विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्)/प्रथमोऽङ्कः

विकिस्रोतः तः
← INTRODUCTION विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्)
प्रथमोऽङ्कः
कालिदासः
द्वितीयोऽङ्कः →

॥ श्रीः॥

विक्रमोर्वशीयम्।


॥ प्रथमोऽङ्कः ॥

वेदान्तेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी
 यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः।
अन्तर्यश्च मुमुक्षुभिर्नियमितप्राणादिभिर्मृग्यते
 सः स्थाणुः स्थिरभक्तियोगसुलभो निःश्रेयसायाऽस्तु वः॥१॥


॥श्रीः॥

कल्पलता टीका

  रम्यां कान्तिं समीक्ष्य प्रभुरपि मनसो योगिनां चक्रवर्ती
   भ्रान्तः सन् यां स ईशो व्यपहृतनिजधीः क्लान्त एवान्वधावत् ।
  तस्या एवोज्वलाया रसमयवपुषो विश्वसंमोहकर्त्र्याः
   मोहिन्याः कापि शक्तिः परिलसतु मम खान्तपद्मे सदैव ॥ १॥

    अमन्दानन्दसंदोहं गोविन्दं गोपनन्दनम् ।
    वन्दे राकेन्दुवदनं सुन्दरं सुन्दनाशिनम् ॥ २॥

 अथ भगवच्चरणनीरजकृपाकटाक्षप्रसृतदिगन्तकीर्तिर्विद्वद्वृन्दवन्दितपदद्वन्द्वारविन्दः समस्तशास्त्रकाननसंचारपञ्चाननः कविकुलमुकुटमणिस्तत्रभवान् महाकविः कालिदासः स्वकीयोज्वलज्ञानपावकपावनीकृतचारुचामीकरप्रतिभनवत्रोट्कनिर्माणजा-तकौतूहलः नवीननवरसधाराभिः भुवि समानयन् सुन्दरीमपरां सुरसरितं खाभिलषितदेवताप्रसादनमुखीं निखिलप्रत्यूहसमूहव्यपोहनपूर्वकं प्रारिप्सितस्य ग्रन्थस्य परिसमाप्तिमूलां स्वीयमाधुरीपरिहसितात्यन्तपाकद्रवीभूतमृद्धीकामधुरतां समस्तजन-संघमङ्गलवाक्सन्दानितां नान्दीमवतारयति-

 वेदान्तेष्विति -सः स्थाणुः शिवो वो युष्माकं सामाजिकानां निःश्रेयसाय मोक्षाय कल्याणाय चास्तु । प्रेक्षकाणां मङ्गलं कुर्यादित्यर्थः । यं शिवम् भगवत्स्वरूपविवेचनपरकवेदान्तशास्त्रेषु एकपुरुषं अनन्यगुणगणैकभाजनं रोदसी द्यावापृथिव्यौ भूमिगगने वा व्याप्य परिवृत्य विद्यमानमाहुर्वर्णितवन्तो मीमांसकाः। यं शिवं अद्वितीयं सर्वव्यापिनं उक्तवन्तो वेदान्तिन इत्यर्थः । चराचरपालके यस्मिन् शिवे ईश्वर इति शब्दः शिवातिरिक्तार्थप्रतिपादको न भवति । अन्यो विषयः प्रतिपाद्यः यस्य सः अन्यविषयः, न अन्यविषयः अनन्यविषयः ईश्वरेति शब्दः तस्य महेश्वरस्य सर्वशक्तिमत्वात् अर्थमनतिक्रम्य विद्यन्ते अक्षराणि यस्मिन्सः यथार्थाक्षरः सत्यमेव वर्तते । स सत्यमेव सर्वेषां रक्षकः त्रिभुवनं स्वाच्छानुसारं चालयितुं प्रभवन्नीश्वरो विद्यत इत्यर्थः । यश्च नियमिताः रुद्धाः प्राणादिवायवः यैस्तैर्नियमितप्राणादिभिर्मुमुक्षुभिः संसारादसारान्मोक्षाकांक्षिभिः योगिभिः अन्तःकरणे एकाग्रेण मनसा मृग्यते अन्विष्यते । यं योगिनः प्राणादीन् आयम्य स्थिरेण चेतसा ध्यायन्तः अन्तर्हृदयगुहायामन्वेषयन्तीत्यर्थः । यश्च महादेवः स्थिरा अव्यभिचारिणी भक्तिः स्थिरः निश्चलो योगश्चित्तैकाग्र्यं ताभ्यामेव सुखपूर्वकं लब्धुं शक्यो वर्तते । यः शिवः चित्तं सम्यक्तया निरुद्ध्य ध्यानावस्थितेनैव मनसा केवलमहर्निशं श्रद्धया स्मरणेनैव यतिभिः सौकर्येण लभ्यो विद्यत इत्यर्थः । एतादृशः परेशः स शिवः वः शं करोतु इति सूत्रधारनटीनटादिविविध-पात्राणां सामाजिकानां च मङ्गलमनुसंदधती नान्दी समाप्तिं प्राप्ता ।

 सरलार्थ:-यं महेश्वरं वेदान्तिनः शास्त्रेषु भूमिगगने आवृत्त्य विद्यमानं सर्वव्यापिनमद्वितीयं प्राहुः । अस्य जगतः उत्पत्तिस्थेमभङ्गैककारणे यस्मिन् महादेवे शिवातिरिक्तदेवतासु अप्रयोज्यः ईश्वरेति शब्दः यथार्थ एव विद्यते, स एव सत्यं स्वीयैर्गुणैरीश्वरपदयोग्यो वर्तते इति भावः । यश्च शङ्करः अन्तर्मनसि अन्यविषयव्यावृत्तेन चेतसा प्राणादीन्निरुद्ध्य यतिभिरन्विष्यते स योगिनामप्यगम्यः इति तात्पर्यम् । नितान्तमव्यभिचारिण्या भक्त्या योगेन च मुनिभिर्यथाकथमपि प्राप्यः स शिवः जनानां भद्रं विदधातु-इति सरलार्थः ॥ वेदान्तो हि नामोपनिषत्पर्यायभूतं जीवेश्वरजग त्स्वरूपविवेचनात्मकं शास्त्रम् । जगतोऽस्य कः कर्ता. किंस्वरूपकः, तस्य च जीवस्य कः सम्बन्धः, कथं स लभ्यः, कस्तस्योत्पादयितेति विविधाः प्रश्नाः यस्मिन् शास्त्रे मीमांस्यन्ते तच्छास्त्रं वेदान्तशास्त्रमित्यभिधीयते । उपनिषदामनेकत्वेन वेदान्तेषु इति वहुवचनम् । एकपुरुष इति - स शिवः एक एवास्ति । एकस्तावत्स्वसजातीयविजातीयस्वगतभेदशून्यः इत्यर्थः । भेदः स्वसजातीयस्तावत्तस्माद् घटाद् घटोऽयं भिन्नः इति; विजातीयमेदस्तावद् घटात् पटो भिन्न इति; स्वगतस्तावद्भेदः पूर्वम् योऽहं बालः आसम् स एव युवा साम्प्रतम् इति त्रिविधभेदशून्यः एकः अद्वितीयश्चोच्यते-इति रामानुजाचार्याणां वेदान्ततत्त्वसारे । यदुक्तं शास्त्रेषु “एक एव रुद्रः स द्वितीयाय न तस्थे” (तैत्तिरीये); “स एको य एकः स रुद्रो यो रुद्रः स ईशानो य ईशानः स भगवान् महेश्वरः" इत्यथर्वशिरउपनिषदि। पुरुषत्वं च तस्य-“पुरुषो वै सन्महो नमः"; यथा वा कौर्मे, “पश्यन्ति शम्भु कविमीशितारं रुद्रं बृहन्तं

पुरुष पुराणम्"; तथा च शङ्करगीतायां “पुरुषो नाम सम्पूर्णः शिवः सत्यादिलक्षणः” इत्यादौ शिवस्य भक्तानां सकलकामनापूरणसामर्थ्य नैकपुरुषत्वमसाधारण्यं च सूचितम् । रोदसी तु सान्तस्य रोदःशब्दस्य द्विवचनम्-“भूद्यावौ रोदस्यौ रोदसी च ते" इत्यमरः । महेश्वरस्य सर्वव्यापित्वमपि प्रसिद्धम् - यथाथर्वशिरउपनिषदि, “स ओङ्कारो य ओङ्कारः स प्रणवो यः प्रणवः, स सर्वव्यापी यः सर्वव्यापी;" "व्यापको हि भगवान् रुद्रः" । श्वेताश्वतरे च. "सर्वाननशिरोग्रीवः

सर्वभूतगुहाशयः । सर्वव्यापी स भगवान् तस्मात्सर्वगतः शिवः” इत्यादि श्रुतिवाक्यैः प्रमाणितं महेश्वरस्य सर्वगतत्वम् । ईश्वरत्वं नाम यथाह भगवान् पतञ्जलिः "क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः, तत्र निरतिशयं सर्वज्ञबीजम् स एव पूर्वेषामपि गुरुः कालेनानवच्छेदात् ।” अनेनेश्वरपदेन शिवस्य सत्ता कर्मविपाकादिनिरपेक्षा वर्तत इति सूचितम् । ईश्वरस्तु "ईष्टे इतीश्वरः" "स्थेशभास" (३।२।१७५) इति सूत्रेण वरच्प्रत्ययः । अथवा अश्नुते इतीश्वरः, अश्नोतेः औणादिको वरट्, उपधाया ईत्वं च, अश्नुते सर्वत्र व्यापकतया तिष्ठतीति ईश्वरः । अन्तरिति यथा दहरोपासनायाम्-“अथ यदिदं अस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशः तस्मिन्यदन्तम् तदन्वेष्टव्यं यद्वावजिज्ञासितव्यम्" इत्थमुपनिपत्सु ईश्वरस्य अन्तःस्थलं प्रसिद्धम् । मोक्तुमिच्छा मुमुक्षा । "अविद्यानिवृत्तिरेव मोक्षः” इति श्रीमच्छङ्कराचार्यभगवत्पादाः, स चात्यन्तिकदुःखनिवृत्तिसहकृतपरमानन्दप्राप्तिरूपः । अस्माकं ज्ञानावरणकर्त्री इयमविद्या नश्यतादिति उत्कटाकाङ्क्षिणो जनाः उच्चकोटिस्थाः मुमुक्षवस्तैरीश्वरो ध्यायत इत्यर्थः । प्राणोऽपानः समानश्चोदानव्यानाविति पञ्च शरीरान्तःसञ्चारिणो वायवः । तान् निरुद्ध्य यतयो ध्यायन्ते इति । स्थाणुरिति “व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः" इत्यमरः । स्थाणुपदस्य शिवे प्रवृत्तिनिमित्तत्वं यथा पुराणेषु “स्थाणुवन्निश्चलो यस्मात् स्थितः स्थाणुरतः स्मृतः" । "सर्ववैकारिकलये स्थाणुस्तिष्टति येन सः” इति निरुक्ताच्च । स्थिरभक्तियोगेनेति स्थिरा अव्यभिचारिणी विषयादिभिरुनुच्छेद्या । भक्तिर्नाम यथाहुः भगवन्तो रामानुजाचार्यचरणाः “तैलधारावदविच्छिन्नस्मृति-सन्तानरूपा भक्तिः”; अथवा "आराध्यत्वेन ज्ञानं भक्तिः" इति उदयनाचार्याः, “सा त्वस्मिन् परमप्रेमरूपाऽमृतस्वरूपा चेति" देवर्षिर्नारदः । “योगश्चित्तवृत्तिनिरोधः" इति भगवान् पतञ्जलिः । शिवस्य भक्तियोगलभ्यत्वं श्वेताश्वतरे "भावग्राह्यमनीडाख्यं भावाभावकरं शिवम्" इति । निःश्रेयसायेति, “मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृत"मित्यमरः । अत्र "तुमर्थाच्चेति” (२।३।१५) चतुर्थी-मोक्षं ददातु इत्यर्थः। अत्र चतुर्थ्या निमित्तत्वमर्थः मोक्षनिमित्तं भवतु इत्यर्थः ॥ इति विवेचनम् ।

 कविकुलतिलकेन तत्रभवता कालिदासेनानेन मङ्गलगानेन चिकीर्षितस्य काव्यस्य वस्तु अपि व्यक्तीकृतम् । प्रथमचरणे भगवतः वेदान्तेषु एकपुरुषवप्रतिपादनेन अस्य त्रोटकस्य नायकोऽपि इतिहासादिषु पुरुषेषु एक एव असाधारणोऽस्तीति गम्यते । तथा च यथा भगवतः सर्वव्यापित्वमुक्तं तथैव तस्य पुरूरवसः दयादाक्षिण्यादिगुणवत्त्वेन अलौकिकेन च पराक्रमेण धवलितदिगन्तकीर्त्या च सर्वव्यापकत्वं प्रदर्शितम् । भगवतः ऐश्वर्यप्रदर्शनेन नायकस्यापि विलक्षणैश्वर्यशालित्वेन राजपदभाजनत्वं यथार्थमेवेति सूचितम् । यथा शिवः संसारान्मुमुक्षुभिः मृग्यते तथैव विक्रमः सुरारीणामाक्रमणान्मुमुक्षुभिरप्सरसां वृन्दैः प्राणादिवायुसंचारस्याप्यपेक्षामकुर्वद्भिर्बहिरन्वेषितः, तथाच नायिकयान्त

(नान्द्यन्ते।)

 सूत्रधार:-अलमतिविस्तरेण ।


श्वेतसि वारंवारमन्वेषित इति व्यज्यते । स्थाणुपदप्रदानेन नायिकायाः विरहे नायकस्य नितान्तं स्थाणुसदृशी निश्चला परिस्थितिर्बभूवेति ध्वन्यते । स्थिरया भक्त्या राजनि उर्वश्याः प्रेम्णा, योगेन च सङ्गमनीयाख्यमणिसंबन्धेन सुलभः प्राप्यः इति प्रकटीक्रियते । एतेन राज्ञः उर्वशी कामुकत्वं, तस्याश्चापि कामिनीत्वं, उभयोः प्रीतिः इत्यादि वस्तु व्यज्यते । तथा च एवं विशेषणगणविशिष्टः स प्रथितप्रभवः सामाजिकानां योगक्षेमात्मकं कल्याणपूर्वकरक्षणं कुर्यादिति सर्वमसूचि कविना नान्दीमुखेनेति ईश्वरविषयिणी कविगतरतिरनेन रत्याख्यो भावो ध्वन्यते । तथा च निबद्धोऽयं श्लोकः शार्दूलविक्रीडितेन छन्दसा-यदुक्तं वृत्तरत्नाकरे, “सूर्याश्वैर्मसजस्ततः सगुरवः शार्दूलविक्रीडितम्" यस्याः पादे मकारसकारौ जकारमकारौ तकारौ गकारश्च भवन्ति तद्वृत्तं शार्दूलविक्रीडितम् नाम । अत्र च द्वादशभिः सप्तभिश्च यतिः ॥१॥

 नान्द्यन्त इति-विघ्नोपशान्तये आदौ क्रियमाणा आशीर्वचनसंयुक्ता देवद्विजनृपादीनां स्तुतिर्नान्दी । तथा च नन्दयति आनन्दयति स्तवेन देवादीन् आशिषा वा सभ्यान् इति इदन्तनन्दधातोः “पचाद्यच्" (३।१।११४) तेन नन्द इति रूपम्, ततः प्रज्ञादित्व त् अण्प्रत्ययः स्वार्थे; तेन नन्द एव नान्दः पश्चात्स्त्रियां ङीप् तेन नान्दी-तथाह भरतः “यद्यप्यङ्गानि भूयांसि पूर्वरङ्गस्य नाटके । तथाप्यवश्यं कर्तव्या नान्दी विघ्नप्रशान्तये" । नान्दीलक्षणं च "देवद्विजनृपादीनामाशीर्वचनपूर्विका । नान्दी कार्या बुधैर्यत्नान्नमस्कारेण संयुता । सूत्रधारः पठेदेनां मध्यमं स्वरमाश्रितः । नान्दीं पदैर्द्वादशभिरष्टाभिर्वा पदैर्युताम् । पदैरथ समैः...” इति । पदगणननियमोऽपि तत्रैव प्रोक्तः "श्लोकपादपदं केचित् सुप्तिङन्तमथापरे। परेऽवान्तरवाक्यं च पदमाहुर्विशारदाः" इति ॥ नान्दी हि मङ्गलगानं नाटकादौ प्रयोज्यम् । अत्र समासोक्त्या अभिधेयस्य वस्तुनः प्रकाशनान्नान्दीयं पत्रावली नामधेया, यदुक्तं नाट्यदर्पणकारिणा "यस्यां बीजस्य विन्यासो ह्यभिधेयस्य वस्तुनः । श्लेषेण समासोक्त्या वा नाम्ना पत्रावली तु सा॥" इयं च समपदा नान्दी । नान्दीपाठानन्तरं सूत्रधारः प्रविशति ।

 सूत्रधार इति- सूत्रं नाटकीयमुख्यकथासूत्रं धारयति प्रकाशयति इति सूत्रधारः नाटकीयकथासूचको नटप्रधानः पुमान् । सूत्रधारलक्षणं यथा सङ्गीतसर्वस्वे "वर्णनीयतया सूत्रं प्रथमं येन सूच्यते । रङ्गभूमिं समाक्रम्य सूत्रधारः स उच्यते।" धृधातोः “कर्मण्यण्" (३।२।१) इत्यण्प्रत्ययः। सूत्रधारो नाटकव्यवस्थापकः प्रधाननट इत्यर्थः॥

 अलमिति-अतिविस्तरेण सुबहुलेन नान्दीप्रयोगेण अलं पर्याप्तमिति । एतेनैव मङ्गलकार्यनिर्वहणात् । “अलं भूषणपर्याप्तशतिवारणवाचकम्" इत्यमरः ॥

(नेपथ्याभिमुखमवलोक्य,)

मारिष ! इतस्तावत् ।

 मारिष ! पारिपार्श्वकः - भाव ! अयमस्मि ।

 सूत्रधारः- मारिष ! परिषदेषा पूर्वेषां कवीनां दृष्टरसप्रवन्धा अहमस्यां कालिदासप्रथितवस्तुना नवेन त्रोटकेन उपस्थास्ये । तदुच्यतां पात्रवर्गः स्वेषु स्वेषु पाठेषु अवहितं भवितव्यमिति ॥


अतिविस्तरेणेति वारणार्थे तृतीया । विस्तरेणेति “प्रथने वावशब्दे (३/३/३३ पाणिनीये) इति शब्दप्रथने घञ्-निषेधस्तदभावे च अप्प्रत्ययः, तेन विस्तरः, अन्यत्र विस्तारः।

  नेपथ्येति - नेपथ्यं नाम रजस्थलस्य पश्चात् यवनिकान्तरितो वर्णग्रहणादि-योग्यकुशीलवकुटुम्बावस्थानदेशः । “कुशीलवकुटुम्बस्य स्थली नेपथ्य इष्यते" इति वचनात्रिपुरारेः । “नेपथ्यं स्याद्यवनिका रङ्गभूमिः प्रसाधनम्" इत्यजयः। नेपथ्याभिमुखं यवनिकासंमुखमवलोक्य दृष्ट्वा सूत्रधारो वदति । नेपथ्याभिमुखमवलोक्येति कविवाक्यम् ।

 मारिषेति - मा रेषति न हिनस्ति दुष्टाभिनयादिना सामाजिकानां शान्तिं मनोविनोदं चेति मारिषः । पारिपार्श्वको नटविशेषः । माशब्दोपपदात् रिष हिंसायाम् (भ्वा. प. से.) इति रिष्धातोः नाम्युपधत्वात् "इगुपध" (३।१।१३५) इति कः प्रत्ययः । नटः सूत्रधारेण मारिष इति वाच्यः "सूत्री नटेन भावेति तेनासौ मारिषेति च-" इति वचनात् । अथवा मर्षणात् सहनात् मारिषः “पृषोदरादिः" (६।३।१०९) "मारिषः शाकभिदि आर्ये, नाट्योक्त्या पुंसि योषिति" इति दक्षाम्बायाम् । इत अस्मिन् स्थाने इति सप्तम्यां सार्वविभक्तिकस्तसिल । तावत्तु वाक्यालंकारे । आगम्यतामिति शेषः ॥ प्रविश्य रङ्गभूमिमेत्येति ।

 पारिपार्श्वकः-परि पार्श्व यथा भवति तथैव वर्तते इति पारिपार्श्वकः सूत्रधारादीषन्न्यूनको नटः । “सूत्रधारस्य पार्श्वे यः प्रवदन् कुरुतेऽर्थनाम् । काव्यार्थसूचनालापं स भवेत् पारिपार्श्वकः ।" भाव इति सूत्रधारस्य बहुमानकमिदं संबोधनम् । सूत्रधारं वदेद् भावः इति वै पारिपार्श्वकः । अयमस्मीति अयमहं भवदाज्ञां अनुपालयितुमुपस्थितोऽस्मीति भावः ।

 सूत्रधारः- मारिषेति-एषा परिषद् विदुषां सभा पूर्वेषां प्राचीनानां कवीनां दृष्टा अवलोकिता रसमयाः प्रबन्धाः काव्यानि यया सा एतादृशी वर्तते। अनया सभया प्राक्तनानाम् कवीनां रसपरिपूर्तानि काव्यान्यवलोकितानीत्यर्थः । रसप्रबन्धः इत्यत्र रसमयाः प्रबन्धाः इति मध्यमपदलोपी समासः । अहमिदानीमस्यां परिषदि कालिदासेन कविना ग्रथितं निबद्धं वस्तु इतिवृत्तं यस्मिन् तेन  पारिपार्श्वक: - यथाज्ञापयति भावः । (इति निष्क्रान्तः।)

 सूत्रधारः -(प्रणिपत्य,) यावदिदानीमार्यविदग्धमिश्रान् विज्ञापयामि।

  प्रणयिषु वा दाक्षिण्यादथवा सद्वस्तुपुरुषबहुमानात् ।
  शृणुत जना अवधानात् क्रियामिमां कालिदासस्य ॥२॥


कालिदासग्रथितवस्तुना कालिदासरचितेन नवेनादृष्टपूर्वेण त्रोटकेन त्रोटकाख्यकाव्येनोपस्थास्ये सज्जीभूय उपस्थितो भविष्यामीति सारम् । त्रोटकम् नाम "सप्ताष्टनवपञ्चाङ्कं दिव्यमानुषसंश्रयम् । त्रोटकं नाम तत्प्राहुः प्रत्यङ्कं सविदूषकम् ।" इति दर्पणोक्तेः ।

 तदिति - तदनेन कारणेनोच्यतामाज्ञाप्यतां पात्रवर्गः नटीनटादिनर्तकसमूहः स्वेषु स्वेषु पाठेषु वेषरचनानुसारमुक्तिप्रत्युक्तिप्रभृतिव्यवहारेषु अवहितै- सावधानैः भवितव्यम् । पात्रैस्तदर्थ सर्वथा सज्जीभवितव्यमिति तात्पर्यम् ॥

 पारिपार्श्वक: - यथाज्ञापयति भावः । भावस्य वचनमेव प्रमाणम् । यथा भावेनोच्यते तथैव करोमीत्यर्थः । इत्युक्त्वा निष्क्रान्तो रङ्गभूमितः अपक्रान्तो गत इत्यर्थः।

 प्रणिपत्य- आदरार्थमभिवादनं विधायेत्यर्थः ।

 यावदिति -यावता कालेन पात्रवर्गः सज्जीभवति तावता समयेनेदानीमधुना आर्याः सज्जनाः विदग्धाः सकलकलाकुशलाः तन्मिश्रान् युक्तान् सभ्यान् अथवा आर्याश्च ते विदग्धाश्च आर्यविदग्धाः तेषु मिश्रान् पण्डितान् श्रेष्ठान् विज्ञापयामि निवेदयामि । "आराद् याता इत्यार्याः" "आराद्दूरसमीपयोः” अनेन आरादसभ्यतादुराचारादिदोषेभ्यो दूरंगताश्च शिक्षासभ्यताविद्यादिभिः देवतास्पदत्वं प्राप्ता इत्यार्याः । पृषोदरादित्वात् साधुत्वम् । ते च वेदान्तर्गतविधिनिषेधाधीनाचारवन्तो भवन्ति । अथवा अर्तुं योग्यः आर्यः "ऋ गतौ” (भ्वा. प. अ.) "ऋहलोर्ण्यत्" (३।१।१२४) “कर्तव्यमाचरन् काममकर्तव्यमनाचरन् । तिष्ठति प्रकृताचारे स तु आर्य इति स्मृतः" इति वसिष्ठः ।

 "आर्यौ सज्जनसौविदौ" इत्यनेकार्थकैरवाकारकौमुदी । “कलाप्रवीणो विदग्धः स्यात्" मिश्रपदं पूज्ये श्रेष्ठे च नित्यबहुवचनम् यथा “मरीचिमित्रैर्दक्षेणेति" विष्णुपुराणे प्रयोगात् ।

 प्रणयिष्विति - प्रणयः प्रीतिर्येषामस्तीति प्रणयिनः तेषु प्रीतिपात्रेषु दाक्षिण्याद् आनुकूल्यात्, · अथवा सत् सुन्दरं यद्वस्तु वर्णनीयेतिवृत्तं, सत् कुलीनः पुरुषः नायकः तयोः वस्तुपुरुषयोः बहुमानात् आदरातिशयात् कालिदासस्य कवेरिमामभिनीयमानां क्रियमाणां वा क्रियां त्रोटकाख्यां कृतिं अवधानात् स्थिरेण चेतसा जनाः सामाजिकाः शृणुत कर्णपथमानीय मनोविनोदं कुरुत ।

(नेपथ्ये)

अज्जा, परित्ताअध आस्य मुअथ । जो सुरपक्खवादी, जस्स वा अम्बरअले गईअत्थि । [आर्याः परित्रायध्वम् परित्रायध्वम् । यः सुरपक्षपाती यस्य वाऽम्वरतले गतिरस्ति ].


 प्रीतिपात्राणि यानि नाटकीयपात्राणि तेषामिच्छानुसारं वर्तनेन, अथवा प्रतिपाद्ये वस्तुनि च नायकस्यैतिवृत्ते चोत्कण्ठया सन्मानेन वा यूयं सर्वे सामाजिकाः सावधानतया कालिदासकृतां पुरोऽभिनीयमानां कृतिं प्रेक्षध्वमिति तात्पर्यम् । इत्यहं सादरं निवेदयामि ।

 प्रणयः - णीञ् धातोः “एरच्" (३१३:१) तेन प्रणयः प्रणय अस्यामस्तीति प्रणयिन्-इनिः । "प्रणयः प्रसरे प्रेम्णि" इति मेदिनी । “अयं मम अहमस्येत्याकारकः पक्षपातविशेषः प्रेम, तथा च तदेव प्रेमावलोकनादिना प्रकर्षनीतं अपराधसहस्रेणापि अविचालितं प्रणयः" इति काव्यप्रकाशटीकाकृतः । दाक्षिण्यं हि नाम परच्छन्दानुवर्तित्वम्-परस्येच्छानुसरणमेव दाक्षिण्यम् । सावधाना भवन्तु भवन्त इति प्रार्थयते सूत्रधारः सामाजिकान् । इयं चार्या जातिः । तल्लक्षणं यथा श्रुतबोधे–“यस्याः पादे प्रथमे द्वादशमात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये चतुर्थक पञ्चदश सार्या" ॥२॥

 नेपथ्य इति - वक्ष्यमाणेयमुक्तिर्चवनिकान्तरितात् वैपग्रहणस्थलादुच्यते ।

आर्याः सज्जनाः ! परित्रायध्वम् परित्रायध्वम् रक्षत रक्षत ।

 ये केचन सुरपक्षपातिनः देवताभिवाञ्छितं सम्पादयितुं कामयमानास्ते रक्षां कुर्वन्तु । येषां च अम्बरतले आकाशमार्गे गतिरस्ति । अस्माकमुपरि आक्रमणं आकाशे क्रियते वयं च सुरेन्द्रानुचराः, अतः ये केचन जनाः देवेन्द्रमुपकर्तुं अभिवाञ्छन्ति ये च गगनेऽपि अप्रतिहतगतयः सन्ति ते अस्माकं साहाय्यं कुर्वन्तु इत्यर्थः।

 क्वचिद् क्वचिद् गाथासु लिङ्गवचनविपर्यासः क्षम्यः । यथेह “यः सुरपक्षपाती"ति विशेषणम् सम्बोध्यमानानां आर्याणां वर्तते, अतः विशेष्यानुसारं विशेषणस्यापि बहुवचनत्वं प्रशस्यम् किन्तु इह प्राकृते क्वचन लिङ्गवचनविलोमता क्षम्यते "प्राकृते लिङ्गवचनमतन्त्रं पूर्वनिपातनियमश्चेति"वचनात् ।

  अवधेयमिदमत्र यदभिधेयं वस्तु व्यक्तीक्रियते । यतः "अर्थोपक्षेपकैः सूच्यं पञ्चभिः प्रतिपादयेत् । विष्कम्भचूलिकाङ्कास्याङ्कावतारप्रवेशकैः' इति वचनानुकूलं प्रकृते नेपथ्ये यद्यदस्ति प्रोक्तं, तत्तत्सर्वं चूलिका "अन्तर्जवनिकासंस्थैश्चूलिकार्थस्य सूचनम्' इति लक्षणात् । यतः नेपथ्य इत्यारभ्य-'अम्बरअले गईअत्थि' पर्यन्तं सर्व महादेवस्य वरिवस्यां विधाय प्रत्यागच्छन्त्याः चित्रलेखाद्वितीयायाः उर्वश्याः दानवापहरणं सूचयति ।  सूत्रधारः- (कर्ण दत्त्वा।) अये ! किं नु खलु मद्विज्ञापनान्तरमार्तानां कुररीणामिवाकाशे शब्दः

  मत्तानां कुसुमरसेन षट्पदानां
   शब्दोऽयं परभृतनाद एष धीरः।
  आकाशे सुरगणसेविते समन्तात्
   किं नार्यः कलमधुराक्षरं प्रगीताः ॥ ३ ॥


 सूत्रधारः - कर्णं दत्त्वा-सावहितं निशम्येत्यर्थः । अयेति सम्बोधनमाश्चर्यसूचकम् । मद्विज्ञापनानन्तरं सभ्येभ्यः मदीयप्रार्थनान्तरमेव आर्तानां पीडितानां कुररीणां अबलानां पतत्रिणां स्वर इव यस्य कस्यापि पीडितस्य आर्तनादः आकाशे श्रूयते- इति विस्मयः । कुररी तु उत्क्रोशापरनामा पक्षिविशेषः "उत्क्रोशकुररौ समौ" इत्यमरः । कुररीणामिवेति-उपमालंकारः । यदुक्तं कुवलयानन्दे-"उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः" अत्र कुररीणां च तासामप्सरसां सादृश्यम् । आर्तनादे च साधर्म्यम् यतः “साधर्म्यमुपमामेदे” इति मम्मटाचार्याः । अनेनोपमालङ्कारेणाप्सरसां कुररीसदृशमबलत्वम् , स्वरतीक्ष्णतामाधुर्यादिकं वस्तु व्यज्यते-इति वस्तुव्यङ्ग्यम् ।

 मत्तानासिति - कुसुमरसेन पुष्पाणां मकरन्देन मत्तानां मदोन्मत्तानां षट्पदानां भ्रमराणां शब्दोऽयं गुञ्जारवोऽयं किम् ? अथवा आकाशे श्रूयमाणोऽयं निनादः किम् परभृतानां कोकिलानां धीरः स्वरः एव ? अथवा सुराणां देवानां गणैः वृन्दैः सेविते समेते आकाशे समन्तात् सर्वतः नार्यः देवाङ्गनाः किन्नर्यो वा कलानि मनोहारीणि मधुराणि च अक्षराणि यस्मिन् यथा स्यात्तथा प्रगीता गातुमुपक्रान्ताः किमु ? इति सन्देहः ।

  भ्रमराणां गुञ्जनमिदं, उत कोकिलानां स्वरोऽयमथवा किन्नरीणामेव मधुरं गानमिदमाकाशे श्रूयते- इति सन्देहः । षद पादा येषां ते षट्पदाः भ्रमराः "द्विरेफपुष्पलिङ्भृङ्गषट्पदभ्रमरालयः" इत्यमरः। परैः काकादिभिः नियते पोष्यते यः सः परभृतः कोकिलः । “वनप्रियः परभृतः कोकिलः" इत्यमरः । कलानि अव्यक्तानि अक्षराणि अस्मिन् , अथवा कं द्युतिं लान्तीति तानि-अनुप्रासादिभिः शोभमानानि । यद्वा कं शुद्धार्थं लान्तीति प्रसिद्धार्थपदयुक्तानि । अथवा कं स्मरं लान्तीति श्रवणमात्रेण मदनोद्भावीनि अक्षराणि इति कलपदस्यानेकार्थकत्वम् । यतः “को ब्रह्मानिलसूर्याग्निचित्रारियमकेतुषु । विष्णुवाहनशर्वेऽब्धौ सितकणे बसौ श्रुतौ । स्वर्गे चक्रे तथा मित्रे शुद्धेऽर्थे स्मरकालयोः ॥" इति । प्रगीता गातुमुपक्रान्ता इति कर्तरि क्तप्रत्ययः।

  अत्र च एकस्वरावयवलक्षणस्य शब्दस्य साम्यात् त्रिगतं नाम वीथ्यङ्गम् । यदुकं धनञ्जयेन -"श्रुतिसाम्यादनेकार्थयोजनं त्रिगतं मतम् ।" तथा च दर्पणेऽपि "त्रिगतं स्यादनेकार्थयोजनं श्रुतिसाम्यतः" यतः षट्पदपदपिकादीनामेकस्मिन्नेव शब्दे (विचिन्त्य,) भवतु । ज्ञातम् ।

 ऊरूद्भवा नरसखस्य मुनेः सुरस्त्री
 कैलासनाथमनुसृत्य निवर्तमाना।
वन्दीकृता विबुधशत्रुभिरर्धमार्गे
  क्रन्दत्यतः करुणमप्सरसां गणोऽयम् ॥ ४ ॥


श्रुतिसाम्यात् सन्देहमूलकं परिकल्पनमस्ति । अत्र च ससन्देहालङ्कार - "ससन्देहस्तु भेदोक्तौ” इति काव्यप्रकाशकृतः । अथवा "सन्देहः प्रकृतेऽन्यस्य संशयः प्रतिभोत्थितः" इति विश्वनाथकविवराः । अत्र किमिदं गानं, अथत्र, कोकिलस्वरः, षट्पदगुञ्जनं वा इति सन्देहात् ससन्देहालङ्कारः । अनेन ससन्देहालङ्कारेण पीडितानामप्यप्सरसामार्तनादः पिकस्वर इव अथवा गानमिव नितान्तं कलमधुराक्षरं मदनोत्पादकमभवत् इति अप्सरसां कलकण्ठीत्वं मनोहारित्वं च वस्तु ध्वन्यते। यद्वा पिक इव तासां रवः आसीदिति उपमालङ्कारः ससन्देहालङ्करणाद् व्यज्यते ।

 प्रहर्षिणीवृत्तम् । तल्लक्षणं तु-"प्रहर्षिणी म्नौ ज्रौग् त्रिकदशकौ"- यस्य पादे मकारनकारजकाररेफगकारा भवन्ति तद्वृत्तं प्रहर्षिणी नाम- यत्र च त्रिभिर्दशभिश्च यतिः । इति पिङ्गलछन्दःसूत्रे ॥ ३ ॥

विचिन्त्येति-किमेतदिति विचार्य कथयति ।
भवतु-साधु इत्यर्थः । ज्ञातम् किमेतदिति ।

 ऊरूद्भवेति- नरसखस्य नरनारायणयोर्नरावतारस्य अर्जुनस्य सखा मित्रं नारायणस्तस्य मुनेः नारायणाख्यमुनेः ऊरूद्भवा ऊरोदेशतः समुत्पन्ना सुरस्त्री उर्वशीनामधेया देवाङ्गना कैलासनाथं शम्भुननुसृत्य सेवित्वा निवर्तमाना गृहं प्रत्यागच्छन्ती विबुधानां सुराणां शत्रुभिः दैत्यैरर्धमार्गे मार्गान्तराले एव बन्दीकृता हठान्निगृहीता । अतः अप्सरसां अयं गणः करुणं यथा स्यात्तथा क्रन्दति रोदिति ।

  अप्सरस्सु श्रेष्ठा साक्षाद्विष्णोरूरुतः समुत्पन्ना दिव्यस्त्रीरत्नं उर्वशी दानवैरपहृता। अत एव अप्सरोभिराकाशे परमकरुणतया रुद्यते- इति भावः ।

  इयमुर्वशी नारायणस्योरुदेशतः समुद्भूतेति पौराणिकी श्रुतिः । कैलासनाथमनुसृत्येति “कर्मप्रवचनीययुक्ते द्वितीयेति" (२॥३॥८) द्वितीया । बन्दीकृता इति च्विः । विबुधा देवाः “अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः" इत्यमरः। मार्गस्यार्धमिति अर्धमार्गः इत्यत्र पिप्पल्या अर्धमिति अर्धपिप्पली-तद्वत् समासः।

 अत्र च भयानकाख्यो रसः-भयः स्थायी क्रन्दनकम्पादिकमनुभावः, संत्रासादयो व्यभिचारिणः।

  श्लोकोऽयं वसन्ततिलकावृत्तेन निबद्धः । उक्तं हि “उक्ता वसन्ततिलका तमजा जगौ गः" इति वृत्तरत्नाकरे । यस्मिन् वृत्ते तगणभगणजगणजगणाः गकारौ च भवन्ति

तद्वत् वसन्ततिलकाख्यमिति ॥ ४ ॥

(इति निष्क्रान्तः।)

प्रस्तावना।

ततः प्रविशन्त्यप्सरसः ।

 अप्सरस: -अजा परित्ताअध परित्ताअध । जो सुरपक्खपादि जस्स अम्वरअले गईअस्थि । [आर्याः ! परित्रायध्वम् परित्रायध्वम् । यः सुरपक्षपाती यस्याम्बरतले गतिरस्ति ।]

(ततः प्रविशति अपटीक्षेपेण राजा रथेन सूतश्च ।)

 राजा- अलमाक्रन्दितेन । सूर्योपस्थाननिवृत्तं पुरूरवसं मामेत्य कथ्यतां कुतो भवत्यः परित्रातव्या इति ।


  इति निष्क्रान्तः रङ्गभूमितोऽपक्रान्तः ।

 प्रस्तावना तल्लक्षणं तु "नटी विदूषको वापि पारिपार्श्वक एव च । सूत्रधारेणसहिताः संल्लापं यत्र कुर्वते ॥ चित्रैः वाक्यैः स्वकार्योत्थैः प्रस्तुताक्षेपिभिर्मिथः । आमुखं तत्तु विज्ञेयं नाम्ना प्रस्तावनापि सा"-यत्र सूत्रधारेण सह पात्राणां संल्लापेन प्रस्तुतविषयः समाक्षिप्यते सा प्रस्तावना इति दर्पणकारः । अत्र च एकस्मिन् प्रयोगस्याक्षेपाद् “नेपथ्ये-अज्जा परित्ताअध” इत्यारभ्य "क्रन्दत्यतः करुणमप्सरसां गणोऽयं" इतिपर्यन्तेन अप्सरसां प्रवेशात् प्रयोगातिशयः यदुक्तं च-"यदि प्रयोग एकस्मिन् प्रयोगोऽन्यः प्रयुज्यते । तेन पात्रप्रवेशः स्यात्प्रयोगातिशयस्तदा ।" इति विश्वनाथः।

 इत्थमामुखं समाप्य प्रारभ्यते प्रधानवस्तुवर्णनम् ।

"इति प्रस्तावना"

तत-इति अप्सरसः रङ्गभूमिं प्रविशन्ति ।
अप्सरसः-अज्जा इति-पूर्वं व्याख्यातम् ।

 तत इति - राजा रथमारुह्य ससूतः अपटीक्षेपेण जवनिकापातानन्तरं प्रविशति रङ्गस्थल्यां समायाति।

 यदा कश्चन पात्रः प्रविशति तदा क्वचित् पूर्वं जवनिकापातः क्रियते तदनन्तरं च तस्य प्रवेशः। अपटी जवनिका । यदुक्तम् -"अपटी काण्डपटः स्यात् प्रतिसीरा जवनिका तिरस्करणी" इति हलायुधः । केचन न पटीक्षेपः अपटीक्षेपः इति विग्रहं कुर्वन्ति मन्यन्ते च यत् जवनिकायाः अधःपातं विनैव प्रवेशः इति । किन्तु अत्र पुरूरवसः प्रथमप्रवेशादसूचितत्वाच्च प्रवेशपूर्वं जवनिकापातस्तु युक्त एव ।

 अलमिति- आर्तनादेन पर्याप्तम् । अत्र वारणार्थे तृतीया-आर्तनादं मा कुरुतेत्यर्थः । सूर्यस्य भगवतः उपस्थानं सेवा तस्मात् निवृत्तं प्रत्यागच्छन्तं  रम्भा- असुरावलेपादो । [अमुरावलेपतः।]

 राजा- किं पुनरमुरावलेपेन भवतीनामपराद्धम् ।

 रम्भा - सुणादु महाराओ । जा तवोविसेससङ्किदस्स सुउमारं पहअणं महेन्दस्स, पच्चादेसो रूवगव्विदाए सिरिगोरिए, अलंकारो सग्गस्स, सा णो पिअसही उव्वसी कुबेरभवणादो णिवत्तमाणा केणावि दाणवेण चित्तलेहादुदीआ अद्धपथं ज्जेब वन्दिग्गाहं गिहिदा [ शृणोतु महाराजः । या तपोविशेषशङ्कितस्य सुकुमारं प्रहरणं महेन्द्रस्य, प्रत्यादेशो रूपगर्वितायाः श्रीर्गौर्याः, अलङ्कारः सर्गस्य, सा नः प्रियसखी उर्वशी कुवेरभवनान्निवर्तमाना केनापि दानवेन चित्रलेखाद्वितीया अर्धपथ एव बन्दिग्राहं गृहीता ।]


पुरूरवसं तदाख्यं माम् एत्य कथ्यताम् उच्यतां कुतः कस्माद् भयाद् भवत्यः परित्रातव्याः रक्षणीयाः । भगवतः सवितुः सेवां विधायागच्छते मह्यं भवद्भयकारणं निवेद्यतामित्यर्थः । सूर्योपस्थाननिवृत्तमिति विशेषणप्रदानेनोजस्विता सूचिता, चाहमाह्निकान्निवृत्तो भवत्कार्यकरणे सज्जोऽस्मि इत्यपि प्रदर्शितम् ।

 रम्भेति- तदाख्या अप्सरा । असुराणां दैत्यानां अवलेपतः गर्वात् परित्रातव्याः रक्षणीया वयमिति शेषः । अवलेपस्तु गर्वः “अवलेपस्तु दोषे स्याद्गर्वे लेपे च संगमे” इति विश्वः । अवलेपादो इत्यत्र “आदो दुह्य" इति सूत्रेण प्राकृते पञ्चम्यामादो इत्यादेशो भवतीति वररुचिः । “भीत्रार्थानां भयहेतुः' (१।४।२५) इति पञ्चमी।

 राजा-भवतीनां युष्माकं असुरावलेपेन दानवानां गर्वेण किं अपराद्धम् किं प्रतिकूलं कृतम् ?

 रम्भा- शृणोतु इति-दानवैरस्माकं किं प्रतिकूलमाचरितम् इति महाराजः शृणोतु ।जा इति- या तपोविशेषशङ्कितस्य उत्कटे तपसि वर्तमाने जने ममायमिन्द्रत्वं गृहीतुं कामयते इति शङ्कां कुर्वतो महेन्द्रस्य सुकुमारं कोमलं प्रहरणमायुधम् अस्ति- या उर्वशी तपोविभवानां तपोभङ्गाय महेन्द्रस्य कोमलमायुधमस्तीत्यर्थः । या च रूपगर्वितायाः अहं सर्वाभ्यः सुरूपास्मीति साभिमानायाः श्रीगौर्याः शोभाप्रचुरायाः पार्वत्याः प्रत्यादेशः निरसनमेव । पार्वत्या अभिमाननाशिनी इवं उर्वशी अस्तीत्यर्थः । 'प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः ।' इत्यमरः । या च उर्वशी सर्गस्याखिलसृष्टेः संसारस्य वा अलङ्कारः रत्नमेवास्ति । एतादृशी नः अस्माकं प्रियसखी उर्वशी कुबेरभवनात् शिवमुपस्थाय निवर्तमाना प्रत्यागच्छन्ती केनापि दानवेनासुरेण चित्रलेखाद्वितीया चित्रलेखानाम्न्या सख्या सहिता अर्धपथे मार्गमध्ये एव बन्दिग्राहं हठाद् गृहीता निगडय्य अपहृता । पथः अर्धम् इति अर्धपथः । चित्रलेखया एव द्वितीया इति चित्रलेखाद्वितीया । बन्दीव गृहीत्वा  राजा- अपि ज्ञायते कतमेन दिग्विभागेन गतः स जाल्मः ?

 अप्सरसः- इसाणीए दिसाए । [ऐशान्या दिशा।]

 राजा- तेन हि मुच्यतां विषादः । यतिष्ये वः सखीप्रत्यानयनाय ।

 अप्सरस:- सरिसं एदं सोमवंससंभवस्स । [सदृशमेतत्सोमवंशसम्भवस्य ।]

 राजा - क पुनर्मां भवत्यः प्रतिपालयिष्यन्ति ।


इति बन्दिग्राहम्-उपमाने कर्मणि णमुल । अत्र रूपकालङ्कारः अत्र प्रहरणस्य च तस्यास्तादात्म्याद्रूपकम् । तथा तस्याश्च प्रत्यादेशस्याभेदेन, सर्गालङ्कारस्य च ताद्रूप्याद्रूपकालङ्कारः -यदुक्तं कुवलयानन्दे-"विषय्यभेदताद्रूप्यरञ्जनं विषयस्य यत् । रूपकं तत्"-एकस्यैव विषयिणः उर्वश्याः नैकविषयतादात्म्यसम्बन्धात् मालारूपकमिदम् ।

 राजा- अपि प्रश्नार्थे । अपि ज्ञायते, ज्ञायते किं भवतीभिः कतमेन केन दिग्विभागेन दिशः देशेन गतः पलायितः स जाल्मः कपटी दुष्टः । कस्यां दिशि गतः स दुष्टः उर्वशीं गृहीत्वा इति ज्ञायते किमित्यर्थः । कतमेनेति, किंशब्दात् डतमप्रत्ययः “जाल्मस्तु पामरे असमीक्ष्यकारिणि" इति हैमः । जालं करोतीति बाहुलकान्मः । “नेड् वशि कृति” (७/२/८) सूत्रेण । अपि शब्दश्चात्र प्रश्नकारी यदुक्तम् “अपि सम्भावनाप्रश्नशङ्कागर्हासमुच्चये । तथा युक्तपदार्थे च कामचारक्रियासु च" इति विश्वः।

 अप्सरसा- ऐशान्या उदीचीप्राचीदिशोरन्तरगतेन कोणेन गतः पलायितः स दुष्ट इति।

 राजा- तेनेति-तेन हि अधुना विषादः शोकः मुच्यतां परित्यज्यताम् शोकमपकुर्वताम् इत्यर्थः । वः युष्माकं सख्याः प्रत्यानयनाय तस्माद्दुष्टात् पुनरानयनाय यतिष्ये यथासम्भवं प्रयत्नं करिष्यामि ।

 अप्सरस:- सरिसेति-एतत् अस्माकं प्रार्थनायां विचारं विधाय सखीप्रत्यानयनाङ्गीकाररूपमिदं कार्यम्, सोमवंशे चन्द्रवंशे संभवः उत्पत्तिर्यस्य यद्वा संभवति अस्मादिति सम्भवः सोमवंशः सम्भवः यस्य एतादृशः भवतः सदृशं योग्यमेव । कार्यमेतत्स्वकुलानुरूपमेवेति तात्पर्यम् ।

 राजा- क्वेति-क्व कस्मिन् स्थाने भवत्यः यूयम् माम् प्रतिपालयिष्यन्ति सम्भावयिष्यन्ति । मदागमनवेलायाः प्रतीक्षणं कुत्र करिष्यन्ति भवत्यः इति पृच्छति । कुत्र भवत्यो मिलिष्यन्ति यत्राहं तां गृहीत्वा आगच्छेयमिति प्रश्नः । अप्सरमः - एदस्सिं हेमकूडसिहरे। [एतस्मिन् हेमकूटशिखरे ।]

राजा - सूत ! ऐशानीं दिशं चोदयाश्वानाशुगमनाय ।

सूतः - यदाज्ञापयत्यायुष्मान् । (इति यथोक्तं करोति ।)

राजा- (रथवेगं रूपयित्वा) साधु साधु । अनेन रथवेगेन पूर्वप्रस्थितं वैनतेयमपि आसादयेयम्, किंपुनस्तमपकारिणं मघोनः । मम ----

अग्रे यान्ति रथस्य रेणुपदवीं चूर्णीभवन्तो घना-
 श्चक्रभ्रान्तिररान्तरेषु वितनोत्यन्यामिवारावलीम् ।
चित्रारम्भविनिश्चलं हरिशिरम्यायामवच्चामरं
 यन्मध्ये समवस्थिदो ध्वजपटः प्रान्ते च वेगादिलात् ॥५॥

अप्सरस--एतस्मिन्हेमकूटशिखरे-अन्य गिरेपरीत्यर्थः ।

राजा-सूतेति-सारथे : ऐशानी दिशं प्रति अश्वान् आशुगमनाय तत्र शीघ्रप्राप्त्यै चोदय प्रवर्तय ।

सूतः-यदिति यदाज्ञापयति-साधु,यदुच्यते तदेव करोमीत्यर्थः । सूतस्योच्चपात्रत्वात् शुद्धकुलोत्पन्नत्वात् वृद्धत्वाच्च राज्ञि आयुष्मन्निति सम्बोधनं साम्प्रतमेव । इति उक्त्वा यथोक्तं यथानिर्दिष्टं करोति अश्वान् ऐशानी दिशं प्रति प्रेरयति ।

राजा-रथस्य वेगं गतिं रूपयित्वा दृष्ट्वा ] साधु साधु सन्तोषसूचकं पदमिदम् । प्रशंसात्मकं वा । अनेन रथवेगेन अनया धावनगत्या पूर्वप्रस्थितं मत्तः पूर्वमग्रे प्रस्थितं प्रचलितं वैनतेयमपि खगेश्वरं गरुडमपि आसादयेयम् ग्रहीतुं शक्नुयामित्यर्थः । किं पुनः तम् मघोनः इन्द्रस्य अपकारिणं आनेष्टकारिणं दानवन् । अनया गत्या पूर्वमेव पलायमानं वैनतेयमपि प्राप्तुं पारयामि ततः किं तस्य वरा-कस्य दुष्टदैत्यस्य इत्यर्थः । अनेन नायकस्य वलवत्त्वं, धीरत्वं, दृढात्मत्वं दानवस्य तुच्छत्वं च सूचितम् । ममेतिचूर्णकगतं पदं रथस्य विशेषणम् । अग्र इति- रथः आकाशे प्रस्थितः अतएव घनैः सह रथस्य सङ्घर्षः । मम रथस्य अग्रे पुरतः चूर्णीभवन्तः चूर्णत्वं प्राप्नुवानाः पिष्यमाणाः घनाः मेघाः रेणुपदवीं रेणुमार्गं यान्ति अनुसरन्ति । यथा पांसवः रथचूर्णिताः रथजवात् पश्चादेव भवन्ति तथैव चूर्णत्वमाप्ता मेघा अपि रथस्य पश्चादेव रेणुमनुगच्छन्तीति भावः । अरः चक्रस्यावयवीभूतं मध्यकाष्ठम् “अरमङ्गे रथाङ्गस्य" इति शाश्वतः ।

१-चक्रमिदम् ।

२-गतिसौकर्यार्थ स्नेहपूरणस्थानमिदं नाभिनामधेयम् ।

३-अरा एते चक्रस्यैकतानगत्यर्थं चिरस्थायित्वार्थं चान्तरा निक्षिप्यन्ते । एतत्त्ववधेयं यत् चक्रं यदा अत्यन्तजवेन भ्रमति, तदावान्तरकाष्टानि वेगातिश-

२ विक्र०

(निष्क्रान्तो रथेन राजा सूतश्च)

 सहजन्या – हला! गदो राएसी । ता अम्हे वि जधासंदिट्टं पदेसं गच्छम्ह ।[हला ! गतो राजर्षिः, तद्वयमपि यथासन्दिष्टं प्रदेशं गच्छामः ।]

 मेनका - सहि ! एव्वं करेम्ह । [ सखि! एवं कुर्मः ।] (इति हेमकूटशिखरे नाट्येनाधिरोहन्ति ।)


याद् न पृथक्तया दृश्यन्ते । तेन चेत्थमवभासते यदिदं सर्वं दारुमयमेव । तदेवोच्यते चक्रस्य भ्रान्तिः वेगेन परिभ्रमणं अरान्तरेषु चक्रमध्यकाष्ठान्तरालेषु अन्यामिव अरावलीं काष्ठपङ्क्तिं वितनोति अवभासयति। यदा चक्रं वेगेन परिभ्रमति तदा इत्थं दृश्यते यत् अरान्तरेषु काचन नवीना अन्या एव अरावली्निर्मिता इव विद्यते, सर्व काष्ठमयमवभासते इत्यर्थः । चक्रे एकस्मादराद् अरान्तरपर्यन्तं रिक्तस्थलं अन्तरिक्षं वा वर्तते । यदा चक्रं वेगेन परिभ्रमति तदा रिक्तमपीदं स्थलं अरैः संयुतं दृश्यते, अवभासते च निखिलचक्रं काष्ठमयमिति - अतः कविरुत्प्रेक्षते यद् वेगवती चक्रभ्रान्तिः अरान्तरेषु अरान्तरालेऽपि अन्यामिव अरावलीं वितनोति करोति अवभासयतीति तात्पर्यम् । हरीणां अश्वानां शिरसि शोभार्थं बद्धं, आयामः दैर्घ्यमस्यास्तीति आयामवद् दीर्घ चामरं चित्रे आलेख्ये आरम्भो न्यासस्तद्वत् विशेषेण नितान्तं निश्चलं स्थगितं दृश्यते । रथस्य जवातिशयात् दीर्घमपि चामरं चित्रितमिवासीत् । प्रान्ते एकस्मिन् पार्श्वे विद्यमानो ध्वजपटः रथवेगजन्यः यः अनिलः वायुवेगः तस्मात् वेगानिलात्यन्मध्ये रथमध्यभागे समवस्थितः । रथवेगजन्यवायुवेगात् एकत्र स्थितः अपि ध्वजपटः रथमध्ये समायातः इत्यर्थः । अत्र रथस्य वेगातिशयत्वं वस्तु ध्वन्यते । चक्रभ्रान्तिः अन्यामिवारावली वितनोतीत्यत्र कविगतसम्भावनामात्रचमत्कारात् उत्प्रेक्षालङ्कृतिः । यदुक्तं 'संभावना स्यादुत्प्रेक्षा वस्तुहेतुफलात्मना' । चित्रारम्भविनिश्चलमित्यत्र चित्रारम्भवद्विनिश्चलत्वप्रदर्शनेन उपमालङ्कारः । चतुर्थपादे च पुटस्य वायुवेगेन मध्यागमनस्वभाववत्त्वाच्च तस्य वर्णनाच स्वभावोक्तिः-यदुक्तम् "स्वभावोक्तिर्दुरूहार्थस्वक्रियारूपवर्णनम् ।" पुनश्च सर्वासामेवालङ्कृतीनां मिथो निरपेक्षतया चमत्कारकारित्वात् संसृष्टिरलङ्कारः । वृत्तं चात्र शार्दूलविक्रीडितम् । लक्षणं तु 'सूर्याश्वैर्मसजस्ततः सगुरवः शार्दूलविक्रीडितम् ॥५॥

 निष्क्रान्त इति- रथेन रथमारुह्य राजा सूतश्च निष्क्रान्तः गतः, दृष्टिपथादप्सरसां बहिर्भूत इत्यर्थः ।

 सहजन्या - हलेति प्रीतिप्रदर्शकं सखीसम्बोधनात्मकमव्ययम् । राजर्षिः राजसु ऋषिभूतः एव स विक्रमः गतः प्रस्थितः । तत् वयमपि यथासन्दिष्टं यथाप्रदर्शितं प्रदेशं स्थलं गच्छामः। सन्दिष्टमनतिक्रम्य यथास्यात्तथा यथा- सन्दिष्टमिति अव्ययीभावः।

 मेनका- सखि ! एवं कुर्मः यथाप्रदर्शितं स्थलं गच्छामः इति उक्त्वा हेम रम्भा---अवि णाम सो राएसी उद्धरदि णो हिअअसल्लम् ?

[अपि नाम स राजर्षिः उद्धरिष्यति नो हृदयशल्यम् ? ]

 मेनका-सहि, मा दे संसओ भोदु । [सखि मा ते संशयो भवतु।]

 रम्भा -- णं दुज्जआ दाणवा । ननु दुर्जया दानवाः ।]

 मेनका -- उवट्टिदसम्पराओ महिन्दो वि मझमलोआदो सबहुमाणं आणाविअ तं एव्व विबुधविज्ञआअ सेणामुहे णिओजेदि । [उपस्थितसम्परायो महेन्द्रोऽपि मध्यमलोकतः सबहुमानमानाय्य तमेव विबुधविजयाय सेनामुखे नियुङ्क्ते ।]

 रम्भा - सव्वहा विअई भोदु । [ सर्वथा विजयी भवतु ।]

 मेनका — (क्षणमात्रं स्थित्वा ) हला ! समस्सस समस्सस [हला! समाश्वसिहि समाश्वसिहि ।] एस उल्लसिदहरिणकेदणो तस्स राएसिणो सोमदत्तोरहो दीसदी; ण एसो अकिदत्थो पडिणिउत्तिस्सदि त्ति तक्केमि । [एष उल्लसितहरिणकेतनस्तस्य राजर्षेः सोमदत्तो रथो दृश्यते; नैषोऽकृतार्थः प्रतिनिवर्तिष्यत इति तर्कयामि ।]

(निमित्तं सूचयित्वा अवलोकयन्त्यः स्थिताः ।)


कूटशिखरे नाट्येन विलासेन अधिरोहन्ति उपरि गच्छन्ति सर्वा अप्सरसः ।

 रम्भा - अपि नाम इति प्रश्ने - किं स राजर्षिः नः अस्माकं हृदयशल्यं हृदयकण्टकं सखीहरणजं दुःखमुद्धरिष्यति परिहरिष्यति ? हृदये शल्यमिव हृदयशल्यं दुःखमित्युपमा ।

 मेनका - सखि! अस्मिन् ते संशयः शङ्का मा भवतु-मा शङ्कखेत्यर्थः । अवश्यमेव उद्धरिष्यतीत्यर्थः ।

 रम्भा - स्वसंशयकारणं कथयति- दानवाः दुःखेन क्लेशेन जेतुं योग्या भवन्तीति दुर्जयाः खलु ।

 मेनका - उपस्थितः आगतः सम्परायो युद्धं यं स महेन्द्रोऽपि तमेव राजर्षि मध्यमलोकात् सबहुमानं आदरपूर्वकमानाय्य समाहूय विबुधानां सुराणां विजयाय सेनामुखे सेनापतिकार्ये नियुङ्क्ते नियोजयति । अनेन राज्ञः इन्द्रस्यापि विदितपराक्रमत्वं सख्यं च व्यज्यते।

 रम्भा - सर्वथेति अस्य महाराजस्य विजयः सर्वथा साकल्येन भवतु।

 मेनका - क्षणमात्रं किञ्चित्कालं स्थित्वा तूष्णीभूत्वा अवदत् । हला प्रियसखि ! समाश्वसिहि विश्वस्ता भव । श्वसतेः लोटि मध्यमपुरुषैकवचनान्तं क्रिया

(ततः प्रविशति रथारूढो राजा सूतश्च । भयनिमीलिताक्षी
चित्रलेखा दक्षिणहस्तावलम्बिता उर्वशी च।)

 चित्रलेखा- सहि ! समस्सस समस्सस । [ सखि ! समाश्वसिहि समाश्वसिहि ।]

 राजा- सुन्दरि ! समाश्वसिहि-

   गतं भयं भीरु सुरारिसम्भवं
    त्रिलोकरक्षी महिमा हि वज्रिणः ।


पदम् । एष इति-तस्य राजर्षेः पुरूरवसः एष पुरो दृश्यमानः उल्लसितः वायुचालितः सुन्दरः हरिणो मृगाङ्कः केतने ध्वजपटे यस्य सः एतादृशः सोमेन चन्द्रेण दत्तो रथो दृश्यते । यस्य रथस्य ध्वजपटे हरिणस्य चिह्नं विद्यते ईदृशश्चन्द्रेण भगवता विक्रमायोपहारीकृतो रथः पुरः समागच्छन् विलसतीति भावः। अहं तर्कयामि अनुमिनोमि विचारयामि वा यत् स राजर्षिः अकृतार्थः असम्पादितकार्यः अकृतकृत्यो निष्फलो वा न प्रतिनिवर्तिष्यते प्रत्यागमिष्यति इति । स अर्थसाधनमन्तरा न कदापि प्रत्येष्यतीति सारः । रथस्योल्लसितहरिणकेतनत्वविशेषणप्रदानेन तस्य विजयित्वं सूचितम् । स राजा चन्द्रवंशप्रदीप एवाभूत्, तेन रथस्य चन्द्रदत्तत्वं युक्तमेव । तस्य रथस्य सोमीयत्वात् हरिणकेतनत्वमपि साधु एव, सोमस्य हरिणाङ्कत्वात् । अत्र राजर्षिपदप्रदानेन राजसु ऋषित्वं श्रेष्ठत्वं च ख्यापितम्, तेन च तस्यात्र राजर्षिपदग्रहणमतीव साभिप्रायम् ततस्तु परिकरालङ्कारः, तल्लक्षणं तु "अलङ्कारः परिकरः साभिप्राये विशेषणे" । नैष अकृतार्थः प्रतिनिवर्तिष्यत इत्यनेन तस्य सन्देहातीतपराक्रमवत्त्वमनुपमौजस्विता च व्यज्यते । निमित्तमिति निमित्तमनुकूलं शकुनं अङ्गस्फुरणादि सूचयित्वा ज्ञात्वा अवलोकयन्त्यः रथमन्योन्यं दर्शयन्त्यः अप्सरसः स्थिताः ॥ 'तत इति- ततः रथारूढः रथमारुह्य प्रतिनिवर्तमानः ससूतो राजा रङ्गभूमिं प्रविशति । तथा च भयेन निमीलिते आकुञ्चिते अक्षिणी नयने यस्याः सा एतादृशी, परं च चित्रलेखायाः दक्षिणेन हस्तेन अवलम्बिता धृता उर्वशी च प्रविशति । चित्रलेखा रथस्थामुर्वशीं बोधयति सखीति - उर्वशि ! समाश्वसिहि समाश्वसिहि संज्ञां लभख, सचेतना भवेति ।

 राजा- सुन्दरि ! समाश्वसिहि चेतनां प्राप्नुहि । गतमिति-हे भीरु भयशीले ! सुरारेः दैत्यात् सम्भवः उत्पत्तिः यस्य तत् (अथवा सुरारिः सम्भवः उत्पत्तिस्थानं जनको वा यस्य तत्) ईदृशं भयं गतमपास्तम् । कुतः वज्रिणः इन्द्रस्य महिमा माहात्म्यम् त्रिलोकरक्षी लोकत्रयरक्षणसमर्थः अस्ति । तदेतत् अस्मात् कारणात् आयतं दीर्घं चक्षुर्नेत्रं उन्मीलय उद्घाटय, यथा निशावसाने निशाया रजन्या अवसाने समाप्तौ नलिनी पद्मिनी पङ्कजं कमलमुद्धाटयति । भीरुस्त्वार्ता "भीरुरार्ते त्रिलिङ्गे स्यात्" इति विश्वः। “भियः क्रुक्लुकनौ"(३/२/१७४) इति क्रुः । वज्रमस्यास्तीति वज्री तस्य वज्रिणः । यद्यपि वज्रम्

तदेतदुन्मीलय चक्षुरायतं
 निशावसाने नलिनीव पङ्कजम् ॥६॥

 चित्रलेखा - अम्महे ! कहं उस्मसिदमेत्तसंभाविदजीविदा अज्ज वि एसा सण्णं ण पडिवज्जदि ? [कथमुच्छसितमात्रसम्भावितजीविता अद्यापि एषा संज्ञां न प्रतिपद्यते ?]

 राजा - बलवदन्त्र ते सखी त्रस्ता । तथाहि -

मन्दारकुसुमदाम्ना गुरुरस्याः सूच्यन्ते हृदयकम्पः ।
मुहुरुच्छ्वसता मध्ये परिणाहवतोः पयोधरयोः ॥ ७ ॥


येन केनापि धार्य भवति किन्तु प्रशस्तं वज्रं यस्य स इति वज्री इन्द्रः यथाे प्रशस्तो हनुरस्यास्तीति हनुमान् इत्यत्र प्राशस्त्यमत्वर्थीयः प्रत्ययः । अत्रोपमालङ्कारः । यथा रात्रिसमाप्तौ नलिनी पङ्कजमुद्धाटयति एवमेव त्वं भये गते सति चक्षुरुद्धाटयेति सादृश्यगतचमत्कृतिसद्भावादुपमा । भयस्य निशयोपमा प्रदानेन कृष्णपक्षीयघोरान्धकारतुल्योग्रता सूचिता । नायिकायाः नलिन्या सह सादृश्यप्रदर्शनेन अत्यन्तसौकुमार्यं कमनीयता च व्यज्यते । चक्षुषः पङ्कजोपमया सौन्दर्यातिशयावहत्वं गम्यते । चक्षुषः आयतत्वविशेषणप्रदानेन भाग्यवत्ता अमानुषीत्वमलौकिकलावण्यं च ध्वनितम् । अत्र द्वितीयचरणपदार्थस्य भयनिवृत्तौ हेतुत्वात् काव्यलिङ्गं च अलङ्कारः “हेतोर्वाक्यपदार्थते"ति लक्षणम् । पङ्क्जपदे योगरूढवृत्तिः। महिमति पुंल्लिङ्गं पदम् । पद्यमिदं वंशस्थावृत्तेन निबद्धम् , यल्लक्षणं तु "वंशस्था जतौ ज्रौ” (पिङ्गल० ६।२९): यस्य पादे जकारतकारजकाररेफाः भवन्ति तद्वृत्तं वंशस्थाभिधम् ॥ ६ ॥

 चित्रलेखा - अम्महे इति ।}} आश्चर्यव्यञ्जकमिदमव्ययम् । कथमुच्छ्वसितमात्रेण केवलश्वासोच्छ्वासमात्रेणैव संभावितं निश्चितं जीवितं प्राणाः यस्याः सा एषा प्रियसखी उर्वशी अद्यापि अधुनापि संज्ञां चेतनतां न प्रतिपद्यते प्राप्नोति । इयं जीवतीति केवलप्राणवायुसंचारेण अनुमीयते-एतादृशीमवस्थां प्राप्तेयमधुनापि पुनर्लब्धसंज्ञा न भवतीति व्यग्रता- इति सारः । कथमिति तर्कः व्याकुलत्वं गमयति ।

 राजा - हे चित्रलेखे ! अत्र इयं ते सखी उर्वशी बलवत् त्रस्ता भृशं भीतेत्यर्थः । बलवदिति क्रियाविशेषणं त्रस्तेतिपदेनान्वेति । तथाहि कुतः-कारणमाह मन्दारेति - परिणाहवतोः विशालयोः पयोधरयोः स्तनयोर्मध्ये मुहुर्वारवारं उच्छ्वसता उत्पतता मन्दारकुसुमदाम्ना मन्दारपुष्पमालया अस्या उर्वश्या गुरुरधिको हृदयकम्पः सूच्यते परिज्ञाप्यते । तया मन्दारपुष्पाणामेका रमणीया माला धृता आसीत् । सा च यदा श्वासवेगो उपरि चलति, बहिर्वा निर्गच्छति यदा वायुस्तदा उच्छ्वसति पश्चाच्चाधःपतति श्वासग्रहणवेलायाम्, अनेन कियानस्याः हृदयकम्पोऽस्तीति परिज्ञायते । अत्रानुमानालङ्कारः । मन्दारस्तु पञ्चविधकल्प चित्रलेखा-(सकरुणम्) हला उव्वसि! पज्जवत्थावेहि अत्ताणम् अणच्छरा विअ पडिभासि । [हला उर्वशि ! पर्यवस्थापयात्मानम्, अनप्सरेव प्रतिभासि ।]

 राजा -

  मुञ्चति न तावदस्या भयकम्पः कुसुमकोमलं हृदयम् ।
  सिचयान्तेन कथञ्चित्स्तनमध्योच्छ्वासिना कथितः ॥ ८ ॥

(उर्वशी प्रत्यागच्छति ।)

 राजा -(सहर्षम्) चित्रलेखे ! 'दिष्ट्या वर्धसे । प्रकृतिमापन्ना ते प्रियसखी । पश्य -


तरुष्वन्यतमः “मन्दारः स्यात्सुरद्रुमे" इति मेदिनी । “परिणाहो विशालते"त्यमरः । अस्याः हृदयकम्पः प्रसूनमालया अवगम्यः आसीत्, अनेन नायिकायाः नितान्तं कोमलत्वं सूचितम् सानुकम्पत्वं च राज्ञः दयापरिप्लुतेन वचसा । इयमार्याजातिः - “यस्याः पादे प्रथमे द्वादशमात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये चतुर्थके पश्चदश सार्या" इति लक्षणात् ॥ ७ ॥

 चित्रलेखा- सकरुणं दैन्येनाह - हला प्रियसखि उर्वशि! आत्मानं पर्यवस्थापय आत्मानं स्वीयां प्रकृतिं प्रापय - चैतन्यं लभस्वेत्यर्थः । यस्माच्चेतना न भवसि तस्मात्त्वं अनप्सरेव प्रतिभासि दृश्यसे, अप्सरसां प्राकृतानपि गुणान् जहासि । अधैर्यं तावत् देवयोनिमापनानामप्सरसामसाम्प्रतम् - अधैर्यं तु मनुष्येषूचितं नदेवतासु इति धैर्यं धारयेत्यर्थः । युज्यते हि सहचर्याश्चित्रलेखाया उर्वशी प्रति सोपालम्भं वचः ॥

 राजा- मुञ्चतीति - स्तनयोः कुचयोर्मध्यभागे उच्छ्वासिना श्वासवेगानुसारं पततोत्पतता सिचयान्तेन वस्त्रान्तेन कथञ्चित् कथितः सूचितः भयकम्पः भयजन्यो वेपथुः कुसुमवत्कोमलं हृदयं न मुञ्चति परित्यजति । हृदयस्य कुसुमसदृशी कोमलतेति कुसुमकोमलपदे वाचकलुप्तोपमालङ्कारः । परार्धे चानुमानम् । पुनश्च बलवान् मृदुं न त्यजति इति सांसारिकः स्वभावश्च द्योत्यते ॥ अत्र स्तनमध्योच्छ्वासित्वात्पटान्तेन च सामान्यतः संगमनात् कम्पपदस्य पुंल्लिङ्गत्वाच्च नायकव्यवहारारोपो व्यज्यते । ध्वन्यते च तयोः परस्परं पूर्वरागः । कथञ्चिदिति पदेन दुरूहत्वं च गम्यते । “वस्त्रं सिचयः पटः पोतः" इति हलायुधः । इयमप्यार्या जातिः ॥८॥

   उर्वशी प्रत्यागच्छति - संज्ञां लभते इत्यर्थः ।

 राजा- सहर्षम् - आनन्दपूर्वकं कथयतीति शेषः । चित्रलेखे ! दिष्ट्या वर्धसे - त्वमतीव भाग्यवती असि, उत्सववती वा । यतः “दिष्ट्या पूर्वो वर्धतिरुत्सवे' इति सागरः । ते महोत्सवस्येयं वेला प्राप्तेति मोदस्व, आनन्दातिशयहेतुश्च-ते .

आविर्भूते शशिनि तमसा रिच्यमानेव रात्रिः
 नैशस्याचिर्हुतभुज इव च्छिन्नभूयिष्टधूमा ।
मोहेनान्तर्वरतनुरियं लक्ष्यते मुच्यमाना
 गङ्गा रोधःपतनकलुषा गच्छतीव प्रसादम् ॥९॥

 चित्रलेखा - सहि उव्वसि! वीसद्धा भव । आवण्णाणुकम्पिणा महाराएण पडिहदा क्म्वु दे तिदसपरिवन्थिणो हदासा दाणवा । [सखि उर्वशि ! विश्रब्धा भव । आपन्नानुकम्पिना महाराजेन प्रतिहताः खलु ते त्रिदशपरिपन्थिनो हताशा दानवाः]

 उर्वशी - (चक्षुषी उन्मील्य) किं पहावदंसिणा महिन्देग अब्भुवपहम्हि । [किं प्रभावदर्शिना महेन्द्रणाभ्युपपन्नास्मि ?]


प्रियसखी उर्वशी प्रकृतिं आपन्ना स्वाभाविकीं परिस्थितिं प्राप्ता, सचेतना अभवदिति तात्पर्यम् । पश्येति चूर्णकस्थपदस्य "आविर्भूते शशिनीति" पद्यं कर्मत्वेनान्वेति । आविर्भूत इति-इयं वरतनुः मनोहारिशरीरा उर्वशी अन्तर्मोहेन चेतसो मूर्च्छया मुच्यमाना परित्यक्ता एतादृशी लक्ष्यते यथा आकाशे् शशिनि चन्द्रे आविर्भूते उदयं प्राप्ते सति तमसा अन्धकारेण रिच्यमाना रहिता रात्रिः कमनीयतामावहति–तादृशी एवेयमु्र्वशी मूर्च्छया परिहीणा लब्धसंज्ञा दृश्यते । किंच इयं तथा भाति यथा नैशस्य निशायां विशेषतो देदीप्यमानस्य हुतभुजः अग्नेः च्छिन्नभूयिष्ठधूमा धूमरहिता अर्चिः ज्वाला सुन्दरमवभासते । च्छिन्नो नष्टः भूयिष्ठः बहुलो धूमः यस्याः सा च्छिन्नभूयिष्टधूमा अर्चिः । निशायां भवो नैशः तस्य । हुतं भुनक्तीति हुतभुक् तस्याग्नेः । किंच इयं सुतनुस्तादृशीं रमणीयतां वहति यथा गङ्गा रोधसस्तटस्य पतनेन ध्वंसेन कलुषा आविला मलिना वा पुनः प्रसादं नैर्मल्यं प्राप्नोति अत्रैकस्यैवोर्वशीरूपोपमेयस्यानेकोपमानप्रदानेन मालोपमालङ्कृतिः। सा हि -'मालोपमा यदेकस्योपमानं बहु दृश्यते' । अत्र पूर्वार्धे उपमानद्वयं समाप्य तृतीयचरणे उपमेयमुपन्यस्य चरमचरणे चोपमानस्य पुनरुपादानात् समाप्तपुनरात्तताख्यो दोषः ॥ वृत्तं च मन्दाक्रान्ता “मन्दाक्रान्ता जलधिषडगौ म्भौ नतौ ताद्गुरू चेत्" यस्य पादे मकारभकारनकारतकारतकाराः गकारौ च तद्वृत्तं मन्दाक्रान्ता । अत्र चतुर्षु षट्सु सप्तमु च यतिः ॥९॥

 चित्रलेखा - सखि उर्वशि ! विश्रब्धा विश्वस्ता भव । आपन्नेयु दुःखितेषु अनुकम्पिना दयालुना महाराजेन विक्रमेण प्रतिहता नाशिताः त्रिदशानां देवानां परिपन्थिनो विरोधिनो दानवाः असुराः । हताशा धिक्कृता नीचा इत्यर्थः ।

 उर्वशी - (चक्षुषी नेत्रे उन्मील्य उद्घाट्य ) किं प्रभावदर्शिणा पराक्रमिणाे महेन्द्रेण अभ्युपपन्ना अनुगृहीतास्मि ।  चित्रलेखा - ण महिन्देण, महिन्दसरिसाणुभावेण राएसिणा पुरूरवसेण । [न महेन्द्रेण, महेन्द्रसदृशानुभावेन राजर्षिणा पुरूरवसा ।]

 उर्वशी - (राजानमवलोक्यात्मगतम्) उवकिदं क्खु दाणवेन्दसंरम्भेण । [उपकृतं खलु दानवेन्द्रसंरम्भेण ।]

 राजा - (उर्वशीमवलोक्यात्मगतम्) स्थाने खलु नारायणमृषिं विलोभयन्त्यस्तदूरुसम्भवामिमां विलोक्य व्रीडिताः सर्वा अप्सरस इति । अथवा नेयं तपस्विनः सृष्टिरित्यवैमि । कुतः-

  अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः
   शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः ।


 चित्रलेखा - महेन्द्रेण तु नोद्धृतासि किन्तु महेन्द्रसदृशानुभावेन इन्द्रतुल्यप्रभावेण राजर्षिणा पुरूरवसा अभ्युपपन्नासि, "अनुभावः प्रभावे स्यात् निश्चये भावसूचके" इति विश्वः।

 उर्वशी- राजानमवलोक्य -(पश्चादुच्यमानं राजविषयकमस्तीति तात्पर्यम्) आत्मगतम् परैरश्रुततया मनस्येव केवलं चिन्यते- यथा साहित्यदर्पणे-"अश्राव्यं खलु यद्वस्तु तदिह स्वगतं मतम्" स्वगतम् आत्मगतं च पर्यायौ । उपकृतं उचितमेव कृतं दानवेन्द्रेण केशिना प्रदत्तेन संरम्भेण त्रासेन- यतः एतादृशस्य राजर्षेः दर्शनमहोत्सवः प्राप्तः । यदि केशी इत्थं नाचरिष्यत्तदा राजर्षिदर्शनमपि नाभविष्यत् अतस्तेन दैत्येनानुगृहीतास्मि । इयं प्रेम्णः प्रथमावस्था-"श्रवणादर्शनाद्वापि मिथः संरूढरागयो" रितिवचनात् पारस्परिकप्रेक्षणस्यापि पूर्वरागेऽङ्गीकारात् प्रेम्णः आदिमेयं दशा । “आदौ वाच्यः स्त्रिया रागः" इत्युक्तेरुवर्श्याः पूर्वरागवर्णनम् ॥ अतःपरं तयोर्मजिष्ठारागः प्रवर्तते ।

 राजा- उर्वशीं प्रेक्ष्य स्वगतमेवाह - स्थाने खलु युक्तमेवैतत् यत् नारायणं तपस्यन्तं ऋषिं महामुनिं विलोभयन्त्यः कामवासनाभिः प्रलोभयन्यः अप्सरसः सर्वा एव दिव्याङ्गनाः इमां पुरो दृश्यमानां विलक्षणां उर्वशीं तदूरुसम्भवां तस्य महामुनेः जङ्घातः समुत्पन्नां विलोक्य निरूप्य व्रीडिताः लजां प्राप्ता इति ।तपस्यतः नारायणस्य महामुनेः तपश्चर्याभङ्गार्थं कान्ताभिनयैः प्रलोभयितुमिच्छन्त्यः सर्वाः अप्सरसः तदीयोरुप्रदेशात् तदैव समुत्पन्नामिमामुर्वशीं प्रेक्ष्य 'यस्योरुतः एतादृशी रमणीया रमणी समुद्भूता तस्य ततः किमस्माकं प्रलोभनैरिति' विचार्य लज्जिता बभूवुरिति नानुचितम्, अस्याः तादृक्सौन्दर्यविशेषशालित्वात् । स्थाने इति युज्यते "युक्त द्वे साम्प्रतं स्थाने" इत्यमरः । इति सरलार्थः।

अथवा ईदृशीमलौकिकरूपवतीं सृष्टिं समुत्पादयितुं कथमर्हो भवेत् कोऽपि अविज्ञातकाममीमांसस्तपस्वी-इत्येवाह-अथवा इति वितर्के । इयमुर्वशी तपस्विनः कस्यापि संयतचेतसो मुनेः सृष्टिः समुत्पन्ना नास्तीत्यवैमि जानामि तर्कयामि वा ।

 वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो
  निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥ १० ॥


कुतः-अस्याः शङ्कायाः कारणमाह--अस्या इति-अस्या उर्वश्याः सर्गविधौ उत्पादनकर्मणि प्रजापतिर्वेधाः साक्षात्कान्तिप्रदः चन्द्र एवाभूत् किम्, यदेतादृशो रूपस्य संभवः । नु इति सन्देहे । अथवा यदि चन्द्रो न स्यात्प्रजापतित्वेन तदा स्वयं मदनः कामः एव स्रष्टाऽभूत् यः शृङ्गारैकरसः शृङ्गारे नितान्तं निमग्न एवास्ते । अथवा यद्ययमपि नाभवत्तदा मासः पुष्पाकरः वसन्तः स्यात् । स ऋषिः कथं नेमां निर्मितवानित्याह--स पुराणो वृद्धो मुनिः मनोहरमिदमीदृशं रूपं निर्मातुं कथं नु प्रभवेत् कथं समर्थः स्यात् यतः स तु रात्रिन्दिवं वेदानां नीरसानामभ्यासेन वारं वारं परिशीलनेनावलोकनेन वा जडतां सहृदयतायां मन्दतां प्राप्तः, परं च विषयेभ्यः भोग्यपदार्थेभ्यः व्यावृत्तं क्षीणं कौतूहलं इच्छा उत्साहो वा यस्य सः एतादृशोऽयं नीरसः पुरुषः कथं विलक्षणसौन्दर्यसन्दानितामिमां निर्मातुं पारयेत्, न कदापीत्यर्थः । तस्मान्नेयं मुनिसम्भवा भवितुमर्हतीति भावः ॥

 पद्येऽस्मिन् प्रतिपदं वैलक्षण्यमस्तीत्यवधेयम्--यथा--अत्र शशीन्दुप्रभृतिविविधचन्द्रत्वप्रतिपादकशब्दान् विवर्ज्य कथं वा कवेश्चन्द्रपदे एव बहुमानः इति विचारणायां चन्द्रेणात्यन्ताह्लादजनकत्वमिष्यते । 'चदि आह्लादने' तस्मात् रक् प्रत्ययान्ते चन्द्रपदे एव तादृशार्थबोधनसामर्थ्यात् । पुनश्च चन्द्रस्यानन्ददेवतात्वं प्रसिद्धं उपनिषत्स्वपि, काव्येष्वपि "ल्हादनात् चन्द्रमित्याहू राजा प्रकृतिरञ्जनात्" इति । तथा च न केवलं चन्द्रोऽयं आह्लादक एव किन्तु कान्तिप्रदोऽपि--अत्रापि शोभासुषमादिपदानपेक्षं कान्तिपदप्रदानम्--'काम्यते इति क्तिन्' तेन कान्तिः अत्यन्तमभीप्सितः कमनीयगतो धर्मविशेषः यद्विभूषितविरहे हृदयं ताम्यतीति । तां कान्तिं नाल्पतया ददातीति कान्तिप्रदः । पुनरपि कामकन्दर्पादिपदानि विहाय कवेर्मतिर्मदनपदचुम्बिनी "मदयतीति मदनः" इति व्युत्पत्त्या विशेषतया लोकान् विमोहयितुं समर्थः इति विशेषार्थप्रतिपिपादयिषयाऽभवत् । सोऽपि मदनः शृङ्गारैकरसः 'शृङ्गं प्राधान्यं प्राथम्यमियत्ति' इत्यण्णन्तव्युत्पत्त्या सर्वेषु रसेषु रम्यतमत्वं प्राधान्यञ्च व्यञ्जयन् मदनस्य रसराज एव एकः अन्यनिवृत्तिपरकः रसः रागः यस्येति आत्यन्तिकरसिकत्वं सहृदयत्वं च सूचितम् । सोऽपि स्वयं स्वहस्तकलाकौशलेन निर्मितवानिमां न स्वसहायकैरिति । अथवा मधुवसन्तादिपदव्यावर्तनपूर्वकं पुष्पाकरपदग्रहणेन 'पुष्पाणामाकरः' पुष्पाकरः इत्यनेन तस्य परममार्दवं, विविधरङ्गापूर्वसौरभादिज्ञानवत्त्वं वसन्ते द्योतितम्, तथा चास्याः कुसुमसुकुमारत्वं पद्मिनीसदृशमदयदमन्दामोदवत्त्वं च व्यक्तीकृतम् । वेदाभ्यासजडपदस्वीकारेण विधातुस्तस्यात्यन्तिकवैमुख्यं प्रदर्शितं रसिकतायाम् । यतः 'विन्दति धर्ममात्मज्ञानं येन स वेदः' । आत्मज्ञानाधिकारिणां साधनचतुष्टयेषु पूर्वमिहामुत्रफलभोगविरागः इष्यते तथा चोपदिश्यते गीतायां यत् 'ये हि संस्पर्शजा भोगा दुःखयोनय एव ते' इति हेतोः वेदविद्भिः ऐहिकेषु इन्द्रियसन्निकर्षजन्येषु भोगेषु नितान्तं तिरस्कारः क्रियते । तेन चाज्ञातविषयतत्त्वा वैदिकाः अरसिका सहृदयतावञ्चिता भवन्ति । एतादृक्संस्पर्शजन्यसुखपराङ्मुखानां वेदानां 'अभ्यासः' । अत्रापि च पुनः विहाय पठनादिशब्दोपयोगमभ्यासपदाङ्गीकारेण 'अभिपूर्वकास् धातोः' घञन्तव्युत्पत्त्या, आस्धातोश्च उपवेशनरूपार्थकत्वात् उपवेशनस्य च अन्यस्थलगमननिवृत्तिपूर्वकं स्वीकृतस्थले एव निश्चलतया स्थानरूपार्थकत्वात् ज्ञानमार्गातिरिक्तविषयेषु चित्तवृत्तिं नितान्तं निरुध्य अवधूतवनिताद्यनेकविलक्षणैहिकसुखत्वेन तेषु वेदेषु निश्चलतया अभ्यासः स्थितिः तेन चाभ्यासेन 'जडः' जडपदस्य च घातनार्थकजल्धातोः अच्करणेन संभवः तेन घातितसहृदयत्वं रसिकताविषयकात्यन्तिकमान्द्यं च द्योत्यते तस्मिन् प्रजापतौ । न चात्र विषयव्यावृत्तकौतूहलेतिपदप्रदानेन शब्दमर्यादयैवैतत्सर्वमेवागच्छतीति वाच्यवृत्त्यालिङ्गितत्वात्तस्य व्यङ्ग्यत्वं नेति वाच्यम् । यतः विषयव्यावृत्तकौतूहलपदाङ्गीकारेण विषयेषु उत्साहोऽपि नष्ट इति सूच्यते । तत्र च वेदाभ्यासजडपदेन विषयेभ्यश्चित्तवृत्तिनिरोधजन्यरसिकतागतमान्द्यमेवादर्शि कविना न तावत् विषयविषयकोत्साहहीनत्वं विषयव्यावृत्तकौतूहलपदवाच्यम् । यतः सर्वोपनिषत्सारभूतायां भगवन्मुखपङ्कजनिःसृतायां गीतायां प्रतिपादितम् "विषया विनिवर्तन्ते निराहारस्य देहिनः- (किन्तु) रसवर्जम्- " विषयेभ्यो वृत्तिनिरोधेन विषया विनिवर्तन्ते किन्तु विषयार्थरसवर्जम् । रसो रागोत्साहश्च योगबलेन यथाकथञ्चित् निरुद्धायामपि चित्तवृत्तौ 'यदीदं भवेत्तदा सम्यक् स्यादिति' विषयानुरागस्तु वर्तते एव; तन्निरासार्थं कविना पृथक्तया विषयव्यावृत्तकौतूहलेतिपदग्रहणं कृतम् । वेदाभ्यासजडपदव्यङ्ग्यार्थमेव विशिनष्टि विषयव्यावृत्तकौतूहलपदं न तमेवार्थ सूचयति, उभाभ्यां रससहितविषयार्थनिवृत्तिपूर्वकं मान्द्यं व्यज्यते । अतः विषयव्यावृत्तकौतूहलपदे सत्यपि वेदाभ्यासजडपदस्य व्यंजकत्वे न कापि क्षतिः । चारुरुचिरपदानि तिरस्कृत्य मनोहरपददानेन 'तद्दर्शनान्तरं तदतिरिक्तपदार्थेषु मनो न लगति सर्वत्र तदेव दृश्यते' इत्यसूचि, तेन च तदीयाद्वितीयसौन्दर्यशालित्वं व्यक्तीकृतम् । इदम्पदप्रदानेन च परमवैलक्षण्यं गम्यते । अपि च रूपपदन्यासेन रूप्यते लक्ष्यते अन्यान् विहाय दृश्यते सदैव चिन्त्यते ध्यायते इति रूपम् इति विलक्षणार्थावबोधः । वेदाभ्यासजडविषयव्यावृत्तकौतूहलेतिपदद्वन्द्वग्रहणेनाप्यसंतुष्टः कविर्मन्दमतीनां कृते स्पष्टतया विवक्षितार्थबोधनार्थं तमेव विधातारं अहृदयत्वेन विशेषयति पुराणपदेन । पुराणस्तावत्पुराभवः। पुराभवानां नवनवोन्मेषशालिशक्त्यभावश्च । सहृदयैः साहित्याकूपारपारीणैः कविभिः एक एव पदार्थः विलक्षणत्वेन प्रतिक्षणं नवो नवो दृश्यते रसास्वादेनात्मा चानुगृह्यते । एतादृक्शक्तिमत्त्वं न कदाप्याश्रयितुमर्हति पुराणे । एतद्विशेषार्थविज्ञापनाय पुराणपदनिवेशः । पुनरप्यसन्तुष्टः कविशेखरः मुनिपदं ददत् तस्य मौनव्रतधारित्वं क्रियाहीनत्वं ईदृशरूपविशेषनिर्माणकलाकौशलवञ्चितत्वं निर्माणे चामार्मिकत्वमबोधयत्- इति दिक् ।  पद्येऽस्मिन् ससन्देहालङ्कारः । तल्लक्षणं यथा रसगङ्गाधरे 'सादृश्यमूला भासमानविरोधका समबला नानाकोट्यवगाहिनी धी रमणीया ससन्देहालङ्कृतिः' । अत्र हि अप्पयदीक्षितैरित्थं प्रतिपादितम्- यदिह चन्द्रादीनां संशयधर्मिणामेवानेकत्वम् तथा च वर्णनीयकामिनीविधातृत्वं तावदेकमेव, ततः क्वास्ति नैककोट्यवगाहिनी धीरतः सन्देहलक्षणस्येहाव्याप्तिः । तन्न युक्तम् । अत्र अस्याः कामिन्याः सर्गविधौ यः प्रजापतिरभूत् स किं चन्द्रः, उत मदनः, उत वसन्तो नु इति संशयः प्रजापतिधर्मिकः सन् चन्द्रत्वादिनानाकोटिक एवास्ति इति कुत्राव्याप्तिः । न चात्र चन्द्रादिधर्मिकः संशयो वक्तुमुचितम् । एवं कृते विधातुरत्र प्रथमोद्देश्यत्वहानिः । अतः अत्र ससन्देहालङ्कारोऽस्त्येव । पुनश्च यत्र यत्र विलक्षणरूपत्वं तत्र तत्र तपस्विसंभवत्वं न, यथा शकुन्तलादाविति व्याप्तेः नेयमुर्वशी तपस्विसम्भवा विलक्षणरूपत्वादित्यनुमानसद्भावात् इहानुमानालङ्कारः, यल्लक्षणं तु काव्यप्रकाशे- "अनुमानं तदुक्तं यत्साध्यसाधनयोर्वचः ।" अपि च यतः श्लोकस्यास्योत्तरार्धमनुमितौ हेतुः, यथा- कथं नेयं तपस्विसंभवा, तपस्विनः ईदृशरूपनिर्माणसामर्थ्याभावात्, तेनात्र काव्यलिङ्गमलङ्कारः, यदुक्तं 'काव्यलिङ्गं हेतोर्वाक्यपदार्थता' । काव्यलिङ्गानुमानयोः परस्परमङ्गाङ्गिभावत्वेनेह सङ्करालङ्कारः । तल्लक्षणं यथा दर्पणे 'यद्येत एवालङ्काराः परस्परविमिश्रिताः । तदा पृथगलङ्कारौ संसृष्टिः सङ्करस्तथा । अङ्गाङ्गित्वेऽलंकृतीनां तद्वदेकाश्रयस्थितौ । सन्दिग्धत्वे च भवति सङ्करस्त्रिविधः पुनः' । इत्थं काव्यलिङ्गमलङ्कारोऽनुमानमुत्थापयतीत्यङ्गाङ्गिभावसङ्करः ' । पुनश्च ससन्देहस्य च काव्यालिङ्गानुमानयोश्च परस्परं निरपेक्षतया चमत्कारकारित्वात् संसृष्टिः 'मिथोऽनपेक्षयैतेषां स्थितिः संसृष्टिरुच्यते' इति दर्पणोक्तेः । तथा चात्रातिशयोक्तिरलङ्कारः । यदुक्तं चित्रमीमांसायाम्- 'विषयस्यानुपादानाद्विषय्युपनिबध्यते । यत्र सातिशयोक्तिः स्यात्कविप्रोढोक्तिजीविता ॥' तत्र चेह रूपविशेषस्यापि पुराणप्रजापतिसृष्टिसम्बन्धेऽप्यसंबन्धख्यापनादसम्बन्धातिशयोक्तिः । न च शृङ्गारैकरसः इत्यत्र साक्षात् शृङ्गारपदेन शृङ्गारावबोधेन ईदृगुपयोगस्य कविभिरनादृतत्वाद्दोषोऽयमिति वाच्यम् । यतः शृङ्गारपदेनात्र नायकगतभाव्यरसस्यायोगः, अत्र तत्पदेन रसराजनामावबोध एव केवलम् इति नायं दोषः । अत्रैतत्त्ववधेयं यत्कार्यकारणभावे यस्य कस्यापि कार्यस्य सद्भावे कारणत्रैविध्यं भवति समवाय्यसमवायिनिमित्तभेदात् । 'यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणम्- यथा तन्तवः पटस्य'; 'कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतं सत् कारणमसमवायिकारणम्- यथा तन्तुरूपं पटरूपस्य; तदुभयभिन्नं कारणं निमित्तकारणम्- यथा तुरीवेमादिकं तन्तुवायश्च पटस्य' इति तर्कसङ्ग्रहे। अयन्तु साधारण एव नियमः यदसमवायिसमवायिकारणयोर्गुणाः कार्ये समायान्ति न तावन्निमित्तकारणस्य । यथा यदि स्युस्तन्तवः श्यामाः पीता वा तदा पटोऽपि श्यामः पीतो वा भवितुमर्हति, किन्तु यदि स्यात्पटकारः गौरः श्यामो वा न कदापि भविष्यति पटो गौरः श्यामो वा । अतो निमित्तकारणगुणा न समायान्ति कार्ये । इति साधारणो नियमः । इह उर्वशीरूपं कार्यम् । अलौकिकसौन्दर्यादिकं समवाय्यसमवायि उर्वशी–हला चित्तलेहे ! सहीअणो कहिं क्खु भवे ? [हला चित्रलेखे ! सखीजनः कुत्र खलु भवेत् ? ]

 चित्रलेखा-सहि ! अभअप्पदाई महाराओ जाणादि। [सखि ! अभयप्रदायी महाराजो जानाति । ]

 राजा-(उर्वशीं विलोक्य ) महति विपादे वर्तते सखीजनः । पश्यतु भवती-

यदृच्छया त्वं सकृदप्यवन्ध्ययोः
 पथि स्थिता सुन्दरि ! यस्य नेत्रयोः ।
त्वया विना सोऽपि समुत्सुको भवे-
 त्सखीजनस्ते किमुतार्द्रसौहृदः ॥ ११ ॥


कारणे । स्रष्टा च निमित्तकारणम् । तदा सामान्यतस्तु स्रष्टरि वेदाभ्यासजडेऽपि कार्यरूपायामुर्वश्यां तद्गुणायोगः । किंत्वत्र कविगतप्रजापतिविषयकसन्देहेन चन्द्रत्वादौ च प्रजापतित्वारोपेणेदमेव द्योत्यते यदस्याः असाधारणी एव सृष्टिर्यस्यां निमित्तकारणगुणा अपि कार्ये प्रभवन्ति, अनेन तस्या रूपस्यालौकिकवैलक्षण्यं व्यक्तम् । एतादृगुपयोगस्तु कविभिः सम्मानितः, यथोक्तं कविकुलमुकुटालङ्कारहीरैः श्रीहर्षकवीन्द्रैः स्वीये निसर्गोज्ज्वले नैषधीयचरिते द्वितीयसर्गे दमयन्तीकुचवर्णने द्वात्रिंशत्तमे पद्ये "कलशे निजहेतुदण्डजः किमु चक्रभ्रमकारितागुणः । स तदुच्चकुचौ भवन् प्रभाझरचक्रभ्रममातनोति यत् ।" इति- अत्र च नायिकां प्रेक्ष्य नायकगतः पूर्वरागो ध्वन्यते । वृत्तं च शार्दूलविक्रीडितम् । लक्षणं तूक्तं प्रागेव ॥ १० ॥

 उर्वशी- हला चित्रलेखे- अस्माकं सखीजनः सहचर्यः कुत्र कस्मिन् स्थाने भवेत् । खलु इति प्रश्ने।

 चित्रलेखा- अभयप्रदायी अभयं ददातीति भयाद्रक्षको महाराजो विक्रमो जानाति क्वाऽस्तेऽस्माकं सखीसमूह इति ।

 राजा -उर्वशीं विलोक्य तामुद्दिश्याहेत्यर्थः । सखीजनः महति विषादे शोके वर्तते । पश्यतु भवती जानात्वेतत्- पश्यतेः कर्मत्वेन आगामी श्लोकोऽन्वेतव्यः । यदृच्छयेति--- हे सुन्दरि हृदयद्राविरूपे मनोहारिणि ! यदृच्छया अनायासेनाकस्मिकतया सकृदपि एकमेववारं यस्यावन्ध्ययोः सफलयोर्नेत्रयोः पथि त्वं स्थिता समायाता सोऽपि जनः त्वया विना तव विरहे समुत्सुकः उत्कण्ठितः व्याकुलो वा भवेत् किमुत किं तदा आर्द्रसौहृदः रात्रिन्दिवं सहवासेन रसार्द्रं सौहृदं मैत्री यस्यैतादृशः सखीजनः । यः कोऽपि पुरुषस्त्वामेकवारमेवाकस्मात् पश्यति सोऽपि त्वद्विरहेण सशोकः स्यात् तदा किमाश्चर्यं यदत्यन्तप्रियतमस्ते सखीवृन्दः शोकाविष्टचेताः भवेत् । अज्ञातत्वत्सहवासस्यापि  उर्वशी- (आत्मगतम्) अमिअं क्खु दे वअणम् [ अमृतं खलु ते वचनम् ] अहवा चन्दादो अमिअं त्ति किं अञ्चरिअम् [ अथवा चन्द्रादमृतमिति किमाश्चर्यम् ] ( प्रकाशम् ) अदो एव्व मे पेक्खिदुं तुवरदि हिअअम् । [ अतएव मे प्रेक्षितुं त्वरते हृदयम् । ]

 राजा- (हस्तेन दर्शयन् )

 एताः सुतनु मुखं ते सख्यः पश्यन्ति हेमकूटगताः ।
 उत्सुकनयना लोकाश्चन्द्रमिवोपप्लवान्मुक्तम् ॥ १२ ॥


शोकातिरेको भवति यदा कियान् खेदस्तदा तासां सखीनां चेतसि भविष्यति, अत्यन्तमेव भवेदित्यर्थः । "यदृच्छा स्वैरिता" इत्यमरः । 'सकृत्सहैकवारयो'रित्यजयः । "स्यादवन्धः फलेग्रहिः" सफल इत्यर्थः । सौहृदम्- शोभनं सहानुभूतिसमेतं हृदयं यस्य सः सुहृद् मित्रं तस्य भावः सौहृदम् । अत्र हि प्रथमद्वितीयपादान्ताक्षरयोः साम्यादन्त्यानुप्रासालङ्कारः 'व्यञ्जनं चेद्यथावस्थं सहाद्येन स्वरेण तु । आवर्त्यतेऽन्त्ययोज्यवादन्त्यानुप्रास एव तत्' इति दर्पणकारः । तथा च नेत्राणामवन्ध्यवसिद्धौ उर्वश्या नयनपथगामित्वस्य हेतुत्वम् तस्माच्च काव्यलिङ्गमलङ्कारः । तयोश्च निरपेक्षतया चमत्काराधायित्वात् संसृष्टिः । अपि च यतः यः कोऽपि पान्थस्तव दर्शनान्तरं विरहव्याकुलो भवेत्तदा का कथा आर्द्रसौहृदस्य सखीसमूहस्येति अर्थापत्तिरलङ्कारः, अर्थात्तस्यापि परमव्याकुलत्वम् । यदुक्तम् 'दण्डापूपिकयान्यार्थागमोऽर्थापत्तिरिष्यते' इति द्वितीया संसृष्टिः, पुनश्च संसृष्टिद्वयस्य संसृष्टिः । अनेनोर्वश्याः रमणीयत्वं प्रियप्रकृतित्वं हृद्यत्वं च व्यज्यते । प्रसादो गुणः । वंशस्थं वृत्तम् । लक्षणं तु 'जतौ तु वंशस्थमुदीरितं जरौ ॥ ११ ॥

 उर्वशी- आत्मगतम् मनस्येवं चिन्तयामास । ते वचनमुक्तिः अमृतमेव । अत्र रूपकालङ्कृतिस्तया च तस्य वचनमाधुर्यं ध्वन्यते । अथवेति विकल्पः । अथवा चन्द्रादमृतं निःसरेदिति किं नाम आश्चर्यम् यतः चन्द्रस्तु सुधानिधिरेव । अनेन वचनं मुखान्निःसृतम्, वचनं चामृतं, तेन तस्य मुखं चन्द्र इति सूच्यते तेनाह्लादकत्वं च व्यज्यते । अत्र रूपकातिशयोक्तिरलङ्कारः । अपि चायं महाराजः चन्द्रवंशसमुद्भवः अस्तीति द्योतितम् । सत्कुलीनत्वादमृतं वाहयितुं समर्थ इति गम्यते । प्रकाशम् ‘सर्वश्राव्यं प्रकाशं स्या'दिति दर्पणे । पूर्वोक्तं मनस्यैव कल्पयित्वेदानीं राजानं प्रत्युत्तरयत्युर्वशी प्रकाशम्- अतएव यतः सखीजनः समुत्सुको भवेदित्यनेनैव हेतुना मे हृदयम् प्रेक्षितुं तम् द्रष्टुं त्वरते उत्सुकम् वर्तते ।

 राजा- ( हस्तेन अङ्गुल्या सखीजनं दर्शयन् ) प्राहेति शेषः ।

 एता इति- हे सुतनु सुन्दरि ! एताः पुरोदृश्यमानाः त्वां द्रष्टुं उत्कण्ठितानि नयनानि यासां ताः हेमकूटगता हेमशिखरमधिरूढास्ते सख्यः ते मुखं

(उर्वशी साभिलाषं पश्यति ।)

 चित्रलेखा-हला ! किं पेक्खसि ? [हला ! किं प्रेक्षसे ?]

 उर्वशी–णं समदुक्खगदो पीवीअदि लोअणेहिं । [ननु समदुःखगतः पीयते लोचनाभ्याम् ।]

 चित्रलेखा-(सस्मितम् ) अई को ? [अयि कः ?]

 उर्वशी–णं पणईअणो। [ननु प्रणयिजनः ।]

 रम्भा-(सहर्षमवलोक्य) हला ! चित्तलेहादुदीअं पिअसही उव्वसीं गेण्हिअ विसाहासहिदो विअ भअवं सोमो समुवट्ठिदो राएसी दीसदी । [हला! चित्रलेखाद्वितीयां प्रियसखीमुर्वशीं गृहीत्वा विशाखासहित इव भगवान् सोमः समुपस्थितो राजर्षिर्दृश्यते ।]


पश्यन्ति (यथा) उत्सुकनयना लोकाः उपप्लवात् उपरागान्मुक्तं चन्द्रमिव । यथा चन्द्रग्रहणे राहुणा ग्रस्तमुक्तं चन्द्रं लोकाः औत्सुक्येन प्रेक्षन्ते तथैवैतास्ते सख्यस्ते मुखं हेमकूटे स्थिताः सत्यः पश्यन्तीति भावः । अत्रोपमालङ्कारः । तेन चन्द्रस्य मुखस्य च साधर्म्य प्रदर्शितम् । उपप्लवपदप्रदानेन केशिनि राहुत्वारोपः सखीनाञ्च प्रेमातिशयवत्त्वं व्यक्तम् । इयमार्याजातिः "यस्याः प्रथमे पादे द्वादशमात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये चतुर्थके पश्चदश सार्या" इति श्रुतबोधे लक्षणम् ॥ १२ ॥

(उर्वशी साभिलाषं सखीजनसमागमसमुत्सुका पश्यति ।)

 चित्रलेखा-हला इति स्निग्धसम्बोधनम् , किं प्रेक्षसे किं पश्यसि !

 उर्वशी-ननु समदुःखगताः समानतया मया सार्धं दुःखभागिनः जनाः प्रेक्ष्यन्ते । पीयते लोचनाभ्याम्-प्रेक्ष्यते इत्यर्थः ।

 चित्रलेखा-(सस्मितम् ईषद् हास्येन) अयि कः ? कः समदुःखभागी ?

 उर्वशी--ननु प्रणयिजनः प्रेमी जनः सखीजनः ।

 रम्भा-(सहर्ष आनन्देनावलोक्य) सखि ! चित्रलेखया द्वितीयां चित्रलेखाद्वितीयां चित्रलेखासहितां प्रियसखीमुर्वशीं गृहीत्वा समुपस्थितः राजर्षिर्विक्रमस्तथा भाति यथा विशाखानक्षत्रविशेषेण समलङ्कृतो भगवान् सोमः चन्द्र एव भवेत् । यथा विशाखानक्षत्रस्थश्चन्द्रः शोभते तथैव सचित्रलेखयोर्वश्या सह स राजा शोभते इति सम्भाव्यते । अत्रोर्वशीसमेते राज्ञि विशाखासहितस्य सोमस्य सम्भावनायाः चमत्कारकारित्वादुत्प्रेक्षालङ्कारः 'सम्भावनमथोत्प्रेक्षा प्रकृतस्य समेन यत्' । इति लक्षणात् ।  मेनका-(निर्वर्ण्य ) हला! दुवे वि णो एत्थ प्पिआ उवगदा । इअं पच्चाणीदा पिअसही, अअं च अपरिक्खदसरीरो राएसी दीसदी । [हला ! द्वे अपि नोऽत्र प्रिये उपनते, इयं प्रत्यानीता प्रियसखी, अयञ्चापरिक्षतशरीरो राजर्षिर्दृश्यते ।]

 सहजन्या-सहि ! जुत्तं भणासि दुज्जओ दाणओ त्ति । [सखि ! युक्तं भणसि दुर्जयो दानवः इति ।]

 राजा-सूत, इदं तच्छैलशिखरम् । अवतारय रथम् ।

 सूतः-यदाज्ञापयत्यायुष्मान् । (इति तथा करोति ।)

 (उर्वशी रथावतारक्षोभं नाटयन्ती सत्रासं राजानमवलन्बते ।)

 राजा-(स्वगतम्) हन्त ! सफलो मे विषयावतार: -

  यदिदं रथसंक्षोभादङ्गेनाङ्गं ममायतेक्षणया ।
  स्पृष्टं सरोमकण्टकमङ्कुरितं मनसिजेनेव ॥ १३ ॥


 मेनका-निर्वर्ण्य उर्वशीसहितं समुपस्थितं राजानं दृष्ट्वा । हला द्वे अपि नः अत्र प्रिये उपनते, इदं कार्यद्वयमेव नः अस्माकं प्रियमेवाभूत् । के ते कार्य इत्याह-इयं प्रियसखी प्रत्यानीता यथापूर्वं अक्षता प्राप्ता, तथा च अयं राजर्षिरपि अपरिक्षतशरीरः सुरक्षितः अच्छिन्नगात्र एवं प्रतिनिवृत्तः इत्युभयमेव नः प्रियं समुत्पन्नम् । अनेनाप्सरसां कृतज्ञत्वं गम्यते यदेताः तासां रक्षितुरपि देहचिन्तां कुर्वन्तीति ।

 सहजन्या-सखि ! युक्तं समीचीनं भणसि कथयसि यत् दुर्जयो दुःखेन जेतुं शक्यः दानव इति ।

 राजा-सूत हे सारथे ! इदं पुरतः तच्छैलशिखरम् हेमकूटशिखरम् , अतः अवतारय रथम् ।

 सूतः-यदाज्ञापयति आयुष्मान् चिरञ्जीवी देवः तथैवोचितम् । इत्युक्त्वा रथमवतारयति । सूतस्तु विप्रः सन् उत्तमपात्रम् , अतः संस्कृतेन वक्ति राजानं च सदा आयुष्मन्निति सम्बोधयति ।

 (उर्वशी रथस्यावतारेण अधोगमनेन अकस्माद्दोलायिता क्षोभं रथोपघातं नाटयन्ती सविलासं प्रदर्शयन्ती सत्रासं सभयम् राजानमवलम्बते हस्तेन धारयति ।)

 राजा-(स्वगतम्-आत्मन्येव ब्रूते) हन्त इति हर्षे । मे मम विषयावतारः विषयित्वेनेह जगति स्थितिर्नरजन्म वा सफल एवाभूत् । कुतः-यदिति-यत् रथसंक्षोभात् निम्नोन्नतभूप्रदेशेषु रथोपघातात् आयतेक्षणया दीर्घनयनया अनया स्वीयेन अङ्गेन गात्रैः मम अङ्गम् मनसिजेन कामेन सरोमकण्टकमङ्कुरितमिव  उर्वशी-हला! किं वि परदो ओसर । [हला ! किमपि परतः अपसर ।]

 चित्रलेखा-णाहं सक्केमि । [नाहं शक्नोमि ।]

 रम्भा-एत्थ पिअआरिणं संभावेम्ह राएसिं। [अत्र प्रियकारिणं सम्भावयामो राजर्षिम् ।] (सर्वा उपसर्पन्ति ।)

 राजा-सूत! उपश्लेषय रथम्-

  यावत्पुनरियं सुभ्रूरुत्सुकाभिः समुत्सुका ।
  सखीभिर्याति सम्पर्कं लताभिः श्रीरिवार्तवी ॥ १४ ॥


आनन्दातिशयात् पुलकायमानमिव स्पृष्टं हस्तेन धृतम् । यदनेन तदीयाङ्गेन ममाङ्गस्पर्शः सञ्जात इति कृतार्थ मे जन्मेत्यर्थः । इदं प्रेम्णः द्वितीयं चिह्नमपरा चावस्थाऽत्र । अत्र पुलकानि कामेनेवाङ्कुरितानीति सम्भावनादुत्प्रेक्षालङ्कारः। अनेन मनसि मनसिजेन स्वसत्ता स्थापितेति व्यज्यते। अत्र नायकगतः पूर्वरागः । नायिकागतः पूर्वरागः 'उपकृतमिति' स्थले (पृ. २०) पूर्वमेवाभिव्यक्तः । अत्र नाटकीयकार्यस्य आरम्भाख्या प्रथमावस्था, यदुक्तं "भवेदारम्भ औत्सुक्यं यन्मुख्यफलसिद्धये।" अपि चात्र 'अस्याः सर्गविधा' विति पद्ये (१-१०) विक्रमोर्वश्योः समागमजन्यानुरागबीजस्योपक्षेपात् प्रवृत्तस्य मुखसन्धेः प्राप्तिर्नामाङ्गम् "प्राप्तिः सुखागमः" इति लक्षणात् । मुखसन्धिलक्षणन्तु-"यत्र बीजसमुत्पत्तिर्नानार्थरससम्भवा । प्रारम्भेण समायुक्ता तन्मुखं परिकीर्तितम् ॥" मनसिजेत्यत्रालुक्समासः । इयं चार्याजातिः॥ १३ ॥

 उर्वशी-सखि ! चित्रलेखे । किमपि किञ्चित्स्वल्पमपि परतः दूरमपसर । किञ्चित्स्थलमधिकं रथेऽस्मिन् मह्यं देहीत्यर्थः । नायकाङ्गस्पर्शमुग्धा नायिका लज्जां गमयति । अत्र व्रीडा नाम भावो व्यज्यते, यल्लक्षणं तु-"चेतोनिमीलनं व्रीडा"॥

 चित्रलेखा-नाहं शक्नोमि दूरमपसर्तुं नास्त्यवकाशः । उपहासोऽयम् ।

 रम्भा-अत्र प्रियकारिणं अस्माकमुपकर्तारं राजर्षिम् विक्रमं सम्भावयामः पश्यामो धन्यवादांश्च तस्मै समर्पयामः ।

(सर्वाः अप्सरसो देवाङ्गना रम्भादयः उपसर्पन्ति राज्ञः समीपं गच्छन्ति ।)

 राजा-सूत सारथे ! उपश्लेषय स्थापय रथम् । यावदिति । यावत् इत्यस्य चूर्णकस्थवाक्येनान्वयः। यावत् यावता कालेन समुत्सुका सखीजनं द्रष्टुमुत्कण्ठिता सुभ्रूः सुन्दरीयं उत्सुकाभिरेनां प्रेक्षितुं काङ्क्षमाणाभिः सखीभिः सम्पर्कं सम्बन्धं याति तावद्रथं स्थापयेति उपरिष्ठेन वाक्येनान्वेति । यथा आर्तवी ऋतुसम्बन्धिनी श्रीः शोभा लताभिः सह सम्पर्कमुपैति तथैव । यथा ऋतुसम्ब अप्सरस:-दिट्ठिआ महाराओ विजएण वड्ढदि । [दिष्ट्या महाराजो विजयेन वर्धते ।]

 राजा-भवत्यश्च सखीसमागमेन ।

 उर्वशी-(चित्रलेखादत्तहस्तावलम्बा रथादवतीर्य) हला! अधिअं परिस्सजह । ण क्खु मे आसी आसासो जहा पुणो वि सहीअणं पेक्खिस्सं त्ति । [हला ! अधिकं परिष्वजथ, न खलु मे आसीदाश्वासो यथा पुनरपि सखीजनं प्रेक्षिष्ये इति ।]

(सख्यः परिष्वजन्ते ।)

 मेनका-(साशंसम्) सव्वहा कप्पसदं महाराओ पुहविं पालअन्तो होदु। [सर्वथा कल्पशतं महाराजः पृथ्वीं पालयन् भवतु ।]


न्धिनी शोभा लताभिः सह सम्बन्धं प्राप्नोति तथैव यावत्कालं सखीजनं प्रेक्षितुं उत्कण्ठितेयं सुन्दरी चिन्ताग्रस्ताभिः सखीभिः सह मिलति तावत्कालं रथं स्थापयेत्यर्थः । सुष्ठु भ्रुवौ यस्याः सा सुभ्रूः सुन्दरभ्रुकुटीवती इत्यर्थः । ऋतोरियमार्तवी । अत्र च उपमालङ्कृतिः । ततश्च तस्याः सखीजनस्य लतासदृशाङ्गयष्टित्वं तासु च तस्याः श्रिय इव श्रेष्ठत्वम् व्यक्तम् । अनुष्टुब् वृत्तम् ॥ १४ ॥

 सूतः-रथं स्थापयति-यथास्थानं नीत्वा स्थगयति ।

 अप्सरसः-दिष्ट्या इति आनन्दे । हेमकूटस्थिताः रम्भादयोऽप्सरसः प्रियसखीमुर्वशीं प्रत्यानीतां प्रेक्ष्य सानन्दमाहुः-महानयमुत्सवो यन्महाराजो विक्रमः विजयेन वर्धते विजयी अभवदिति । इति ताः स्वीयां कृतज्ञतां प्रकाशयन्ति तञ्च धन्यं वदन्ति ।

 राजा-भवत्यो यूयं तु युष्माकं सखीसमागमेन सख्या सह पुनः सम्मेलनेन वर्धन्ते इति शेषः । इयमभिनन्दनस्य परिपाटी ।

 उर्वशी-(चित्रलेखया दत्तः हस्तस्यावलम्बो धारणं यस्यै सा चित्रलेखोद्धृता उर्वशी रथादवतीर्य सखीजनमाह) हला सख्यः ! अधिकं परिष्वजथ गाढमालिङ्ग्यताम् यतः मे ईदृशः आश्वासो विश्वासः निश्चयो नासीद् यत् पुनरपि सखीजनं प्रेक्षिष्ये मिलिष्यामि । अहं जीविष्यामीति नासीद् मम विश्रम्भः ।

(ततः सख्यः परिष्वजन्ते श्लिष्यन्ति प्रियसखीमुर्वशीमित्यर्थः । )

 मेनका-( मङ्गलं शंसन्तीति साशंसम् ) कल्पानां शतम् कल्पशतं तावत्कालपर्यन्तं महाराजो भवान् पृथिवीमेवमेव न्यायेन पालयन् भवतु पालयतु चिरशासको भवान् भवत्वित्याशीः, चिरराजलक्ष्मीको भूयादित्यर्थः । कल्पस्तावद्ब्रह्मणः एकं दिनम् यतः "मासेन स्यादहोरात्रः पैत्रो वर्षेण दैवतः । दैवे युगसहस्रे द्वे  सूतः-आयुष्मन् ! पूर्वस्यां दिशि महता रथवेगेन उपदर्शितः शब्दः ।

  अयञ्च गगनात्कोऽपि तप्तचामीकराङ्गदः ।
  अधिरोहति शैलाग्रं तडित्वानिव तोयदः ॥ १५ ॥

 अप्सरसः-( पश्यन्त्यः ) अम्मो, चित्तरहो। [ अहो चित्ररथः ।]

(ततः प्रविशति चित्ररथः।)

 चित्ररथः-( राजानं दृष्ट्वा सबहुमानम् ) दिष्ट्या महेन्द्रोपकारपर्याप्तेन विक्रममहिम्ना वर्धते भवान् ।


ब्राह्मः कल्पौ तु तौ नृणाम्" इति वचनात् । एतादृशां कल्पानामपि शतं त्वं राज्यं कुर्या इति मङ्गलाशासनम् । शतपदेनात्र केवलं बहुत्वविवक्षा ।

 सूत-आयुष्मन् ! राज्ञः सम्बोधनमेतत् । पूर्वस्यां दिशि महता आत्यन्तिकेन रथवेगेन उपदर्शितो जनितः शब्दः श्रूयते इति शेषः । पूर्वस्यां दिशीति पदप्रदानेन कोऽपि ऐन्द्रोऽयमिति सूच्यते, कुतः तस्यां दिशि इन्द्रस्याधिपत्यात् 'प्राच्यै दिशि इन्द्राय नमः' इति वचनाच्च । अयमिति-अयं पुरोदृश्यमानः कोऽप्यविज्ञातः, तप्तं चामीकरं सुवर्ण तन्निर्मितमङ्गदं बाहुभूषणं यस्येति पूतसुवर्णतुल्यदीप्तिमद्बाहुभूषणधारी जनः शैलाग्रं हेमकूटशिखरमधिरोहति आरोहतीत्यर्थः । यथा तडित्वान् विद्युद्युतस्तोयदो मेघः शैलाग्रमधिरोहति । कोऽप्ययं तेजस्वीति बोध्यते । 'चामीकरं जातरूपं महारजतकाञ्चने' इत्यमरः । तप्तपदग्रहणेन शुद्धत्वं विशेषदीप्तिमत्त्वं च सूच्यते । उपमानभूतस्य तोयदस्य तडित्वानिति विशेषणदानम् उपमेये विद्यमानेन तप्तचामीकराङ्गदत्वेन उपमानेऽपि साम्यार्थमङ्गीकृतम् । अत्र मेघादिपदव्यावृत्तिपूर्वकं तोयदपदबहुमानेनास्य चित्ररथस्य विक्रमाय धन्यवादप्रदायित्वं इन्द्रसन्तोषप्रसन्नतादिसमाचारदातृत्वं च व्यज्यते यथा तोयदे तोयदातृत्वम् । अत्रोपमालङ्कारः । अनुष्टुब् वृत्तम् ॥ १५ ॥

 अप्सरस:-(पश्यन्त्यः तं निरीक्षमाणाः कथयन्ति।) अहो चित्ररथोऽयमागच्छति । चित्ररथस्तु गन्धर्वाणां राजा।

(ततः प्रविशति चित्ररथस्तत्रायातीत्यर्थः।)

 चित्ररथः-(राजानं पुरूरवसं सबहुमानं पूज्यदृष्ट्या सादरं दृष्ट्वा कथयति) दिष्ट्या इति उत्सवे, आह्लादसूचकं पदम् । महेन्द्रोपकारपर्याप्तेन महेन्द्रोपरि अपि उपकारं कर्तुं पर्याप्तेन समर्थेन विक्रममहिन्ना पराक्रमातिशयेन भवान् वर्धते विजयतु इत्यर्थः । अत्र लोडर्थे लट् । अत्र महेन्द्रपदम् साकूतम्-यः सर्वेषामिन्द्रः, सोऽपि महेन्द्रस्तमपि उपकर्तुं पर्याप्तोऽसीति महेन्द्रपदग्रहणेन राज्ञः पराक्रमातिशयं व्यजयन् परिकरालङ्कारो राजते "विशेषणैर्यः साकूतैरुक्तिः परिकरः स्मृतः" इति काव्यप्रकाशकृतः।  राजा-अये गन्धर्वराजः ! (रथादवतीर्य) स्वागतं प्रियसुहृदे ।

(परस्परं हस्तौ स्पृशतः।)

 चित्ररथ :-वयस्य ! केशिना हृतामुर्वशीं नारदादुपश्रुत्य प्रत्याहरणार्थमस्याः शतक्रतुना गन्धर्वसेना समादिष्टा । ततो वयमन्तरा चारणेभ्यस्त्वदीयं जयोदाहरणं श्रुत्वा त्वामिहस्थमुपागताः । स भवान् इमां पुरस्कृत्य सहास्माभिः मघवन्तं द्रष्टुमर्हति । महत्खलु तत्रभवतो मघोनः प्रियमनुष्ठितं भवता । पश्य-

पुरा नारायणेनेयमतिसृष्टा मरुत्वते । दैत्यहस्तादपाच्छिद्य सुहृदा सम्प्रति त्वया ॥ १६ ॥


 राजा-अये गन्धर्वराजः इति चित्ररथं प्रत्यभिज्ञाय तं सत्कर्तुं रथादवतरति । रथादवतीर्याधः एत्य-अत्र मित्रत्वेऽपि चित्ररथानपेक्षतया गन्धर्वराजपदप्रदानेन तस्य च स्वस्य राजत्वेन साम्यं दर्शितम् , तेन तस्य रथावतरणं योग्यमेवाचारदृष्ट्या । गन्धर्वराजेत्यत्र “राजाहःसखिभ्यष्टच्” इति सूत्रेण टच्प्रत्ययः । प्रियसुहृदे भवते स्वागतम् । प्रेमातिशयेनाचारपद्धत्या वा परस्परं हस्तौ स्पृशतः हस्तग्रहणं कुर्वतः । स्वागतचिह्नमेतत्-आलेष्वपि शिष्टाचारोऽयम् ।

 चित्ररथ:-वयस्य प्रियसुहृद् ! केशिना तदाख्येन दानवेन हृतां बलादपहृतामुर्वशीं नारदाद् महामुनेरुपश्रुत्य ज्ञात्वा अस्या उर्वश्याः प्रत्याहरणार्थं तस्माद्दैत्यान् निर्जित्य पुनरानयनाय शतक्रतुनेन्द्रेण गन्धर्वाणां तदाख्यानां देवानां सेना समादिष्टा आज्ञप्ता । अधिगम्येममुदन्तं नारदाद्दैत्यनाशाय तस्या रक्षणाय च गन्धर्वसेना प्रेषिताऽऽसीदित्यर्थः । अन्तरा मध्ये एव मार्गे ततः प्रस्थानानन्तरं वयञ्चारणेभ्यो बन्दिभ्यस्त्वदीयं तव जयोदाहरणं केशिजयवर्णनं श्रुत्वा समाकर्ण्य इहस्थं हेमकूटशिखरे वर्तमानं त्वामुपागताः समायाताः। मार्गान्तराले निशम्य भवद्भिः कृतं तस्याः रक्षणं, वयं त्वत्समीपं समायाता इत्यर्थः। स एतादृशो विजयी भवान् इमामुर्वशीं पुरस्कृत्य गृहीत्वा अस्माभिः गन्धर्वैः सह मघवन्तमिन्द्रं द्रष्टुं मिलितुमर्हसि । त्वया एनां गृहीत्वा महेन्द्रदर्शनं कर्तव्यमिति भावः। इन्द्रदर्शनकारणमाह-- यतो भवता तत्रभवतः पूज्यस्य मघोनः देवराजस्य महत् प्रियं हितमनुष्ठितम् कृतम् । महेन्द्रमुपकृतवानसीति सारम् । पश्य विचारय तावत् । पुरेति-पुरा प्राचीनकाले नारायणेनेयमुर्वशी मरुत्वते इन्द्राय प्रदत्ता । आत्मनः उरुप्रदेशात्समुत्पाद्येमामुर्वशीं नारायणः इन्द्रायाप्सरसां मध्ये गणयितुं तां प्रादात् । सम्प्रति अस्मिन्समये सुहृदा परमोपकारिणा त्वया दैत्यानां हस्ताद् बन्धनादपाच्छिद्य मोचयित्वा इन्द्राय इयं प्रदीयते । इति त्वया बहु उपकृतम् । पुरा नारायणेनातिसृष्टा चेदानीं त्वं समर्पयसीत्यर्थप्रदानेन पुरूरवसो नारायणतुल्यत्वं सूचितम् । सोऽपि नारायणः कीदृशः "नराणां नित्यानामयनमिति नारायणपदम्" इति । अनुष्टुब्वृत्तम् ॥१६॥  राजा-सखे ! मैवम्----

ननु वज्रिण एव वीर्यमेतद् , विजयन्ते द्विषतो यदस्य पक्ष्याः । वसुधाधरकन्दराविसर्पी, प्रतिशब्दो हि हरेर्हिनस्ति नागान् ॥१७॥

 चित्ररथ:-युक्तमेतत् । अनुत्सेकः खलु विक्रमालङ्कारः।


 राजा--सखे गन्धर्वराज ! मैवम् मा कथयेदम् , अनुचितेयं तव भणितिरित्यर्थः । नन्विति-ननु निश्चये । एतत्सर्वं वज्रिणः इन्द्रस्य एव वीर्यं पराक्रमः यदस्य सुरेन्द्रस्य पक्ष्याः पक्षपातिनः सहायकाः जना द्विषतः शत्रून् विजयन्ते जित्वा स्वायत्तीकुर्वन्ति । सुरेन्द्रसहायकाः शत्रून् जयन्तीत्यत्र तेषां न कोऽपि पराक्रमः किन्तु एतत्तस्यैव विलक्षणविक्रमशालित्वम् । अमुमेवार्थमुदाहरणेन विशेषयति-वसुधाधराणां गिरीणां कन्दरा दरी तासु विसर्पी प्रसारी हरेः सिंहस्य प्रतिशब्दो गर्जना प्रतिध्वनिः नागान् गजेन्द्रान् हिनस्ति हि नूनं नाशयति । गिरिदरीप्रसारिकेसरीगर्जितध्वनिर्मातङ्गानाशयतीति केसरिण एवेदं वीर्यम् न तु कन्दराया इति । अनेन वयं तु कन्दरासदृशा एव स्मः । यत्तु 'विजयो लभ्यते तत्तु हरेरेव पराक्रमः' इत्यत्रोदाहरणवाक्येऽपि सिंहस्थाने हरिपदप्रदानेन हरिपदगतश्लेषेण हरि‌णेन्द्रेणेव केशिनिषूदनं कृतं, का वास्माकं तत्र गतिरिति सूचितम् । अनेन पुरूरवसः औदार्यव्यञ्जको विनयो द्योतितः । वज्रमस्यास्तीति वज्री तस्येति वज्रिणः । द्विषतीति द्विषन् विरोधकारी तस्य द्वितीयाबहुवचनम् द्विषतः । पक्षे साहाय्ये भवाः पक्ष्याः । वसुधां धरन्तीति ते वसुधाधराः पर्वताः । “हरिश्चन्द्रार्कवाताश्वशुकमेकयमादिषु । कपी सिंहे हरेऽजेंऽशौ शक्रे लोकान्तरे पुमा"निति मेदिनी । हरिपदस्य सिंहेन्द्रादिनानार्थबोधकत्वम् । “ननु" इति पदम् अनुनये वा । 'ननु प्रश्नेऽप्यनुनये' इति विश्वः । अत्र हि इन्द्रस्य वज्रिपदबोध्यत्वात् परिकरालङ्कारः, वज्रिणो वीर्यातिरेकसद्भावात् वज्रिणः इति पदस्य अत्र साभिप्रायत्वम् । पूर्वार्धगतवस्तुसिद्ध्यर्थमुत्तरार्धगतोदाहरणप्रदानेनात्र दृष्टान्तालङ्कारः । तल्लक्षणं यथा काव्यप्रकाशे "दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम्" एतेषामिति साधारणधर्माणाम् । शत्रुनाशरूपार्थस्य प्रतिबिम्बनादत्र सत्यं दृष्टान्तालङ्कारः । हरिशब्दस्य एकवृन्तगतफलद्वयन्यायेनार्थद्वयाश्रयित्वादर्थश्लेषालङ्कृतिः, अर्थद्वयं तु सिंह:इन्द्रश्च । यदुक्तं "नानार्थसंश्रयः श्लेषः" इति कुवलयानन्दे । अत्रैतेषां परस्परमनपेक्षतया चमत्काराधायकत्वात्संसृष्टिश्च । अत्र शोभा नाम नायकगुणः । इदमौपच्छन्दसकं नाम छन्दः “वैतालीयं द्विस्वरा अयुक् पादे युगवसवोऽन्तेर्लगाः, गौपच्छन्दसकम्" इति पिङ्गले । यत्र प्रथमतृतीयपादयोश्चतुर्दशलकाराः द्वितीयचतुर्थयोश्च षोडशलकारास्तेषु च पादान्ते रेफो लघुर्गुरुश्च भवन्ति तद् वैतालीयं नाम छन्दः । तस्मिन्नन्ते च गकारैकाधिक्येनौपच्छन्दसकं नाम वृत्तं भवति । एतत्तु अर्धसमवृत्तेष्वन्यतमं विद्यते ॥ १७ ॥

 चित्ररथ:--- यद्भवता भणितं तत्तु शोभनमेव । अनुत्सेकः निरभिमानित्वं विक्रमस्य पराक्रमस्य अलङ्कारो भूषणं खलु । पराक्रमेण सह यदि भवेद्विनयस्तदा  राजा-सखे ! नायमवसरो मम शतक्रतुं द्रष्टुम् । अतस्त्वमेवात्रभवतीं प्रभोरन्तिकं प्रापय ।

 चित्ररथ: -यथा भवान्मन्यते । इत इतो भवत्यः ।

(सर्वाः प्रस्थिताः।)

 उर्वशी-(जनान्तिकम् ) हला चित्तलेहे, उवआरिणं राएसिं ण सक्कणोमि आमन्तेदुम् । ता तुमं एव्व मे मुहं होहि । [हला चित्रलेखे ! उपकारिणं राजर्षिं न शक्नोमि आमन्त्रयितुम् , तत् त्वमेव मे मुखं भव ।]

 चित्रलेखा-(राजानमुपेत्य) महाराअ ! उव्वसी विण्णवेदि---- महाराएण अव्भणुण्णादा इच्छामि पिअसहिं विअ महाराअस्स कित्तिं सुरलोअं णेदुम् । [ महाराज ! उर्वशी विज्ञापयति-महाराजेनाभ्यनुज्ञातेच्छामि प्रियसखीमिव महाराजस्य कीर्तिं सुरलोकं नेतुम् ।]


तु नितरां शोभते । भारविरपि अमुमेवार्थं विज्ञापयति "प्रशमाभरणं पराक्रमः" इति । अथवा विक्रमस्य महाराजस्य तदाख्यस्य नायकस्य निरभिमानित्वम् एव अलङ्कारः।

 राजा--सखे ! नायमवसरः शतक्रतुं द्रष्टुम् , नैष समयः इन्द्रदर्शनस्य । अतस्त्वमेव गत्वा एनामत्रभवती माननीयामुर्वशीं प्रभोरिन्द्रस्यान्तिकं समीपं प्रापय नय।

 चित्ररथ:-यथा भवान्मन्यते विचारयति तदेवोचितम् इति शेष: । अस्मिन् विषये भवन्तः प्रमाणम् इत्यर्थः । इयमुक्तिर्विक्रमं प्रति । इत इतो भवत्यः, आगम्यताम् इत्यर्थः । उक्तिरियमप्सरसः प्रति ।

(सर्वाः प्रस्थिताः चित्ररथसनाथाः सर्वा अप्सरसः स्वावासं प्रति प्रयाता इत्यर्थः।)

 उर्वशी-(जनान्तिकम्-एकान्ते अन्यान् वञ्चयित्वा परस्परालापः) यदुक्तं सागरे-“वञ्चयित्वैकमन्योन्यं द्वाभ्यां यत्खलु पठ्यते । जनान्तिकं तु तत्कार्यम् त्रिपताकेन पाणिना" अन्यानपवार्येत्यर्थः । हला सखि चित्रलेखे उपकारिणं प्रियकारिणं राजर्षिं राजसु श्रेष्ठं पुरूरवसम् आमन्त्रयितुं कृतज्ञतां प्रकाशयितुं गमनायाज्ञां च ग्रहीतुं न शक्नोमि असमर्थाऽस्मि । अतस्त्वमेव मम मुखं भूत्वा तमित्थं निवेदय । अत्र विहृतं नाम नायिकालङ्कारः, यदुक्तं दशरूपके “प्राप्तकालं न यद्भूयाद्व्रीडया विहृतं हि तत्" ।

 चित्रलेखा-(मद वचः पार गत्वा) महाराजेति सम्बोधनम् । उर्वशी विज्ञापयति निवेदयति-'महाराज ! श्रीमता अभ्यनुज्ञाता तत्र गमनाय अनुमोदिता चेत् भवतः कीर्तिं मम प्रियसखीमिव सुरलोकं देवेन्द्रपुरीं नेतुं कामय  राजा-गम्यतां पुनदर्शनाय ।

(सर्वाः सगन्धर्वाः आकाशोत्पतनं रूपयन्ति । )

 उर्वशी-(उत्पतनभङ्गं रूपयित्वा) अम्मो, लदाविडवे एसा एआवली वैअअन्तिआ मे लग्गा [ अहो, लताविटपे एषा एकावली वैजयन्तिका मे लग्ना ] ( सव्याजमुपसृत्य राजानं पश्यन्ती) सहि चित्तलेहे, मोआवेहि दाव णम् । [ सखि चित्रलेखे ! मोचय तावदेनाम् ।

 चित्रलेखा-(विलोक्य विहस्य च ) आम् , दिदं क्खु लग्गा सा असक्का मोआविदुम् । [आम् , दृढं खलु लग्ना सा, अशक्या मोचयितुम् ।]

 उर्वशी-अलं पडिहासेण । मोआवेहि दाव णम् । [अलं परिहासेन । मोचय तावदेनाम् ।]


इति ।' अहं जिगमिषामीत्यतः भवदाज्ञां लिप्से । अत्र चित्रलेखामुखेन कृतविज्ञापनाया उर्वश्याश्चेतसि समद्भूतबीजार्थप्ररोहस्योपवर्णनादुत्तरत्र च “गम्यतां पुनदर्शनायेति" नायकोक्त्या ध्वनितस्य राज्ञो मनसि परिस्फुरतः पूर्वरागस्य प्ररोहादुद्भेदाख्यं मुखसन्ध्यङ्गमुपन्यस्तम् ; "बीजार्थस्य प्ररोहः स्यादुद्भेदः" इति दर्पणलक्षणात् ॥

 राजा-गम्यतां पुनदर्शनाय । पुनः त्वरितमेव समागमाय गम्यताम् पुनरावयोर्मेलनं अचिरेण भवेदिति समुद्दिश्य गम्यताम् ।

(सर्वाः गन्धर्वसहिता अप्सरसः आकाशोत्पतनं आकाशे उड्डयनं रूपयन्ति नाटयन्तीत्यर्थः।)

 उर्वशी-(उत्पतनभङ्गं रथक्षोभं रूपयित्वा प्रदर्श्य) अम्मो इति विस्मये । लतायाः विटपे शाखायां एकावली एकपङ्क्तिमयी वैजयन्तिका मौक्तिकहारः लग्ना रुद्धा । (सव्याजम् एतन्मिषेण समीपमेत्य राजानं वीक्षन्ती प्राह) सखि चित्रलेखे ! मोचय तावदेनं मौक्तिकसरम् । पूर्वरागस्यात्र विकासः । चित्रलेखा-(विलोक्येषत्स्मितं च कृत्वा) आम् इति स्वीकारे, ज्ञातमित्यर्थः । सा एकावली तु दृढं गाढं लग्ना तत्र विटपे निरुद्धा, अतश्च मोचयितुमशक्या । 'आम् ज्ञानविनिश्चये' इति वोपालितः । अयञ्चोपहासः । चित्रलेखा उर्वश्याः हृदयस्थमभीप्सितं परिज्ञाय वक्रवचनेने अत्र च भाववक्रता।

 उर्वशी-परिहासेन हास्येनालम् पर्याप्तम्-हास्यं मा कुरु । मोचय तावदेना हारयष्टिमिति भावः । अलंयोगे तृतीया।  चित्रलेखा-आम् , दुम्मोआ विअ मे पडिहादी । तहा वि मोआविस्सं दाव । [आम् , दुर्मोच्येव प्रतिभाति, तथापि मोचयिष्यामि तावत् ।]

 उर्वशी-(स्मितं कृत्वा) पिअसहि, सुमरेहि क्खु एदं अत्तणो वअणम् । [ प्रियसखि ! स्मर खल्वेतदात्मनो वचनम् ।]

 राजा-(स्वगतम्)

  प्रियमाचरितं लते त्वया मे
   गमनेऽस्याः क्षणविघ्नमाचरन्त्या ।
  यदियं पुनरप्यपाङ्गनेत्रा
   परिवृत्तार्धमुखी मया हि दृष्टा ॥ १८ ॥

 (चित्रलेखा मोचयति । उर्वशी राजानमालोकयन्ती सनिःश्वासं सखीजन- मुत्पतन्तं पश्यति ।)


 चित्रलेखा-आम् । इयमेकावली दुर्मोच्या सौकर्येण मोचयितुमशक्या इव प्रतिभाति दृश्यते । तथापि मोचयिष्यामि प्रयत्नं करोमीत्यर्थः ।

 उर्वशी-(स्मितमीषद्हास्यम् कृत्वा) प्रियसखि ! त्वं स्मर ते वचनम् । यदधुना त्वया प्रोक्तम् तदवधारय । अत्रोर्वशी राजनि दुर्मोच्यानात्मनो रतिं सखीं गमयति ।

 राजा-(स्वगतम्-आत्मन्येवाह ) प्रियमिति-हे लते ! अस्या उर्वश्याः गमने क्षणविघ्नं क्षणपर्यन्तं तदीयैकावली निरोधजनितं विघ्नमन्तरायं आचरन्त्या कुर्वत्या त्वया मे मदीयं प्रियमाचरितं कान्तं कृतम् । यतः परिवृत्तं ईषद् पृष्ठतः कृतम् अर्धमुखं यस्याः, अतएव अपाङ्गनेत्रा अपाङ्गयुक्ते कटाक्षयुक्ते नेत्रे यस्याः सा उर्वशी मया पुनरपि दृष्टा अवलोकिता। यदि त्वं न न्यरोत्स्यस्तदीयैकावलीं, सा नात्र स्थिताभविष्यदतस्त्वया उपकृतोऽस्मीति भावः । यतः सा मया पुनरप्येकवारं सभ्रूकटाक्षं दृष्टेति त्वया मे प्रियमनुष्ठितम् । अथवा अपाङ्गनेत्रा अपाङ्गो मदनस्तदुत्पादके नेत्रे यस्याः सा इत्यपाङ्गनेत्रा । “अपाङ्गस्त्वङ्गहीने स्यान्नेत्रान्ते तिलकेऽपि च” इति विश्वः । परिवृत्तमीषत्तिर्यक्कृतम् । अत्र परिवृत्तार्धमुखवत्त्वं अपाङ्गनेत्रत्वे कारणं तेन च हेतुहेतुमद्भावात्काव्यलिङ्गमलङ्कारः । अपरश्च नायके नायिकागतौत्सुक्यादिभावोद्भावाद् भावोदयध्वनिः । यदुक्तं दर्पणे "भावस्य चोदये सन्धौ मिश्रत्वे च तदाख्यका इति ।" अपि चात्र समुत्सुकस्य भाविविरहखिन्नस्य नायकस्य कौतुकप्रायमिदं वचः परिभावनाख्यं सन्ध्यङ्गं समुत्थापयति यदुक्तं---- "कुतूहलोत्तरा वाचः प्रोक्ता तु परिभावना ।" औपच्छन्दसकं वृत्तम् ॥ १८ ॥

 (चित्रलेखा लताविटपलग्नामेकावलीं मोचयति-उर्वशी च राजानमालोक सूतः-आयुष्मन् !

  अदः सुरेन्द्रस्य कृतापराधान्
   प्रक्षिप्य दैत्यांल्लवणाम्बुराशौ।
  वायव्यमस्त्रं शरधि पुनस्ते
   महोरगः श्वभ्रमिव प्रविष्टम् ॥ १९॥

 राजा-तेन ह्युपश्लेषय रथम् , यावदारोहामि ।

(सूतस्तथा करोति । राजा नाट्येन रथमारोहति ।)

 उर्वशी-( सस्पृहं राजानमवलोकयन्ती) अवि णाम पुणो वि उअआरिणं एदं पेक्खिस्सम् । [ अपि नाम पुनरपि. उपकारिणमेतं प्रेक्षिष्ये ।]


यन्ती सनिश्वासं शोकजनितदीर्घाश्वासमुद्गिरन्ती सखीजनमुत्पतन्तमाकाशमार्गे उपर्युपरि गच्छन्तं पश्यति ।)

 सूतः-आयुष्मन् इति राज्ञः सम्बोधनम् । अद इतिः-अदः सुरेन्द्रस्य देवेन्द्रस्य कृतापराधान् अपकारिणः दैत्यान् असुरान् लवणाम्बुराशौ क्षारसमुद्रे प्रक्षिप्य निहत्य क्षिप्त्वा ते वायव्यं वायुदेवताकमस्त्रं पुनः शरधिं निषङ्गं तूणीरं वा प्रविष्टम् । स्वकार्यं संसाध्य स्वस्थाने प्रविष्टमित्यर्थः । यथा महोरगः कृष्णसर्पः श्वभ्रं बिलं रन्ध्रं वा प्रविशति । यथा कृष्णसर्पः किञ्चित्कालं बहिरागत्य पुनः स्वबिलं प्रविशति तथैव तवेदं वायुदेवताधिष्ठितमस्त्रं दैत्यान्नाशयित्वा पुनः स्वतूणीरं प्रविष्टम् इति भावः । वायुर्देवतास्येति वायव्यम् "वायवृतुपित्रुषसो यत्" इति सूत्रेणात्र यत् प्रत्ययः । शराः धीयन्तेऽस्मिन्निति शरधिः । उरसा गच्छतीति उरगः सर्पः । श्वभ्रं रन्ध्रम् “रन्ध्रं श्वभ्रं वपा शुषि"रित्यमरः । अनेन राज्ञः देवतोपकारित्वं, पराक्रमशालित्वं, वायुप्रभृतिबहुदेवताप्रसादनगृहीतशस्त्रास्त्रविद्याप्रौढत्वं, अनागसि अस्त्रोपयोगाकारित्वं, विवेकित्वं, दण्डनीयदण्डदातृत्वं, न्यायकर्तृकत्वं, गुणगणवत्त्वं च वस्तु व्यज्यते । अत्र चोपमालङ्कारः, अस्त्रस्योरगस्य च रन्ध्रप्रवेशसाधर्म्यात् । अत्रेन्द्रवज्रोपेन्द्रवज्रयोर्मेलनादुपजाति वृत्तम् ॥ १९ ॥

 राजा-सारथे ! तेन हि कार्यसमाप्तत्वेन रथमुपश्लेषय समीपमानीय स्थापय यावदहमधिरूढो भविष्यामि । अत्र वर्तमानसमीपे भविष्यत्यर्थे लट् ।

(सूतस्तथा करोति रथं समीपे समानयति राजा च नाट्येन तमधिरोहति ।)

 उर्वशी-(सस्पृहं साभिलाषं राजानमवलोकयन्ती).अपि सम्भावनायाम् । सम्भाव्यते किमिदं यत् पुनरपि उपकारिणं हितकारिणमेनं प्रेक्षिष्ये । पुनरप्यावयोः संयोगो भविष्यति किमिति । अनेन तस्या विरहखिन्नत्वं सूच्यते, पूर्वरागश्च व्यज्यते। .

.

(इति सगन्धर्वा सह सखीभिनिष्क्रान्ता ।)

 राजा-(उर्वशीवर्त्मोन्मुखः) अहो ! दुर्लभाभिलाषी मदनः ।

  एषा मनो मे प्रसभं शरीरात्
   पितुः पदं मध्यममुत्पतन्ती ।
  सुराङ्गना कर्षति खण्डिताग्रात्
   सूत्रं मृणालादिव राजहंसी ॥ २० ॥

(निष्क्रान्तौ)

॥ इति प्रथमोऽङ्कः॥


( इति गन्धर्वैः सह ससखी उर्वशी निष्क्रान्ता गता।)

 राजा-(उर्वश्याः वर्मनि मार्गे उन्मुखः दत्तदृष्टिः) अहो इति खेदे। दुर्लभमलभ्यमभिलषते काङ्क्षते इति दुर्लभाभिलाषी मदनः अस्तीति शेषः । दुर्लभं वस्तु कामयते मदन इत्यर्थः । इदं नायकहृदयस्थं खेदं सूचयति । नायकगतो रत्याख्यो भावश्च व्यज्यते । अत्र विरहस्य पूर्वरागावस्थायां प्रथमावसरः । एषा इति-पितुः स्वजनकस्य भगवतो विष्णोः मध्यमं पदं धाम आकाशं उत्पतन्ती उद्गच्छन्ती इयमेषा सुराङ्गना अप्सरा उर्वशी शरीराद् देहात् मे मनः प्रसभं बलात् कर्षति आत्मानं प्रति हठान्नयति । यथा राजहंसी खण्डिताग्रात् भिन्नमध्यभागान्मृणालात्कमलपत्रदण्डात् सूत्रं विसतन्तुं आकर्षति तथैव गगनमुद्गच्छन्तीयं देवाङ्गना मम देहात् मनः प्रसह्य समाकर्षति । इयमीदृशी मनोहरा यन्मे मनः बलादात्मानं प्रति नयति इति भावः । इदं प्रशंसा नामालङ्करणम् यन्नायकः स्वमन:- सागरशशिलेखां मनोनीतां प्रेयसीं प्रशंसति । अपि चात्र गुणकीर्तनं नाम लक्षणम्-यल्लक्षणमुक्तं “गुणानां कीर्तनं यत्तु तदेव गुणकीर्तनमिति" दर्पणे । विष्णोः मध्यमं पदम् आकाशः “वियद्विष्णुपद"मित्यमरः । अनेन तस्या गगनमुत्पतन्त्या राजहंसीसदृशगतिशालित्वं व्यक्तम् । अत्र चोपमालङ्कतिः । कविवरस्य कालिदासस्य समय एवायं यत् नायिकया स्वायत्तीकृतस्य नायकहृदयस्याकर्षणमुपवर्ण्यते तन्नाटकान्तरेऽपि लभ्यते, यथा शाकुन्तले "गच्छति पुरः शरीरं धावति पश्चादसंस्थितं चेतः । चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य ।" (१-३६) । अत्र गुणाख्यानात् विलोभनं नाम मुखसन्ध्यङ्गम् ॥ उपजाति वृत्तम् ॥ २०॥

 इति उक्त्वा निष्क्रान्तौ राजा सूतश्च अपगतौ रङ्गभूमितः इति प्रथमोऽङ्कः समाप्तः। इति समाप्तौ । प्रथमः आदिमः अङ्कः प्रथमाङ्कः । अस्तु परिच्छेदो नाटकांशो वा । यल्लक्षणन्तु नाट्यशास्त्रे “अङ्क इति रूढिशब्दो भावैश्च रसैश्च रोहयत्यर्थान् । नानाविधानयुक्तो यस्मात्तस्माद् भवेदङ्कः" । अन्ते सकलपात्रनिर्गमः, प्राप्तस्य वनोद्देशस्य परित्यागः अङ्कलक्षणप्राप्तत्वात् सुतरां विन्यस्तम् । तथा च 'राज्य-

४ विक्र०

देशादिविप्लवनगराद्यवरोधनमेभिर्वर्जितः" । "अन्तनिष्क्रान्तनिखिलपात्रोऽङ्कः" इति. दर्पणकारः । तथैव कविकल्पद्रुमे 'अङ्काङ्गत्कपदे लक्ष्मण्यंशासत्कविभाजने ॥ 'अङ्को विभूषणे स्थाने समीपे नाटकांशके' इति च मेदिनीं ॥

 इति श्रीमतां प्रमोदमोदमानमानसरसाविभक्तभगवल्लीलाललितकीर्तनस्वानन्दसक्तभक्तगोष्ठीगरिष्ठाणां रामानुजार्यकैङ्कर्यधुरीणानां प्रखरकिरणकरप्रतिभतेजःप्रकरप्रभाकराणां कविपण्डितेन्द्रमण्डलालङ्कारहीराणामजस्रप्रणामारुणितवन्दारुराजन्यवृन्दवन्दितपदद्वन्द्वारविन्दानां रसिकतारसनिधीनामिन्दूरनगराभरणानामुत्तरतोताद्रिविज्ञानविभवपीठाधीशानामाचार्यवर्याणां न्यायवेदवेदान्तमीमांसाद्यखिलनिगमागममन्थानशेमुषीकाणां स्वामिनां श्रीकृष्णाचार्याणाम् तनूभवेन सहृदयताकूपारजलेवाहेन एम्. ए. काव्यपुराणतीर्थसाहित्यविशारदाद्यनेकोपाधिसमुल्लसितेन सुरेन्द्रनाथशास्त्रिणा विरचितायां विक्रमोर्वशीसंजीविकायाम् कल्पलतासमाख्यायाम् व्याख्यायाम् प्रथमाङ्कोल्लासः॥