वास्तुसूत्रोपनिषत्/द्वितीयः प्रपाठकः

विकिस्रोतः तः
Jump to navigation Jump to search

163
द्वितीय: प्रपाठक:

खिलपञ्जरज्ञानम्

खिलपञ्जरम्


अथ खिलपञ्जरज्ञानं घटनमिति ब्रूमः । तेन आाचेष्टो भव आाङ्गिरस2 ग्राभकार इव ।

निर्दिष्टार्थकप्रतिमा3 ग्राह्या ॥ २.१ ॥

अनुकूल शिला अभिजिति4 संप्राप्ते दर्भण पातयेत् कारुशालायाम् । ततः उदुम्बरकीलेन शिलां रोधयेत् ।

पातनं प्रथमा क्रिया ॥२. २ ॥

पातनान्ते उत्ताडनञ्च , पिच्छिलकरणार्थं होताऽध्वर्युः स्थापकैः सह रूपशिलां मर्दयेत् ।

मर्दनं द्वितीया क्रिया ॥ २.३ ॥

आदौ ओं
दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत्प्र ण आयूंषि तारिषत् ॥ [इति] मन्त्रेण5 तत: महीलुक6पयसा शिलां क्षालयेत्. एतत् सर्वं कुम्भीका7मोचनार्थम्। तत आपादशीर्षं शतकेशिवृषं8 चिन्तयेत् प्रार्थयेच्च ।


1.यद्गुह्यम् अधिकोपायेन विग्रहप्रामाण्यो भवति । सा खिलपञ्जरविद्या, असाधारणी
इत्यर्थः , गुह्यं रेखाज्ञानमिति ।
2.उद्गीथमुपासाञ्चक्रे । एतमेवाङ्गिरसं मन्ये । अङ्गानां यद्रसः । आात्मज्ञऋषिविशेषः ।
3.सपर्योपयोगिनी प्रतिमा।
4.तैत्तिरीयब्राह्मणोक्तः नक्षत्रविशेषः यः शुभदायकः, अभिजिन्नाम नक्षत्रमुपरिष्टादिति वाक्यम्।
5.अथर्व० 20.137.3
6. एकवर्णा कपिला गौः, पुरुरूपा गौरिति भाव: । देवतन्त्रे शक्तिप्राप्ता गाव । अथर्ववेदे
१०.१०.६ उक्तं ‘ स्वधाप्राणाः महीलुका इति ।
7.कुम्भीकामोचनार्थम् अथर्ववेदे १६.६.८ उक्तम् ॐ कुम्भीका दूषीकाः पीयकान् ।। इति ।
8.शतकेशी रुद्ररूपो महावृषः । अथर्ववेदे ५..२२..८ उक्तः । यथा
महावृषान मूजवतो बन्ध्वद्धि परेत्य। प्रैतानि तक्मने बूमो अन्यक्षेत्राणि वा इमा ॥ इति ।


“प्रतिमानुकूल, ख, ग, घ ।
 'मर्दयेत्, ग, घ ।
°वर्जनार्थ ग , घ ।
 “ह्रिरण्मयं सवितारं चिन्तयन् प्रभमानं प्रार्थयेत् शतकेशीवृष रक्ष मामिति ब्रूयात्, ख ।


 

164
 ॐ शतकेशाय महर्षभाय मे रक्ष रक्ष स्वाहा इति ब्रूयात् । महर्षभ तस्य नव नभस्ततो वाश्रा आपपृथिवी तर्पयतु।
एतेन जङ्गिडादय:9 पलायन्ते । एवं शुभं भवति , मनः प्रमोदं भवति । सोऽमृतो भवतीति । ततो मण्डलकरणम् वलयकीलसंयुतयुजुव10दण्डेन रज्जुसंयोगेन मण्डलैकं रचयन्
पुनन्तु मा देवजनाः पुनन्तु मनवो धिया ।
पुनन्तु विश्वा भूतानि पवमानः पुनातु मा ॥ इत्यनेन मन्त्रेण विलं निर्धारयेत् ।

विलमिति मर्म ज्ञेयम् ॥ २.४ ॥

यामलमण्डलम्

एषा तृतीया क्रिया12। विलस्योभयपार्श्वगं पृथग्बिन्दुमवलम्ब्य मण्डलद्वयं रचयन्ति स्थापकाः । तद्देशे शिलाक्षेत्रे रेखायां प्रकृतिपुरुषन्यायेन संलग्नेन वृत्तयुग्ममाचरन्ति । तद् यामलमण्डलमिति । एकेन द्वौ एकरेखायामिति ध्येयम ।
शिल्पश्रोतार: शृणुत, केनोपायेन वज्रेण13 रेखाः कर्त्तव्याः । ततः कीर्त्त्यावास:14 प्रजायते ।

न कृत्यरूपार्थं रेखाकरणं कर्त्तव्यम् ॥ २.५ ॥

आादौ वृत्तं वृत्तम्16 इति विश्वम् ॥२. ६ ॥


तद्रूपे प्राणः, यथा पुरुषस्य मनः, तद्वृत्तं कालः, एष वास्तुवेदे । वृत्तस्य गतिरवधारिता/, यथा चित्तवृत्तिः । वृत्तस्याधारोऽमृतम् बिन्दुस्तस्य


9तापवर्गप्रदयोनिविशेषा: तथा च अथर्ववेदे १९.३५.२ उक्तम स नो रक्षतु जङ्गिडो धनपालो धनेव इति ।
10.काश्यपसंहिताशिल्पशास्त्रे प्रथमाध्याये उक्तम् युजुवदण्डसंयुक्तं वलयं वेष्टितं तथा । - यस्याग्रेऽप्ययःकीलसघूर्णिका इति ।
11.अथर्ववेदे ६.१९.१ अयं मन्त्रः । मर्मनिर्धारणे उपाध्यायाः पवमानसूक्तं पठन्ति इत्याचारः ।
12.पातनं मर्दनं चैवमङ्कनं सा त्रिधा क्रिया । खोदनोत्तरकर्माणि स्थापकः संस्मरेत् सदा ॥ काश्यपसंहिता अ.१ श्लो १४ (ङ)
13.शुकशिलाचूर्णमिति वज्ररेखाङ्कनस्योपादानम् і
14कीर्त्तिरिति रूपं सा प्रतिमा, तस्याऽऽधारः रेखापञ्जर इति ।
15. न मृण्मयप्रतिमार्थं रेखान्यासस्य प्रयोजनम ।
16. वृत्तविन्दुविषयाणि विशदरूपेण पिप्पलादीयप्रणवतारके ध्येयानि (घ)


  • Additional sentence in MS off, meaning not clear. "इति अधिकपाठः, क ।

“दण्डविल इति मर्म ख ।
“एको वा द्वौ एकेण रेखा रचनं ध्येयमिति, ख ।
 * होतारः , रवः, ग ।
'वृत्तस्य स्थितिरवधारितः, क ।


 
165
स्थिति:’, यथाऽऽत्मा । बिन्दुं समारभ्य तद्बिन्दुमिलितेन परिभू' परिधिः सञ्जायते । तद् हि वृत्तं परमेष्ठी , तद् द्रष्टा, तद् योगः । तत् क्रतुः, तत् सत्यं य एवं वेद ।

एकैकस्य संयोगे। इति तस्य भावः । वृत्तं हि पूर्णम् ॥ २.७ ॥

बिन्दुस्तस्याधारः, आहूतिरिव जगन्मयः प्राणः” । सा स्थितिः । यथा गायत्री वेदपदं । तस्यैव शैलेस्योपरि मण्डलम् । मण्डलकरणे वास्तुगायत्रीम् । अथवा अष्टाक्षरीमन्त्रं जपेत् इति कृत्यम् वृत्तमभ्यन्तरे क्षेत्रस्याधारं मन्ये । यथा सर्वाणि भूतानि भ्रमन्ति तथा नानारूपाणि जायन्ते । स वै प्राणः

रेखान्वये सर्वाङ्गानि न्यासय ॥२. ८ ॥

इति भेदनक्रिया । एवं वज्रेण शिलायां रेखाङ्कनकरणं ध्येयम्, न भूमौ न वा इष्टके19 । अथासौ आङ्गिरसो होवाच - ब्राह्मणं भगवन्तं पिप्पलादं द्वौ प्रश्नौ पृच्छामि , तौ चेन्मे वक्ष्यति । का रेखा, कस्तस्या भावः , कति भेदाः बूहि पिप्पलादेति ।

तेजांसि सरलरेखाः ॥२. ९ ॥

तद्रेखेण मण्डलं भिन्दन्ति, यथा कर्त्तारः कर्मणा विश्वं परिभिन्दन्ति तेभ्यः तद्रूपेण रूपार्थं चाक्षुषत्वेन20 देशकथानुमतं21 सर्वाणि रूपाङ्गानि प्रभवन्तीति अङ्गसाम्यं प्रभवतीति ।


१७. ॐविश्वकर्माय विश्वकर्मणे विद्महे कारुकाराय धीमहि तन्नो शिल्पी प्रचोदयात् ।

१८. ॐ विश्वकर्माय ( विश्वकर्मणे ) नमः इति तस्याष्टाक्षरो मन्त्र इति ।
१९. न यज्ञशुल्वप्रयोगे विश्वज्योतिरित्यादिनिर्माणे प्रयोजनम ।
20.दृश्यरूपेण शिलोपरि इति भावः । - |
21.यस्मिन् देशे यथाकारे दैवलीला प्रवर्तते ।


“विन्दुसमुच्चयस्य समष्टिः वृत्तम्, ख । '
भुवत् क ।
हृत्वामेक ग ।
“इति अधिकपाठः ।।

  • यत्र , ख, ग ।

/ अTचर ग ।
 "स हि धारा ग , गति हि धारा ख ।
"आतप्यन्ते क ।



166

नाभौ रूपकर्म’ प्रारभ्यते ॥ २.१० ॥

समतार्थं सर्वाण्यङ्गानि निर्णयेत् । एवं ब्रह्मविकल्पः । यथा ब्रह्मविद्या तथा। रूपप्रज्ञा । तद् विज्ञाय कारुज्ञा वक्रतः रूपकर्मणि ब्रह्म प्रतिपादयन्ति । रमन्ते यथापूर्वपूर्वप्रज्ञायाम् । यथा ब्रह्मविद्या तथा रेखान्वये रूपाङ्गन्यासो महीयते । यज्ज्ञात्वा स्थापकाः प्राज्ञा महीयन्ते । य एवं वेद । तज्ज्ञानेन स्थापका रूपज्ञा भवन्ति22 । ते विद्वांसः, ते विज्ञातारः कारुकर्मणि ब्रह्मानुभूतिं लभन्ते । यथा विश्वसृष्टौ पञ्चमहाभूतानि23 प्रजायन्ते, तथा वृत्ताधारे शिल्पकाश्यपादयो वास्तुहोतारो भूत' महाभूतलक्षणानि कल्पयन्ति प्रज्ञापनेनेति ।

प्राजापत्यरीत्या वृत्तं हि तेजस्तदाऽपांभासे चतुरस्रम् ॥ २.११ ॥

वृत्तचतुरस्रम्


चतुरेखाबद्धक्षेत्रमिति । यथा सरित्कुण्डे तथा रूपक्षेत्रे चतुरस्रं24 सर्वमापादविश्वं प्राजापत्यमार्गेण श्रुतिर्दर्शयति25। तथा हि रूपक्षेत्रे तद्रूपस्याधारः । भूयस्त्वाद् वास्तुश्रोतार एनं गृह्णन्ति भूयो वृत्तमध्ये ।

कर्णद्वयं मरुद्भावेन आचरन्ति ॥ २.१२ ॥

यथा मरुदप्संयोगात् फेनो भवति । पुन: फेनाद् बुद्बुदः सम्भवति तथा चतुरस्रं कर्णरेखायुग्मसंयोगाद्रूपक्षेत्रं सक्रियं भवतीति । सा मारुतकीलस्य क्रियाप्रतीतिः ।

धरेव कर्णिकक्षेत्रमाकर्षयन्ति स्थापका: ॥ २.१३ ॥

कर्णिकाक्षेत्रम्


ततः स्थापका मध्यमारुह्य26 कर्णिकक्षेत्रमाचरन्ति । मण्डलमध्ये द्वे मध्यरेखे लिखन्ति मध्यरेखा मध्यप्रस्थरेखा भवति । सममानेन तत्रोपलभन्ते चतुष्खण्डक्षेत्राणि चतुर्द्वीपां पृथिवीमिव एषा भूमिक्षेत्रस्य भावना । तत्र मध्ये

लब्धबिन्दुः रसाया: प्राणः ॥ २.१४ ॥

मर्म वदन्ति शिल्पकाराः । तस्य भावं शृण्वन्तु सर्वेऽमृतस्य पुत्राः


22.तालांशज्ञानसम्प्राप्ते शिल्पी स्थापक उच्यते । रेखान्यासं यो जानाति स रूपज्ञो भवेत् तथा । शिल्परहस्यागमे ४ , २ उक्तम् ।
23.प्रजापतिरेते सर्वे देवा इमानि च पञ्चमहाभूतानि वायुराकाश आपो ज्योतिरित्येतानीमानि च क्षुद्रमिश्राणि ऐतरेये पञ्चमखण्डे उक्तम्—तथा हि वास्तुवेदे सम्यक भिन्नता जायते, दृश्यते।
२४. सर्वरूपशैलस्य आधारः चतुरस्रम् ।
२५. अश्मना ह्यापः प्रभवन्ति । शतपथब्राह्मणे नवमाध्याये उक्तम् ।
२६. मध्यदैर्घ्यमध्यप्रस्थयोर्मध्यबिन्दुमवलम्ब्य ।



 


167
शिष्याश्च । अप्पृथिवीसंयोगात् यथा द्यौः27 सम्भवति यथा श्रुतौ उक्तं28 तदाकाशे सविता द्युरूपेण भ्रमति । स सविता व्योमचरो, यस्य गतिरखण्डा । तथा हि मारुतस्य तिर्यग् गतिः । तत्र खण्डितरेखान् नीत्वा शिल्पसम्बन्धार्थमाकल्य लब्धस्थापकाः शिल्पसम्भारेण द्विधा बहुधा बिन्दून् कल्पयन्ति प्रजनयन्ति बिन्दून् । तद्विज्ञातारो वृत्तालये अधोंर्ध्वे द्विधाकरणन्यायेन वह्निवत् क्षेत्रमाचरन्ति29 कारुकाराः । वृत्तमध्ये कदाचित् सम्प्रतिष्ठति तत्’त्रिहुतम30 ।

त्रिहुताग्निः स्मर्यतेऽपि च लोके ॥ २.१५ ॥

निम्नगास्त्रिहुता आप इति ॥ २.१६ ॥


तदुभयस्य संयोगान् मिथुनभावो भवति । ये जानन्ति ते सम्पन्ना भवन्ति । स उन्मेषभावः । अग्निरापः संयोगाद् दिव्यं31 भवतीति । तन्महच्छन्दो' होतारो जानन्ति यज्ञे प्रयोजयन्ति कुण्डे स्थण्डिले लिखन्ति, तेन देवलोकाः पितृलोका आहुत्या तृप्यन्ति32 । मनुष्याणां तत् सायुज्यं प्रददाति। एवं बहुधा श्रूयते सर्वे रूपकारा ब्रह्मज्ञा वृत्ताभ्यन्तरेण क्षेत्रमध्ये समान्तरालषड्बिन्दुमारुह्य रेखा: रेखां रोधयन्ति ।

षट्कोणको हि आकर्षणीविद्या33 विशेषः ॥ २.१७ ॥

षट्कोणः

तन्मिथुनच्छन्दोयोगेन यातुधाना:34 प्रतिघातयन्ति । माण्डव्यादयो35 बहुधा देवान् पूजयन्ति । आकर्षयन्ति रुद्रानादित्यान् वसून् । साऽऽकर्षणी


27.व्योम इति भावः ।
28.द्यावा-पृथिवीं संजानीथः, अथ वर्षति, शतपथे उक्तम् । अथर्व १२.१ उक्तम् अर्णवभूम्यात् परम व्योम जायते इति भावः ।
29.अग्निरूपं त्रिभुजक्षेत्रम् ।
30.हुतमिति रेखा, त्रिरेखेण यत् क्षेत्रं तत् त्रिहुतं भवति ।
31.दिव्यं दैवीभावः । अथर्वसंहितायामुक्तम् २.१२.४. पितॄणामामुं ददे हृरसा दैव्येन इति ।
32.गृह्योक्तविधिना अग्निस्थापने ब्रह्मोपदेशने स्थण्डिले षट्कोणलिखनानन्तरं विष्टरद्वयं स्थापयन्ति । तदुपरि अग्निं स्थापयन्ति, इति अग्निसन्धानविधिः । - -
33.तन्त्रे तथा कालिकोपनिषदि उक्तम्-कूर्चबीजं व्योमषष्ठस्वरां बिन्दुमेलनरूपां, तद्वयं मायाद्वयं दक्षिणे कालिकेति । -
34यातुधानः निर्ऋतेरादिवाक्यात् तापवर्गप्रदो योनिविशेष इति अथर्ववेदे उक्तम् ।
35.मण्डुवंशजातः कौत्सस्य शिष्यः ऋषिविशेष इति बृहृदारण्यके उक्तम् ।


 

168

यथा रूपे तथा यूपेऽनुच्छेदान्ता ग्राह्याः ॥ २.१८ ॥

याज्ञिका यूपे स्थापका रूपे समानाश्चरन्ति36 ।

खनित्रप्रकारो ध्येयः ॥२. १९ ॥

अष्टांश यूपः


एतद् ब्रह्ममण्डले” खनित्रकाराणां कलाषोडशीन्यायेन तत्क्षेत्रं षोडशांशेन छेदयन्तिे । सौम्ययूपस्य38 दण्डो यदाऽष्टांशः स यजमानाय प्रीतिकामार्थः । कदाचित् तत्कलांशेनांशान् छिन्दन्ति सोऽपराविद्यायां वृषस्तम्भः । अग्निस्तम्भो भवति काम्यानुसारतः शिलायां वा उदुम्बरदारवीयः । शिलायूपो ध्रुवेति शिल्पकाश्यप ज्ञेयम् । यज्ञार्थ सौम्ययूपो , विष्णुयज्ञार्थमष्टांशयूपः, काम्यकर्मार्थे षोडशांश इति ध्येयम्39 ।

सूत्रायने10 रेखाः सुभगा भवन्ति ॥२. २० ॥

भावं प्रददति । एतज्ज्ञानम् गुह्यज्ञानम् । एषा खिलविद्या, रेखाकरणं तत् ।

खिलपञ्जरज्ञानं श्रेष्ठम् ॥२. २१ ॥

ये जानन्ति ते रूपज्ञास्तत्त्वरूपाणि घटयन्ति । रूपतत्त्वे विना रेखाकरणं
रूपं हीनमिति ध्येयम् ।

उत्थितरेखा41 अग्निरूपाः, पार्श्वगा42 अब्रूपाः , तिर्यग्रेखा मरुद्ररूपा इति ॥ २.२२ ॥

रेखाप्रभेदे भावभेदा उपजायन्ते । रेखानुसृतं रूपं विभाति । रूपं सुरूपं


36.प्रयोगरूपेणैतत् षड्धाङ्कनोपादानम्, व्योमाभासे मण्डलञ्च चतुरस्रोपसंज्ञकः कोणरेखाः वायुश्च कर्णिकापृधिवी तथा त्रिभुजमग्निरूपञ्च षटकोणं दैवमन्दिरम । काश्यपवचनम् ।।
37.रूपक्षेत्रे खनित्रेणाविशन्ति, सितवज्ररेखायां ततः अयसा खोदयन्ति मूलम् ।
38वास्तुयागे शिलानिर्मितसौम्ययूपः, विष्णुयज्ञे षोडशांशविशिष्टशिलायूपः विधेयः पितृयज्ञे दारवी वृषयूपस्य प्रयोजनं भवति । ।
39. इन्द्रे लोका इन्द्रं तप इन्द्रेऽध्यृतमाहितम् । इन्द्रं त्वा वेद प्रत्यक्षं स्कम्भे (यूपे) सर्वे प्रतिष्ठितम् ॥ (१०.७.३०) अथर्ववेदे एवं बहुधा उक्तम् ।
40.सममानेन सूत्रपातनेन रेखा: सौम्या भंवन्ति ।
41.दैर्घ्यरेखाः ।
42.प्रस्थरेखाः ।


श्रेयः, गा ।
“ब्रह्मक्षेत्रे, घ ।
 *खनित्रकाराः, ख, ग ।


 

169
भवतीति43 । तत्वरेखावलम्बने रूपात्मप्रत्यक्षं भवति प्रतिरूपे च । यथाऽऽहुत्या वृष्टिर्भवति तथा रूपसौभगाद् ध्यानभावः सम्प्रतिष्ठते । यथा पर्जन्यादन्न सम्भवति तथा ध्यानाल्लय उपजायते । लयान्मनुजा दिव्या भवन्ति । यथाऽन्नात् प्राणः सञ्चरति तथा लयात्तद्भावमनुभवन्ति , मनो निश्चलं भवति । तेषां न पुनरावृत्तिः, एतदर्थे रूपं कल्पयन्ति ऋषयो लोके । रूपे रेखा आहुतय इव ।

रूपसौभगाद् ध्यानभावो जायते ॥ २.२३ ॥

सा हि वृष्टिः । सा ऋतस्य धारा यथा पर्जन्याद् बहुधाऽन्नानि सम्भवन्ति44 तथा रेखाया रूपाणि ।

अग्निरेखायामुत्तुङ्गरूपाणि जायन्ते ॥ २.२४ ॥

तानि सर्वाण्युदारभावप्रदायकानि सौम्योत्थिताकृतीनीति । -

अब्रेखायामुत्सुकरूपाणि जायन्ते ॥ २.२५ ॥

तान्युग्रभावप्रदायकानि ।

मारुतरेखायां तैजसरूपाणि ॥ २.२६ ॥

तीक्ष्णभावप्रदायकानि योधरूपाण्युपजायन्ते । तानि सर्वाणि भीषण रूपार्थम् । कर्णजा रेखा ग्राह्या इत्थं रूपकर्मार्थम् ।

रेखाज्ञानं सर्वमिति ज्ञेयम् ॥ २.२७ ॥

ये जानन्ति सर्वे ते स्थापकोद्गीथरूपेण45 ख्याता भवन्ति ।
इति पैप्पलादीयवास्तुसूत्रे वाक्कायमनोमागेंण सम्प्रदानमिति चर्चा । क्षेण मुनिश्रोतृणामुपनिधानेन खिलपञ्जराकर्षणज्ञानमिति वास्तुसूत्रस्य
द्वितीयप्रपाठकः ।


43. पैप्लादसंहितायां प्रथमखण्डे अष्टाविंशति सूक्ते रूपस्य स्वरूपविषये उक्तम् – रूपं रूपं वयोवयस्तेन त्वां परिदध्मसि, इति रूपभावस्य धारणा ।
44.अन्नाद् भवन्ति भूतानि पर्जन्यादन्नसम्भवः इति गीतायाः ३.१४ , तैत्तिरीयोपनिषदि २.२ अपि वा प्रश्नोपनिषदि षष्ठप्रश्ने उक्तम् ।
45मूर्तिकारा हि स्थापकाः, ते स्थापकोद्गीथा इति ।