विकिस्रोतः:Username policy

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
                                            --2405:204:E50C:565A:B922:4ED9:AD:77CD ०९:४८, २३ मार्च २०१७ (UTC)संस्कृतशिक्षणाधिगमे सूचनासम्प्रेषणप्रविध्याधारितो नवाचारः--2405:204:E50C:565A:B922:4ED9:AD:77CD ०९:४८, २३ मार्च २०१७ (UTC)

सम् उपसर्गपूर्वकं डुकृञ् करणे इत्यस्माद्धातोः संस्कृतशब्दस्य निष्पत्तिर्जायते। संस्कृतभाषा सर्वासां भाषाणां जननि वर्तते। संस्कृतभाषायामेव अस्मदीया धर्मग्रन्थाः पुरुषार्थप्रवर्तकाश्च समग्राः ग्रन्थास्सन्ति। अर्थात् संस्कृतशिक्षाणादेव अस्माकं संस्कृते संरक्षणं भविष्यति। यथा – संस्कृतं संस्कृतेर्मूलं ज्ञानविज्ञानवारिधिः । वेदतत्वार्थसंजुष्टं लोकाऽलोककरं शिवम् ॥ संस्कृतशिक्षणद्वारा एव सामाजिकता-आध्यात्मिकता-नैतिकतानाञ्च विकासो भवितुं शक्तोति। वर्तमानकाले भारते नैतिकमूल्यानां ह्रासो दृश्यते सर्वत्र सभ्यतासंस्कृत्योश्च पतनं भूयमानं दृश्यते। अनेनैव सांस्कृतिकवातावतणे प्रदूषणं सञ्जायते। अतः सांस्कृतिकप्रदूषणस्य निवारणाय संस्कृतमेवास्ति अकाट्यववज्रास्रम्। वर्तमानकाले जनाः पाश्चात्यान्धानुकरणेन संस्कृतपठने रुचिं न प्रदर्शयन्ति। एतदर्थं संस्कृतशिक्षणाधिगमे सूचनासम्प्रेणप्रविध्याधारितो नवाचारस्यातीवावश्यकता वर्तते। येन छात्राः रूच्यनुगुणं सोत्साहेन अधिगमानुभवं करिष्यन्ति। शिक्षणाधिगमः शिक्षासम्बन्धितं यद् विद्यते तदेव भवति शिक्षणम्। अधिगमः एका सतत् प्रचल्यमाना स्वाभाविकी प्रक्रिया वर्तते। येन छात्राणां सर्वविधपक्षस्य विकासो भवति। अधिगमः प्रयाशपूणोऽर्थपूणञ्च भवति। शिक्षणम् अधिगमस्य कारकरूपेणापि मन्यन्ते। सूचनासम्प्रेषणप्रविधिः सुचनासम्प्रेषणप्रविधिः तादृशमुपकरणं विद्यते येन न्यूनातिन्यूनसमये सूचनायाः स्थानान्तरण-संग्रहण-संक्षिप्तीकरण- प्रसारणञ्च क्रियते। कस्यचित् विषयसम्बन्धितं तथ्यानां प्रकटीकरणमेव सूचना भवति। सूचनाप्रकटीकरणाय सम्प्रेषणं महति भूमिकां निर्वहति। सम्पेषणम् एका तादृशी प्रकिया विद्यते यत्र व्यक्तिः परस्परं सामान्यावबोध- माध्यमेन सूचनानामादानप्रदानं कुर्वन्ति। येन अधिगमो जायते।

	एडगरडेलेमहोदयानुसारेण – सम्प्रेषणं विचारविनिमयस्य मनोभावे विचारान् भावनाश्च परस्परं ज्ञातुंम् अवगन्तुञ्च काचित् प्रक्रिया।
	लेलेण्डमहोदयानुसारेण – सम्प्रेषणं तथ्यानां विचाराणां कार्यपद्धतेः वा अन्तः परिवर्तनं प्रसारणञ्च भवति।

महत्त्वम् – • अधिगमोद्देश्यानां सरलतया प्राप्तीकरणे सहायको भवति। • छात्राणाम् आन्तरिकप्रेरणा – जिज्ञासायाश्च वर्धनम्। • औपचारिक-अनौपचारिक-निरौपचारिकक्षेत्रेषु प्रयोगः • भाषाविकासः सुष्टुः भवति। • परस्परसम्बन्धस्थापने सहायकः। • परस्परसूचनायाः विनिमयार्थम्। • समाजं प्रभावयति। • ज्ञानप्राप्तेः साधनं भवति। • निर्णयस्वीकरणे सहायको भवति। नवाचारस्यार्थः

	नवाचारशब्दः आङ्गलभाषायाः Innovation  शब्दस्य रुपान्तरितस्वरूपं विद्यते । अस्यार्थो भवति नवीनपुरातनविचारयोः सम्बन्धं संस्थाप्य विशिष्टतायाः प्रकटीकरणमिति।   सूचनासम्प्रेषणप्रविधौ नवाचारस्य अभिप्रायो भवति नवीनविधीनाम् अनुप्रयोगः।

• यूनेस्को सम्मेलनम् – (1971)

            नवाचारः एकः नूतनविचारस्य प्रारम्भो विद्यते। यः एका प्रविधियुक्ता प्रक्रिया विद्यते। यस्य विस्तृतोपयोगः प्रचलितव्यवहारस्य स्थाने क्रियते। 

विशेषताः – • नवीनविचाराणां समावेशः। • क्रियाशीलतायाः प्रभावः। • प्रचलितप्रणाल्यां निदानोपचारः। • आवश्यकताधारितोद्भवः। • विशिष्टतत्वानां समावेशः। • नमनीयता-गत्यात्मकतायाश्च गुणाः। आवश्यकता – • वर्तमानप्रगत्यानुरुपं संस्कृतशिक्षणाधिगमव्यवस्था। • कल्याणकारी व्यवस्था स्थापनीया। • वर्तमानावश्यकतायाः पूर्तिः। • सामाजिकपरिवर्तनानुरूपं शिक्षा। • सकारात्मकशैक्षिकवातावरणस्य निर्माणम्। नवाचारस्य कारकाणि – 1. बहुमाध्यमोपागमः। 2. दूरदर्शनम्। 3. अन्तर्जालम्। 4. अभिक्रमितानुदेशनम्। 5. भाषाप्रयोगशाला। 1.बहुमाध्यमोपागमः बहुमाध्यमोपागमस्य तात्पर्यो भवति कस्यचित् प्रकरणस्य स्पष्टीकरणाय शिक्षणसामाग्रीणां विविधरूपेषु प्रयोगः। विविधरुपेषु प्रयोगः इत्युक्ते विविधमाध्यमानां विधानाञ्च सुनियोजितोपयोगः। शिक्षणाधिगमे बहुमाध्यमोपागमस्य अभिप्रायो भवति सञ्चारस्य आधुनिकप्रविधीनां विधिवत् सुचारुरुपेण शिक्षाक्षेत्रे प्रयोगः येन व्यक्तिपरकशिक्षणस्य परिष्कारेण अधिगमं प्रभावशालीं निर्मियते।  डॉ.भोरास्करमहोदयानुसारेण शिक्षणे बहुमाध्यमोपागमस्य स्थानेऽनुदेशात्मकविकासः इत्यस्यापि प्रयोगो दृश्यते। अस्य प्रयोगः शैक्षिक-मनोरञ्जनात्मक-प्रभावशाली-अभिव्यक्तिषु च क्रियते। एषः उपागमः सञ्चार-सूचना-अनुदेशन-प्रतिपादनसम्बन्धितकार्याणाञ्च क्रियान्वयनं क्रियते।

	 	संस्कृतशिक्षणे बहुमाध्यमोपागमस्य आवश्यकता – 

• संस्कृतसम्बन्धितजटीलविषयवस्तूनां बोधगम्यता प्रदानम्। • संस्कृतशिक्षणं सरलं सरसं रुचिपूर्णञ्च निर्मातुम्। • संस्कृतस्य औपचारिक- अनौपचारिक- निरौपचारिकक्षेत्रेषु प्रयोगः। • सरलाधिगमाय प्रेरणाप्रदानम्। • अल्पसमये अधिकज्ञानस्य अवाप्तीकरणम्। • ज्ञाने स्थायित्वं सम्पादनम्। • वैयक्तिकभिन्नतादृष्ट्या स्वगत्याधिगमः। 2. दूरदर्शनम् दूरदर्शनं सूचनासम्प्रेषणप्रक्रियायाः एकः प्रभावशाली माध्यमो विद्यते। दूरदर्शने शैक्षिककार्यक्रमाणां व्यापकव्यवस्था विद्यते। परञ्च संस्कृतकार्यक्रमाणाम् अभावो दृश्यते। संस्कृतकार्यक्रमाणां निमार्णम् आवश्यकं वर्तते । तथापि संस्कृतसमाचारम् आयाति।  दूरदर्शने अनौपचारिकशैक्षिकप्रसारणम्

             अस्य प्रसारणस्य साक्षात्सम्बन्धो विद्यालयीयपाठ्यक्रमैः सह न भवति अपितु छात्राणां अनौपचारिकरुपेण ज्ञानसंवर्द्धनाय कर्यक्रमाणां प्रसारणं क्रियते। यथा-

 नृत्यम् ।  गीतम्।  नाटकम्।  बालिकासम्बन्धितकार्यक्रमाः।  ग्रामीणजनानां सम्बन्धितकार्यक्रमाः।  क्रीडासम्बन्धितकार्यक्रमाः।  सामाजिकविषयसम्बन्धितकार्यक्रमाः।  समसामयिकविषयसम्बन्धितकार्यक्रमाः।  दूरदर्शने औपचारिकशैक्षिकप्रसारणम् –  ग्रामीणानुवर्गाणां कृते कार्यक्रमाः ।  विद्यालयीयपाठ्यक्रमसम्बन्धितकार्यक्रमाः।  विश्वविद्यालयीयपाठ्यक्रमसम्बन्धितकार्यक्रमाः।  प्रौढशिक्षासम्बन्धितकार्यक्रमाः।  अध्यापकानां प्रशिक्षणसम्बन्धितकार्यक्रमाः। 3.अन्तर्जालम्

           सूचनां स्वीकरणार्थम् अन्तर्जालम् अद्यतनकाले एकः सोद्देश्यपूर्णो माध्यमो विद्यते। येन द्वारा सूचनानां विश्वे एकस्थानाद् अन्यस्थाने स्थापनं क्रियते। अन्तर्जालद्वारा अल्पसमये अधिकाधिकज्ञानस्यावाप्तिः सम्भवति। अन्तर्जालं स्वयमेव कार्यं न करोति अपितु उपयोगकर्ता स्वावश्यकतानुरुपं क्रियान्वयनं करोति। संस्कृतसम्बन्धिसूचनां स्वीकरणार्थं Wikipedia इत्यस्यापि प्रयोगं कर्तुं शक्यते।

 उपादेयता –  विश्वस्य समसायिकसूचनानाम् अवाप्तिः।  शोधसम्बन्धितसूचनानां स्वीकरणम्। यथा- शोधगङ्गा इत्यादयः  दूरवाणीद्वारा अधिगमः। Google Play store तः विविधतन्त्रांशोपागमं स्वीकृत्य। यथा-  व्याकरणसम्बन्धिपुस्तकानि।  वास्तुसम्बन्धिपुस्तकानि।  ज्योतिषसम्बन्धिपुस्तकानि।  कर्मकाण्डसम्बन्धितपुस्तकानि।  कुण्डलीसम्बन्धिततन्त्रांशः।


4.अभिक्रमितानुदेशनम् विषयवस्तोः तार्किकक्रमेण वैज्ञानिकविधिमाध्यमेन छात्राणां सम्मुखे प्रस्तुतीकरणम् एव अभिक्रमितानुदेशनं भवति। अस्मिन् छात्राः स्वयोग्यतानुसारेण अधिगमं कुर्वन्ति। • स्मिथ-मूरेमहोदयाभ्यामनुसारेण– अभिक्रमितानुदेशनम् अधिगमविषयान्

      क्रमितपदानां श्रृखलाबद्धव्यवस्थापनस्य एका प्रक्रिया वर्तते।
	 	मूलभूतसिद्धान्तः – 

 लघुपदसिद्धान्तः।  सक्रियानुक्रियासिद्धान्तः।  तत्कालप्रतिपुष्टिसिद्धान्तः।  स्वगतिसिद्धान्तः।  मूल्याङ्कनम्। • राष्ट्रियसंस्कृतसंस्थाने अभिक्रमितानुदेशनस्योपरि कार्याणि – 1. प्रत्ययेषु अभिक्रमितानुदेशनम्। 2. अव्ययायेषु अभिक्रमितानुदेशनम्। 3. अलङ्कारेषु अभिक्रमितानुदेशनम्। इत्यादयः

"https://sa.wikisource.org/w/index.php?title=विकिस्रोतः:Username_policy&oldid=106334" इत्यस्माद् प्रतिप्राप्तम्