यम् ॥


समालोचना।

 विक्रमोर्वशीयं नाम त्रोटकं तत्रभवता श्रीमन्महाकविकालिदासेन विरचितम् । अस्य कथासन्दर्भादिकाव्यवैभवमतिमात्रं रमणीयम् । काव्येऽस्मिन् सहृदयहृदय द्रावीणि सन्ति प्रभूतानि ललितमधुराणि पद्यानि। विशेषतश्च तुरीयाङ्के विरहविधुरस्य राज्ञः असन्निहितप्रेयसीसमन्वेषणप्रकारस्तु सचेतसां मनसां सम्मोहनमेव । स्वाभाविकवर्णनापाटवं तु कविवरेण्यस्य सुतरां श्लाघ्यम् । यथा हि प्रियप्रसादनार्थमेष्यन्त्यां तत्रभवत्यामौशीनर्यां विदूषकवचनं निशम्य दिशमैन्द्रीं विलोक्य राज्ञः उक्तिः

   "उदयगूढशशाङ्कमरीचिभिस्तमसि दूरतरं प्रतिसारिते।
   अलकसंयमनादिव लोचने हरति मे हरिवाहनदिङ्मुखम् ॥"

अत्र हि उदयगिरि समारुरुक्षोः शीतकिरणस्याभिख्यां वीक्ष्य संयमितालकजालाया अनवद्याङ्गनायाः मुखसुषुमां मनोहरायाः दिशः उपरि नायिकात्वेनारोपयतः सुकवेरुक्तिः प्रत्यक्षमेव कविताविलाससमास्वादसमुल्लसितानां मनांसि प्रीणयति, एतद्धि एतादृशकल्पनाकुञ्जकोकिलस्य कवयितुर्लेखिनीमृते नान्यत्र सुलभमिति स्वयमध्येतारः प्रमाणम्

 इह हि प्रथमाङ्क एवादौ उर्वशीपुरूरवसोः परिचयसमये यदुवंशी चन्द्रवंशावतंसस्य महाराजपुरूरवसः स्वर्लोकालभ्यविक्रमशालित्वात् , केशिदानवोद्धरणोपकारित्वाद्वा परिहसितमारसुकुमाराभिरामरूपवैभवाद्वा दिव्योपभोगपरितृप्ताप्सरा सत्यपि. मानुषीविलक्षणा साधारण्यपि प्रथमसन्दर्शनावसरे एव तस्मिन् शीलशालिनि विक्रमवति पार्थिवे सुतरां दृढं लग्नेति सहृदयधौरेयाणां मनांसि दुष्यन्तशकुन्तलयोः प्रथमप्रेमप्रसरापेक्षया भृशं सभाजयतीति निर्विवादम् । शाकुन्तले पूर्वरागसमये कविवरेण न किञ्चिदपीत्थं प्रतिपादितं येनैतादृशी प्रणयगम्भीरता नायकयोः प्रकाशिता स्याद्यथेह "दृढं लग्ना न मोचयितुं शक्या एकावलीति" सहाससहचरीवचनस्य "स्मर्तव्यं खल्विदं वचनमिति" हृदयभावोद्बोधकं उत्तरवाक्यं दृढप्रणयताशालित्वं व्यनक्ति । भुक्तदिव्योपभोगायाः कस्याश्चन साधारण्याः दिव्याङ्गनायाः मानवपदं भजमाने राजनि गूढप्रणयप्रसरस्यावश्यमेवाधिकतया मनोहारित्वमनुभववीथीं सचेतसामवतरति । अत्र च प्रथमपरिचय एव राज्ञो महेन्द्रसदृशानुभाववत्त्वं उर्वश्यां परमासक्तिं गमयति । पुनश्च राज्ञः उर्वशीप्रतिगमनानन्तरं या तान्तदशा सा शकुन्तलासुकुमारकुमारीभावापहारकस्य दुष्यन्तस्य स्वकृतकर्मविस्मरणपरायणस्यापेक्षया निगूढप्रणयवत्तरत्वं व्यञ्जयन्ती रसझरास्वादनं प्रभूतमुपस्करोति। पुनश्च गृहीतनेपथ्यायाः नायिकायाः पुरूरवोविषयकं प्रेम महेन्द्रसभायामपि विस्मृतात्मदेशकालाद्यवस्थाबोधकं प्रकाशयन्त्याः लब्धशापायाः सहृदयहारिणा नायकेन सह तस्याः समागमकारकं शापमभिनिवेशयन् महाकविः दुष्यन्तशकुन्तलयोः विप्रयोगकारिणः शापस्य संघटनापेक्षयाधिकमेव काव्यकलाकुशलत्वं स्वीयं गमयति । “विप्रयोगं विना न रतिः पुष्टिमश्नुते" इति राद्धान्तमनुरुध्य कवीशेनेह तुरीयाऽङ्के करुणभावतरं भृशं सिञ्चता, नायकस्यानवरतम् नायिकागतानवच्छिन्नस्मृतिसन्ततिप्ररोहण तं पल्लवयता, तदीयगवेषणपरायणस्य राज्ञः प्रतिपदस्खलनचारुरूपैः चेतनाचेतनाविवेकनिबन्धनैर्गिरिमयूरसारसादिभ्यः प्रेयसीसन्दर्शनप्रार्थनैरुन्मेष्य तमेव भावतरुं कुसुमितं विदधताऽनुपममेघनगानां स्वभाववर्णनसन्दानितं भगवता सोमेनोद्भावितसङ्गमनीयमणियोगेन तयोः झगिति संयोगं कारयता प्रमातॄणां अमन्दानन्दाभिनन्दनरूपया फलसम्पदा स एव योजितः। चरमाङ्के च नारदमुनिसमागमतनयावाप्तियावज्जीवप्रेयसीसंयोगलाभाद्यभिमतं सर्वं समवायेनैव सङ्गमय्य खल्परूपेणापि त्रोटकेन तथा सामाजिकान् कविः सभाजयति यथा कदापि महागरिममताऽपि काव्यप्रबन्धेनासुलभं जायत इति कविभूषामणेरनुपमलेखनी सौहार्दहृद्या कवितासुमनस्ततिरियं तन्वीव सुकुमारा केषां सुमनसां चेतांसि न द्रावयतीति कविताकमलिनीसमुपभोगभाग्यभाजो मधुरससङ्गभृङ्गा एवात्र प्रमाणम् ॥


नाटकीयवस्तूद्गमः।

 तत्रभवान् नरपतिचक्रचूडामणिः प्रतिष्ठानाधीशः पुरूरवा मनुना सार्धमादौ ऋग्वेदे भगवतः अग्नेः मित्रत्वेन सुकृतनाम्ना समाख्यातः । तस्य देवाङ्गनायामुर्वश्यां प्रणयः, पुनः सम्मेलनाय चाभ्यर्थनम् वर्णितम् । (ऋक्-१०-९५) तत्रैव पञ्चनवतितमेऽष्टादशे सूक्ते देवास्तमिलायाः पुत्र इति सम्बोध्य स्वर्ग लोकेऽनन्तसुखावाप्तये, तया चाप्सरसा समागमाय यज्ञैर्भावयितुं प्रेरयामासुः । शतपथब्राह्मणेऽपि अयमेवार्थः प्रतिपादितः।  यथा वेदे “ऐलोर्वशीतिहासोऽत्र वैशद्यार्थं प्रवर्ण्यते । मित्रश्च वरुणश्चोभौ दीक्षितौ प्रेक्ष्य चोर्वशीम् । रेतः सिषिचतुः सद्यस्तत्कुंभे यदधुस्तदा । तां शप्तवन्तौ मनुजभोग्या भूमौ भवेति तौ । अत्रान्तर इलो राजा मनोः पुत्रैश्च संयुतः । मृगयां संचरन् साश्वो देवीक्रीडं विवेश ह । यत्र देवं गिरिसुता सर्वैर्भावैरतोषयत् । अत्राविशन् पुमान् स्त्री स्यादित्युक्त्वा तत्र चाविशत् । स्त्री भूत्वा व्रीडितः सोऽगात् शरणं शिवमञ्जसा । इयं प्रसाद्यतां राजनित्युक्तः शम्भुना नृपः। जगाम शरणं देवीं आत्मनः पुंस्त्वसिद्धये। अकरोत्सा नृपं देवी षण्मासात्प्राप्तपुंस्त्वकम् । ततः कदाचित् स्त्रीकाले बुधः सौन्दर्यमोहितः । अप्सरोभ्यो विशिष्टां तामिलां सङ्गतवान् मुदा । तदेलायां सोमपुत्राज्जातो राजा पुरूरवाः । तमुर्वशी तु चकमे प्रतिष्ठानपुरे स्थितम् । तल्पादन्यत्र नग्नं त्वां दृष्ट्वा यामि यथागतम् । सुतावुरणको त्वञ्च समीपं कुरु मे द्रुतम् । इति सा समयं कृत्वा रमयामास तं नृपम् । चतुरब्दे गते रात्री देवैरुरणकद्वयं । हृतं तस्य ध्वनिं श्रुत्वा नग्न एव स भूपतिः । उत्थाय जित्वा तावागच्छेत्येवं जल्पको नृपः। विद्युता दर्शितोऽस्यै स नग्न एव पुरूरवाः। अथ सा दृष्टसमया ह्युर्वशी तु दिवं ययौ । तत उन्मत्तवद्राजा दिदक्षुस्तामितस्ततः । कुर्वन्नन्वेषणं तीरे सरसो मानसस्य ताम् । विहरन्तीमप्सरोभिः सहापश्यत्पुरूरवाः । पुनः स चकमे भोक्तुमुर्वशीं च पुरूरवाः । सास्त्रं सापश्यदुक्त्वा च प्रत्याचष्ट व्रजेति तम् । इत्युर्वश्यैलसंवादमिममेषोप्यसूचयत् ॥ " (Sayan’s Introduction to Rgveda).

 अत्र च वाजसनेयकम्-उर्वशी हाप्सराः पुरूरवसमैलं चकमे त५ हविन्दमानोवाच त्रिः स्म माह्नो वेतसेन दण्डेन हतादकामा स्म मा निपद्यासै मा स्म त्वा नग्नं दर्शमेष वै नः स्त्रीणां उपचार इति । साहास्मिन् ज्योगुवासापि हास्माद्गर्भिण्या स तावत् ज्योग्ग्धास्मिन्नुवास । ततो ह गन्धर्वाः समूदिरे ज्योग्वा इयमुर्वशी मनुष्येष्ववात्सीदुपजानीत यथेयं पुनरागच्छेदिति । तस्यै हाविद्वर्युरणाशयने उपबद्धास । ततो ह गन्धर्वा अन्यतरमुरणं प्रमेथुः । सा होवाचावीर इव बत मे जन इव पुत्रं हरन्तीति । द्वितीयं प्रमेथुः साथ तथैवोवाचाथहायमीक्षांचक्रे कथं नु तदवीरं कथमजन५ स्याद्यत्राह५ स्यामिति । स नग्न एवानूत्पपात चिरं तन्मेने यद्वासः पर्यधास्यत । ततो ह गन्धर्वाः विद्युतं जनयाञ्चक्रुस्तं यथा दिवैवं नग्नं ददर्श ततो हैवेयं तिरोबभूव । पुनरैनमीलेत्तिरोभूताए स आध्याजल्पन् कुरुक्षेत्र समया चचारान्यतः प्लक्षेति बिसवती तस्यैहाध्यन्तेन वव्राज तद्धता अप्सरस आतयो भूत्वा परिपुलविरे । त५ हेयं ज्ञात्वोवाचायं वै स मनुष्यो यस्मिन्नमवात्समिति । ता होचुस्तस्मै वा आविरसामेति । तथेति तस्यै हाविरासुस्ता हायं ज्ञात्वाभिपरोवाद हये जाये मनसा इति ॥ (Sukta 95 (सूक्त-९५).

 तथा च विविधेषु पुराणेषु उर्वशीपुरूरवसोराख्यानम् भिन्नं भिनं दीयते । महाभारते त्वादिपर्वे इदमेवोक्तं यत् पुरूरवाः ब्राह्मणैर्युध्द्वा गन्धर्वलोकादग्नित्रयमानीतवान् । तस्य च षट् पुत्रा आसन् ज्येष्ठस्तावदुर्वशीतनय आयुः। न किञ्चिदुकं तत्र पुरूरवस उर्वश्या सह विप्रयोगो जातो न वेति । श्रीमन्महाभारते पुरुवंशवर्णने" अदित्यां कश्यपाद्विवस्वान् , विवस्वतो मनुर्मनोरिला । इलायाः पुरूरवाः । पुरूरवस आयुः । आयुषो नहुषः। नहुषस्य ययातिरिति (आ. प. ६३) "पुरूरवास्तत्र विद्वानिलायां समपद्यत । सा वै तस्याभवन्माता पिता चैवेति नः श्रुतम् । त्रयोदशसमुद्रस्य द्वीपानश्नन् पुरूरवाः । अमानुषैर्वृतः सत्वैर्मानुषः सन्महायशाः ॥ विप्रैः सह विग्रहं चक्रे वीर्योन्मत्तः पुरूरवाः। जहार च स विप्राणां रत्नान्युत्क्रोशतामपि । सनत्कुमारस्तं राजन्ब्रह्मलोकादुपेत्य ह। अनुदर्श ततश्चक्रे प्रत्यगृह्णान्न चाप्यसौ । ततो महर्षिभिः क्रुद्धः सद्यः शप्तो व्यनश्यत । लोभान्वितो बलमदान्नष्टसंज्ञो नराधिपः । स हि गन्धर्वलोकस्थानुर्वश्या सहितो विराट् । आनिनाय क्रियार्थेऽग्नीन् यथावद्विदितां स्त्रिधा। षट् सुता जज्ञिरे चैलादायुर्धीमानमावसुः । दृढायुश्च वनायुश्च शतायुश्चोर्वशीसुता इति ॥ (आ. प. ६९).

 किन्तु विष्णुपुराणे कथेयं स्पष्टतया प्रतिपादिता-यथा मैत्रेय उवाच-सूर्यस्य वंश्या भगवन् कथिता भवता मम । सोमस्याप्यखिलान् वंश्यान् श्रोतुमिच्छामि पार्थिवान् । कीर्त्यते स्थिरकीर्तीनां येषामद्यापि सन्ततिः । प्रसादसुमुखस्तान्मे ब्रह्मनाख्यातुमर्हसि । पराशर उवाच-श्रूयतां मुनिशार्दूल वंशः प्रथिततेजसः । सोमस्यानुक्रमात्ख्या ता यत्रोर्वीपतयोऽभवन् । अयं हि वंशोऽतिबलपराक्रमद्युतिशीलचेष्टावद्भिरतिगुणान्वितैर्नहुषययातिकार्तवीर्यार्जुनादिभिर्भूपालैरलङ्कृतः तमहं कथयामि श्रूयताम् । अखिलजगत्स्रष्टुर्भगवतो नारायणस्य नाभिसरोजसमुद्भवाब्जयोनेर्ब्रह्मणः पुत्रोऽत्रिः । अत्रेः सोमः। तं च भगवानब्जयोनिः अशेषौषधिद्विजनक्षत्राणामाधिपत्येऽभ्यषेचयत् । स च राजसूयमकरोत् । तत्प्रभावादत्युत्कृष्टाधिपत्याधिष्ठातृत्वाच्चैनं मद आविवेश । मदावलेपाच्च सकलदेवगुरोः बृहस्पतेस्तारां नाम पत्नीं जहार । बहुशश्च बृहस्पतिचोदितेन भगवता ब्रह्मणा चोद्यमानस्सकलैश्च देवर्षिभिर्याच्यमानोऽपि न मुमोच । तस्य चन्द्रस्य च बृहस्पतेर्द्वेषादुशनाः पार्ष्णिग्राहोऽभूत् । अंगिरसश्च सकाशादुपलब्धविद्यो भगवान्रुद्रो बृहस्पतेः साहाय्यमकरोत् । यतश्चोशनः ततो जंभकुम्भाद्याः समस्ता एव दैत्यदानवनिकाया महान्तमुद्यमं चक्रुः । बृहस्पतेरपि सकलदेवसैन्ययुतः सहायः शक्रोऽभवत् । एवं च तयोरतीवोग्रसंग्रामस्तारानिमित्तस्तारकामयो नामाभूत् । ततश्च समस्तशस्त्राण्यसुरेषु रुद्रपुरोगमा देवाः, देवेषु चाशेषदानवा मुमुचुः। एवं देवासुराहवसंक्षोभक्षुब्धहृदयम् अशेषमेव जगद्ब्रह्माणं शरणं जगाम । ततश्च भगवानब्जयोनिरप्युशनसं शंकरमसुरान्देवांश्च निवार्य बृहस्पतये तारामदापयत् । तां चांतःप्रसवामवलोक्य बृहस्पतिरप्याह । नैष मम क्षेत्रे भवत्याऽन्यस्य सुतो धार्यस्समुत्सृजैनमलमलमतिधार्ष्ट्येनेति । सा च तेनैवमुक्तातिपतिव्रता भर्तृवचनानन्तरं तमिषीकास्तम्बे गर्भमुत्ससर्ज । स चोत्सृष्टमात्र एवातितेजसा देवानां तेजांस्याचिक्षेप। बृहस्पतिमिंदुं च तस्य कुमारस्यातिचारुतया साभिलाषी दृष्ट्वा देवास्समुत्पन्नसन्देहास्तारां पप्रच्छुः । सत्यं कथयास्माकमतिसुभगे सोमस्याथवा बृहस्पतेरयं पुत्र इति । एवं तैरुक्ता सा तारा ह्रिया किंचिन्नोवाच बहुशोप्यभिहिता यदासौ देवेभ्यो नाचचक्षे ततस्स कुमारस्तां शप्तुमुद्यतः प्राह । दुष्टेम्ब कस्मान्मम तातं नाख्यासि । अद्यैव ते व्यलीकलज्जावत्यास्तथा शास्तिमहं करोमि यथा च नैवमद्याप्यतिमन्थरवचना भविष्यसीति । अथाह भगवान् पितामहः तं कुमारं सन्निवार्य स्वयमपृच्छत्तां ताराम् । कथय वत्से कस्यायमात्मजः सोमस्य वा बृहस्पतेर्वा इत्युक्ता लज्जमानाह सोमस्येति। ततः प्रस्फुरदुच्छ्वसितामलकपोलकान्तिः भगवानुडुपतिः कुमारमालिंग्य साधु साधु वत्स प्राज्ञोऽसीति बुध इति तस्य च नाम चक्रे । तदाख्यातमेवैतत् स च यथेलायामात्मजं पुरूरवसं उत्पादयामास । पुरूरवास्त्वतिदानशीलोऽतियज्वातितेजस्वी यं सत्यवादिनमतिरूपस्विनं मनस्विनं मित्रावरुणशापान्मानुषे लोके मयावस्तव्यमिति कृतमतिरुवर्शी ददर्श । दृष्टमात्रे च तस्मिन्नपहाय मानमशेषं अपास्य स्वर्गसुखाभिलाषं तन्मनस्का भूत्वा तमेवोपतस्थे। सोऽपि च तामतिशयितसकललोकस्त्रीकान्तिसौकुमार्यलावण्यगतिविलाससाहसादिगुणामवलोक्य तदायत्तचित्तवृत्तिर्बभूव । उभयमपि तन्मनस्कमनन्यदृष्टि परित्यक्तसमस्तान्यप्रयोजनमभूत् । राजा तु प्रागल्भ्यातामाह । सुभ्रु त्वामहमभिकामोऽस्मि प्रसीदाऽनुरागमुद्वहेत्युक्ता लज्जावखण्डितमुर्वशी तं प्राह । भवत्वेवं यदि मे समयपरिपालनं भवान् करोतोत्याख्याते पुनरपि तामाह । आख्याहि मे समयमिति । अथ पृष्टा पुनरप्यब्रवीत् । शयनसमीपे ममोरणकद्वयं पुत्रभूतं नापनेयम् । भवांश्च मया न नग्नो दृष्टव्यः। घृतमात्रं च ममाहार इति । एवमेवेति भूपतिरप्याह । तया सह स चावनिपतिरलकायां चैत्ररथादिवनेष्वमलपद्मखण्डेषु मानसादिसरस्वतिरमणीयेषु रममाण एकषष्टिवर्षाण्यनुदिनप्रवर्धमानप्रमोदोऽनयत् । उर्वशी च तदुपभोगात्प्रतिदिनप्रवर्धमानानुरागा अमरलोकवासेऽपि न स्पृहां चकार । विना चोर्वश्या सुरलोकोऽप्सरसां सिद्धगन्धर्वाणां च नातिरमणीयोऽभवत् । ततश्चोर्वशीपुरूरवसोस्समयविद्विश्वावसुर्गन्धर्वसमवेतो निशि शयनाभ्याशादेकमुरणकं जहार । तस्याकाशे नीयमानस्य उर्वशी शब्दमशृणोत् । एवमुवाच च ममानाथायाः पुत्रः केनापह्रियते कं शरणमुपयामीति । तदाकर्ण्य राजा मां नग्नं देवी वीक्ष्यतीति न ययौ। अथान्यमप्युरणकमादाय गन्धर्वा ययुः। तस्यापह्रियमाणस्याकर्ण्य शब्दमाकाशे पुनरप्यनाथास्म्यहमभर्तृका कापुरुषाश्रयेत्यार्तराविणी बभूव । राजाप्यमर्षवशादंधकारमेतदिति खड्गमादाय दुष्ट दुष्ट हतोऽसीति व्याहरन्नभ्यधावत् । तावच्च गन्धर्वैरप्यतीवोज्वला विद्युज्जनिता । तत्प्रभया चोर्वशी राजानमपगताम्बरं दृष्ट्वा प्रवृत्तसमया तत्क्षणादेवापक्रान्ता । परित्यज्य तावप्युरणकौ गन्धर्वाः सुरलोकमुपगताः। राजा चापि तौ मेषावादायातिहृष्टमनाः स्वशयनमायातो नोर्वशीं ददर्श । तां चापश्यन् व्यपगतांबर एवोन्मत्तरूपो बभ्राम । कुरुक्षेत्रे चाम्भोजसरस्यन्याभिश्चतसृभिरप्सरोभिस्समवेतामुर्वशीं ददर्श । ततश्चोन्मत्तरूपो जाये ! हे तिष्ठ मनसि घोरे तिष्ठ, वचसि कपटिके तिष्ठेत्येवमनेकप्रकारं सूक्तमवोचत् । आह चोर्वशी । महाराजालमनेनाविवेकचेष्टितेन । अन्तर्वन्यहमब्दान्ते भवतात्रागन्तव्यं कुमारस्ते भविष्यति एकां च निशामहं त्वया सह वत्स्यामीत्युक्तः प्रहृष्टः स्वपुरं जगाम । तासां चाप्सरसामुर्वशी कथयामास । अयं स पुरुषोत्कृष्टो येनाहमेतावन्तं कालमनुरागाकृष्टमानसा सहोषितेति । एवमुक्तास्ताश्चाप्सरस ऊचुः । साधु साध्वस्य रूपमप्यनेन सहास्माकं अपि सर्वकालमास्या भवेदिति । अब्दे च पूर्णे स राजा तत्राजगाम । कुमारं चायुषमस्मै उर्वशी ददौ । दत्त्वा चैकां निशां तेन राज्ञा सहोषित्वा पञ्च पुत्रोत्पत्तये गर्भमवाप । उवाच चैनं राजानमस्मत्प्रीत्या महाराजाय सर्व एव गन्धर्वा वरदास्संवृत्ताः व्रियतां च वर इति । आह च राजा। विजितसकलारातिरविहतेन्द्रियसामर्थ्यो बन्धुमानमितबलकोशोऽस्मि नान्यदस्माकमुर्वशीसालोक्यात्प्राप्तव्यमस्ति तदहमनया सहोर्वश्या कालं नेतुमभिलषामीत्युक्ते गन्धर्वाः राज्ञेऽग्निस्थालीं ददुः । ऊचुश्चैनं अग्निमाम्नायानुसारी भूत्वा त्रिधा कृत्वोर्वशीवसलोकतामनोरथमुद्दिश्य सम्यग्यजेथाः ततोऽवश्यममिलषितमवाप्स्यसीत्युक्ततामग्निस्थालीं आदाय जगाम । अन्तरटव्यामचिन्तयत् अहो मेऽतीव मूढता किमहमकरवम् वह्निस्थाली मयैषानीता नोर्वशीति । अथैनामटव्यामेवाग्निस्थालीं तत्याज स्वपुरं च जगाम । व्यतीतेऽर्धरात्रे विनिद्रश्चाचिन्तयत् । ममोर्वशी सालोक्यप्राप्त्यर्थमग्निस्थाली गन्धर्वैर्दत्ता सा च मयाटव्यां परित्यक्ता। तदहं तत्र तदाहरणाय यास्यामीत्युत्थाय तत्राप्युपगतो नाग्निस्थालीमपश्यत् । शमीगर्भं चाश्वत्थमग्निस्थालीस्थाने दृष्ट्वाऽचिन्तयत् । मयात्राग्निस्थाली निक्षिप्ता सा चाश्वत्थश्शमीगर्भोऽभूत् । तदेनमेवाहमग्निरूपमादाय स्वपुरमभिगम्यारणिं कृत्वा तदुत्पन्नाग्नेरुपास्तिं करिष्यामीति। एवमेव स्वपुरमभिगम्यारणिं चकार । तत्प्रमाणं चांगुलैः कुर्वन् गायत्रीमपठत् पठतश्चाक्षरसंख्यान्येवांगुलान्यरण्यभवत् । तत्राग्निं निर्मथ्याग्नित्रयमाम्नायानुसारी भूत्वा जुहाव । उर्वशीसालोक्यं फलमभिसन्धितवान् । तेनैव चाग्निविधिना बहुविधान् यज्ञानिष्ट्वा गान्धर्वलोकानवाप्योर्वश्या सहावियोगमवाप । एकोऽग्निरादावभवत् एकेन त्वत्र मन्वन्तरे त्रेधा प्रवर्तिताः ॥ ९४ ॥ (विष्णुपुराणे चतुर्थांशेषष्ठोऽध्यायः)॥

 एवमेव च पद्मपुराणे "इलोदरे च धर्मिष्ठं बुधः पुत्रमजीजनत् । धर्मेण पालिता तेन सर्वलोकमयी मही। अश्वमेधशतं साग्रमकरोद्यः स्वतेजसा । पुरूरवा इति ख्यातः सर्वलोकनमस्कृतः। हिमवच्छिखरे रम्ये समाराध्य पितामहम् । लोकैश्वर्यमगाद्राजन् सप्तद्वीपपतिस्तदा । केशिप्रभृतयो दैत्यास्तद्भुत्यत्वं समागताः । उर्वशी यस्य पत्नीत्वमगमद्रूपमोहिता। सप्तद्वीपा वसुमती सशैलवनकानना । धर्मेण पालिता तेन सर्वलोकहितैषिणा। चामरग्रहणा कीर्तिः स्वयं चैवाङ्गवाहिका । ब्रह्मप्रसादाद्देवेन्द्रो ददावर्घासनं तदा । धर्मार्थकामान् धर्मेण समवेतोऽभ्यपालयत् । धर्मार्थकामास्तं द्रष्टुमाजग्मुः कौतुकान्विताः । जिज्ञासवस्तच्चरितं कथं पश्यति नः समम् । भक्त्या चके ततस्तेषामर्थ्यपाद्यादिकं तथा । आसनत्रयमानीय दिव्यं कनकभूषणम् । निवेश्याथाकरोत्पूजामीषद्धर्मेऽधिकां पुनः। जग्मतुस्तौ च कामार्थावतिकोपं नृपं प्रति । अर्थः शापमदात्तस्मै लोभात्त्वं नाशमेष्यसि । कामोऽप्याह तवोन्मादो भविता गन्धमादने। कुमारवनमागत्य नियोगाच्चोर्वशीभवात् । धर्मोप्याह चिरायुस्त्वं धार्मिकश्च भविष्यसि । सन्ततिस्तव राजेन्द्र यावदाचन्द्रतारकम् । शतशो वृद्धिमायाति न नाशं भुवि यास्यति । षष्टि वर्षाणि चोन्मादः उर्वशीकामसंभवः । अचिरादेव भार्यापि वशमेष्यति चाप्सराः । मन्वन्तरसमग्रं तु एवमेव न संशयः । इत्युक्त्वान्तर्दधुः सर्वे राजा राज्यं तदन्वभूत् । अहन्यहनि देवेन्द्रं दृष्टुं याति पुरूरवाः । कदाचिदारुह्य रथं दक्षिणाम्बरचारिणा । सार्धं शक्रेण सोऽपश्यन् नीयमानामथाम्बरे। केशिना दानवेंन्द्रेण चित्रलेखामथोर्वशीम् । तं विनिर्जित्य समरे विविधायुधपातनैः।बुधपुत्रेण वायव्यमस्त्रं मुक्त्वा यशोऽर्थिना । पुरा शक्रोऽपि समरे येन वज्री विनिर्जितः। मित्रत्वमगमत्तेन प्रादादिन्द्राय चोर्वशीम् । ततः प्रभृतिमित्रत्वमगमत्पाकशासनः । सर्वलोकातिशयितं पुरूरवसमेव तम् । प्राह वज्री तु सन्तुष्टो नीयतामियमेव च। सा पुरूरवसः प्रीत्यै चागाच्चरितं महत् । लक्ष्मीस्वयंवरं नाम भरतेन प्रवर्तितम् । मेनकां चोर्वशीं रम्भां नृत्यध्वमिति चाऽऽदिशत् । ननर्त सलयं तत्र लक्ष्मीरूपेण चोर्वशी। सा पुरूरवसं दृष्ट्वा नृत्यन्ती कामपीडिता । विस्मृताऽभिनयं सर्वं यत्पुरातनचोदितम् । शशाप भरतः कोपाद् वियोगात्तस्य भूतले । पञ्चपञ्चाशदब्दानि लताभूता भविष्यति । पुरूरवाः पिशाचत्वंतत्रैवाऽऽप्तो भविष्यति । ततस्तमुर्वशी गत्वा भर्तारमकरोच्चिरम् । शापानुभवनान्ते तु उर्वशी बुधसूनुना। अजीजनत्सुतानष्टौ नामतस्तान्निबोधत। आयुर्दृढायुर्वश्यायुर्धनायुर्वृतिमान्वसुः । दिविजातः सुबाहुश्च सर्वे दिव्यबलौजसः ॥ इत्यादि" (पद्मपुराणे प्रथमे सृष्टिखण्डे यदुवंशकीर्तने द्वादशाध्याये ५१-८७)॥

 हरिताश्वस्य दिक्पूर्वा विश्रुता कुरुभिः सह । प्रतिष्ठानेऽभिषिच्याथ स पुरूरवसं सुतम् । (मत्स्य. १२-१८) अनेन राज्ञः प्रतिष्ठानाधीशत्वं कल्प्यते । तथा च मत्स्यपुराणे यत्पाद्मे प्रोक्तं तदैवाक्षरशः प्राप्यते । (मत्स्य. २४-९-३३) तथा च मात्स्ये पुरूरवसः पूर्वजन्मवृत्तान्तमपि लभ्यते । यथा स पूर्वं मद्रदेशाधिपतिरासीत् राज्यभरं च सचिवेषु समारोप्य तपसे हिमाद्रिं जगाम तत्रैरावतीं नाम नदीं ददर्श। तत्र च तस्य अप्सरसां गणैः सम्मेलनं जातम् । तत्र गन्धर्वाप्सरोभिः राज्ञः संवादः, तत्र च स्वप्नदर्शनम् इत्यादि सर्वं पुरूरवसः आख्यानम् एकादश-द्वादश-चतुर्विशेषु अध्यायेषु तथा च पञ्चदशाधिकशतादध्यायात् विंशत्यधिकशततमाध्यायपर्यन्तं दत्तम्।

 कथासरित्सागरे च सप्तदशे तरङ्गे-आसीत्पुरूरवा नाम राजा परमवैष्णवः । अभूद्भुवीव नाकेऽपि यस्याऽप्रतिहता गतिः। भ्रमन्तं नन्दने जातु तं ददर्श किलाप्सराः। उर्वशी नाम कामस्य मोहनास्त्रमिवापरम् । दृष्टमात्रेण तेनाभूत्सा तथा हृतचेतना। यथा सभयरंभादिसखीचेतांस्यकम्पयत् । सोऽपि तां वीक्ष्य लावण्यरसनिर्झरिणीं नृपः। यन्न प्राप परिष्वङ्गतृषाक्रान्तो मुमूर्च्छ तत् । अथादिदेश सर्वज्ञो हरिः क्षीराम्बुधिस्थितः। नारदाख्यं मुनिवरं दर्शनार्थमुपागतम् । देवर्षे नन्दनोद्यानवर्ती राजा पुरूरवाः । उर्वशीहृतचित्तः सन् स्थितो विरहनिःसहः । तद्गत्वा मम वाक्येन बोधयित्वा शतक्रतुम् । दापय त्वरितं तस्मै राज्ञे तामुर्वशीं मुने। इत्यादिष्टः स हरिणा तथेत्यागत्य नारदः । प्रबोध्य तं तथाभूतं पुरूरवसमब्रवीत् । उत्तिष्ठ त्वत्कृते राजन् प्रहितोऽस्मीह विष्णुना। स हि निर्व्याजभक्तानां नैवापदमपेक्षते। इत्युक्त्वाश्वासितेनाथ स पुरूरवसा सह । जगाम देवराजस्य निकटं नारदो मुनिः। हरेर्निदेशमिन्द्राय निवेद्य प्रणतात्मने। उर्वशी दापयामास स पुरूरवसे ततः। तदभूदुर्वशीदानं निर्जीवकरणं दिवः । उर्वश्यास्तु तदेवासीन्मृतसंजीवनौषधम् । अथाजगाम भूलोकं तामादाय पुरूरवाः । स्वर्वधूदर्शनाश्चर्यमर्पयन्मर्त्यचक्षुषाम् । ततोऽनपायिनी द्वौ तावुर्वशी च नृपश्च सः । अन्योन्यदृष्टिपाशेन निबद्धाविव तस्थतुः। एकदा दानवैः साकं प्राप्तयुद्धेन वज्रिणा । सहायकार्थमाहूतो ययौ नाकं पुरूरवाः । तत्र तस्मिन्हते मायाधरनाम्न्यसुराधिपे। प्रवृत्तस्वर्वधूसार्थः शक्रस्याभवदुत्सवः । ततश्च रम्भा नृत्यन्ती आचार्ये तुम्बुरौ स्थिते। चलिताभिनयां दृष्ट्वा जहास स पुरूरवाः । जाने दिव्यमिदं नृत्तं किन्त्वं जानासि मानुष। इति रम्भापि तत्कालं सासूयं तमभाषत। जानेऽहमुर्वशीसङ्गात्तद्यद्वेत्ति न तुम्बुरुः। युष्मद्गुरुरपीत्येनामुवाचाथ पुरूरवाः । तच्छ्रुत्वा तुम्बुरुः कोपात्तस्मै शापमथादिशत् । उर्वश्या ते वियोगः स्यादाकृष्णाराधनादिति । श्रुतशापश्च गत्वैव तमुर्वश्यै पुरूरवाः । अकालाशनिपातोग्रं स्ववृत्तान्तं न्यवेदयत्। ततोऽकस्मान्निपत्यैव निन्ये क्वाप्यपहृत्य सा। अदृष्टैस्तेन भूपेन गन्धर्वैरुर्वशी किल । अवेत्य शापदोषं तं सोऽथ गत्वा पुरूरवाः। हरेराराधनं चक्रे ततो बदरिकाश्रमे । उर्वशी तु वियोगार्ता गन्धर्वविषयस्थिता । आसीन्मृतेव सुप्तेव लिखितेव विचेतना। आश्चर्यं यन्न सा प्राणैः शापान्ताशावलम्बिनी मुक्ता विरहदीर्घासु चक्रवाकीव रात्रिषु । पुरूरवाश्च तपसा तेनाच्युतमतोषयत् । तत्प्रसादेन गन्धर्वा मुमुचुस्तस्य चोर्वशीम् । शापान्तलब्धया युक्तः पुनरप्सरसा तया । दिव्यान्स राजा बुभुजे भोगान् भूतलवर्त्यपि ॥ (कथा. १५-४-३०)

 सर विलियम विल्सनमहोदयानां मते तु सर्वमिदं नाटकीयं वस्तु अन्योक्तिपरमेवास्तीति कल्पितम् तद्यथा-नायकस्त्वत्र सूर्यः नायिका च उषा विद्यते । कतिकालं उभौ संयुक्तौ भवतः पश्चाच्च वियुज्यते। केवलं रविरेव नदीकूपतडागवृक्षपर्वतेषु एकाकी परिभ्रमति पश्चाच्च दिनावसाने उषसा संयुक्तो भवतीति ॥

 एवञ्च ऋग्वेदपद्मविष्णुमत्स्यपुराणबृहत्कथादिविविधानां ग्रन्थानामालोचनेन स्फुटतयेदमवभासते यत् अस्य त्रोटकस्य कथाप्रबन्धः पुरातनः सन् विद्वत्सु प्रसिद्ध एवास्ते । तथा चैतेषां ग्रन्थानां परिशीलनेन सिद्धमेवेदं यत् पुरूरवाः नाम कश्चन चन्द्रवंशीयो राजा बभूव । तस्य प्रतिष्ठानाख्या नगरी राजधानी । स परमधार्मिकः अच्युतचरणसेवापरायणश्च अभूत् । तस्य इन्द्रेण सह महत्सख्यम् । तत्रेन्द्रसभायां प्रत्यहं गच्छता राज्ञोर्वशी दृष्टा । तत्र पारस्परिकावलोकनेनोभावपि कामस्य वश्यतां प्राप्तौ । ततो महेन्द्रप्रसादात् उर्वशी राज्ञा लब्धा । पश्चात्केनापि कारणेन, कस्यापि शापेन, उत नग्नदर्शनेन तयोर्वियोगः सञ्जातः । पश्चात् उभयोः विरहवेदनाखिन्नत्वात् देवतानां प्रसादात् संयोगः सञ्जातः । तेनाजन्मसुखेनोभाभ्यामेव पृथिव्यां कालो यापितः। उर्वशीगर्भसम्भूता राज्ञः अष्टौ पुत्रा आसन् । तेषु ज्येष्ठः आयुर्नाम । पुरूरवसोऽनन्तरं स एव राज्येऽभिषिक्त इति एतावान् कथांशः सर्वत्र सामान्यः । यद्यप्येतावत् कथावस्तु समानतया सर्वत्र लभ्यते तथापि कवीन्द्रेण कालिदासेन अस्यैव वस्तुनः नाटकोपयोगित्वं, सहृदयहृदयाह्लादकत्वं, कविताचातुरीनिधित्वम् सर्वाङ्गसुन्दरत्वं यथा सम्पद्येत तथा किञ्चित् परिवर्तनं स्थाने स्थाने कृतम् । तत्र प्राधान्येन वक्ष्यमाणाः कतिचित् विपर्ययांशा अधस्ताद्दीयन्ते ।

 (१) आदौ राज्ञः सूर्योपस्थानन्निवृत्तस्यैव आक्रन्दनाकर्णनेन समाकृष्टस्य, केशिना हृतया तेन च समुद्धृतया उर्वश्या संयोगः सञ्जातः। पुराणेषु तावत् क्वचिदिन्द्रसभायां, क्वचिन्नन्दनवने तयोस्संयोगो जात इत्युपनिबद्धम् ॥  (२) राज्ञः औशीनर्या सह उर्वशीप्रेम्णः अर्वागेव उद्वाहः । पुराणादिषु औशीनरी राज्ञः पट्टाभिषिक्ता महिषीति कुत्रापि न दृश्यते। हरिवंशे तु राज्ञः उर्वशी एव अनन्या प्रणयिनी बभूवेति प्रोक्तम् । यद्यपि महाभारते आदिपर्वे (१०६।२२) "उशीनरस्य राजर्षेः सत्यसन्धस्य धीमतः। दुहिता प्रथिता लोके मानुषे रूपसंपदा" इति प्रोक्तम् तथापि तस्याः पुरूरवसा विवाहसम्बन्धोऽभूदिति न कुत्रचिल्लभ्यते । अस्मिन् रूपके राज्ञे औशीनर्या कृतया अभ्यसूयया द्वितीयतृतीयाङ्कयोः नाट्यवस्तु परमुपस्कृतम् । इदन्तु कवेः प्रतिभोत्थितमेव प्रतिभाति ।

 (३) उर्वश्यै शापोऽत्र भरतेन दत्तः तथा च पुराणेषु क्वचन भरतेन क्वचन तुम्बुरुणा, क्वचन मित्रावरुणाभ्यामिति कथितम् ।

 (४) पुराणेषु उर्वश्या वियुक्ते राजनि क्वचन हरिणा, कचिद्गन्धर्वैरनुग्रहः कृत इति दृश्यते किन्त्वत्र महेन्द्रेणेति लभ्यते ।

 (५) क्वचित् उर्वशीपुरूरवसोः सालोक्यावधि आवस्त्रहीनदर्शनं उद्दिष्टा, अन्यत्र च केवलं गन्धर्वैर्हरणमेव, किन्त्वत्र आकुमारमुखदर्शनमुक्ता ।

 (६) राज्ञश्च पुराणेषु पिशाचत्वं उर्वश्याः लतात्वं यद्यपि प्रतिपादितम् तथापि तयोः पुनर्मेलनं सङ्गममणियोगेन जातमिति न क्वापि लभ्यते ।

 (७) तथा च कुमारस्य सत्यवतीहस्ते निक्षेपः, सङ्गममणिं हरतः गृध्रस्य तेन तस्माच्च च्यवनस्य सत्यवत्यै निक्षेपनिर्यातनायादेशः, सर्वमिदं कविप्रौढोक्तिसिद्धं नवीनमेवास्ति।

 (८) तथा च पुराणेषु राज्ञा उर्वश्याः मर्त्यलोके आनयनम् प्रतिपादितम् , न तु तस्याभिसारिकात्वम् ।

 (९) अपि च पुराणेषु राजानं चरमावस्थायाम् प्रियतमाविश्लेषव्यथादूनमेवात्रावधीकृत्य कथा समाप्तिमाप्ता किन्तु भारतीयसहृदया एतादृशं शोकपरिणामिनं दृश्यकाव्यं प्रेक्षितुमभ्यस्ता न सन्ति, इत्येवमुद्दिश्य कविना इयमापत्तिः समुद्धृता । कुमारस्यायुषो मुखदर्शनान्तरं भाविनं विप्रयोगं परिज्ञाय कुमारं राज्येऽभिषिच्या वनगमनाय कृतधियं राजानं महेन्द्रसन्देशं श्रावयितुं नारदस्य प्रवेशः कविनाकारि। तत्र च काव्यमिदं सुखपर्यवसायिनं कर्तुमीहमानेन कर्त्रा जन्मपर्यन्तमियमुर्वशी त्वत्सहधर्मचारिणी भवत्विति राजानं सुखमयमादेशं निशामयितुं, कुमारस्य यौवराज्येऽभिषेकाय, नायकयोरीप्सितसम्पादनाय, भरतवाक्यस्यान्तिमस्य कथनाय च नारदप्रवेशं विधाय सुजनमानसप्रमोदजनकं सर्वं सुस्थं सम्पादितम् तत्रभवता कविप्रौढेन स्वीयनाटकीयकलाकौशलप्रावीण्येनेति ।



३६

३७

३८




३९





४०

४३



॥ श्रीः॥

तत्रभवान् कविः।

 सर्वो हि लोको जगत्यस्मिन् परममात्मनः पुरुषार्थ सुखमेव मन्वानस्तदधिगमाय बहुशो यतमानस्तद्विरोधिनो दुःखस्य प्रहाणोपायं विस्मरणहेतुं वा कञ्चिल्लब्धुं ध्रुवं कामयतेतराम् । स च दुर्लभ एव प्रायः, तस्मिंश्चाधिगतेऽपि शास्त्रेभ्यो नूनं स दुर्घट एवातः सुकुमारशेमुषीणां निवृत्तिपरावृत्तानां निर्वृतिवृत्तीनां जनानां कृतेऽमन्दानन्दसन्दोहशालिनोऽपहसितमृद्वीकामधुमधुरिमकाव्याकूपारावगाहनादृते । नान्यद्रुचिरतरं साधनं भुवि विद्यत इति विश्वजनीना प्रतीतिः यदेवावितथमभाणि भट्टमम्मटैः-

   "नियतिकृतनियमरहितां ह्लादैकमयीमनन्यपरतन्त्रां ।
   नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति ॥"

 यदुक्तं च राजानकेन

    "धर्मादिसाधनोपायः सुकुमारक्रमोदितः ।
    काव्यबन्धोऽभिजातानां हृदयाह्लादकारकः ।
    चतुर्वर्गफलास्वादमप्यतिक्रम्य तद्विदाम् ।
    काव्यामृतरसेनान्तश्चमत्कारो विधीयते ॥"

 यतो हि नैकविद्याभ्यसनदारुणानायसन्दर्भस्तावदत्यन्तमनोहारिपरिपाटीपटीयसोऽनणीयः कमनीयचमत्कृतेः काव्याम्बुधेः स्पर्धा क्वचित्कथञ्चिदप्यधिरोहतीति मनाक्कल्पनापि भ्रान्तिकल्पैव नूनं; यतो युक्तमेवाभियुक्तैः प्रयुक्तं वचः-

   "कटुकौषधवच्छास्त्रमविद्याव्याधिनाशनम् ।
   आह्लाद्यमृतवत्काव्यमविवेकगदापहम् ॥” इति ।

 अतः सर्वतो नैकविधदुःखदवदहनदग्धानां विदग्धानां हितं दिव्यं खलु भुवि भव्यं नवरसं काव्यरसायनं यत्समस्ततन्त्रपरमप्यपरतन्त्रतया वरीवर्तते प्रवरकविकालिदासभासभवभूतिप्रभृतिभिः प्रतिभाभास्वद्भिः कल्पनाकुञ्जपुंस्कोकिलैः सलीलैः समुद्भावितम् । एतच्च काव्यरसायनं संसेवितं चेत् समस्तक्लेशव्यूहव्यपोहनपुरस्सरं महान्तमानन्दं जनयतीति न मनागपि संशयलवः, यतः सर्वासां काव्यव्यापृतीनां प्रवृत्तिनिमित्तं खलु लोकोत्तरानन्द एव । यत्तूक्तमाचार्यहेमचन्द्रेण काव्यबीजमुद्भावयता "सद्यो रसास्वादजन्मा निरस्तवेद्यान्तरब्रह्मास्वादसदृशी प्रीतिरानन्दः" इति । अयमेव रसास्वादजनितानन्दः कवीनां प्रथमः प्रवर्तकस्तदनु च काव्याध्ययनेनौपचारिकमानुषङ्गिकं वा फलमुपदेशः स च पुनः कान्तासम्मित एव, नूनं भामहमतेऽपि काव्यस्य भूयसार्थोपदेशकृत्त्वाच्च । एवमेव कैश्चन पाश्चात्यैरप्यपश्चिमैर्विपश्चिद्भिर्मन्यते यत् काव्यस्य प्रवृत्तिहेतुरानन्दमात्रमेव, फलं चानन्दसहकृतोपदेशोपलब्धि-

 वि.प्र.५ रेव । अस्य च काव्यरसायनस्य प्रादुर्भावे कविगतप्रतिभाया एव शक्तिः सा च नवनवोन्मेषशालिसामर्थ्यं, यदुक्तमभिनवगुप्तपादैः 'अपूर्ववस्तुनिर्माणक्षमा प्रज्ञा तस्या विशेषरसवैशद्यसौन्दर्यनिर्माणक्षमत्वं प्रतिभावत्त्वम्' । अमुमेवार्थं पुरस्कृत्येमरसनपण्डितेन दृष्टान्तितं यत्काव्ये किमपि कविभिरद्भुतं वस्तु समुपस्थाप्यते यच्च चमत्कारि विकारि च इष्टपदार्थानां सदपि नवं भास्वत् स्वत एवाभिमुखीकरोति विदुषो यथा खलु द्विरेफः कुसुमसञ्चये भ्रमन् किञ्जल्कान् स्पृशन् परागबिन्दूनङ्गीकुर्वन्नपि परागकिञ्जल्कव्यतिरिक्तं किञ्चिन्नवीनं मधु द्रवति एवमेव महाकविजगति नैकानि निसर्गरुचिराणि वस्तुजातान्यवलोकयन्नवधारयंश्च समस्ता वाचः समुद्भावयति निजप्रतिभोल्लसितमपरमेव रमणीयं मधुमधुरं कामधुरं नवरसमयं काव्यरसायनम् ।*

 यतो यत्किमपि कठोरमरुचिरं दृशदिव दरीदृश्यतेऽखिलं तत्कविचन्द्रप्रतिभामरीचिभिः स्पृष्टं शशकान्त इव द्रवतीति विद्वदनुभवः सार्वजनीन एव । यदुक्तमभिजातैर्यदवचिनोति कविराट्र पाटलान्येव श्वदंष्ट्राभ्योऽपि । यथा वानुभूतं सहृदयैर्यत् "पाषाणादपि पीयूषं स्यन्दते यस्य लीलयेति" तादृशं सामर्थ्यं कवयितुः काव्यव्यापारस्य, यच्च स्मर्यते "रमणीयार्थप्रतिपादकः शब्दः काव्यं”; श्रूयते च “रसो वै सः रस रसह्येवायं लब्ध्वाऽऽनन्दी भवतीति"।

 एतादृशोऽयं महामहिमशाली कविरमितप्रभया निजप्रतिभया जगदिदं नवमिव विकासयंश्चकास्त अपर इव विरिञ्चिर्यथा “अपारे काव्यसंसारे कविरेकः प्रजापतिः । यथास्मै रोचते विश्वं तत्तथैव प्रवर्तत" इति न्यायात् । एतादृशां कवीनां कुले तिलकायमानो महाकविः कवीन्द्रसार्वभौमः साहसिकानामुपहास इव कविताकामिन्या हास इव कालिदासः कविषु मूर्धन्य इव राजत इति विदितचरमेव सुरभारतीजुषां समेषामेव विदुषां भारतीतले, लभ्यन्तेऽत्र च महाकवये प्रेक्षावद्भिर्नैकाः स्तुतिकुसुमाञ्जलयः समर्पिता यास्त्वधस्ताद्दिङ्मात्रोदाहरणायोध्द्भियन्ते यथा-

 'यस्योच्छिष्टं जगत्सर्व'मितिलब्धबिरुदेनापि भट्टबाणेन-

   "निर्गतासु न वा कस्य कालिदासस्य सूक्तिषु ।
   प्रीतिर्मधुरसान्द्रासु मञ्जरीष्विव जायते ॥” इति

 मुक्तकण्ठमभाणि । गीतगोविन्दसदृशनिबन्धस्य रचयित्रा जयदेवेनापि ख्यापितगौरवो विद्वद्वरो गोवर्धनसुधीरपि प्रशंसन्नतनु महाकविमाह-

   "साकूतमधुरकोमलविलासिनीकण्ठकूजितप्राये ।
   शिक्षासमयेऽपि मुदे रतिलीलाकालिदासोक्ति"रिति ॥


 * In Poetry we say require the miracle : the bee flies among the flowers, and gets mint and marjoram and generates & new product which is not mint nor marjoram but honey... and the poet listens to conversation and beholds all objects in Nature, to give back not them, but a new transcendent whole.

R. W. EMERSON.

 अपरश्चाह यत्-

   "भासो रामिलसौमिलौ वररुचिः श्रीसाहसाङ्कः कवि-
   र्मेण्ठो भारविकालिदासतरलाः स्कन्धः सुबन्धुश्च यः।
   दण्डी बाणदिवाकरौ गणपतिः कान्तश्च रत्नाकरः
   सिद्धा यस्य सरस्वती भगवती के तस्य सर्वेऽपि ते"।

 स्वयमपि जयदेवो महाकवीनां नामोत्कीर्तनप्रसङ्गे कविताकामिन्याः सौन्दर्यसर्वस्वभूतं विलासं कालिदासमेव मेने यथा-

   “यस्याश्चोरश्चिकुरनिकरः कर्णपूरो मयूरो
   भासो हासः कविकुलगुरुः कालिदासो विलासः ।
   हर्षों हर्षो हृदयवसतिः पञ्चबाणस्तु बाणः
   केषां नैषा कथय कविताकामिनी कौतुकाय ॥"

 एवं सम्मानितममुं कविकुलगुरुमेवालम्ब्यानामिकायाः प्रवृत्तिनिमित्तस्योत्प्रेक्षणभङ्ग्याह कश्चिद्रसिकः-

  "पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासः ।
  अद्यापि तत्तुल्यकवेरभावादनामिका सार्थवती बभूव ॥"

 एतादृशं कविगणाग्रसरं महाकविं वीक्ष्य कालिदासं कविताकामिनी नूनमेव वृतवतीति सम्यगाह कश्चनालोचकप्रवरः

  "वाल्मीकेरजनि प्रकाशितगुणा व्यासेन लीलावती
  वैदर्भी कविता स्वयं वृतवती श्रीकालिदासं वरम् ।
  याऽसूतामरसिंहमाघधनिकान् सेयं जरा नीरसा
  शून्यालङ्करणा स्खलन्मृदुपदा कं वा जनं नाश्रिता? ॥” इति ।

 सहृदयप्रौढस्यैतादृशो महाकवेरमितकवित्वप्रतिभाभासा हसितभासादिभी रसिकैः कवनप्रसङ्गे आत्मनोऽपि श्लाघाभिसन्धिः स्वयं शिथिलीकृतो यथा-

   "कवयः कालिदासाद्याः कवयो वयमप्यमी।
   पर्वते परिमाणौ च पदार्थत्वं प्रतिष्ठितम् ॥"

 एवमेव

  "वयमपि कवयः कवयः, कवयोऽपि च कालिदासाद्याः।
  दृषदो भवन्ति दृषदश्चिन्तामणयोऽपि हा दृषदः ॥"

 इत्थं नैककोविदवरैः भृशमुपश्लोकितोऽयं महाकविः कतमस्मिन् काले कुत्र वा प्रादुर्भावमनुभूय कीदृशीमवस्थामवलम्ब्यानुजग्राह स्वजन्मलाभेन भारतं वर्षमिति प्रायोऽयं सन्देहभाजनमेवाद्यापि विषयस्तथापि अमुष्मिन् विषये विचिकित्साविषमेऽपि क्षोदक्षमया खलु प्रेक्षया समुद्धताः केचन राद्धान्ताः समासेनोपन्यस्यन्त इति तत्रभवतः कालिदासस्य नैकेषु ग्रन्थेषु लभ्यन्ते खलु रमणीयदेशादिवर्णनास्थानानि । यतः कैश्चिन्निश्चीयते यदनेन महाकविनाऽवन्तीषु श्रीविशालायारनुपमवर्णनगौरवप्रदर्शनात् नूनमावन्तिकेनोज्जयिनीशस्य विक्रमादित्यस्य सभायां नवरत्नेष्वन्यतमेन भवितव्यम् , यच्च लभ्यते "धन्वतरिक्षपणकामरसिंहशङ्कवेतालभट्टघटकर्परकालिदासाः । ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नव विक्रमस्य ।" इदमेव वस्तु प्रमाणीकर्तुं बहवो विक्रमोर्वशीयनाटकस्याख्यायाः विक्रमनामग्रहणेनैवाभिख्यां ख्यापयन्ति । अपरे तावदेनं विदिशावास्तव्यमामनन्ति, परे च मन्यन्ते यदयं हिमवत एव तादृग्सौन्दर्यजनितपक्षपातः काश्मीरिकः किल । तं काश्मीरदेशिनं मन्वानैर्विद्वद्भिरुह्यते यदयं प्रथमावस्था स्वदेश अतिवाह्य पश्चात् समायातश्चोज्जयिनीम् । इदमेवावलम्ब्य तैः प्रत्यादिश्यते यदयं वङ्गीयः तत्रस्थकविसाधारणतया गौडीरीत्या अस्य लेखेऽदर्शनात् ।

 यत्र कुत्रत्योऽप्ययं भवेत्तथापि नैकविधेष्वपि सत्सु विषयेऽस्मिन् वितर्केषु, प्रायः समेषामेव विदुषामत्रैकमत्यं दृश्यते यदयं महाराजस्य विक्रमादित्यस्य सभामलमकार्षीत् । किन्तु ईशवीयसंवत्सरसहस्रात्पूर्वम् महीं विक्रमादित्याभिधानाः षड्राजानोऽशासन्त । यद्यपि तेषु कतमस्तावन्महाकविबद्धसख्यः इति नूनं सन्देहास्पदमेव तथाप्यध्यवस्यते विपश्चिद्भिर्यदस्य महाकवेरायहोलीयशिलापट्टलेखे भारविसहकृतस्योल्लेखदर्शनात् ख्रिस्टीयसप्तमशताब्देर्द्वितीयपाद एव । लब्धप्रख्येन बाणभट्टेनापि हर्षचरिते कालिदासस्य प्रशंसनाच्च तदूर्ध्वं जातस्य चालुक्यवंशीयविक्रमादित्यस्य तत्पश्चात्तनानामप्यत्र विचारणमसङ्गतमेव, यतः पूर्वभणिते शिलाफलके "येनायोजिनवेश्मस्थिरमर्थविधौ विवेकिना जिनवेश्म । स विजयतां रविकीर्तिः कविताश्रितकालिदासभारविकीर्तिरिति” उल्लिखित एव महाकविः । भट्टबाणस्य पूर्ववर्तिनोsभूवंस्तावत्रयो विक्रमादित्यास्तदर्थमेव पाश्चात्यानां गवेषकाणां मतत्रैविध्यमुपस्थितममुष्मिन् विषयेः-

 पूर्व पुरातत्त्वकोविदेन फर्ग्युसनविदुषा कारूरैः साकं युयुत्सुनावन्तिकेन विक्रमेण जयिना हूणान् विद्राव्य स्वनाम्नो महिमानं प्रचिख्यापयिषुणा विक्रमसंवत्सरसन्ततिः प्रादुरभावि, ततोऽस्य विक्रमस्य कालः इशुमशीयजन्मनः सप्तपञ्चाशद्वर्षपूर्वक एवामानि । तत्त्वमेतदेवावलम्ब्य मोक्षमूलरभट्टादिभी रघुवंशे हूणादीनां निर्देशमुद्दिश्य कालिदासस्तु विक्रमीयसभायां रत्नमित्यायोजि। किन्तु एनमर्थमसहमानेनापरेण फ्लीटपण्डितेन हूणानां विजयिनं यशोधर्मनामानं विक्रमव्यतिरिक्तमपरमेव वीरं प्रमाणीकुर्वताऽसन्नेव विज्ञापितोऽयमर्थो यद्यपि बहुभिरपीदानीन्तनैर्विद्वजनैः प्रयत्यते यदीशुमशीयजन्मनः अर्वाक्तन एवायं कविरिति राद्धान्तयितुम् ।

 फ्लीटमहानुभावस्य संशोधनमुररीकृत्य, तदर्थमेवान्वेष्टुकामैः नैकशिलापट्टोपः लब्धकाव्यालोचकैः माननीयस्मिथमेकडोनलसदृशैः मालवान्तर्गतमन्दसौरग्रामे वत्सभट्टीयशिलालेखं स्वीकृत्य महाकविस्तच्छिलालेखकालाच् चतुःशतख्रिष्टाब्दादर्वाक्तन इत्यनुमाय चन्द्रगुप्तविक्रमादित्यस्य समकालीनः प्रमीयते । एतन्मतावलम्बितभिस्तर्कममुं प्रसन्नतरमवगाहमानैः रघोदिग्विजयव्याजेन समुद्रगुप्तस्य विजयं वर्णयतश्चन्द्रगुप्तात्मजस्य कुमारगुप्तस्य जन्मप्रसङ्गं कुमारसंभवमहाकाव्यमिषेण शंसतो; महाराजचन्द्रगुप्तस्यैव विक्रमादित्य इति गृहीतमुपाधिं चिरयितुं विक्रमोर्वशीयं त्रोटकमुपग्रथ्नतो महाकवेः समस्तं कवनकलाव्यापार चन्द्रगुप्तपरकमेवेति निर्धार्यते। एवं कृते च तेषां मते कालिदासदिङ्नागयोः समकालीनत्वं कालिदासीयमहाकाव्येषु प्रतिबिम्बितानां विलासचित्राणां समाजसुखानामपि सामञ्जस्यं सञ्जाघटीतीति विद्वदूहः। एवं चेत् कीदृशं हेतुमुद्दिश्य वर्षशतपञ्चकप्राक्तनस्य शुङ्गीयस्याग्निमित्रस्य स्वीयनाटकीयवस्तुनेतृत्वेन महाकवेर्ग्रहणं तत्र चाश्वघोषकालिदासयोः प्रभूतेऽपि काव्यकलासौसादृश्ये तदनभिधानपुरस्सरं धावकसौमिल्लानामेव प्रत्नानां कवीनां नाम्नो ग्रहणं रघुवंशे तत्कालं पह्ल्वीयानां राज्ञां उग्रतरेऽपि प्रतापे कथं पाण्ड्यानां तादृक्सविसरं वर्णनं सङ्घटेदिति सूक्ष्मदृशां महदिदं संशयपदम् ।

 एवं सन्दिग्धतादिग्धमनसो विदग्धाः कतिपये रायजयस्वालशिवरामप्रभृतयो महाकविमिशुमशीयाब्दशतकादक्तनं वर्तमानं नानुमोदन्ते समीक्षन्ते चोपरिष्टाद्वक्ष्यमाणाः स्वमतं द्रढयितुमुपपत्तीरिमाः याः कविं कालिदासं ख्रिष्टीयजन्मनः पूर्वं प्रथमे शतके वर्धमानं साधयन्तिः-

 (१) इशुमशीयाष्टमशतकं यावत् भारतीयं संवत् मालवीयमेवासीन्न विक्रममिति मन्वानेन फ्लीटविदुषा साकं वैमत्यं प्रकटयन्तः परे विपश्चितः कल्याणिनश्चायुष्यवंशीयमैतिह्यमनुसरन्तो नूनमामनन्ति यदाङ्ग्लाब्दशतके तुरीये गुप्तवंशीयेन चन्द्रेण विक्रमादित्य इत्युपाधिमुरीकृत्य स्वीयः प्रतापः याथार्थ्यमनायि तदर्वाक्तनैश्चोर्जस्विभिर्महीपैर्निजौजोगमकोऽयमुपाधिरङ्गीकृत आसीदिति वस्तु विश्वस्य निश्चीयते किल तत्त्वमिदं यच्चतुर्थाब्दशतकात् पूर्वं केनचिदप्यमितौजसा सम्राजा नूनमेव भारतभूतले भाव्यं यमुपमानमलं मेनिरे पश्चात्तना राजान इति । स एव प्राक्तनः संवत्सरप्रवर्तयिता महाराजो विक्रमो महाकवेः पुरस्कर्ता यश्च विक्रमोर्वशीये "अनुत्सेकः खलु विक्रमालङ्कारः" इत्येवं भूरि स्थाने प्रशंसितः । अतस्तत्समकालीनो महाकविरिति ।

 (२) परं च महाकविनोपनिबद्धस्य महाराजरघोः पूर्वजस्य दिलीपस्य निर्देशेनाप्यनुमापदमिदं यन्महाकविनालम्बितो भिन्न एवावलिर्वंशस्य रामायणपवनपुराणाद्यन्तर्गतात्कथोपाख्यानात् । परं च रघुवंशे “अथवा कृतवाग्द्वारे वंशेऽस्मिन् पूर्वसूरिभि"रिति प्रतिज्ञातं च महाकविना यत्पूर्वसूरिभिरपि वर्णितोऽयं वंशः । टीकाकृतश्च पूर्वसूरी"तिपदेन प्राचेतसादीन् परिकल्पयन्ति । विभिन्नश्च तस्मात्कालिदासीयो वंशक्रमो यश्चानुसरति हरिवंशानन्दरामायणादीनामुपाख्यानं संवदति च भासीयप्रतिमानाटकान्तर्गतोपाख्यानपरम्परया। अतो निर्धार्यते यद्भासकालिदासयोरुपजीव्या विभिन्ना एव ग्रन्था अभवन् येन सुबोधमिदं यत्पञ्चमशतकीयरामायणपुराणान्तरादूर्ध्वतनो नायं महाकविरिति ।  (३) अपि च ज्योतिर्विदोऽपि रामचन्द्रविबुधप्रवरा रघुवंशे "प्रससादोदयारम्भः कुम्भयोनेर्महौजसः” इति वाक्यमाश्रित्य मेघदूते च "आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं" "प्रत्यासन्ने नभसि" च "शापान्तो मे भुजगशयना"दित्यादिपद्यकदम्बेनोपस्थापितेन क्रमेण भगवति गभस्तिमालिनि पुष्यभस्य प्रथमं पादमधिरोहत्येव नभोमासस्य प्रक्रमस्तदानीमभवदिति निश्चिन्वन्ति, मन्यन्ते च यदेतादृशोपक्रमस्तु इदानीन्तनात्कालादष्टशताधिकसंवत्सरसहस्रादूर्ध्वं न भवितुं क्षमोऽतस्तादृशस्य वस्तुनो वर्णनात्कालिदासस्य प्रथमाब्दशतके वर्तमानत्वं सिद्ध्यति ।

 (४) परं च विदिशाविशांपतेरग्निमित्रस्य नाटकीयवस्तुनायकत्वेन स्वीकृतौ महाकवेराशयस्तदानीं ख्रिष्टीयाब्दाच्च पूर्ववर्तिनि काले पुष्यमित्रवसुमित्राग्निमित्राणां तत्कृताश्वमेधादीनामाख्यानस्य च ख्यातत्वात्तदानीन्तनानां स्पृह्यमाणत्वात् तादृशस्यैव वस्तुनः काव्यव्यापारस्याधारत्वेन स्वीकारस्तु कविसम्प्रदायानुरोधी प्रतिभातीत्यतो महाकविः ख्रिष्टाब्दप्रारम्भात्पूर्वतन एव । अमुष्मिन् विषये कविसम्प्रदायस्तु सूक्त एव जयानकेन “परीक्षकाणां रुचिमाकलय्य प्रकाशनीयः कविताप्रकर्षः । असात्विकां हि प्रकृतिं विलोक्य तीक्ष्णोऽभ्युपायो भिषजा न योज्यः" इति

 (५) अपरं चोरगाख्यपुरस्य नाथमिति पाण्ड्यराजमुपवर्णयतो महाकवेः कालः पाण्ड्यवंशीयानां प्रतापवर्णनेनानुमीयते यत्सः प्रथमे शतके ख्रिष्टजन्मनः पूर्वमेवाभवत् यतः प्लिनिटॉलमीप्रमुखैरैतिह्यकोविदैरिशवीयप्रथमद्वितीयाब्दशतके पाण्ड्यानामपचीयमानं महिमानं ख्यापयद्भिश्चोलानां तदा प्रभुत्वं व्यज्ञापि ।

 (६) यच्च कालिदासीयभावगाम्भीर्य्यमनुभवद्भिस्तस्य दार्शनिकत्वं च जानद्भिरश्वघोषकालिदासयोः काव्यव्यापृतौ प्रभूतं साम्यमाकलयद्भिर्विद्वद्भिः समीचीनमेव तर्क्यन्ते यत्कालिदासाश्वघोषोपजीव्यस्तत्पूर्ववर्ती नूनमेवेशुमशीयजन्मनो नाक्तिन इति।

 (७) महाकविना कालिदासेन विरचितोऽयं ग्रन्थ इति लब्धप्रख्ये ज्योतिर्विदाभरणे "स्मदेशाधिपते"र्नोल्लेखः समुपलभ्यते। अयं च प्रसिद्धो रूमदेशाधिपो जूलियस सीझर इति विवादशून्यमेवातो जूलियससमकालीनोऽयं महाभागो यत्र कुत्रचिदपि पञ्चपञ्चाशद्वर्षपूर्वमिशुमशीयजन्मनोऽभूदिति निश्चप्रचं बहूनां मते ।

 अस्य वास्तव्यम्-अमुष्मिन्नपि विषये प्रेक्षावतामभिप्राये प्रायो महान् विवादः । कालिदासं तादृशं महामहिमशालिनं विद्वांसं परिज्ञायाऽऽत्मनः प्रान्तीयधिया विद्वांसः स्वस्वभारतभूभागमलङ्कुर्वाणं महाकविमामनन्ति यथा वङ्गीयाः स्वयं कालीदासाः कालिदासं वङ्गीयं विधाय नदियावास्तव्यं निश्चित्यात्मनो गौरवं ख्यापयन्ति । परे काश्मीरिकाः महाकविं बाह्लीकजमित्यभिमन्यन्ते किन्तु तादृशार्थनिगमनं प्रायो नैकान्तिकमेव, यतः कालिदासीयकाव्यरचनानां निटिलं निभालनेनेदं विचारसहत्वमाप्नोति तत्त्वं यद्येन केनापि हेतुना महाकवेः श्रीविशालायामवन्ति- कायां च सप्रश्रयो महान् पक्षपातो दरीदृश्यते। उज्जयिन्या विशालानां हर्म्याणां तत्रत्यनदीनिर्झराणां, कुटिलाक्षिविक्षेपदक्षाणां रमणीनां च बहुधा बहुशो वर्णनात् । तादृशपक्षपातस्य "जननी जन्मभूमिश्च स्वर्गादपि गरीयसी"ति भावप्राबल्याभावेऽदर्शनस्य निश्चितत्वादस्य कविकुलालङ्कारस्यावन्तिकत्वकल्पनमनलीकतरङ्किल।

 तत्रभवतो जीवनम्-यथा हि कविवरेण्यः कतमस्मिन् काले वर्षमिमं जन्मनालमकार्षीदिति सन्देहदरीमेवाधिष्ठितं वस्तु तथैव कतमं च कुलं कीदृशं च प्रदेशं कौ च पितरौ कविरत्नमिदं जन्मना सभाजयमासेति विदुषामद्यावधि नाभूदतिरोहितम् । बहवश्व तावत् प्रसन्नाः प्रसन्नतराश्च तर्काः पूर्वपूर्वतरतर्काप्रतिष्ठाप्रयोजकाः धीमद्भिरक्रियन्त तथापि ऐतिह्यधिया नास्ति किमप्यस्मिन् विषये निश्चप्रचम् । केचन विद्वांसो मन्वते यदयं काश्मिरिकः सन् स्वबाल्यावस्थायामेवेतस्ततः भ्रमन् नैकजनपदेभ्यो गच्छन् अवन्तिकां प्राप तत्रैव स्वीयकाव्यकलागौरवेण महाराजविक्रमस्य सभायां प्रवेशं स्थानं च लेभे परं च तत्र नैकविद्वन्मण्डलीमण्डितपरिगोष्ठीषु स्वपाण्डित्यं स्थाने प्रकाश्य नवरत्नान्यतमत्वमार, प्राप्त च महाराजाश्रयेण महतीं कीर्तिम् । अपरे च वदन्ति यदयं महाकविः पुरा कौमारेऽतीव जडमतिर्बभूव । तस्य च पत्नी सुतरां मनोरमा सती स्वधवस्यासक्तिवशात् तस्मै महताधिकारेण प्राभवत् । तदीयमूर्खत्वेन खिन्नायां एकदा पितरं गतवत्यां तस्यां, तदीयविरहदूनमानसः, तस्या भीतः तां प्रति जिगमिषुरपि गन्तुमनुत्सहमानः भवगतीं देवीं कालीमुपास्त, तदीयप्रसादमहिम्ना सारस्वतं निधिमवाप, तादृशीं च प्रतिभामलभत । लब्ध्वा चाभीष्टं वरं सः श्वशुरालयं गत्वा द्वारि तिष्ठन् शृङ्खलानादमकरोत् । उद्घाटनायागतायां स्वप्रेयस्यामाह महाकविर्यदनावृतकपाटं द्वारं विधेहि । परिचित्य च वाचं सा तं पप्रच्छ यद्, “अस्ति कश्चित् वाग्विशेषः । तद्वाचमुपश्रुत्यास्तीति स्वप्रेयस्या वाक्यस्य एकैकं पदमादाय काव्यत्रयं कविना निरमायि, तद्यथा अस्त्युत्तरस्यामिति कुमारसंभवमहाकाव्यम् , कश्चित् कान्तेति खण्डकाव्यम्, वागर्थाविति रघुवंशं नाम पुनर्महाकाव्यमेव । एवं स मूढः कान्तायाः कान्तोपदेशवशात् महाकवित्वं प्रापदिति । अन्ये विपश्चितः प्रकल्पन्ते यदयं धाराधीशस्य भोजदेवस्य सखा तत्र च तदीयसभायाः कविवरेण्योऽयमिति च, यद्विषयिण्यो नैकाः कथा भोजप्रबन्धादिषु लभ्यन्ते । किन्तु यद्ययं प्रथमशताब्दीयस्तदा भोजदेवसमकालो भवितुं नार्हति ।

 एवमेतादृशि सन्देहतिमिरतिरोहिते चरिते तदीये केवलं कल्पनमेव कल्पश्चेदनल्पं तथ्यमिदं प्रतिभाति यदयं कविर्जात्या विप्रः सन् शैवो बभूव । अयं काश्मीरिको वाऽवन्तिको वा तथाप्ययं प्रभूतं स्वजीवनमुजयिन्यामनैषीत् परश्चोत्तरभारतेऽयं बहुतिथं बहुधा प्रावात्सीत् । महाकालचरणयोः क्षिप्रातरङ्गिण्याश्च विषये तदीयामेतादृशी भक्तिमनुभवता केनापि तस्यावन्तिकत्वं न शङ्क्येत । अपि चेदमनुमीयते यदनेन महाकविना क्वचिदपि दारिद्द्र्यदुःखं नान्वभावि । युक्तमेवाह कश्चन दरिद्रः "एकोऽपि दोषो गुणसन्निपाते निमज्जतीन्दोरिति यो बभाषे। नूनं न दृष्टं कविनापि तेन दारिद्द्र्यदोषो गुणराशिनाशी"। एवं हि सरस्वतीविलासभाजापि महाकविना इतस्ततः स्वप्रतिभयानेकराजन्यबद्धसख्येन सुखेन कालं यापयता भारतोऽयं वर्षः साहित्यविश्वस्मिन् प्रोच्चैः पदं लम्भित इति नास्ति केषामपि विवादास्पदम् ।

तत्रभवतः कालिदासस्य कवित्वं पाण्डित्यं च

 तत्रभवतो महाकवेर्जीवनं निश्चयेन परिचेतुं यथा न पार्यते, इदमपि तथैव वक्तुमशक्यमेव यत् क्व तावत्तत्रभवतोऽध्ययनं, क्व वा बाल्येऽवस्थानं कश्च कविशेखरस्य गुरुरिति ।

 विषयेऽस्मिन् विहिते तु गवेषणे प्रहिते वा लोचकलोचने तदीयप्रणीतग्रन्थाभ्यसनेन तदन्तर्गतानि नैकविधतन्त्रपरिचयनिदर्शनानि लभ्यमानान्येव प्रमाणत्वं प्रेक्षावतां भजेयुः। उपायान्तराभावपारवश्यात् अमुष्मिन् क्षोदक्षमे क्षेत्रे विचक्षगैर्महाकवेः प्रणीतत्वेन विद्वद्भिरङ्गीकृता ग्रन्थास्त्रिषु विभागेषु समालोचनसौकर्यान्निक्षिप्ताः। तत्र श्रव्यकाव्यानि कानिचित् महाकाव्यखण्डकाव्यरूपाणि, पराणि दृश्यकाव्यानि ततोऽवशिष्टानि प्रकीर्णकानीतराणि खलु काव्यानि । तत्र प्रथमकक्षावपतितानि महाकवेः कुमारसम्भवरघुवंशौ महाकाव्ये, खण्डकाव्ये च मेघदूतार्तुसंहारकाव्ये, द्वितीये च मालविकाग्निमित्रविक्रमोर्वशीयाभिज्ञानशकुन्तलाभिधानानि रूपकाणि, प्रकीर्णकेषु तदीयनिबन्धेषु शृङ्गारतिलक-पुष्पबाणविलास- श्रुतबोधज्योतिर्विदाभरणप्रभृतीनि रचनान्यभिमन्यन्ते ।

 एतेषां च सम्यक् पर्यालोचनेन सहृदयैर्नूनमनुभूयते यन्महाकवेर्लेखनी नितान्तं रसस्रोतोवहाऽध्येतॄणां सविशेषं हृदयाह्लादिनी विदुषां विश्वमखिलं कविवरस्यानुपमेन यशसा धवलयतितराम्।

प्राकृतिक-सौर्न्दयवर्णनम्

 कविवरेण्यस्तत्रभवान् कालिदासः साहित्यसौन्दर्यनिर्माणे रसधाराप्रसविणीप्रवाहसुमधुर-नाटकीयकृतिचातुर्ये च निरुपमो बभूवेति सर्वसम्मतम् । किन्तु किमधिकृत्यैतादृशो बहुमान इति त्ववश्यं विवेचनीयम् । प्राकृतसौन्दर्यवर्णने सूक्ष्मदर्शित्वे च कविकुलगुरोः स्वाभाविकोऽतिशयः। स च तत्र तत्र काव्येषु नाटकीयवस्तुषु च बहुशः परिदृश्यते । विक्रमोर्वशीयेऽपि-----

 "अग्रे यान्ति रथस्ये” (१-५ पृष्ठ १३) तिपद्ये सवेगं गच्छतो रथस्य, तदुध्दूतधूलिपटलस्य अरावलिचक्रयोः चामरस्य, ध्वजपटस्य च प्रत्येकं जवातिशयमहिम्ना कीदृशी स्थितिः बभूवेति वर्णना कालिदासस्य सूक्ष्मदर्शित्वं, प्रकृतिभावसौष्ठवप्रदर्शनपटुत्वं च सम्यङ् निदर्शयति । द्वितीयेऽङ्केऽपि- 'अग्रे स्त्री नखपाटलं कुरबकं (७ पृष्ठ ५५), "उष्णार्तः शिशिरे" (२२ पृ. ९८) इति पद्ये मध्याह्नवर्णनम् ; तृतीयेऽङ्के 'उत्कीर्णा इव वासयष्टिषु' (२ पृ. १०६) “उदयगूढशशाङ्कमरीचिभिः" (६ पृ. ११०); चतुर्थेऽङ्के “विद्युल्लेखाकनकरुचिरं" (१३ पृष्ठ १६८); “तरङ्गभ्रूभङ्गा" (५२ पृ. २००); पञ्चमेऽङ्के च-- नारदस्य जङ्गमकल्पवृक्षत्वेन वर्णनम् (१९ पृ. २५१) सर्वमप्येतत् कालिदासान्तःकरणे प्राकृतिकसौन्दर्यविषये आदरातिशयः प्रेमातिशयश्चासीदिति विशदीकरोति । सङ्गीतनाट्ययोर्नैपुण्यम्.

सङ्गीते नाट्यशास्त्र च प्रभूतं पाटवं कालिदासस्यासीत् । वाद्येषु-सूर्य-मुरज- पुष्कर-वल्लकी-मृदङ्ग-मर्दलादीनां वर्णनं स्थाने स्थानेसमुपलभ्यते । तत्रापि वीणायाः प्राधान्यं कविवरकृतिषु दरीदृश्यते । मयूर-नृत्यस्य सौन्दर्यं, केकायाश्च माधुर्यं कालिदासस्य मनोरञ्जयत् । सर्वेष्वपि नाटकेषु नाट्यकलायाः प्राधान्येन प्रदर्शनं तु कृतमेव । मालविकाग्निमित्रे 'नाट्यं भिन्नरुचेर्जनस्य बहुधाऽप्येकं समाराधनम्' इति कथयता कविवरेण नूनं नाव्ये निरतिशयं हार्दिकं प्रेम प्रकाशितम् । नाट्यभावयोरन्योन्यसंवलितः सम्बन्ध एकत्र मिलितयोश्च तयोश्चमत्कारातिशयः “अङ्गैरन्तर्निहितवचनैः” (२-८) इति पद्ये मालविकाया नृत्यवर्णनावसरे निपुणमुपवर्णितः । विक्रमोर्वशीयेऽपि----

 "मुनिना भरतेन यः प्रयोगो भवतीष्वष्टरसाश्रयो निबद्धः" (२-१७ पृ० ८२) इति पद्ये भरतप्रणीतनाट्यशास्त्रविषयक आत्मन आदरातिशयः प्रदर्शितः। दिव्यसङ्गीतनाट्यनिपुणाया उर्वश्या मानुषसङ्गीतनाट्यनिपुणायाश्च मालविकायाः कलाचातुर्यस्य वर्णनं सम्यग् विदधतः कालिदासस्य परमवैदग्ध्यं सन्देहानास्पदमेव ।

 नृत्यशास्त्रे परमप्रवीणो महाकविः अतिमात्रमलंकृताया नट्या रङ्गप्रवेशं; नृत्यकलायाः, अभिनयस्य, सर्वाङ्गसौष्ठवाभिव्यक्तेश्च कृते साधु नामन्यत । तामेव स्वसम्मतिं परिव्राजिकामुखेन मालविकाग्निमित्रे प्रतिपादयामास- "सर्वाङ्गसौष्ठवाभिव्यक्तये विरलनेपथ्ययोः प्रवेशोऽस्तु" । आधुनिकभारतीयनृत्यकलाचतुराणां पाश्चात्यनाट्यशास्त्रकुशलानां चाद्यापि नास्मिन् विषये कोऽपि विशय इत्यहो महानुभावस्य कालिदासस्य प्रावीण्यम् यत्, परःसहस्रावधिवर्षेष्वतीतेष्वपि न तन्मतमसामञ्जस्यं भजते।

 भावहावैः सुसन्दानितस्य नृत्यस्य वाद्यगायनाभ्यां संमिश्रणं सामाजिकानां रसचर्वणाभिमुखं परमाल्हादजनकं भवतीति, कविवरेण कुमारसंभवाख्ये महाकाव्ये सूचितम्-

 "सुसन्धिबन्धं नन्तुः सुवृत्तगीतानुगं भावरसानुविद्धमि"ति । (७-३६)

 कालिदासीयेषु काव्येषु नाटकेषु च, तत्र तत्राकाशे नक्षत्राणीव नृत्यसङ्गीतकलावर्णनपरिप्लुताः सन्दर्भा बहुशो दृश्यन्ते । तत्राप्ययं विशेषो यत्, कविवररचनासु अतिसूक्ष्मा अपि, विद्वद्रसिकचर्वणामात्रगोचरा अपि कलाश्चित्रार्पिता इवोद्बोध्यन्ते। यथा हि विक्रमोर्वशीये-

 "गन्धुम्माइअ महुअर गीएहिं" (४-१२ पृ. १६५) इति पद्ये,

 'नृत्यति कल्पतरुरिति यदुक्तं तच्छाब्दमहिम्ना रसिकानां पुरतो दृग्गोचरमिव जायते । तथा च-

 अयमासारोच्छलितशैलतटस्थलीपाषाणमधिरूढः-

  'आलोकयति पयोदान् प्रबलपुरोवातनर्तितशिखण्डः ।
  केकागर्भेण शिखी दूरोन्नमितेन कण्ठेन ॥' (४-१८ पृ. १७३)

 इत्यत्र धारासम्पातसमुच्छलितशैलतटे शोभमानायां स्थल्यां पाषाणमधिरूढः

प्रबलवेगेनोच्चलितबर्हो मयूरः केकागर्भेण सोत्सुकेन कण्ठेन मेघानालोकयतीति सहृदयानां मनसि चित्रितमिव । एवमेव मालविकाग्निमित्रे-

   'वामं सन्धिस्तिमितवलय' (२-६) मिति पद्येऽपि ।

 पुनश्च कविवरस्य सङ्गीतनाट्यशास्त्रयोरैदंपर्येण प्रावीण्यमासीदिति तत्र तत्र शास्त्रीय-पारिभाषिकशब्दानां अर्धचर्चरी-चर्चरी-द्विपदिका-कुटिलिका-कुलिका-मन्दघटीत्यादि सङ्गीतशास्त्रीयाणां; खण्डिक-गलतिका-चतुरस्रकार्धचतुरस्रक-ककुभ- खुरकादिनाट्यशास्त्रीयाणां च शब्दानां प्रयोगेण विज्ञायते ।

 एवं शास्त्रनिपुणोऽपि कविः कालिदासः नाट्यस्य प्रधानत्वममन्यत । उक्तं च मालविकाग्निमित्रे- 'प्रयोगप्रधानं नाट्यशास्त्र"मिति ।

सौन्दर्य-वर्णनम्

 प्राकृतिकसौन्दर्यवर्णननिपुणः प्राधान्येन शृङ्गाररसपरिपूर्णान्तःकरणो महाकविः कालिदासो नाटकीयपात्राणां, तत्रापि विशेषतो नायिकानां . सौन्दर्यवर्णनेऽतीव मार्मिकः सूक्ष्मदृक् चासीत् यद्यपि सौन्दर्यदर्शनजन्माऽऽह्लादस्तु समेषामेव जनानां निर्विशेषस्तथापि; किं सौन्दर्यम् ? केऽस्य स्वरूपघटका अवयवाः? कीदृशः कस्यावलोकयितॄणां मनसि प्रभावः? इति सर्वं विविच्य सम्यक् सौन्दर्यचित्रणं न सुकरम् । प्रतिभाशालिनां महाकवीनामेव कृतिष्वेतदुपलभ्यते ।

किं सौर्न्दयम् ?

 नायिकानामङ्गेषु यल्लावण्यं माधुर्यं च साक्षात्क्रियते तत् प्राकृतिकसौन्दर्यस्यैवावयवभूतमिति पश्यता कालिदासेन तत्र तत्र लतापल्लवकुसुमादिसाम्यं नायिकावयवानां प्रदर्शितम् । तथा हि कुमारसम्भवे-

  "आवर्जिता किंचिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् ।
  पर्याप्तपुष्पस्तबकावनम्रा संचारिणी पल्लविनी लतेव ॥” (३-५४)

 इति पद्येन पार्वत्याः सौन्दर्यमुपवर्णयन् तस्या लतासाम्यं पूर्णोपमया दर्शयति ।

 एवमेव शाकुन्तलेऽपि-

   "अधरः किसलयरागः कोमलविटपानुसारिणौ बाहू ।
   कुसुममिव लोभनीयं यौवनमङ्गेषु सन्नद्धम् ॥"

 इति पद्ये संप्राप्तयौवनाया नायिकाया वसन्ते कुसुमितलतासाम्येनोपवर्णनम् । विक्रमोर्वशीयेऽपि-

   “यावत्पुनरियं सुभ्रूरुत्सुकाऽपि समुत्सुका ।
   सखीभिर्याति संपर्कं लताभिः श्रीरिवार्तवी ॥"

 इति पद्ये सखीभिः सहोर्वश्याः सम्मेलनाय रथमुपश्लेषयितुमाज्ञापयन् राजा लतासु माधव्याः श्रियमिव सखीष्वप्सरःसु उर्वश्या अतिशयिततां द्योतयति साम्यमुखेन । मालविकाग्निमित्रेऽपि च--

  "स्मयमानमायताक्ष्या" इति (२-१०) पद्येऽपि तथैव ।

 एवमेव स्वाभाविकसौन्दर्योपम्येन नायिकासौन्दर्यं वर्णयन् कालिदासो रमणीनां रामणीयकमपि भगवत्याः प्रकृत्या एकं विभागं मन्यमानः,

 "क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयताया” इति क्षणे क्षणे विपरिणमन्तं नावीन्यं भजमानं चामन्यत ।

 कालिदासस्य सौन्दर्यविषयिण्यः कल्पना न केवलं शरीरसम्बद्धाः किन्तु, आत्मसम्बद्धाः । ता न केवलं लौकिक्योऽपि तु दिव्या आध्यात्मिक्यश्च । यत्किमपि वस्तु सुन्दरं तत् कालिदासीयकल्पनानुकूलं सर्वथाऽनवद्यं, अमानुषं, पुण्यसंभवं, सात्विकगुणसन्दानितं च । नायिकागतं सौन्दर्यं, माधुर्यं, लावण्यं च परमानन्दसब्रह्मचारि दिव्यानन्दघनतोद्बोधकं च सत् "शान्तं शिवं सुन्दर" मित्यादिरूपेणोपवर्ण्यमानस्य परमेष्ठिनः सौन्दर्यसहोदरं सर्वास्ववस्थासु कमनीयं नायकानां मनसां परमायतनं; तेषां मनोवृत्तेर्निर्वृतावेकमात्रं साधनं भवति । सर्वथा नायकानां तादृशविचित्राह्लादजनकं सौन्दर्यं कालिदासीयेषु रूपकेषु परमपुरुषार्थतया सर्वदा आप्यं तदभावेऽनन्यान्तःकरणवृत्तिसमुन्मादजनकं परमभक्तानां स्वेष्टदेवतास्मृतिधाराप्रवाहकल्पं सर्वथाऽलौकिकप्रेमसन्तानसमुद्बोधकं वर्तते । तथाहि

 शाकुन्तले-

"चित्ते निवेश्य परिकल्पितसत्वयोगा रूपोच्चयेन मनसा विधिना कृता नु।
स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः ॥” (२-१९)

 इति पद्येऽनुपमरूपवती शकुन्तलां धातुरन्यां स्त्रीरत्नसृष्टिमिवामन्यत कविः । एवमेव विक्रमोर्वशीये-

 'अस्याः सर्गविधा’ विति (१-१०) पद्ये दिव्याप्सरस उर्वश्या निर्माणे तदनुरूपमेव निर्मातारं सम्भावयतः कवेरयमाशयः सुस्पष्ट एव यत्, तादृशीं सुन्दरीं निर्मातुं विलक्षणैव सामग्री कमनीयसृष्टिविचक्षणश्च वेधा आवश्यकः । एवं बहुषु स्थलेषु कालिदासीयं सौन्दर्यविषयकं कविमात्रासाधारणं दिव्यभावनासम्मिश्रं मतं सहृदयानां मनः संमोदयति ।

सौन्दर्यस्य स्वरूपघटका अवयवा:

 कालिदासीयवर्णनानुकूलमिदं परिस्फुरति यत् सर्वथाऽनवद्यत्वं, सर्वास्ववस्थासु चारुता, मण्डनसम्भाराभावेऽपि मञ्जुत्वं, लावण्यं, रेखा, कान्तिः, भूषणानामप्यभूषकत्वं, सौजन्यं,

तादृश सुन्दरीकामुकस्याहोभाग्यता चेत्यादयो धर्माः सौन्दर्यस्वरूपघटका इति । तथा हि मालविकाग्निमित्रेऽनुपमसौन्दर्यशालिन्या मालविकाया वर्णनं विदधता- कविना सर्वथाऽनवद्यत्वं सर्वावस्थासु रमणीयता चास्याः प्रदर्शिता--

   "अहो सर्वास्ववस्थासु अनवद्यता रूपस्य-
   दीर्घाक्षं शरदिन्दुकान्तिवदन"मिति (२-३) पद्ये ।

 एवं नृत्यकलानुरूपं मालविकायाः सौन्दर्यमुपवर्णयन् तस्या इतरावस्थास्वपि माधुर्यं रामणीयकं च वर्णयति-

   "अहो सर्वास्ववस्थासु चारुता शोभां पुष्णाति । तथाहि
   “वामं सन्धिस्तिमितवलय"मिति (२-६) पद्ये ।

 अस्या नृत्यमपि “यथाशास्त्रं सर्वमनवद्यम्"।

   शाकुन्तलेऽपि निरुपमसुन्दरीं शकुन्तलां,

   "मानुषीषु कथं वा स्यादस्य रूपस्य संभवः ।
   न प्रभातरलं ज्योतिरुदेति वसुधातलात् ॥"

 इति पद्ये प्रथमत एव राजाऽमानुषरूपवतीं मेने । सा हि दिव्यमानुषसम्भवा तादृशलावण्यकान्तिरूपरेखादिसम्पन्ना यत्तत्परित्यागानुशयदग्धहृदयो दुष्यन्तश्चित्रगतां तामवलोकयन् तानेव गुणान् स्मरति

   "दीर्घापाङ्गविसारिनेत्रयुगलं लीलांचितभ्रूलतं

   दन्तान्तःपरिकीर्णहासकिरणज्योस्नाविलिप्ताधरम् ।
   कर्कन्धुद्युतिपाटलोष्ठरुचिरं तस्यास्तदेतन्मुखम्
   चित्रेऽप्यालपतीव विभ्रमलसत्प्रोद्भिन्नकान्तिद्रवम् ॥” (६-१४)

   "तथापि तस्या लावण्यं लेखया किश्चिदन्वितम्" (६-१५)

  प्रकृतिमधुरायाः स्वरूपानुरूपवेषभूषाद्यनलंकृतायाः सहजं सौन्दर्यं परिस्फुरतीति कालिदाससंमतं- तथाहि शाकुन्तले-

    सरसिजमनुविद्धं शैवलेनापि रम्यं
    मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति ।
    इयमधिकमनोज्ञा वल्कलेनाऽपि तन्वी
    किमिव हि मधुराणां मण्डनं नाकृतीनाम् ।।

कुमारसंभवेऽपि- "अन्योन्यशोभाजननाद्बभूव
    साधारणो भूषणभूष्यभावः ॥' (१-४२)

विक्रमोर्वशीयेऽपि- "आभरणस्याभरणं प्रसाधनविधेः प्रसाधनविशेषः ।
    उपमानस्यापि सखे प्रत्युपमानं वपुस्तस्याः ॥"

 कालिदासीयेषु रूपकेषु सौन्दर्यं सर्वथा सौजन्यकौलीन्यादिसहकृतमेव तथाहि मालविकाग्निमित्रे-

   "आकृतिप्रत्ययादेनामनूनवस्तुकां सम्भावयामि"

शाकुन्तलेऽपि- “न तादृशा आकृतिविशेषाः गुणविरोधिनो भवन्ति"  एवं आकृतिविशेषं गुणविशेषाव्यभिचारिणं उच्चवंशसहकृतं च मन्वानः कविः बाह्यं रूपमान्तरगुणविशेषप्रतिफलकं आभ्यन्तरगुणविशेषाणां च उच्चवंशमात्रसंभवत्वं साधारणतः उपलभ्यते इति मानसशास्त्रीये (Psychological) अभ्युपगमे विश्वसति स्म । तदेवोक्तं कुमारसम्भवे-

  “यदुच्यते पार्वति पापवृत्तये न रूपमित्यव्यभिचारि तद्वचः।
  तथाहि ते शीलमुदारदर्शने तपस्विनामप्युपदेशतां गतम् ॥"

 इदमेव मानसशास्त्रीयं तत्त्वं आंग्लमहाकविः शेक्सपीयरः स्वनिबद्ध 'टेम्पेस्ट' नामनि रूपके प्रथमेऽङ्के द्वितीये दृश्ये प्रादर्शयत्

  "तादृशि सौन्दर्यमन्दिरे दोषावहं किमपि न सम्भाव्यते"*

 निरुपमसुन्दरीं कामयमानस्य अन्ततश्च तां भोक्तृत्वेन लभमानस्य चाहोभाग्यत्वं महापुण्यशालित्वं च महाकविरमन्यत-तदेव शाकुन्तले स्पष्टमुक्तम्-

   "अनाघ्रातं पुष्पं किसलयमलूनं कररुहै-
   रनाविद्धं रत्नं मधु नवमनास्वादितरसम् ।
   अखण्डं पुण्यानां फलमिव च तद्रूपमनघं
   न जाने भोक्तारं कमिह समुपस्थास्यति विधिः ॥"

 एवं असामान्यगुणसहकृतं सौन्दर्य महतः सुकृतस्य फलं अपुण्यभाजनमल्पपुण्यवन्तं वा नोपस्थातुमर्हति । तथा च तादृशसुन्दरीप्रेमभाजनस्य कृतार्थत्वं अहोभाग्यत्वं चाप्युक्तं यथा विक्रमोर्वशीये-

   "इदं तस्या रथक्षोभादंसेनांसं निपीडितम् ।
   एकं कृति शरीरेऽस्मिन् , शेषमङ्गं भुवोभरः ॥ (३-११)

पुनश्च-

   "सामन्तमौलिमणिरञ्जितपादपीठ-
   मेकातपत्रमवनेर्न तथा प्रभुत्वम् ।
   अस्याः सखे ! चरणयोरहमद्य कान्तं
   आज्ञाकरत्वमधिगम्य यथा कृतार्थः" ॥ (३-११)

 एवं असाधारणसुन्दरी दिव्यां नायिकां उर्वशीं कामयमानः पुरूरवाः आत्मनः एकातपत्रप्रभुत्वापेक्षयाऽपि तस्याश्चरणयोराज्ञाकरत्वं जन्मसाफल्यहेतुं मन्वानः तद्दास्येन आत्मानं कृतार्थयामास

  "अनन्यनारीसामान्यो दासस्त्वस्याः पुरूरवाः" (३.१८) इति,


  • "There's nothing ill can dwell in such a temple:

If the ill spirit have so fair a house, Good things will strive to dwell with’t,” (Temp. I-ii)

वि. प्र.५ A शाकुन्तलेऽपि-

   "मनोरथाय नाशंसे किं बाहो! स्पन्दसे मुधा?
   पूर्वावधीरितं श्रेयो दुःखं हि परिवर्तते ॥"

 इति शकुन्तलालाभं दुष्यन्तः आत्मनः श्रेयः अमन्यतेति स्पष्टं ध्वनितम् । मालविकाग्निमित्रेऽपि-

  "भाग्यास्तमयमिवाक्ष्णोः हृदयस्य महोत्सवावसानमिव ।
  द्वारपिधानमिव धृतेर्मन्ये तस्यास्तिरस्करिणीम् ॥ (२-११)

 महाकविः कालिदासः न केवलं मानुषसौन्दर्यवर्णनपटुरेव किन्तु मानुषीं दिव्यमानुषसंभवां शकुन्तलां , दिव्यां चोर्वशीं वर्णयन् स्वं निरुपमं सौन्दर्यवर्णनप्रावीण्यं प्रागल्भ्यं चादर्शयत् । न केवलं युवतीनामेव किन्तु बालानामपि सौन्दर्यवर्णने परं निष्णातः सः जगन्मातरं पार्वतीं बाल्यादारभ्यावर्णयत्-

  "दिने दिने सा परिवर्धमाना लब्धोदया चान्द्रमसीव लेखा।
  पुपोष लावण्यमयान्विशेषान् ज्योत्स्नान्तराणीव कलान्तराणि" ॥

 एवं बाल्यात् परं वयः प्रतिपद्यमानायाः पार्वत्याः सर्वाङ्गीणं परिणामं सूक्ष्मदृशा वर्णयतः कालिदासस्य नैपुण्यं सहृदयानां सुस्पष्टम् । तथा हि उमामुखं चन्द्रकमलयोः लक्ष्मीं भजमानं वर्णयन् सः सहृदयानां प्रमोदमावहति ।

  "चन्द्रं गता पद्मगुणान्न भुङ्क्ते पद्माश्रिता चान्द्रमसीमभिख्याम् ।
  उमामुखं तु प्रतिपद्यलोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः" ॥ (१-४३)

अस्याश्च सर्वाङ्गीणं सौन्दर्य वर्णितं कविना-

  "सर्वोपमाद्रव्यसमुच्चयेन यथाप्रदेशं विनिवेशितेन"।
  सा निर्मिता विश्वसृजा प्रयत्नात् एकस्थसौन्दर्यदिदृक्षयेव" ॥ (१-४९)

एवमेव मेघदूते यक्षसुन्दरीवर्णनं हृदयग्राहि-

   "तन्वी श्यामा शिखरिदशना पक्वबिम्बाधरोष्ठी
   मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः ।
   श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां
   या तत्र स्याद् युवतिविषये सृष्टिराद्येव धातुः ॥" (उ० २१)

 एवं कालिदासीयसौन्दर्यवर्णनं जनसामान्यहृदयंगमम् । एतादृशं सौन्दर्यं प्रत्यक्षीकुर्वतः सर्वस्यापि मनः प्रमोदभरपूरितं भवत् सर्वथा सुन्दरवस्तुनः तदवलोकयितुश्च -अतिदुष्करसुकृतफलतामस्यावगमयति ।

 सामान्यतः सकलशास्त्रावगाहनपरिपूतान्तःकरणः सर्वतन्त्रपरतन्त्रोऽपि

महाकविः स्वकीयासाधारणकविप्रतिभया सर्वानतिशेते।

   "शक्तिर्निपुणता लोककाव्यशास्त्राद्यवेक्षणात् ।
   काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे ॥” (का. प्र. ३)

 इति मम्मटभट्टोक्तदिशा कवित्वबीजरूपसंस्कारविशेषरूपायाः प्रतिभापरनामधेयायाः शक्तेरेव काव्यनिर्माणे कारणत्वं लोकशास्त्रनिपुणतायास्तु सहकारित्वम् । उत्तमकार्यनिर्माणे प्रधानकारणस्योत्तमता एव प्रयोजिका नतु तादृशी उत्तमता सहकारिकारणानामपेक्षिता । अत एव सत्खपि बहुषु कविपण्डितेषु संस्कृतसाहित्ये सुतरां मान्यः कविः कालिदास एव । पण्डितवरेण दण्डिना कालिदासं प्रशंसता उक्तम्------

   “लिप्ता मधुद्रवेणासन् यस्य निर्विषया गिरः ।
   तेनेदं वर्त्म वैदर्भ कालिदासेन शोभितम् ॥"

 एवं स्वप्रतिभामहिम्ना यत्किञ्चिदपि कालिदासो लिलेख तत्सर्वमेव कविकुलमान्यं, माधुरीपरिप्लुतं, भावगभीरं, वाग्वैदग्ध्यसम्मानितं, उत्तमकाव्यतामभजत् किम्बहुना अलौकिक्या प्रतिभया असौ कविवरेण्यः पूतः विभूषितश्च ।

 महाकवेर्वाक्सरणीः-महाकवेः कालिदासस्य गीर्वाणवाणी नैसर्गिकी रसस्रोतोवहाऽप्रतिहतगतिर्माधुर्येण परिपाकेन चाश्वघोषादीनां तत्पूर्वतनानां कवीनां लेखिनीं परिहसन्त्यपि बन्धस्य गाढत्वेन रहितैव प्रसादगुणोपपन्ना प्रसन्नतरा प्रवहतीति समेषां चर्वणाजुषां विदुषामनुभवो विश्वजनीनः खलु । कविवरेण दण्डिना कालिदासस्य प्रबन्धेषु सर्वत्र वैदर्भी रीतिरेव प्राचुर्येण वरीवर्तत इति यथोचितमेवोक्तम् । कालिदासीयकृतिषु सर्वत्र शब्दानां सौष्ठवं, वर्णानां रसानुगुण्यं, श्रुतिकटुवर्णसंयोगहीनत्वं, पदानामनिहितार्थत्वं, वृत्तानां भावाभिव्यञ्जकत्वमनल्पं सर्वत्र शोभतेतराम् । विशेषतश्च महाकवेर्विविधानामलङ्काराणां प्रयोगो नितरामुत्कर्षशाल्येव, ततोऽपि कालिदासस्योपमालङ्कारप्रयोगस्तु अद्वितीय एव । यद्यपि परेषामलङ्काराणामुपयोगो महाकविना स्थाने प्राचुर्येण विहितः, परैश्च कविवरैरप्युपमालङ्कृतेर्बहुशो बहुधा प्रयोगोऽङ्गीकृतस्तथापि कालिदासस्य उपमानान्वेषणे यादृशी कला समुपलभ्यते तादृशी तु इतरेषु दुर्लभैव । यथा हि महाकविर्वर्ण्यस्य वस्तुनः सम्यक् चित्रचित्रणायैवोपलङ्करणं प्रयुनक्ति येन सहृदयानां हृदि वस्तुनः स्फुरणं तथाङ्कितं भवति यथाऽदृष्टमपि वस्तु प्रत्यक्षमिव भायात् प्रतीतं च तत्स्यादतीव चमत्कारि भूरि च मनोहारि; अत एवायमाभाणको विद्याचणानां सुतरां परिचित एव “यदुपमा कालिदासस्येति ।"

 सकलशास्त्राकूपारपारीणत्वेनास्य कविकुलगुरोः कृतिषु यथाप्रस्तावं तत्तच्छास्त्रविषयिणः सन्दर्भास्तस्य वाचि प्रसादगुणस्य वैदर्भीरीतेः प्रथिताया वाक्सरणेश्च पूर्वोक्तानां समेषामेव गुणानां निदर्शनानि सर्वत्रैव दृश्यन्ते । ते च सुधीभिरालोचकैस्तत्र तत्र द्रष्टव्याः इति विस्तरभिया असौ विषयो नात्र प्रतन्यते।