विकिस्रोतः:कालिदासकृतिमासः २०२०/नियमावली

विकिस्रोतः तः

कालिदासकृतिमासः - पाठशुद्धिस्पर्धा २०२०
प्रतिपद्, आषाढः – प्रतिपद्, श्रावणः
(२२ जून् - २१ जुलै, २०२०)

नियमाः

  1. जून् 22 दिनाङ्के कार्यवितरणानन्तरं जुलै 21 दिनाङ्के रात्रौ 11.59 वादनपर्यन्तं स्पर्धा प्रवर्त्यति । अस्मिन् समये यदाकदापि स्पर्धालुभिः पाठशुद्धिः कर्तुं शक्यते ।
  2. सञ्चालकाः कः कस्य पृष्ठस्य पाठशुद्धिः कुर्यात् इति निर्दिशन्ति । निर्दिष्टानां पुटानाम् एव पाठशुद्धिः करणीया ।
  3. पृष्ठे प्रथमवारं पाठशुद्ध्यनन्तरं पीतवर्णपिञ्जं नुत्वा पृष्ठं रक्षणीयम् ।
  4. एकस्य पुटस्य शुद्ध्यर्थम् अङ्कत्रयं (3 Points) प्राप्यते ।
  5. पुटविन्यासे परिवर्तनं न करणीयम् । यदि परिवर्तनं क्रियते तर्हि एकः अङ्कः वियोज्यते ।
  6. शुद्धीकृते पुटे पञ्चाधिकाः दोषाः दृश्यन्ते तर्हि एकः अङ्कः वियोज्यते ।
  7. यदि मुद्रणे स्पष्टता नास्ति तर्हि विकिस्रोतःसम्भाषणम्:कालिदासकृतिमासः २०२० -इत्यस्मिन् पुटे समस्या वक्तव्या । समस्यां दृष्ट्वा विद्यमानसमस्यायाः परिहारः क्रियते ।
  8. सूचितानां पुटानां कार्यं यदा समाप्तं भवति, (विकिस्रोतःसम्भाषणम्:कालिदासकृतिमासः २०२०) तदानीं प्रकल्पपृष्ठद्वारा आयोजकाः सूचनीयाः । तदनन्तरमेव कृतस्य कार्यस्य परिशीलनम्, अङ्कदानं, वियोजनं च प्रचलति । तावत्पर्यन्तं पौनःपुन्येन परिशीलनं कर्तुं स्पर्धालवः स्वतन्त्राः । कार्यसमाप्तेः सूचनायाः परं कार्यार्थम् अग्रिमपृष्ठानि सूचयिष्यन्ते ।
  9. द्वितीयवारं पाठशुद्ध्यर्थं यदा पीतवर्णयुक्तानि पुटानि सूच्यन्ते तदानीं (<ref></ref> इत्यादिकं) पृष्ठस्य सर्वमपि कार्यं समाप्तं स्यात् । एवं कृते एकः अङ्कः लभ्यते ।
मुखपुटम्
मुखपुटम्
भागग्राहिणः
भागग्राहिणः
नियमावली
नियमावली
पुस्तकानि
पुस्तकानि
कार्यम्
कार्यम्
साहाय्यम्
आलोचना
फलितांशः
फलितांशः
पुरस्काराः
पुरस्काराः