विकिस्रोतः:ग्रन्थार्पणम् २०२०
दिखावट
मुख्यपृष्ठम् Main page | ग्रन्थाः Books | भागग्राहिणः Participants | चर्चा Discuss | इतिवृत्तम् Report |
|
ग्रन्थार्पणम् इत्येषः नूतनः उपक्रमः संस्कृतविकिस्रोतःपक्षतः आयोजितः । संस्कृतोत्सवे कस्यचित् पुस्तकस्य पाठशुद्धिकार्यं स्वीकरणीयम् । अस्मिन् विकिकार्ये समानमनस्काः इतरे (त्रयः वा) योजनीयाः । समूहरूपेण ग्रन्थस्य परिशीलनकार्यं समाप्य विकिस्रोतःद्वारा संस्कृतमातुः पदतले तस्य समर्पणम् । नूतनानां योजनेन विकिकार्यस्य वेगवर्धने अपि योगदानं निश्चयेन भविष्यति ।
उद्देश्यम्
[सम्पाद्यताम्]- विकिस्रोतसि शुद्धपाठवतां पुस्तकानां सङ्ख्यावर्धनम् ।
- विकिकार्ये नूतनानां समर्थानां योजनम् ।
- विद्यमानानां विकिसदस्यानां विकिसङ्घटनसामर्थ्यवर्धनम् ।
- विकिकार्यस्य स्वयंपठने, पाठने च विकिसदस्यानां दक्षतासम्पादनम् ।
- विकिसूक्तौ प्रकाशनाय सूक्तिसङ्ग्रहः
- विकिपीडियाप्रकल्पे लेखानाम् उल्लेखाय समृद्धसाहित्यसर्जनम् ।
स्वरूपम्
[सम्पाद्यताम्]- विकिसदस्य संस्कृतोत्सवे एकं पुस्तकं चिनुयुः ।
- आत्मना सह नूतनाः योजनीयाः ।
- विकिमध्ये कृतकार्यः सदस्यः नूतनान् पाठशुद्धिक्रमं पाठयेत् । कार्यविभाजनं च सूचयेत् ।
- सर्वे मिलित्वा पुस्तकस्य परिष्कारं समापयेयुः ।
- यावच्छीघ्रं कार्यं समाप्य विकिप्रबन्धकाः सूचनीयाः । ते अग्रिमसूचनां प्रदास्यन्ति ।
साहाय्यम्
[सम्पाद्यताम्]विकिस्रोतसि पाठशुद्धिकार्यं कथम् करणीयम् इति ज्ञानार्थम् अधोविद्यमानानि प्रशिक्षणस्य चलच्चित्राणि द्रष्टुमर्हिन्ति ।
- विकिस्रोतसि प्रवेशादिः
- कार्यपरिचयः
- Introduction to Wikisource
- How to work on Wikisource
- OCR and proofreading
- Best practices of proofreading and page lay out
सामान्यप्रश्नाः
[सम्पाद्यताम्]- अत्र के भागं ग्रहीतुम् अर्हन्ति?
- यः पाठशुद्धिं कर्तुमिच्छति स सर्वोऽपि भागं ग्रहीतुं शक्नोति। वयोनियमादिकं नास्ति ।
- पुस्तकचयनानन्तरं समानपुस्तकम् अन्यः अपि न चिनुयात् वा ?
- पुस्तकचयनानन्तरं प्रबन्धकाः सूचनीयाः । यथा अन्यः समानं पुस्तकं न चिनुयात् तथा प्रबन्धकाः पश्यन्ति।
- विकिविषये अजानानाः अपि अत्र भागं ग्रहीतुं शक्नुवन्ति वा?
- अवश्यं भागं गृह्णीयुः । पूर्वं यः विकिमध्ये कृतकार्यः सः अन्यान् समर्थान् प्रेरयेत् ।